Adhikarana atha kuShThashvitrakRuminidAnaM nAma caturdasho~adhyAyaH | pratij~jA (1) · Śloka 1
अथातः कुष्ठश्वित्रकृमिनिदान नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
धातूपधातुत्वगेकदोषसामान्याद्विसर्पाऽनन्तरं कुष्ठादिनिर्णयायाध्यायारम्भः|| १||
Adhikarana kuShThanidAnaM samprAptishca (2) · Śloka 2
मिथ्याहारविहारेण विशेषेण विरोधिना|
साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः|
पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वेरिता मलाः|
सिराः प्रपद्य तिर्य्यग्गास्त्वग्लसीकासृगामिषम्|
दूषयन्तः श्लथीकृत्य निश्चरन्तस्ततो बहिः|
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्||२||
सर्वकुष्ठानां सामान्येन हेतुमाह-मिथ्याहारेत्यादिना| मिथ्याहारादिना तथा साधुनिन्दावधादिभिर्नानाविधैः पाप्मभिः कर्मभिः सद्यः कृतैः प्राक्तनैर्जन्मान्तरकृतैर्वा| मला दुष्टास्त्वचो वैवर्ण्यं यत्कुर्वन्ति तत् कुष्ठमुशन्ति मुनय इति शेषः| सिराः प्रपद्येत्यादिना सम्प्राप्तिः|| २||
Adhikarana kuShThashabdanirvacanam (3) · Śloka 3
कालेनोपेक्षितं यस्मात्सर्वं कुष्णाति तद्वपुः||३||
कालेनेत्यादिना कुष्ठशब्दस्यार्थः|| ३||
Adhikarana bAhyakuShThasya samprAptiH (4) · Śloka 4
प्रपद्य धातून् व्याप्यान्तः सर्वन् संक्लेद्य चावहेत्|
सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्|
लोमत्वक्स्नायुधमनीस्तरुणाऽस्थीनि यैः क्रमात्|
भक्षयेच्छ्वित्रमस्माच्च कुष्ठं बाह्यमुदाहृतम्||४||
प्रपद्येत्यादि कालेनोपेक्षितमित्यनुवर्तते| तत् कुष्ठं धातून् प्रपद्यतांश्च संक्लेद्य कृमीनावहेच्छरीरे| यैः कृमिभिः करणभूतैर्लोमादीनि क्रमात् कुष्ठं भक्षयेत्| तरुणास्थीनि कर्णनासादिगतानीह यान्युक्तानि| अस्मात् कारणात् श्वित्रं बाह्यकुष्ठशब्देनोच्यते| क्लेदकृम्याद्यभावात्| सत्यापि त्वग्रोगत्व इत्यर्थः| सुबोधम्|| ४||
Adhikarana kuShThaprabhedAH (5) · Śloka 5
कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः||५||
पृथग्दोषैः त्रीणि| संसर्गेण च त्रीणि| सन्निपातेनैकमिति सप्तविधानि कुष्ठानि|| ५||
Adhikarana tridoShajatve~api kuShThAnAM doShAdhikyAnurodhena vyapadeshaH (6) · Śloka 6
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः||६||
नन्वेवं सत्येकदोषजं द्विदोषजं च कुष्ठं न सर्वं त्रिदोषजं स्यादित्यत आह-सर्वेष्वपीत्यादि| सर्वेष्वपि कुष्ठेषु सन्निपातजेष्वधिकत्वेन व्यपदेशः| सन्निपातस्य समविषमात्मकत्वात्||६||
Adhikarana kuShThaprabhedeShu doShAdhikyAnmahAkuShThAni (7) · Śloka 7
वातेन कुष्ठं कापालं पित्तादौदुम्बरं कफात्|
मण्डलाख्यं विचर्ची च ऋश्याख्यं वातपित्तजम्|
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः|
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्रुद्दशतारुषी|
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा|
सर्वैः स्यात्काकणं पर्वं त्रिकं दद्रु सकाकणम्|
पुण्डरीकर्श्यजिह्वे च महाकुष्ठानि सप्त तु||७||
वातेनेत्यादिना सप्तविधस्य कुष्ठस्य नामान्युच्यन्ते| यान्याश्रित्य लक्षणं विधीयते| वातादेकं पित्तादेकं द्वे कफात्| एकं वातपित्तात्| षड् वातकफात्| षट् कफपित्तात्| एकं सन्निपातादेवमेतान्यष्टदश कुष्ठानि| एषां मध्ये कपालौदुम्बरमण्डलदद्रुकाकणपुण्डरीकर्श्यजिह्वानि सप्त महाकुष्ठान्युच्यन्ते|| ७||
Adhikarana kuShThapUrvarUpam (8) · Śloka 8
अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः|
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः श्रमः|
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः|
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोथनम्|
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्||८||
अतिश्लक्ष्णेत्यादिना सर्वकुष्ठपूर्वरूपम्| अस्वेदोऽयन्तं स्वेदाभावः| कोठा उत्सन्नानि मण्डलानि| व्रणानां भिन्नस्फोटभवानां कोथनम्| रूढानामपि व्रणानां पुनः|| ८||
Adhikarana kApAlakuShThalakShaNam (9) · Śloka 9
कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु|
विस्तृतासमपर्य्यन्तं हृषितैर्लोमभिश्चितम्|
तोदाढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च||९||
अथ क्रमेणाष्टादशानां कुष्ठानां लक्षणमुच्यते-कृष्णारुणेत्यादिना| कपालो घटाकर्परः| सुप्तमचेतनम्| विस्तृतानि विस्तीर्णानि| असमानि ह्रस्वदीर्घाणि पर्य्यन्तानि यस्य तत्तथोक्रम्| शीघ्रसर्पि च क्षिप्रव्यापीति कापालम्|| ९||
Adhikarana audumbarakuShThalakShaNam (10) · Śloka 10
पक्वोदुम्बरताम्रत्वग्रोमगौरसिराचितम्|
बहलं बहुलक्लेदं रक्तं दाहरुजाकरम्|
आशूत्थानावदरणकृमिविद्यादुदुम्बरम्||१०||
पक्वोदुम्बरफलवत् ताम्राणि त्वग्लोमानि च यस्य तत्तथोक्तम्| बहलं घनम्| आशूत्थानादीनि यस्य तदेवम्| अवदरणं कोथनम्|| १०||
Adhikarana maNDalakuShThalakShaNam (11) · Śloka 11
स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम्|
अन्योन्यासक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमी|
श्लक्ष्णपीताभपर्य्यन्तं मण्डलं परिमण्डलम्||११||
स्थिरत्वादियुतं मण्डलं विद्यादिति सम्बन्धः| बहुकण्ड्वादिकं यत्र तत्तथोक्तम्| परिमण्डलं वर्तुलम्|| ११||
Adhikarana vicarcikAkuShThalakShaNam (12) · Śloka 12
सकण्डूपिटकाश्यावालसीकाढ्या विचर्चिका||१२||
सकण्डिवत्यादिना विचर्चिका| लसीका जलप्रायः|| १२||
Adhikarana RuShyajihvakuShThalakShaNam (13) · Śloka 13
परुषं तनुरक्तान्तमन्तः श्यावं समुन्नतम्|
सतोददाहसृक्क्लेदं कर्कशैः पिटकैश्चितम्|
ऋष्यजिह्वाकृतिप्रोक्तमृष्यजिह्वं बहिकृमि||१३||
परुषमित्यादिना ऋष्यजिह्वम्| ऋष्यजिह्वा रोहिजिह्वा|
Adhikarana carmaikakuShThalakShaNam (14) · Śloka 14
हस्तिचर्मखरस्पर्शं चर्म .......................||१४||
हस्तिचर्मेत्यादिना चर्म|| १४||
Adhikarana ekAkhyakuShThalakShaNam (15) · Śloka 15
.................................. एकाख्यं महाश्रयम्|
अस्वेदं मत्स्यशकलसन्निभं .........................||१५||
एकाख्यमित्यादिना एकाख्यम्| महाश्रयं गम्भीरमूलम्| मत्स्यशकलसन्निभान्तं च|| १५||
Adhikarana kiTibhakuShThalakShaNam (16) · Śloka 16
................................... किटिभं पुनः|
रूक्षं किणखरस्पर्शं कण्डूमत्परुषासितम्||१६||
किटिभमित्यादिना किटिभम्| किणमङ्गे घर्षणात् ग्रन्थिस्तद्वत् खरस्पर्शम्|| १६||
Adhikarana sidhmakuShThalakShaNam (17) · Śloka 17
सिध्मं रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत्|
श्लक्ष्णस्पर्शं तनुश्वेतताम्रं दौग्धिकपुष्पवत्|
प्रायेण चोर्ध्वकाये स्यात् ...........................||१७||
रूक्षमित्यादिना सिध्मम्|| १७||
Adhikarana alasakuShThalakShaNam (18) · Śloka 18
.............................. गण्डैः कण्डूयुतैश्चितम्|
रक्तैरलसकं ..........................................||१८||
गण्डैः कण्डूयुतैश्चितमित्येवमन्तर्लक्षणम्| अलसकं रक्तैर्गण्डैर्भवति|| १८||
Adhikarana vipAdikAkuShThalakShaNam (19) · Śloka 19
....................... पाणिपाददार्यो विपादिकाः|
तीव्रात्यो मन्दकण्ड्वश्च सरागपिटकाचिताः||१९||
पाणिपाददरणादि विपादिकालक्षणम्|| १९||
Adhikarana dadrukuShThalakShaNam (20) · Śloka 20
दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः|
उत्सन्नमण्डला दद्रुः कण्डूमत्यनुषङ्गिणी||२०||
दद्रुलिङ्गमाह| दीर्घप्रताना दूर्वावत् शाद्वलकाण्डवत्| उत्सन्नं मण्डलं यस्याः| अनुषङ्गिणी बहुकालस्था|| २०||
Adhikarana shatArukuShTham (21) · Śloka 21
स्थूलमूलं सदाहार्तिरक्तश्यावं बहुव्रणम्|
शतारुः क्लेदजन्त्वाढ्यं प्रायशः पूर्वजन्म च||२१||
शरुः स्थूलमूलत्वादिलिङ्गम्| जन्तवः कृमयः| पर्वाण्यस्थिसन्धीनि|| २१||
Adhikarana puNDarIkakuShTham (22) · Śloka 22
रक्तान्तमन्तरापाण्डुकण्डूदाहरुजान्वितम्|
सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः|
घनभूरिलसीकासृक्प्रायमाशु बिभेदि च|
पुण्डरीकम् ............................||२२||
रक्तान्तादि पुण्डरीकलक्षणम्| अन्तर्मध्ये आपाण्डुः| अंशवो रजांसि तैराचितम्|| २२||
Adhikarana visphoTakuShTham (23) · Śloka 23
........... तनुत्वग्भिश्चितं स्फोटैः सिरारुणैः|
विस्फोटः ............................................||२३||
तनुत्वग्भिरित्यादिविस्फोटलक्षणम्| विस्फोटास्तनुत्वचः|
Adhikarana pAmAkuShThalakShaNam (24) · Śloka 24
............................. पिटकाः पामाकण्डूक्लेदरुजाधिकाः|
सूक्ष्माः श्यावारुणाः बह्वयः प्रायः स्फिक्पाणिकूर्परे||२४||
पिटका इत्यादिपामालक्षणम्| कण्ड्वाद्यन्विताः पिटकाः पामा इत्युच्यन्ते| तच्च पामाख्यं स्फिगादौ प्रायो भवति|| २४||
Adhikarana carmadalakuShThalakShaNam (25) · Śloka 25
सस्फोटमस्पर्शसहं कण्ड्वातोददाहवत्|
रक्तं दलच्चर्मदलः ..................||२५||
सस्फोटमित्यादिना चर्मदलम्|| २५||
Adhikarana kAkaNakuShThalakShaNam (26) · Śloka 26
........................... काकणं तीव्रदाहरुक्|
पूर्वं रक्तञ्च कॄष्णञ्च काकनन्दीफलोपमम्|
कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्||२६||
तीव्रदाहयुतत्वादि काकणलक्षणम्| काकनन्दी गुञ्जा| तत्फलमर्धे कृष्णमर्धे रक्तं भवति| तच्च सर्वदोषजत्वात् सर्वलिङ्गमनेकवर्णं च भवेदिति|| २६||
Adhikarana kuShTheShu doSholbaNatAM tattalli~ggakarmabhirvidyAt (27) · Śloka 27
दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः|
कुष्ठेषु दोषोल्बणतां .................||२७||
एतेषु च कापालाद्येषु कुष्ठेषु प्रत्येकं वाताद्यन्यतमदोषोल्बणतां (अ. सं. सू. अ. - २०) दोषभेदीयविहितैर्वातादीनां लिङ्गैः कर्मभिश्चादिशेत्| अस्मिन् कुष्ठविशेषे इयान् दोषकोप इति| दोषाणां लिङ्गकर्मभिः स्रंसव्यासादिभिः (अ. सं. सू. अ. - २०) परिपूर्णापरिपूर्णैरध्यवस्येत्|| २७||
Adhikarana kuShThe asAdhyaM kuShTham (28) · Śloka 28
............................... सर्वदोषोल्बणं त्यजेत्|
रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्||२८||
तत्र यस्मिन् सर्व उवोल्बणास्तं त्यजेत्| रिष्टोक्तं (अ. सं. शा. - ७१५) 'कुष्ठं विशीर्य्यमाणाङ्गं' इत्यादिना अस्थ्याद्याश्रयं यत्तच्च त्यजेत्| अस्थ्याद्याश्रयस्यात्रैव लक्षणं वक्ष्यते (अ. सं. वि. - ५५९) इत्येतत्सर्वमसाध्यम्|| २८||
Adhikarana yApyakuShTham (29) · Śloka 29
याप्यं मेदोगतं ..............................||२९||
मेदोगतं याप्यम्|| २९||
Adhikarana kRucchrakuShTham (30) · Śloka 30
.............................. कृच्छ्रं पित्ताद्वन्द्वास्रमांसगम्||३०||
पित्तादिविशिष्टं कृच्छ्रम्|| ३०||
Adhikarana sukhasAdhyaM kuShTham (31) · Śloka 31
अकृच्छ्रं कफवातढ्यं त्वक्स्थमेकमलञ्च यत्||३१||
कफवातजमकृच्छ्रं सुखमित्यर्थः| तथा त्वगाश्रयमेकदोषं च|| ३१||
Adhikarana tvaggatakuShThalakShaNam (32) · Śloka 32
तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः||३२||
तत्रेत्यादिना त्वगाद्याश्रयविशेषवशेन कुष्ठलक्षणमुच्यते| तेषु मध्ये त्वचि स्थिते कुष्ठे तोदादयः|| ३२||
Adhikarana tvaggatakuShThalakShaNam (33) · Śloka 33
स्वेदस्वापश्वयथवः शोणिते||३३||
शोणितस्थिते स्वेदादयः|| ३३||
Adhikarana mAMsagatakuShThalakShaNam (34) · Śloka 1
पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्||१||
पाणिपादस्फोटादयो मांसगे|| ३४||
Adhikarana medogatakuShThalakShaNam (35) · Śloka 35
कौण्यं गतिक्षयोऽङ्गानां दूलनं स्याच्च मेदसि||३५||
कौण्यादयो मिदःस्थिते| कौण्यं विकलपाणित्वम्|| ३५||
Adhikarana asthimajjagatakuShTha lakShaNam (36) · Śloka 36
नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः|
क्षते च कृमयः ..............................||३६||
नासाभङ्गो नेत्ररागः स्वरक्षयः क्षते च कृमयश्चेत्येतदस्थिस्थे मज्जस्थे च|| ३६||
Adhikarana shukragatakuShThalakShaNam (37) · Śloka 37
........................ शुक्रे स्वदारापत्यबाधनम्||३७||
स्वदाराणामपत्यानां च बाधनं कुष्ठसम्भवः शुक्राश्रिते कुष्ठे भवति|| ३७||
Adhikarana raktAdyAshritakuShTheShu yathApUrvaM li~ggAnA~jca sambhavaH (38) · Śloka 38
यथापूर्वञ्च सर्वाणि स्युर्लिङ्गान्यसृगादिषु||३८||
असृगादिस्थिते कुष्ठे यथापूर्वं लिङ्गानि स्युः| यस्मिन् धातौ स्थितं तस्य यः पूर्वो धातुः तल्लिङ्गान्यपि तत्र भवन्तीत्यर्थः| तेन रक्ताश्रये त्वग्लिङ्गान्यपि तत्र भवन्ति| मांसाश्रये कुष्ठे त्वग्रक्ताश्रयाणि| मेदोगे त्वग्रक्तमांसाश्रयाणि| अस्थिगे त्वगादिमेदोऽन्ताश्रयाणि लक्षणानि| एवं यावच्छुक्रम्| शुक्रगे सर्वाण्येव लिङ्गानि भवन्तीत्युक्तं कुष्ठम्|| ३८||
Adhikarana shvitrasya nidAnAdi (39) · Śloka 39
कुष्ठैकसम्भवं श्वित्रं किलासं चारुणञ्च तत्|
निर्दिष्टमपरिस्रावित्रिधातूद्भवसंश्रयम्||३९||
कुष्ठैकसम्भवमित्यादिना श्वित्रमुच्यते| कुष्ठेनैकः सदृशो निदानदोषदूष्यसम्प्राप्त्यादिकं सम्भवो यस्य तत् तथोक्तम्| तच्च श्वित्रं नाम्ना किलासं चारुणमपरिस्रावि च निर्दिष्टमाचार्य्यैः| तथा त्रिधातूद्भवसंश्रयं त्रयो धातवो वातपित्तश्लेष्माण उद्भवः त्रयस्य| धातवो रक्तमांसमेदोलक्षणा आश्रयो यस्य तत्तथोक्तम्| धातुशब्देनोभयमुद्भवश्च संश्रयश्च गृह्यते|| ३९||
Adhikarana shvitre doShabhedena varNabhedaH (40) · Śloka 40
वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत्|
सदाहं रोमविध्वंसिकफाच्छ्वेतं घनं गुरुः|
सकण्डू च क्रमाद्रक्तमांसमेदस्सु चादिशेत्||४०||
वातादित्यादिनोद्भवधातुत्रयक्रमेण लक्षणमुच्यते| संश्रयधातुषु वर्णेनैवेदृक्क्रमेणैवादिशेत्| तेन रूक्षारुणं वर्णेन रक्ताश्रितं श्वित्रम्| ताम्रं मांसगतम्| श्वेतं मेदोगतमिति|| ४०||
Adhikarana shvitre yathottaraM kRucchratvam (41) · Śloka 41
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्||४१||
उभयं क्रमेण कृच्छ्रम्| तच्चोत्तरोत्तरम्| उभयं वाताद्युद्भवं रक्तादिसंश्रयं चोत्तरोत्तरं कृच्छ्रसाध्यम्| तेन वातजं रक्ताश्रितं कृच्छ्रम्| ततोऽपि पित्तजं मांसाश्रितम्| ततोऽपि कफजं मेदोगतम्|| ४१||
Adhikarana sAdhyashvitralakShaNam (42) · Śloka 42
अशुक्लरोमा बहुलमसंसृष्टं मिथोनवम्|
अनग्निदग्धजं साध्यं श्वित्रं ..........||४२||
अशुक्लरोमत्वादियुक्तं श्वित्रं साध्यम्|| ४२||
Adhikarana asAdhyashvitralakShaNam (43) · Śloka 43
.......................... वर्ज्यमतोऽन्यथा|
गुह्यपाणितलोष्ठेशु जातमप्यचिरन्तनम्|
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता||४३||
तद्विपर्यये वर्ज्यम्| गुह्यादिषु जातमचिरन्तमपि वर्ज्यम्|
Adhikarana sarvarogANAM sa~gkrAmakatvam (44) · Śloka 44
स्पर्शैकाहारश्य्यादिसेवनात् प्रायशो गदाः|
सर्वे सञ्चारिणो नेत्रत्वग्विकाराविशेषतः||४४||
प्रसङ्गेनाह-स्पर्शेत्यादि| सुबोधम्| इति श्वित्रमुक्तम्|
Adhikarana kRumINAM dvaividhyam (45) · Śloka 45
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः||४५||
कृमय उच्यन्ते| द्विविधाः कृमयः| बाह्या अभ्यन्तरश्च|| ४५||
Adhikarana kRumINAM cAturvidhyam (46) · Śloka 46
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः||४६||
जन्मभेदेन चतुर्विधाः केचिद्बहिर्मलजाः| केचित्कफजाः केचिदसृग्जाः| केचिद्विड्जाः| इति बहिर्मलाः शरीरबाह्यः केशवस्त्रादिमलः|| ४६||
Adhikarana kRumINAM sa~gkhyA (47) · Śloka 47
नामतो विंशतिविधाः ..............................||४७||
पुनर्नामभेदेन सर्वे विंशतिविधाः|| ४७||
Adhikarana bAhyakRuminidAnapramANAdi (48) · Śloka 48
.................................बाह्यास्तत्रामृतोद्भवाः|
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः|
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः|
द्विधा ते कोठपिटकाकण्डूकण्डान् प्रकुर्वते||४८||
तत्र बाह्या बहिर्मलजाः| ते ह्यमृजाहेतुकाः|| ४८||
Adhikarana AntarakRumINAM kAraNAtkuShThotpattiH (49) · Śloka 49
कुष्ठैकसम्भवोऽन्तर्जाः...........................||४९||
कुष्ठेत्यादि| अन्तर्जाः कफादिजन्मानः| सर्वे कुष्ठैकहेतवः|
Adhikarana shleShmajakRumINAM visheShanidAnam (50) · Śloka 50
............................ श्लेष्मजास्तेषु चाधिकम्|
मधुरान्नगुडक्षीरदधिसक्तुनवोदनैः||५०||
तेषु चान्तरेषु मध्ये श्लेष्मजा अधिकं मधुरादिभिर्भवन्ति|
Adhikarana purIShajakRumINAM visheShanidAnam (51) · Śloka 51
शकृज्जा बहुविड्धान्यपर्णशाकौकुलादिभिः||५१||
शकृज्जा बहुविड्धान्यादिभिर्जायन्ते| ओकुलं कृतान्न उक्तम्| काण्डस्थान्यपक्वानि भृष्टानि स्यानीति|| ५१||
Adhikarana kaphajakRumINAM sambhavasthAnAni (52) · Śloka 52
कफादाऽऽमाशये जाता बद्धा सर्पन्ति सर्वतः|
पृथुब्रध्ननिभाः केचित्केचित् गण्डूपदोपमाः|
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः|
श्वेता ताम्रावभासाश्च नामतः सप्तधा तु ते|
अन्त्रादा उदरवेष्टाहृदयादा महारूहाः|
चुरवो दर्भकुसुमाः सुगन्धाः ते तु कुर्वते|
हृल्लासमास्यस्रवणमविपाकमरोचकम्|
मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्||५२||
कफादित्यादि| तत्र कफजा आमाशये जाताः| वृद्धाः सन्तः पश्चात्सर्वजठरे सर्पन्ति| सुबोधम्|
Adhikarana raktajakRumINAM sthAnamAkRutishca (53) · Śloka 53
रक्तवाहिसिरास्थानारक्तजा जन्तवोष्णवः|
अपादावृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः||५३||
रक्तवाहीत्यादि| रक्तजा जन्तवः अणवः सूक्ष्मास्तेषां रक्तवाहिन्यः सिराः स्थानम्|| ५३||
Adhikarana raktajakRumINAM nAmAni (54) · Śloka 54
केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः|
षट् ते कुष्ठैककर्माणः सहसौरसमातरः||५४||
ते च केशादादयश्चत्वारः| सहसौरसमातर इति द्वौ| एवं षट्| एके सौरसाः| अपरे मातरः|| ५४||
Adhikarana purIShajakRumINAM sthAnam (55) · Śloka 55
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः||५५||
पक्वेत्यादि| पुरीषोत्थाः कृमयः पक्वाशये जायन्ते| अधोमुखाश्च भवन्ति|| ५५||
Adhikarana purIShajakRumINAM vRuddhau lakShaNAni (56) · Śloka 56
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः|
तदाऽस्योद्गारनिःश्वासाविड्गन्धानुविधायिनः||५६||
तेषु च वृद्धत्वाद्यदाऽऽमाशयोन्मुखता भवति तदाऽस्य पुरुषस्योद्गारनिःश्वासा विड्गन्धानुविधायिनो भवन्ति|| ५६||
Adhikarana purIShajakRumINAmAkRutirvarNashca (57) · Śloka 57
पुथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः||५७||
ते च पृथ्वादिगुणाः|| ५७||
Adhikarana purIShajakRumINAM nAmAni (58) · Śloka 58
ते पञ्च नाम्ना कृमयः ककेतुकमकेरुकाः|
सौसुरादाः सलूनाख्या लेहिहाः...............||५८||
ककेरुकादयः लेलिहान्ताश्चेति पञ्च नामानः|| ५८||
Adhikarana purIShajakRumivikArAH (59-14) · Śloka 14
.................................जनयन्ति च|
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुतः|
रोमहर्षाग्निसदनगुदकण्डूविनिर्गमान्||५९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्ग- संग्रहसंहित्यां निदानस्थाने कुष्ठश्वित्रकृमि- निदानंनाम चतुर्दशोऽध्यायः||१४||
एते विड्भेदादीन् जनयन्ति| एवं विंशतिः कृमयः| द्वौ बहिर्मलजौ| सप्त कफजाः| षड्रक्तजाः| पञ्च पुरीषजाः इति|| ५९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां निदानस्थाने चतुर्दशोऽध्यायः