Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

15. vātavyādhinidānam

Adhikarana atha vAtavyAdhinidAnaM nAma pa~jcadasho~adhyAyaH | pratij~jA (1) · Śloka 1

अथारो वातव्याधिनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

महारोगत्वसामान्यात्कुष्ठाननन्तरं वातव्याधिनिर्णयायाध्यायारम्भः|| १||

Adhikarana aduShTaduShTavAyorarthAnarthakAraNatvAdi (2) · Śloka 2

सर्वार्थानर्थकरणे विश्वस्याऽस्यैककारणम्| अदुष्टदुष्टः पवनः शरीरस्य विशेषतः||२||

🔊 Audio coming soon

पुरुषेण वातादुष्टौ सदा यतितव्यम्| यतोऽस्य विश्वस्य सर्वप्रयोजनकरणे सर्वोपद्रवकरणे च यथाक्रमेण दुष्टोऽदुष्टश्च पवनः कारणम्|| २||

Adhikarana vAyustutiH (3) · Śloka 3

स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः| स्रष्टा धाता विभुर्विष्णुः संहर्त्ता मृत्युरन्तकः| तददुष्टौ प्रयत्नेन यतितव्यमतः सदा||३||

🔊 Audio coming soon

शरीरस्य तु विशेषेणाऽदुष्टदुष्टोऽर्थानर्थकारणम्| स विश्वकर्मेत्यादि पूर्वाचार्य्यशैल्याद्वायुस्तोत्रम्|| ३||

Adhikarana vAyoH doShavij~jAnIyAdhyAyeShu prAkRutakarmAdInAM varNitatvanirdeshaH (4) · Śloka 4

तस्योक्तं दोषविज्ञाने कर्मप्राकृतवैकृतम्| समासाद्व्यासतो दोषभेदीये नाम धाम च| प्रत्येकं पञ्चधा चारो व्यापारश्च.......||४||

🔊 Audio coming soon

तस्येति वातस्य| प्राकृतं कर्मोत्साहोच्छ्वासादि| वैकृतं वृद्धिक्षयभेदात् कार्श्याङ्गसादादि| व्यासतो विस्तरेण| नाम प्राणादिकम्| धामोरःकण्ठादिपञ्चस्वपि भेदेषु प्रत्येकमुक्तम्| तथा चारो व्याप्तिः| व्यापारश्चोक्तः (अ. सू. - २०)|

Adhikarana vAtasya rupAntareNa vaikRutakarmanirdeshapratij~jA (5) · Śloka 5

............................... इह वैकृतम्| तस्योच्यते विभागेन सनिदानं सलक्षणम्| असंख्यमपि संख्यायै यदशीत्या पुरेरितम्||५||

🔊 Audio coming soon

इह तु तस्यैव वायो रुपान्तरेण वैकृतमुच्यते||५||

Adhikarana vAtaprakopasya dvaividhyam (6) · Śloka 6

धातुक्षयकरैर्वायुः कुप्यत्यतिनिषेवितैः| चरन्स्रोतस्सुरिक्तेषु भृशं तान्येव पूरयन्| तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वावरणं बली||६||

🔊 Audio coming soon

वायोर्द्विविधः कोपो धातुक्षयादाऽऽवरणाच्च| स एव धातुक्षयकरैरित्यादिना प्रदर्श्यते|| ६||

Adhikarana pakvAshaye kupitasya vAtasya kAryANi (7) · Śloka 7

तत्र पक्वाशये क्रुद्धः शूलानाहान्त्रकूजनम्| मलरोधाश्मवर्ध्माऽर्शस्त्रिकपृष्ठकटीग्रहम्| करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्||७||

🔊 Audio coming soon

सुबोधम्|| ७||

Adhikarana AmAshaye kRuddhasya vAtasya kAryANi (8) · Śloka 8

आमाशये तृड्वमथुश्वासकासविषूचिकाः| कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वञ्च नाभितः||८||

🔊 Audio coming soon

सुबोधम्|| ८||

Adhikarana shrotrAdiShu kupitasya vAtasya kAryANi (9) · Śloka 9

श्रोतादिष्विन्द्रियवधं......................||९||

🔊 Audio coming soon

श्रोतादिष्वित्यादिग्रहणान्नेत्ररसनादीनां ग्रहणम्|| ९||

Adhikarana tvagAdiShu kupitasya vAtasya kAryANi (10) · Śloka 10

................................त्वचि स्फुटनरूक्षते| रक्ते तीव्रां रुजां स्वापं तापं रागं विवर्णताम्| अरूंष्यन्नस्य विष्टम्भमरुचिं कृशतां भ्रमम्| मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् भ्रमम्| गुर्वङ्गं चारिरुक्स्तब्धं मुष्टिदण्डहतोपमम्| अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रं बलक्षयम्| मज्जस्थोऽस्थिषु सौषिर्य्यमस्वप्नं ससतं रुजम्| शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा| तद्वद्गर्भस्य शुक्रस्थः.......................||१०||

🔊 Audio coming soon

शुक्रस्थो गर्भस्याऽपि शुक्रस्य तद्वच्छीघ्रमुत्सर्गादिकं शुक्रवद्गर्भस्थ इति|| १०||

Adhikarana sirAgatasya kruddhasya vAtasya lakShaNAni (11) · Śloka 11

...................................सिरास्वाध्मानरिक्तते| तत्स्थः................................................||११||

🔊 Audio coming soon

००

Adhikarana snAyugatasya kruddhasya vAtasya lakShaNAni (12) · Śloka 12

...................................स्नावस्थितः कुर्याद्दृध्रस्याऽऽमकुब्जताः|१२|

🔊 Audio coming soon

००

Adhikarana sandhigatasya kruddhasya vAtasya kAryANi (12) · Śloka 12

वातपूर्णदृतिस्पर्शं शोफं सन्धिगतोऽनिलः| प्रसारणाकुञ्चनयोः प्रवृत्तिञ्च सवेदनाम्||१२||

🔊 Audio coming soon

वातपूर्णादिसन्धिगतलिङ्गम्|| १२||

Adhikarana sarvA~ggasaMshrayasya kruddhasya vAtasya kAryANi (13) · Śloka 13

सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्| स्तम्भनाक्षेपण्स्वापसन्ध्याकुञ्चनकम्पनम्||१३||

🔊 Audio coming soon

सर्वाङ्गसंश्रयो वायुस्तोदाद् करोति|| १३||

Adhikarana AkShepakalakShaNam (14) · Śloka 14

यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः| तदाङ्गमाक्षिपत्येष व्याधिकराक्षेपकः स्मृतः||१४||

🔊 Audio coming soon

यदा तु वायुः क्रुद्धः सन् सर्वा धमनीर्मुहुर्मुहुरभ्येति तदाङ्गं शरीरमाक्षिपति सङ्कोचयति| असौ नाम्नाव्याधिराक्षेपकः|| १४||

Adhikarana apatantrakalakShaNam (15) · Śloka 15

अधःप्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः| नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन्| आक्षिपेत् परितो गात्रं धनुर्वच्चास्य नामयेत्| कृच्छादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक्ततः| कपोत इव कूजेच्च निस्संज्ञः सोऽपतन्त्रकः||१५||

🔊 Audio coming soon

अधःप्रतिहत इत्यादिनाऽपतन्त्रकलक्षणमाह| प्रतिहतः दोषान्तरेण|| १५||

Adhikarana apatAnakalakShaNam (1) · Śloka 1

स एव चापतानाख्यो..................................||१||

🔊 Audio coming soon

Adhikarana apatantrake svAsthyAsvAsthyakAraNam (16) · Śloka 16

....................... मुक्ते तु मरुता हृदि| अश्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते||१६||

🔊 Audio coming soon

अत्र च हृदि मरुता मुक्ते मुहुः स्वास्थ्यामश्नुवीत| आवृते च मरुत हृदि मुहुरस्वास्थ्यमश्नुवीत||१६||

Adhikarana dushcikitsyatamAH apatantrakAH (17) · Śloka 17

गर्भपातसमुत्पन्नः शोणिताऽस्रवोत्थितः| अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः||१७||

🔊 Audio coming soon

एष चापतन्त्रको गर्भपातादिना नार्य्याः समुत्पन्नः कृच्छ्रतमः|

Adhikarana antarAyAmalakShaNam (18) · Śloka 18

मन्ये संस्तभ्य वातोऽन्तरायच्छन् धमनीर्यदा| व्याप्नोति सकलं देहं जत्रुरायम्यते तदा| अन्तर्धनुरिवाङ्गञ्च वेगैः स्तम्भं च नेत्रयोः| करोति जृम्भां दशनं दशनानां कफोद्वमम्| पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहम्| अन्तरायाम इत्येष.............................||१८||

🔊 Audio coming soon

मन्ये संस्तभ्य इत्यादिनाऽन्तरायामबहिरायामयोः साधारणम्| विशेषस्त्वन्तरायामे वक्षोऽभिमुखमाकुञ्चनम्|

Adhikarana bahirAyAmalakShaNam (19) · Śloka 19

.............................बाह्यायामश्च तद्विधः| देहस्य बहिरामायात् पृष्ठतो ह्रियते शिरः| उरश्चोत्क्षिप्यते तत्र कन्धरा चावमूद्यते| दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्तब्धगात्रता| बाह्यायामं धनुष्कम्पं ब्रुवते वेगिनञ्च तम्||१९||

🔊 Audio coming soon

बहिरायामे पृष्ठाभिमुखमिति|| १९||

Adhikarana vraNAyAmalakShaNAdi (20) · Śloka 20

व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्| व्यायच्छन्ति तनुं दोषाः सर्वामाऽऽपादमस्तकम्| तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः||२०||

🔊 Audio coming soon

व्रणमित्यादिना व्रणायामः| स वर्जितोऽसाध्यः|| २०||

Adhikarana sarveShvAkShepakeShu svAsthyasamayaH (21) · Śloka 21

गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकेषु तु||२१||

🔊 Audio coming soon

येषु चानन्तरोक्तेष्वाक्षेपकेषु वायुवेगे गते स्वास्थ्यं भवति|

Adhikarana hanusraMsalakShaNam (22) · Śloka 22

जिह्वातिलेखनाच्छुष्कभक्षणादिभिघाततः| कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनू| करोति विवृतास्यत्वमथवा संवृतास्यताम्| हनुस्रंसः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम्||२२||

🔊 Audio coming soon

हनुस्रंसलिङ्गमाऽऽह जिह्वेत्यादिना| कुपितोऽनिलो हनू स्रंसयित्वा भ्रंशयित्वा| हनुस्रंसः सन्धेर्भ्रंशः|| २२||

Adhikarana jihvAstambhalakShaNam (23) · Śloka 23

वाग्वाहिनीसिरासंस्थोजिह्वां स्तम्भयतेऽनिलः| जिह्वास्तम्भः स तेनाऽन्नपानवाक्येष्वनीशता||२३||

🔊 Audio coming soon

वाग्वाहिनीत्यादिना जिह्वास्तम्भः| सुबोधम्|| २३||

Adhikarana arditalakShaNam (24) · Śloka 24

शिरसा भारहरणादतिहास्यप्रभाषणात्| उत्त्रासवक्त्रक्षवथुखरकार्मुककर्षणात्| विषमादुपधानाच्च कठिनानाञ्च चर्वणात्| वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः| वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्| ततोऽस्य कम्पते मूर्धा वाक्सङ्गः स्तब्धनेत्रता| दन्तचालः स्वरभ्रंशः श्रुतिर्हानिः क्षवग्रहः| गन्धाज्ञानं स्मृतेर्मोषस्रासः सुप्तस्य जायते| निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णोर्निमीलनम्| जत्रोरुर्ध्वं रुजास्तीव्राः शरीरार्धेऽधरेऽपि वा| तमाहुरर्दितं केचिदेकायाममथापरे||२४||

🔊 Audio coming soon

शिरसेत्यादिनाऽर्दितालिङ्गम्| खरकार्मुकमतिकठिनचापं तदाकर्षणात्| अस्यैवामयस्य केचिदाऽऽचार्य्या एकायाममिति नामकुर्वन्ति|| २४||

Adhikarana sirAgrahalakShaNamasAdhyatva~jca (25) · Śloka 25

रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः| रूक्षास्सवेदनाः कृष्णास्सोऽसाध्यः स्यात्सिराग्रहः||२५||

🔊 Audio coming soon

सिराग्रहलिङ्गमाह पवनो रक्तमाश्रित्येत्यादिना| सुबोधमन्यत्|| २५||

Adhikarana pakShavadhalakShaNam (26) · Śloka 26

गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च| पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्| कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः| एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः||२६||

🔊 Audio coming soon

पक्षवधमाह वायुस्तनोः कायस्यार्धं गृहीत्व| अकर्मण्यकर्मण्यसाधुः| केचिदाचार्य्यास्तमेकाङ्गरोगमिति विदुः (च. चि. २८, ५५)| अन्ये आचार्य्याः पक्षवधमिति विदुः (सु. नि. - १. ६०-६२)|| २६||

Adhikarana sarvA~ggavadhalakShaNam (27) · Śloka 27

सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले||२७||

🔊 Audio coming soon

तद्वदुभयभागग्रहे सर्वाङ्गरोगः स्यात्||२७||

Adhikarana avasthAvashAtpakShAghAtasya kRucchrasAdhyatamatvAdi (28) · Śloka 28

शुद्धवाहतः पक्षः कृच्छ्रसाध्यतमो मतः| कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षतहेतुकः||२८||

🔊 Audio coming soon

शुद्धेन वायुना पक्षवधोऽतिकृच्छ्रसाध्यः| दोषान्तरयुक्तेन वायुना तु कृच्छ्रसाध्य एव| क्षतहेतुकः पक्षवधोऽचिकित्स्यः|

Adhikarana daNDakalakShaNam (29) · Śloka 29

आमबद्धायनः कुर्य्यात्संस्तभ्याङ्गं कफान्वितः| असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्||२९||

🔊 Audio coming soon

अथ दण्डकलक्षणमाह-आमबद्धायनो मरुत्| सुबोधम्|

Adhikarana apabAhukalakShaNam (30) · Śloka 30

अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः| बाहुप्रस्पन्दितहरं जनयत्यपबाहुकम्||३०||

🔊 Audio coming soon

अपबाहुकलिङ्गमंसमूल इत्यादि|| ३०||

Adhikarana vishvabhI(vishvAcI)lakShaNam (31) · Śloka 31

तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः| बाहुचेष्टाप्रहरणी विश्वभी नाम सा स्मृता||३१||

🔊 Audio coming soon

विश्वभीलक्षणमाह-अङ्गुलीनां सम्बन्धिनी या कण्डरा तलं प्रति पाणितलाभिमुख्येन वर्तते| सा कण्डरा बाहुपृष्ठतो यद वायुकोपात् बाहुचेष्टामपहरति| तदा विश्वभी नाम (विश्वाची) सा स्मृता|| ३१||

Adhikarana kha~jjapa~ggutvayoH kAraNam (32) · Śloka 32

वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा| तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि||३२||

🔊 Audio coming soon

वायुः कट्यामित्यादिनैकसक्थ्याक्षेपणवर्ज्यत्वे हेतुः| द्वयोः सक्थ्नोराक्षेपकः पङ्गु खञ्जो विकलैकपादः| पङ्गुर्विकलोभयपादः||३२||

Adhikarana kalAyakha~jjalakShaNam (33) · Śloka 33

कम्पते गमनारम्भे खञ्जन्निव च याति यः| कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्||३३||

🔊 Audio coming soon

यस्य तु वातवशात् सक्थ्नः सम्बन्धि बन्धनं मुक्तं खञ्जन्निव च याति तं कलायखञ्जं विद्यात्|| ३३||

Adhikarana UrustambhanidAnAdi (34) · Śloka 34

शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः| जीर्णाऽजीर्णे तथाऽऽयाससंक्षोभस्वप्नजागरैः| सश्लेष्ममेदः पवनमाममत्यर्थसञ्चितम्| अभिभूयेतरं दोषं मूढः चेत्प्रतिपद्यते| सक्थ्यस्थिनी प्रपूर्य्यान्तःश्लेष्मणा स्तिमितेन तत्| तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ| परकीयाविव गुरु स्यातामतिभृशव्यथौ| ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः| संयुतः पादसदनकृच्छ्रोद्धरणसुप्तिभिः| तमूरुस्तम्भमित्याहुराढ्यवातमथापरे||३४||

🔊 Audio coming soon

अथोरुस्तम्भस्य निदाने सम्प्राप्तिश्चोच्यते-शीतोष्णेत्यादिना| किञ्चिज्जीर्णं किञ्चिदजीर्णमिति जीर्णाऽजीर्णम्|अभिभूयेत्यने- नेतरदोषस्य प्रकोपेऽपीति गम्यते| सुबोधम्| अपरे आचाऱ्य्यास्तस्यैवाढ्यवात इति नामाहुः (सु. चि. - ५/३३)|

Adhikarana koShTukashIrShaH (35) · Śloka 35

वातशोणितजः शोफो जानुमध्ये महारुजः| ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत्||३५||

🔊 Audio coming soon

क्रोष्टुकशीर्षलिङ्गमाह-वातशोणितज इत्यादिना| क्रोष्टुकशीर्षो जम्बुकशिराः|| ३५||

Adhikarana vAtakaNTakam (36) · Śloka 36

रुक्पादे विषमन्यस्ते क्रमाद्वा जायते यदा| वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्||३६||

🔊 Audio coming soon

रुगित्यादिना वातकण्टकम्|| ३६||

Adhikarana gRudhrasI (37) · Śloka 37

पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता| सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते||३७||

🔊 Audio coming soon

पार्ष्णिं प्रतीत्यादिना विश्वभीवत् गृध्रसी च व्याख्याता|| ३७||

Adhikarana khallIlakShaNam (38) · Śloka 38

विश्वभी गृध्रसी चोक्ता खल्ली तीव्ररुजान्विता||३८||

🔊 Audio coming soon

विश्वभीगृध्रस्योः संयोगात् तीव्ररुजान्वितत्वे खल्लीत्युच्यते|

Adhikarana pAdaharShaH (39) · Śloka 39

हृष्येते चरणौ यस्य भवेतां च प्रसुप्तवत्| पादहर्षः स विज्ञेयः कफमारुतकोपजः||३९||

🔊 Audio coming soon

अथ पादहर्षलक्षणमाह-हृष्येते इत्यादिना|| ३९||

Adhikarana pAdadAhaH (40-15) · Śloka 15

पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः| विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्||४०|| इति वैद्यपतिसिंहपुतस्य सूनोर्वाग्भटस्य कृता- वष्टाङ्गसंग्रहसंहितायां निदानस्थाने वात- व्याधिनिदानं नाम पञ्चदशोऽध्यायः||१५||

🔊 Audio coming soon

पाददाहलक्षणमाह-पादयोरित्यादिना|| ४०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां निदानस्थाने पञ्चदशोऽध्यायः