Adhikarana atha putrakAmIyo nAma prathamo~adhyAyaH| upodghAtaH · Śloka
पूर्वस्मिन् स्थाने सकलतन्त्रव्यापकस्यार्थजातस्य सूत्रणं कृतं शास्त्रकृता| यतः प्रतिप्रसङ्गमाकांक्षानिवृत्तये पुनः पुनरुच्यमानमतिगहनत्वात् केवलमप्रतिपत्तये सम्पद्यत इति| शेषेषु स्थानेषु यथाक्रमं प्रथमं सूत्रितमेव विस्तरेणाऽऽख्यायते| तत्र शरीरस्य तदधिष्ठातृभूतस्यायुषश्च प्राधान्योनोपेयत्वात् द्वितीयस्थान उचित एव निर्णयः| तदर्थं शारीरस्थानमरभ्यते| तत्र प्रथमं शरीरस्वरूपनिर्णयः कर्त्तव्यः| तस्य च प्रथमं जन्म| तच्च कारणाधीनम्| तेषाञ्चाग्रणीः पिता, तत्परायत्तत्वात् कारणान्तरसामग्र्याः| अतस्तस्यैवानुष्ठेयप्रदर्शनार्थमध्यायारम्भः|
Adhikarana pratij~jA (1) · Śloka 1
अथातः पुत्रकामीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
अथेत्यादि च पूर्वद्व्याख्येयम्| पुत्रं कामयन्त इति पुत्रकामाः, तेभ्यो हितः पुत्रकामीयः, तत् प्राप्त्युपायप्रदर्शकत्वेनाऽऽध्यायः पुत्रकामीयः, तं व्याख्यास्यामः|| १||
Adhikarana puruShasya vivAhavayaH pariNayArthaM strINAM lakShaNa~jca (2) · Śloka 2
अथ खलु पुमानेकविंशतिवर्षः कन्यामतुल्यगोत्रां तुल्याभिजनामसञ्चारिरोगकुलप्रसूतां रूपशीललक्षणसम्पन्नामनूनामविनष्टदन्तौष्ठकर्णनासानखकेशस्तनीं मृदुमरोगप्रकृतिमकपिलामपिङ्गलामहीनाधिकाङ्गीं द्वादशवर्षदेशीयाममरभुजगसरिदचलवृक्षपक्षिनक्षत्रान्त्यप्रेष्यभीषणकनामान्यनुद्वहन्तीमनघामनिन्द्यामानिन्द्येन विधिनोद्वहेत्||२||
अथेति मङ्गले| एकविंशतिवर्षः पुमान् कन्यामनिन्द्येनालोकद्विष्टेन विधिनोद्वहेत् स्वीकुर्यादिति सम्बन्धः| किम्भूतां कन्यामित्याह-- अतुल्यगोत्रामित्यादि| तुल्यशब्दोऽत्रैकशब्दस्य साधारणस्यार्थे वर्तते| गोत्रञ्च वसिष्ठादिऋषिनामपूर्वकं लोकशास्त्रे च प्रसिद्धम्| अभिजनः कुलम्| अत्र तुल्यशब्दः सदृशपर्यायः| सादृश्यं चात्र वित्तवृत्तदिभिः प्रकृतत्वात् तुल्यार्थत्वे पुमान् प्रत्यवमृश्यते| तथा यस्मिन् कुले सञ्चारी रोगः कुष्ठपैङ्गल्यादिः नास्ति, तत्र या प्रसूता तां तथा सातिशयैः रूपादिभिः सम्पन्नाम्| लक्षणानि शुभानि लोके शास्त्रे च प्रसिद्धानि| नाजातानि नापि भूत्वा विनष्टानि दन्तादीनि यस्याः सा तथोक्ता| मृदुः कोमला शरीरेण स्वभावेन च| तथारोगा प्रकृतिः स्वभावो यस्याः सा, तथाविधाम्| कपिला पीतलोहिता| पिङ्गला अरुणलोहिता, ताम्| यस्याश्चाङ्गानि बाहुनयनाङ्गुलिप्रभृतीनि अन्याङ्गापेक्षया नाप्यूनानि नाप्यधिकानि तथा ईषदसमाप्ता द्वादशवर्षा द्वादशवयांसि यस्यास्ताम्| तथा अमरादिनामरहितां शचीसहस्राक्ष्युमालक्ष्मीप्रभृतीन्यमरनामानि| गोधातक्षकीप्रभृतीनि दागनामानि| गङ्गायमुनासरस्वतीप्रभृतीनि सरिन्नामानि| मेरुमलयविन्ध्यप्रभृतीन्य्चलनामानि| मधूकि(लि)काबदरीशमीप्रभृतीनि वृक्षनामानि| हंसीबलाकाचकोरीकोकिलाप्रभृतीनि पक्षिनामानि| रोहिणीरेवतीमघाप्रभृतीनि नक्षत्रनामानि| अन्त्या रजकचण्डालादायः, तेषां प्रतिदेशे प्रसिद्ध्या यानि नामानि तद्वर्जिताम्| एवं प्रेष्या दासशिल्पिनः| सत्यपि यथोक्ताविरोधे काचित् भीषणं नामाकोमलमस्थ्यावल्यादि बिभर्ति तामपि| अनिन्द्यामन्येनापि केनचिल्लोकद्विष्टेन प्रकारेणागर्हणीयाम्|| २||
Adhikarana dampatyoH putrotpAdanavayaH (3) · Śloka 3
तस्यां षोडशवर्षायां पञ्चविंशतिवर्षः पुरुषः पुत्रार्थं प्रयतेत|
तदा हि तौ प्राप्तवीर्यौ वीर्यान्वितमपत्यं जनयतः||३||
तस्यामनन्तरोक्तायामङ्गनायां कालेन् षोडशवर्षायां स पुमान् पञ्चविंशतिवर्षो वक्ष्यमाणेन विधिना पुत्रार्थं प्रयतेत| यतस्तौ दम्पती तदेति षोडशे पञ्चविंशे च वर्षे लब्धात्मवीर्यातिशयौ सन्तौ वीर्यवन्तं बलारोग्यादिसम्पन्नं पुत्रं जनयतः|| ३||
Adhikarana nyUnAbdAbhyAM RutorAdyadinatraye shukrArtavadoShe ca garbhasambhave doShAH (4) · Śloka 4
ऊनपञ्चविंशतिवर्षेणोनषोडशवर्षायामाहितो गर्भः कुक्षिस्थ एव विनाशमाप्नुयादल्पायुर्बलारोग्यविभवो वा स्याद्विकलेन्द्रियो वा ऋतावाद्ये च रात्रित्रये तथा दुष्टे शुक्रार्तव इति||४||
ऊनषोडशवर्षाया वा आहितो गर्भ ऊनपञ्चविंशतिवर्षेण वाप्याहितः कारणसामग्र्यनपेक्षया कदाचिन्मातृकुक्षावेव नश्यति कदाचिद् विकलेन्द्रियो वा भवति| इन्द्रियेणैकेन द्वाभ्यां वा हीनो भवतीत्यर्थः| न केवलं दम्पत्योरूनवर्षतया गर्भस्यैवंविधता, यावत् पूर्णयोरपि मातापित्रोर्मातुराद्ये पुष्पदर्शनादारभ्य ऋतौ रात्रित्रये आहारविहारादिना वातादिदुष्टे शुक्रार्तवे चैवंविधतैव|| ४||
Adhikarana shukrotpattiH (5) · Śloka 5
तत्राहारस्य सम्यक्परिणतस्य क्रमान्मज्जाजमनुप्राप्तस्य सारः शुक्रसंज्ञां लभते||५||
शुक्रार्तवं किमुच्यते कथं च तद् गर्भजन्माद्युपकरोति उपघातश्च तस्य कथं भवतीत्याह-- तत्राहारस्येत्यादि| आहारस्य चतुर्विधस्य सम्यक् यथावत् परिणतस्य जठराग्नि धात्वग्निपरिपाकपरम्परावशाच्चक्रमान्मज्जानं मज्जस्वभावं प्राप्तस्य यः सारः सः शुक्रसंज्ञां लभते|| ५||
Adhikarana shukrasya sthAnAni (6) · Śloka 6
तत्तु क्षीर इव सर्पिरिक्षुरस इव गुडः शरीरे शुक्रधरां कलामाश्रित्यास्रुतं सर्वाङ्गव्यापितया स्थितम्|
विशेषतश्च मज्जमुष्कस्तनेषु||६||
तच्च शुक्रं (व्यापकमपि मज्जप्रभृतिषु विशेषतः स्थितं) शरीरे या शुक्रधरा नाम कला वक्ष्यमाणलक्षणा तामाश्रित्यास्रुतं सत् सर्वाङ्गव्यापित्वेन स्थितं भवति| दृष्टान्तो यथा- क्षीरे सर्पिर्घृतम्| यथा चेक्षुरसे गुडः| व्याप्यस्थितमपि तदवस्थायां न दृश्यते| क्रियासंस्कारादिवशाच्च पश्चादभिव्यज्यते| तथैव शरीरे शुक्रमिति दृष्टान्तः| क्षीरादौ च सर्पिरादेरस्तित्वमनुमानलब्धं यदिह समुत्पद्यते| तन्न चेत्| कथं सिकताभ्यो लोकस्तैलं न गृह्णीयात्| अथवा कार्यकारणमात्रो वा दृष्टान्तः|| ६||
Adhikarana shukrapravRuttau hetuH| (7) · Śloka 7
हर्षोदीरितं तु सङ्घट्टनेन हृदयावेशात् पिण्डीभूतमङ्गादङ्गात् प्रवर्तते||७||
तच्च शुक्रं सर्वाङ्गव्यापि स अङ्गनासंयोगे हर्षेणोदीरितं प्रेरितमङ्गादङ्गाद्बहिः प्रवर्तते|| ७||
Adhikarana garbhAdhAnayogyaM shukram| (8) · Śloka 8
तत् सौम्यं स्निग्धं गुरु शुक्लं मधुगन्धि मधुरं पिच्छिलं बहु बहलं घृततैलक्षौद्रान्यतमवर्णं च शुक्रं गर्भाधानयोग्यं भवति||८||
किम्भूतं ? सङ्घट्टनेन वेगावेशेन हृदयावेशात्पिण्डीभूतमेकत्वं यातं वातादिभिरनुपहतं सौम्यस्निग्धादिगुणयुक्तं सद्गर्भाधानयोग्यं भवति| सौम्यं सोमगुणभूयिष्ठं मधुगन्धि माक्षिकगन्धि वहलं नातिघनम्| तथा घृतवर्णं तैलवर्णं वा| क्षौद्रवर्णं वा क्षौद्रं च कपिलं विद्यात्| एतद्विपरीतं गर्भाधानायोग्यम्| इति शुक्रस्य स्वरूपमुक्तम्|| ८||
Adhikarana ArtavalakShaNam| (9) · Śloka 9
तथा रक्तमेव च स्त्रीणां मासे मासे गर्भकोष्ठमनुप्राप्य त्र्यहं प्रवर्तमानमार्तवमित्याहुः||९||
आर्तवस्यात्रोच्यते-- तथा रक्तमित्यादि| रक्तमेव सर्वस्य धातुत्वेन जायते| तदेवं विशिष्टं सद् आर्तवमित्याऽऽचार्य्या आहुः| किम्भूतं ? मासे मासे त्र्यहं बहिः प्रवर्तमानम्| किं कृत्वा ? गर्भकोष्ठं योषितो गर्भस्थानं सर्वतः शरीरात् प्राप्य| बहिः प्रवर्तमानत्वं तस्योपलक्षणम्| न तु तदेवार्तवं यत् प्रवर्तत एव केवलम्| ऋतौ भवतीत्यार्तवम्| ऋतुश्च निषिक्तस्य बीजस्य फलप्रसवानुगुणः कालः| तस्मिंश्चर्तौ प्रथमं त्र्यहं बहिर्दुष्टमवश्यं प्रवर्तते|| ९||
Adhikarana asRugdarAdicikitsA| (10) · Śloka 10
अतिप्रसङ्गेनानृतावृतौ वा तदेवासृग्दरं प्रदरं व्यापदं च रक्तयोनिसंज्ञां लभते|
तत्साधने रक्तपित्तचिकित्सितं गुह्यरोगप्रतिषेधं चेक्षेत||१०||
तदेवातिप्रसङ्गेनर्तकाल एव प्रवर्तमानमनृतौ वातिप्रसङ्गेन प्रवर्तमानमस्रमसृग्दरादि संज्ञां लभते| एतल्लक्षणं चोत्तरत्र वक्ष्यते| ऋतोस्तु लक्षणं क्षामप्रसन्नवदनामित्यत्रैव वक्ष्यते| तत्साधन इति| तत्साधनेऽतिप्रसक्तरक्तचिकित्सिताय रक्तपित्तचिकित्सितं गुह्यरोगप्रतिषेधं चेक्षेत| तेनैतदुक्तं भवति-- तथाविधस्य निदानादिवशात् कदाचि रक्तपित्तता भवति, कदाचिद् योनिरोगोक्तान्यतमप्रकारता| अतएव च तेषां विशेषे विशेषाच्चिकित्सितमुक्तमिति|| १०||
Adhikarana ArtavApravRuttistaccikitsAsUtraM ca| (11) · Śloka 11
वातकफावृतमार्गाणाञ्चाप्रवर्तमानं पित्तलैरुपाचरेत्||११||
तथा तदेवार्तवं कदाचित् प्राप्तेऽपि काले वातश्लेष्मणा आवृतरक्तमार्गाणां योषितां नैव प्रवर्तते, तथाविधमप्रवर्तमानं पित्तलैराहारादिभिरूपाचरेत्|| ११||
Adhikarana raktagulmaH taccikitsAtideshashca| (12) · Śloka 12
तद्धि वर्द्धमानमन्तर्वर्तमानं सशुक्रमशुक्रं वा जीवरहितं वातलान्यासेवमानाया योषितो गर्भलिङ्गानि दर्शयद् गुल्मीभवति|
तत्र गुल्मचिकित्सितमीक्षेत||१२||
यतस्तद्रक्तं बहिरप्रवर्तमानमन्तर्महास्रोतसि निषिक्तशुक्रसहितं केवलमेव वा वर्धते| तद्वर्धमानं या वातलान्याऽऽहारादीन्यासेवते तस्या गर्भलिङ्गानि स्तन्यदर्शनादीनि प्रकटयद् गुल्मीभवति| तदेवं गुल्मत्वं प्राप्नोति| तत्रारक्षया गुल्मीभूते चिकित्सायै गुल्मचिकित्सितमीक्षेत| तत्र हि रक्तगुल्मस्य पृथक् चिकित्सितमुक्तम्| एवं रक्तगुल्मादीनां कदाचिद् रक्तयोनिता भवति|| १२||
Adhikarana duShTArtavajanyaM vAtodarantaccikitsAsUtra~jca| (13) · Śloka 13
कदाचिद्वा गर्भ इव वातोदरं भवति तद्वातोपशमनैरुपशाम्यति||१३||
कदाचिद्वा गुल्मत्वेन विना रक्तगुल्मलक्षणैर्वक्ष्यमाणैर्विरहितं गर्भ- सादृश्यमात्रेणैव वातोदराख्यां प्राप्नोति| तद्वातो प्रशमहेतुभिः शाम्यति|| १३||
Adhikarana asRu~gnirodhe garbhabhramaH| (14) · Śloka 14
तदेव कदाचिद् आर्तवं सौम्यैर्बृंहणात्मभिराहारविहारैः स्तम्भितमनुपद्रवमेवोदरं गर्भाधिष्ठितमिव वर्धयति|
येन तामगर्भां गर्भिणीमाहुर्मूढाः||१४||
कदाचिद्वा सौम्यादिभी रुद्धं सदनुपद्रवं पीडादिकम् अकुर्वद् उदरं वर्धयति| येन हेतुना मूढा याथातथ्यपरिज्ञानबहिष्कृताः अगर्भामेव योषितं गर्भिणीमाहुः|| १४||
Adhikarana garbhasya bhUtahatatvabhrAntiH| (15) · Śloka 15
ततो विरीतैर्यदृच्छया वा प्रवृत्ते रक्ते गर्भशरीरमपश्यन्तो भूतहृतमित्यज्ञा ब्रुवते||१५||
ततोऽनन्तरं सौम्यादिहेतुविपरीतैः काकतालीयेन साधुभिषजा वा प्रयुक्तैः स्वयमेवौषधनिरपेक्षया वा प्रवृत्ते रक्ते गर्भं दुर्बुद्धिकल्पितं प्रत्यक्षेणापश्यन्तो भूतैराहृतमिति वदन्त्यज्ञा एवं तेषामज्ञत्वम्|| १५||
Adhikarana rakShasAM sharIrApaharaNe~ashaktiH (16) · Śloka 16
यस्मात् सम्भवत्योजसोऽपहरणं रक्षोभिर्न तु शरीरापहरणमनिष्टत्वादशक्तेर्वा|
इच्छाशक्त्योर्हि प्रवृत्तेरुपलब्धिः न च दृश्यते कस्यचिदमानुषैर्देहाप्रहारः||१६||
रक्षोभिरोजसोऽपहरणं सम्भाव्यते न तु शरीरोपहरणम्| ननु कथं न सम्भाव्यत इत्याह-- अनिष्टत्वात्| अथवाऽशक्तितः| शक्तोऽपि कदाचिदनिष्टेन प्रवर्तते, इष्टेऽपि वा अशक्त्या न प्रवर्तते| एतदुक्तमिच्छाशक्त्योर्हि प्रवृत्तेरुपलब्धिरिति| न चेत्यादि, तर्ह्येवं कदाचिद् दृष्टं य्दमानुषैः रक्षोभिः कस्यचिद्देहोपहारः कृत इति|| १६||
Adhikarana AkShepapUrvako rakShobhiH sharIrApaharaNaniShedhaH| (17) · Śloka 17
यदि च दृष्टमपि समुल्लङ्घ्य केचिदतिशक्तियुक्ता गर्भस्य शरीराक्षेपे प्रवर्तन्ते तदा कथमिव प्राप्तावसरास्तज्जननीमुपेक्षेरन्||१७||
अथ कश्चिदेवं ब्रूयात् यथापूर्वं न दृष्टमधुना तु दृश्यते तदर्थमाह-- यदि चेत्यादि| यदि हि शक्त्यतिशययुक्ता मातुरपि शरीराहरणे समर्था अदृष्टेऽपि देहापहारे प्रवर्तेरन् किमिति सातिशयस्वार्थसम्पादनं स्थूलस्थूलं तन्मातृशरीरमुपेक्षन्ते| अतोऽनुमानात् ज्ञायते शरीरापहरणं भूतानामनिष्टमशक्तता वा तत्रेति| एतच्चाचार्यस्यासम्भवमात्रप्रदर्शनमिति कृत्वा गृह्यते| अन्यथा शरीरवदोजसि पर्यनुयुक्तः किमुत्तरं दास्यति|| १७||
Adhikarana shuddhArtavalakShaNam| (18) · Śloka 18
आर्तवं पुनः शशरुधिरलाक्षारसोपमं धौतञ्च विरज्यमानं शुद्धमाहुः||१८||
तच्चानन्तरोक्तमार्तवं शशरुधिरादिसदृशं सद् आचार्य्याः शुद्धमित्याहुः| तद्धि गर्भाधनयोग्यं भवति| धौतं सद्वस्त्राद्विविरज्यमानमपसरच्च्|| १८||
Adhikarana strIpuMsayo rajaH shukrAdInAmanupalabdhikAlaH| (19) · Śloka 19
यथा च बालस्य जीर्णस्य वा तरोः पुष्पफलं पुष्पफलस्य वा तद्विधस्य गन्धो नोपलभ्यते तथैव नोनषोडशातीतसप्ततिवर्षस्य पुंसः शुक्ररोमादयो योषितश्चोनद्वादशातीतपञ्चाशद्वर्षाया रजस्तन्यादय इति||१९||
प्रस्तुतशुक्रं तथा रोमादय ऊनषोडशवर्षस्य पुंसो नोपलभ्यते| यथा बालस्य तरोः पुष्पफलम्| यथा वा तद्विधस्य बालस्यैव पुष्पफलस्य गन्धः| अस्त्यपि सत्तया व्यक्तभावो नोपलभ्यते| देशकालवशात्तु व्यक्तं भवत्येतत्| अतीतसप्ततिवर्षस्यापि पुंसः शुक्रादयो नोपलभ्यन्ते| यथा जीर्णस्य तरोः पुष्प्फलं, तद्विधस्य वा पुष्पफलस्य गन्धोऽतिजीर्णस्य इति| अनेनैव क्रमेण योषित आर्तवस्तन्यादीनां वाच्यम्| आदिशब्देन रोमादीनां परिग्रहः|
Adhikarana shukrArtavayorA~a~apyAyanam| (20) · Śloka 20
अथ शुद्धशुक्रार्तवमरोगं मिथोऽनुरक्तं मिथुनमुपस्नेह्यविधिवत् संशोध्यास्थापनानुवासनाभ्यामुपाचरेत्|
विशेषतस्तु घृतक्षीरवद्भिर्मधुरौषधसंस्कारैः पुरुषम्, तैलेन नारीं पित्तलैश्च मांसैः|
एवं हि समानगुणतया शुक्रार्तवमाप्यायते||२०||
अथेत्यादि सुबोधम्| प्रशस्तेषु तिथिमुहूर्तनक्षत्रेषु सदपत्यलाभाय मिथुनमुपस्नेह्यार्तवाम्यर्णे काले शुद्धशुक्रार्तवत्वादियुक्तं मिथुनं जायापती आस्थापनानुवासनाभ्यामुपाचरेदिति सम्बन्धः| किं कृत्वा ? आह, पूर्वमुपस्नेह्य पश्चाच्छास्त्रोक्तेन विधानेन संशोध्येति| पुरुषं तु विशेषाद् घृतादिभिरुपाचरेत्| मधुरस्कन्धनिर्दिष्टैरौषधान्नसंस्कारैश्चोपाचरेदुपचर्यमाणस्य बहुदिवसोपयोगेन यश्शरीरेऽतिशयः स मधुरौषधसंस्कारः| नारीं तु विशेषेण तैलादिभिः| पित्तलानि मांसानि आनूपसत्त्वजानि तानि कफपित्तलानि भवन्त्येव| एवं हि घृताद्युपचारेण पुंसः शुक्रमाप्यायते सदृश्गुणत्वात्| तथा तैलाद्युपयोगेन रक्तमाप्यायते|| २०||
Adhikarana garbhAsambhavakarAH shukradoShAH| (21) · Śloka 21
वातपित्तश्लेष्मकुणपगन्धिग्रन्थिपूयक्षीणमूत्रपुरीषरेतांसि त्वबीजानि भवन्ति||२१||
तत्र यान्यशुद्धानि आहारादिहेतुकवातादिदोषाद्रेतांसि तान्यबीजानि भवन्ति गर्भाय न भवन्तीत्यर्थः|| २१||
Adhikarana vAtAdiduShTasya shukrasya lakShaNAni| (22) · Śloka 22
तत्र तनु रूक्षं फेनिलमरुणमल्पं विच्छिन्नं सरुजं चिराच्च निषिच्यते वातेन|
किञ्चित् पीतमपिच्छिलमानीलं वा दहदिव प्रवर्तते पित्तेन|
मज्जोसंसृष्टं प्रभूतं विबद्धं चाम्भसि च किञ्चिन्मज्जति श्लेष्मणा|
कुणपगन्ध्यनल्पं रक्तेन|
ग्रन्थिभूतं वातश्लेष्मभ्याम्|
पूति पूयनिभं पित्तश्लेष्मभ्याम्|
क्षीणं वातपित्ताभ्याम्|
तदुक्तं ससाधनं प्राक्|
मूत्रपुरीषगन्धि सन्निपातेन||२२||
तत्र तस्मिन् इत्यादिना वातादिदुष्टस्य शुक्रस्य लक्षणं चिकित्सितं च दोषक्रमेणोच्यते| सुबोधमन्यत्| वातपित्ताभ्यां शुक्रक्षयः क्रियते, तच्च क्षीणं शुक्रं प्राग् दोषादिविज्ञानीये सचिकित्सितमुक्तम्|| २२||
Adhikarana duShTArtavalakShaNAtideshaH duShTashukrArtavayoH sAdhyatvAdi ca| (23) · Śloka 23
आर्तवमपि शुक्रवद् दोषैरुपसृष्टमबीजमेव|
तस्य लिङ्गं नाम च पूर्ववत्|
तेषु कुणपग्रन्थिपूयक्षीणरेतांसि कृच्छ्रसाध्यानि|
मूत्रपुरीषशुक्रार्तवं त्वसाध्यं कुणपग्रन्थिपूयार्तवं च||२३||
न केवलं वातादिदुष्टं शुक्रमबीजं भवति यावत् तेनैव क्रमेण तैरेव दुष्टमार्तवमप्यबीजं भवति| तस्य चाऽऽर्त्तवस्य दुष्टस्य शुक्रवदेव क्रमेण लक्षणं नाम च विजानीयात्| तेषु दुष्टेषु शुक्रार्त्तवेषु मध्ये कुणपादिरेतांसि कृच्छ्रसाध्यानि| मूत्रपुरीषशुक्रार्त्तवान्यसाध्यानि| तानि प्रजोत्पादने न समर्थान्येव भवन्ति| कुणपग्रन्थ्यादि दुष्टमार्त्तवं च| शेषं सर्वं साध्यम्|| २३||
Adhikarana vAtAditriduShTayoH shukrArtavadoShayoshcikitsAtideshaH| (24) · Śloka 24
तत्राद्यांस्त्रीन् शुक्रार्त्तवदोषान् यथास्वं दोषसाधनेन साधयेत्|
गुह्ययोनिरोगप्रतिषेधेन चोभयान्||२४||
तत्र साध्येषु वातादिभिस्त्रीन् शुक्रदोषांस्तैरेव त्रीनार्त्तवदोषान् स्वहेतुदोषचिकित्सयोपक्रमेत्| गुह्यरोगप्रतिषेधोक्तविधानेन च|| २४||
Adhikarana vAtikashukradoShe cikitsAvisheShaH| (25) · Śloka 25
अपि च-- वातिके शुक्रदोषे वसुकसैन्धवफलाम्लसिद्धं यवक्षारप्रतीवापं सर्पिष्पानम्|
बिल्वविदारीसिद्धं क्षीरयुक्तमास्थापनम्|
मधुकभद्रदारुसिद्धं तैलमनुवासनं क्षीरकुलीररससिद्धं तैलमुत्तरबस्तिः||२५||
अपि चेति विशेषसमुच्चयाय| वसुकादिसिद्धं सर्पिर्यवक्षारप्रतीवापं वातिके शुक्रदोषे| प्रतीवापो यः सिद्धे चूर्णत्वेन दीयते| मात्रा चास्य दोषाद्यपेक्षया| वसुकं रोमकम्| सैन्धवं माणिमन्थम्| फलाम्लमम्लदाडिमादिफलम्| सक्षीरं क्वाथकल्पनया सिद्धं विल्वादिक्वाथमास्थापनम्| तत्रैवानुवासनयोग्यतायां मधुकादिसिद्धं तैलम्| तत्रैव क्षीरकुलीररसाभ्यां सिद्धं तैलमुत्तरबस्तिः| कुलीरो जलजप्राणिविशेषः कर्कटाख्यः| तेषां समभागत्वम्|| २५||
Adhikarana paittikashukradoShe cikitsAvisheShaH| (26) · Śloka 26
पैत्तिके काण्डेक्षुश्वदंष्ट्रागुडूचीसिद्धं मूर्वामधूकप्रतीवापं सर्पिष्पानम्|
त्रिवृच्चूर्णः सघृतो विरेकः|
पयस्याश्रीपर्णीसिद्धं क्षीरयुक्तमास्थापनम्|
मधुकमुद्गपर्णीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च||२६||
पैत्तिके सुबोधम्| पयस्यया श्रीपर्ण्या च सिद्धेन क्षीरेणास्थापनम्| मधुकमुद्गपर्णीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च|| २६||
Adhikarana shlaiShmikashukradoShe cikitsAvisheShaH| (27) · Śloka 27
श्लैष्मिके पाषाणभेदाऽश्मन्तकाऽऽमलकक्वाथसिद्धं पिप्पलीमधुकचूर्णप्रतीवापं सर्पिष्पानम्|
मदनफलकषायो वमनम्|
दन्तीविडङ्गचूर्णस्तैललीढो विरेकः|
राजवृक्षमदनफलकषायप्रगाढमाऽऽस्थापनम्|
मधुकपिप्पलीसिद्धं तैलमनुवासनमुत्तरबस्तिश्च||२७||
श्लैष्मिके पाषानभेदादि सिद्धं सर्पिष्पानम् | मदनफलकषायेण वमनम् |दन्त्यादि चूर्णेन विरेकः |राजवृक्षादिकषायप्रगाढमास्थापनम् |प्रगाढं भूयिष्ठं घनम् | मधुकादि सिद्धं तैलमनुवासनमुत्तरबस्तिश्च|
Adhikarana vAtajArttavadoShe cikitsAvisheShaH| (28) · Śloka 28
वातजे पुष्पदोषे भार्ङ्गीमधुकभद्रदारुसिद्धं सर्पिष्पानम्|
काश्मर्य्यक्षुद्रसहासिद्धं वा क्षीरम्|
मधुकशृगालविन्नाकल्कं पयस्सर्पिस्सहितं प्रियङ्गुतिलकल्कं वा योनौ धारयेत्|
सरलमुद्गपर्णीकषायः प्रक्षालनम्||२८||
वातजे पुष्पदोषे| पुष्पदोषः आर्त्तवदोषः| मधुकादिसिद्धं परस्परसमाभ्यां पयःसर्पिभ्यां सम्मिश्र्य यथायोगम्| कल्कं पानीयपिष्टद्रव्याणाम् एतत् पानमेव| तिलप्रियङ्ग्वोः कल्कं योनौ धारयेत्| वेति समुच्चये| प्रक्षालनं प्रकरणाद्योनेः|| २८||
Adhikarana pittajArtavadoShe cikitsAvisheShaH| (29) · Śloka 29
पित्तजे काकोलीद्वयविदारीमूलक्वाथमुत्पलपद्मकक्वाथं मधूकपुष्पकाश्मर्य्यफलक्वाथं वा सशर्करं पिबेत्|
श्वेतचन्दनक्वाथं वा सक्षौद्रम्|
धवधातकीकल्कं वा घृतेन वा मधुकमधुरसामृद्वीकाकल्कम्|
शम्याकगवाक्षीक्षीरं विरेकः|
चन्दनपयस्याकल्कं योनौ धारयेत्|
गौरिकारिष्टकषायः प्रक्षालनम्||२९||
पित्तजे काकोल्यादीनां क्वाथत्रयं सशर्करं दोषाद्यपेक्षया विकल्पेन योज्यम्| सर्पिर्मधुभ्यां संयुक्तमनुपानमथवा श्वेतचन्दनक्वाथं सक्षौद्रम्| मधुकादिकल्कः सघृतः| सर्वत्र दोषाद्यपेक्षया विकल्पः| शम्याकादिभिविरेकश्चन्दनादिकल्कं योनौ धारयेत्| गैरिकादिकषायं प्रक्षालनम्|| २९||
Adhikarana shlaiShmikArttavadoShe cikitsAvisheShaH| (30) · Śloka 30
श्लैष्मिके कुटजकटुकाश्वगन्धाक्वाथं पिबेत्|
समाक्षिकं वा क्षीरिवृक्षप्रवालक्वाथम्|
एतेषामेव वा चूर्णं मधुघृताभ्यां लिह्यात्|
मदनफलकषायेण वमनम्|
तत्कल्कमेव च योनौ धारयेत्|
लोध्रतिन्दुककषायः प्रक्षालनं बस्तमेषमूत्रं वा||३०||
श्लैष्मिके कुटजादिक्वाथं समाक्षिकम्| एतेषामपीति क्षीरिवृक्षप्रवालानामेव||३०||
Adhikarana kuNaparetasi cikitsA| (31) · Śloka 31
कुणपरेतसि धातकीपुष्पखदिरार्जुनदाडिमैः सिद्धमसनादिभिर्वा सर्पिः पाययेत्||३१||
कुणपरेतसि धातक्यादिभिः पक्वं सर्पिः पाययेत्| असनादिगणेन च पक्वम्||३१||
Adhikarana granthiretasi cikitsA| (32) · Śloka 32
ग्रन्थिरेतसि पाषाणभेदा पलाशभस्मना वा||३२||
ग्रन्थिरेतसि पाषाणभेदपक्वं पलाशभस्मना वा|| ३२||
Adhikarana pUyaretasi cikitsA| (33) · Śloka 33
पूयरेतसि परुषकादिन्यग्रोधादिभ्याम्||३३||
पूयरेतसि परुषकादिन्यग्रोधादिभ्यां वा साधितं पानोपयोगे घृतम्|| ३३||
Adhikarana mUtrapurISharetasi cikitsA| (34) · Śloka 34
मूत्रपुरीषरेतसि वायुनातिविकृते हिङ्गूशीरचित्रकैरथवा चित्रकवितुन्नकप्रियङ्गुसमङ्गामृणालसिद्धम् एलामोचचूर्णप्रतीवापम्||३४||
मूत्रपुरीषरेतसि नातिदुष्टे चिकित्सा| अतिदुष्टे उपेक्षा, अनुप्रक्रमणमेव| घृतं हिङ्ग्वादित्रयपक्वम्| अथवा चित्रकादिसिद्धमेलामोचचूर्णप्रतीवापम्| प्रतीवापो यः सिद्दे च प्रकीर्य्यत प्रक्षिप्यते|| ३४||
Adhikarana granthyArtave cikitsA| (35) · Śloka 35
तथ ग्रन्थ्यार्त्तवे पाठात्रिकण्टकवृक्षकक्वाथम्||३५||
सुबोधम्|| ३५||
Adhikarana kuNapapUyArttave cikitsA| (36) · Śloka 36
कुणपपूयार्त्तवे चन्दनक्वाथं पिबेत्|
त्रिफलाकल्कक्वाथौ चात्र धारणाचमने||३६||
अत्रेति कुणपपूयार्त्तवयोः प्रत्यवमर्शः| धारणं योनौ|| ३६||
Adhikarana shukrArttavadoSheShu sAmAnyA cikitsA| (37) · Śloka 37
सर्वेषु च शुक्रार्त्तवदोषेषु स्त्रीपुंसौ स्नेहादिकर्मभिर्विशेषेण चोत्तरबस्तिभिः पुनः पुनरुपाचरेत्|
यथास्वं च योनौ कल्कैः पिचुभिश्च|
इत्येवं विशुद्धशुक्रार्त्तवौ पूर्वोक्तं विधिमासेवेताम्||३७||
स्नेहादीनि कर्माणि धूमान्तानि| सर्वेषु शुक्रार्त्तवदोषेषु यदुक्तं, तैः स्नेहादिभिरुपाचरेत्| यथास्वमिति| यत्र यदौषधं तत्र तदेव कल्केन पिचुना देयं योनाविति| पूर्वोक्तं विधिं घृतक्षीरतैलमांसादिकम्|| ३७||
Adhikarana RutukAlaH tatra matAntarANi ca| (38) · Śloka 38
ऋतुस्तु दृष्टार्त्तवो द्वादशरात्रं भवति|
षोडशरात्रमित्यन्ये|
शुद्धयोनिगर्भाशयार्त्तवाया मासमपि केचित्|
तद्वददृष्टार्त्तवोऽप्यस्तीत्यपरे||३८||
ऋतावित्युक्तं तत्र न ज्ञायते कियान् काल ऋतुर्भवतीत्याह--ऋतुस्त्वित्यादि| मासि भवादार्त्तवदर्शनादारभ्य यावत् द्वादशरात्रम्| अन्ये त्वाचार्य्याः षोडशरात्रमिति वदन्ति| अन्ये त्वेवं वदन्ति--सर्वथा योन्यादीनां शुद्धौ दोषानुपहतत्वे सति मासमृतुर्भवतीति| अत्र सदैवर्त्तुः| क्रमोपचयापचये तु विशेषः| गर्भाधानाय न विशेषः| ऋतुत्वोपदर्शनरहितमन्ये ऋतुमिच्छन्ति| इति मतचातुर्विध्यं गर्भस्याऽनियतदर्शनात्|| ३८||
Adhikarana RutumatyA lakShaNam| (39) · Śloka 39
क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम्|
स्रस्ताक्षिकुक्षिं पुंस्कामां विन्द्यादृतुमतीं स्त्रियम्||३९||
योन्यादिशुद्ध्यशुद्धिभ्यां चोपप्लवतेऽतस्तत्र निश्चयाय ऋतुमत्या लक्षणं क्षामवदनत्वादिकमुच्यते| स्रस्तं सन्धिबन्धेभ्यः शिथिलीभूतमक्षिकुक्षि यस्याः|| ३९||
Adhikarana RutAvatIte garbhAsambhavasya hetuH| (40) · Śloka 40
पद्मं सङ्कोचमायाति दिनेऽतीते यथा तथा|
ऋतावतीते योनिः स्याच्छुक्रं नातः प्रतीच्छति||४०||
दिनेष्वर्त्तोश्च सादृश्यं पद्मस्य योनेश्चातः क्रमसङ्कोचाद्धेतोः दिनेऽतीते शर्वर्य्याम् अतीतेऽप्यृतौ योनिर्बीजं न गृह्णाति| गर्भाशयं न प्रापयतीत्यर्थः|| ४०||
Adhikarana Arttavasa~jcayakAlaH vAyorArttavaprartakattva~jca| (41) · Śloka 41
मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः|
ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत्||४१||
साम्प्रतिकमासभवं तु त्र्यहं स्रवति त्र्यहादूर्ध्वमुपचीयत एव| अनेन च मासि मास्याभिनव ऋतुर्भवतीति दर्शितम्| तत्र च पूर्वमुपचितरक्तस्रुतौ नियतः कालः| अतिस्रुतौ योनिदोषोक्तम्|| ४१||
Adhikarana RutumatyA niyamAH| (42) · Śloka 42
ततः पुष्पदर्शनि प्रथमदिवसात्प्रभृति ब्रह्मचारिणी, स्नानाद्यलङ्काररहिता, दर्भसंस्तरशायिनी त्रिरात्रमासीत|
पर्णशरावकरतलान्यतमेन यावकं पयसा सिद्धमल्पं कर्शनार्थम् अश्नीयात्|
तीक्ष्णोष्णाऽम्ललवणानि च वर्जयेत्||४२||
ततः ऋतुप्राप्तौ पुष्पदर्शने प्रथमदिवसात् प्रभृति त्रिरात्रम् आसीतेति सम्बन्धः| किम्भूता ? ब्रह्मचारिणी पुंसा असङ्गता| स्नानादिकया शोभार्थया मृजया रहिता अलङ्काररहिता च| दर्भशय्याशायिनी च| तस्मिंश्च त्रिरात्रे पर्णादीनामन्यतमे स्थितं यावकम् अन्नं क्षीरेण सिद्धं कर्शनार्थम् अल्पम् अश्नीयात्| कर्शनं रक्तशुद्धये मार्गशुद्धये च| यावकं च यवमेव निस्तुषमिति तस्मिन्नेव क्रियते| तस्मिंश्च त्रिरात्रे तीक्ष्णादीनि वर्जयेद् रक्ताऽऽशुद्धिभयात्|| ४२||
Adhikarana RutusnAtAyAH prathamabhartRudarshanavidhiH tatra hetushca| (43) · Śloka 43
चतुर्थेऽहन्युद्वर्त्तिता शीतसलिलस्नाताऽनुलिप्ताऽलङ्कृता शुक्लमाल्याम्बरा कृतमङ्गलस्वस्त्ययनैवंविधमेवं भर्त्तारं पश्येदनन्यमनाः|
तदा हि यादृशमेव पश्यति चिन्तयति वा तादृशं प्रसूत इति||४३||
चतुर्थे त्वहन्युद्वर्तितत्वादियुक्ता तथाविधमेव उद्वतिर्ततत्वादियुक्तं भर्तारं परिजनदर्शनात् पूर्वम् अनन्यमनाः सती पश्येत्| शीतसलिलेन स्नाता पश्चाच्चानुलिप्ता सुकान्तिभिर्गन्धैः| शुक्लं माल्यम् अम्बरं च यस्याः सा तथा| तथाविधदर्शने स्वयं प्रयोजनमाह-- तदेति|| ४३||
Adhikarana gunavatputrArthI saptarAtramupekSheta| (44) · Śloka 44
ततः स्नानात् पुनरपि गुणवत् पुत्रार्थी त्रिरात्रम् उपेक्षेत|
पुष्पदर्शनात् सप्तरात्रम्||४४||
ततः स्नानादनन्तरं पुरुषो यद्युत्कृष्टगुणयुक्तं पुत्रमर्थयेत ततोऽन्यच्च त्रिरात्रि तामुपेक्षेत न सङ्गच्छेदित्यर्थः| स्नानदिनमुभयस्मिन्नपि त्रिरात्रे सम्बध्यते| तेन सप्तरात्रग्रहणम् अष्टरात्रभ्रान्तिनिवृत्त्यर्थम्|| ४४||
Adhikarana yugmAsu putrakAmaH saMvishet| (45) · Śloka 45
अथाष्टम्यां दशम्यां द्वादश्यां वा रात्रौ पुत्रकामः संविशेत्||४५||
ततोऽनन्तरं पुष्पदर्शनादष्टम्यां रात्रौ पुत्रकामो नारीं संविशेद् दशम्यां द्वादश्यां वा|| ४५||
Adhikarana ayugmAsu duhitRukAmaH saMvishet| (46) · Śloka 46
पञ्चम्यां सप्तम्यां नवम्यां वा दुहितृकामः||४६||
दुहितृकामः पञ्चम्यां सप्तम्यां नवम्यां वा| अत्र स्नानदिनाच्च त्रिरात्रमनुपेक्षणं दुहितुर्मात्रार्त्तवस्यैव सम्भवहेतुत्वात्|| ४६||
Adhikarana prashastarAtriShUttarottarA rAtrayaH prashastatarAH| (47) · Śloka 47
तासूत्तरोत्तरमायुरारोग्यैश्वर्य्यसौभाग्यबलवर्णेन्द्रियसम्पदपत्यस्य भवति|
अतः परं तूत्तरोत्तरमेवायुरादीनां ह्रासः||४७||
एतासु यथोक्तासु पुत्रदुहितृरात्रिषु या रात्रिर्यस्य उत्तरा सा ततः पुत्रस्य दुहितुर्वा आयुरादीनां हेतुः| तेनाऽष्टम्या रात्रेर्दशमी ज्येष्ठा ततोऽपि द्वादशी| एवं पञ्चम्यास्ततोऽपि सप्तमी| अतोऽनन्तरं त्रोदश्यादिषु रात्रिषु यथोत्तरमेव पुत्रस्यायुरादीनां ह्रासः, दशम्यादिषु च दुहितुः|| ४७||
Adhikarana strIpuMgarbhasambhave upapattiH| (48) · Śloka 48
तत्र युग्मासु रात्रिष्वल्पीभवत्यार्त्तवमयुग्मास्वाप्याय्यते|
तस्मात्तासु क्रमात् पुत्रस्य दुहितुश्च जन्म|
अतएव चानुपरतार्त्तवदर्शनां पुत्रार्थी विप्रकृष्टेष्वप्यहस्तु नोपेयात्||४८||
युग्मासु च समासु द्वितीयाचतुर्थ्यादिषु रात्रिषु समदोषबलादेर्यथोक्तवयसो मिथुनस्य गर्भारम्भकशुक्ररक्तापेक्षया अत्राऽऽद्यरात्र्यपेक्षय वाऽल्पीभवति रक्तम्, अतस्तासु शुक्रस्य बाहुल्यात् पुमान् जायते कारणस्यानतिक्रमणात् कार्यस्य| एवमयुग्मासु प्रथमतृतीयादिषु दृष्टार्त्तवस्य स्वभावेन बहुत्वाच्छुक्रस्याल्पत्वाद् दुहितृजन्म| अतएव रक्तस्याल्पत्वाद्धेतोर्यतः पुत्रस्य जन्म, ततः पुत्रार्थं पुरुषोऽनुपरतार्त्तवदर्शनां परिदृश्यमानार्त्तवां विप्रकृष्टदर्शनादयुग्मेष्वहःसु स्त्रियं नोपेयात्| आर्त्तवे दृश्यमाने अष्टम्यादिरात्रिष्वपि पुत्रार्थी नोपेयादित्यर्थः|| ४८||
Adhikarana AhArAvashAdyugmAyugmAsu shukrasya nyUnAdhikye durapatyatA| (49) · Śloka 49
यदि त्वाहारनुरोधादयुग्मासु शुक्रस्याधिकता च न्यूनता स्यात्ततः पुमान् स्त्र्याकृतिर्दुर्बलो हीनाङ्गो वा जायते|
स्त्री च पुरुषाकृतिर्दुर्बला हीनाङ्गी वा||४९||
आहारादिविशेषवशाच्च यद्ययुग्मासु शुक्रबाहुल्यं युग्मास्वाऽऽर्त्तवबाहुल्यं भवति तदा संयोगात् पुमान् स्त्र्याकृतित्वादियुक्तः स्त्री च पुरुषाकृतित्वादियुक्ता जायते|| ४९||
Adhikarana klIbA~apratyatAyAH kAraNam| (50) · Śloka 50
एकादशीत्रयोदश्योस्तु नपुंसकं स्यात्||५०||
एकादशीत्रयोदश्योर्नपुंसकं भवेत्|| ५०||
Adhikarana putrIyaM vidhAnAdi| (51) · Śloka 51
अथोपाध्यायः पुत्रीयं विधानमाचरेत्|
शूद्रायास्तु मन्त्रवर्जितम्|
यादृशं च पुत्रमाशासीत तद्रूपवर्णचरिताञ्जनपदाननुचिन्तयेति स्त्री वाच्या च|
तज्जनपदाहारविहारोपचारपरिच्छदांश्चानुविदधीत्||५१||
अथेति मङ्गले| उपाध्यायः पुत्रीयविधानं विधिमाचरेत् कुर्वीत| शूद्रायास्तु मत्रवर्जितं विधानमाचरेत्| स्त्री यादृशं पुत्रमाशासीताभिलषेत्, तद्रूपादिमतो जनपदाननुचिन्तयेति वाच्या च| सा च स्त्री मज्जनपदाहारादींश्चानुविदधीत कुर्वीत|| ५१||
Adhikarana putrIyavidhyanuShThAnAtparaM dampatyoshcaryyA| (52) · Śloka 52
कर्मान्ते च पुमान् मासं ब्रह्मचारी सर्पिःक्षीराभ्यां शल्योदनमभिप्राश्य नात्याऽऽशितः सुखी स्रग्वी सुमनाः प्रीणीताङ्गः शुक्लनिवसनो मौहूर्तिकानुमते रात्रिभागे कल्याणानि चिन्तयास्तदभिकामः स्वास्तीर्णं शयनं दक्षिणेन पादेन प्रागारोहेत्|
तद्विधैव च प्रमदा कर्शिताङ्गी तैलमाषोत्तराहारा, पूर्वं वामपादेन पुरुषस्य दक्षिणतः शय्यामधिरोहेत्||५२||
कर्मान्ते पुत्रीयविध्यनुष्ठानावसाने पुमान् मासं ब्रह्मचारी आज्यक्षीराभ्या शाल्यन्नं भुक्त्वा नात्याशित इत्यादिकः सन् मौहूर्तिकानुमते रात्रभागे कल्याणनि चिन्तयतस्तस्यामभिकामः दक्षिणेन पादेन स्त्रीतः प्राक् स्वास्तीर्णं शयनमारोहेत्| प्रमदापि तद्विधैव पुरुषविशेषणविशिष्टैव पूर्वोक्तयवान्नभोजनेन कर्शिताङ्गी तैलमाषोत्तराहारा पूर्वं वामेन पादेन तस्य पुरुषस्य दक्षिणतः शय्यामारोहेत्|| ५२||
Adhikarana shayyAdhirohaNe prayojyamantrAH| (53) · Śloka 53
तत्र मन्त्रं प्रयुञ्जीत-- 'आयुरसि, सर्वतः प्रतिष्ठासि, धाता त्वा दधातु, विधाता त्वा दधातु, ब्रह्मवर्चसा भव इति|
ब्रह्मा बृहस्पतिर्विष्णुः सोमसूर्यस्तथाऽश्विनौ|
भगोऽथ मित्रावरुणौ वीरं दधतु मे सुतम्||५३||
तत्र मन्त्रमिति| मन्त्रार्थ ऊह्यः|| ५३||
Adhikarana saMveshanaprakArastaduttarakRutya~jca| (54) · Śloka 54
ततः परस्परं सामभिरभिसान्त्व्य सहर्षमनुकूलं संविशेताम्|
पर्याप्ते चैनां शीतोदकेन सहसा परिषिञ्चेत्||५४||
तत इति| शय्यारोहणाऽनन्तरं तौ परस्परं सामभिः सान्त्वयित्वा सहर्षमनुकूलं च संविशेषताम्| पर्य्याप्तेति| पर्याप्ते व्यवायेऽवसिते सत्येनां स्त्रियं सहसा शीतोदकेन परिषिञ्चेत्|| ५४||
Adhikarana maithune~ayogyau strIpuruShau (55) · Śloka 55
तत्राऽत्याशिता, क्षुधिता, पिपासिता, भीता, विमनाः, शोकार्त्ता, क्रुद्धाऽतिमेदुराऽन्यकामाऽव्यवायकामा वा न गर्भं धत्ते, विगुणं वा|
तथा पुरुषोऽपि|
न चासौ अधस्तिष्ठेत्|
तथा हि स्त्रीचेष्टः पुमाञ्जायते, पुंश्चेष्टा वा स्त्री||५५||
अथ स्त्रिया उक्तप्रकारवैपरीत्ये दोषमाह-- तत्रेति| तत्र व्यवाये स्त्री अत्याशितत्वादियुक्ता गर्भं न धत्ते, विगुणं वा गर्भं धत्ते| तथा पुरुषोऽपीत्यनेनाऽत्याशितत्वादिकं पुरुषेणापि वर्जनीयमित्युक्तम्| पुंसो विशेषमाह-- न चेति| असौ पुरुषो नाऽधस्तिष्ठेत्, तत्र दोषमाह-- तथाहीति| तथा सति स्त्रीचेष्टः पुमाञ्जायते| स्त्री च पुंश्चेष्टा जायते|| ५५||
Adhikarana nyubjapArshvagatastrIsevananiShedhAdi (56) · Śloka 56
न च न्युब्जां वा सेवेत|
न्युब्जायां वातो बलवान् स योनिं पीडयति|
दक्षिणपार्श्वगतायाः श्लेष्मा पीडितश्च्युतः पिदधाति गर्भाशयम्|
वामपार्श्वगतायास्तद्वत् पित्तं विदहति रक्तशुक्रे|
तस्मादुत्तानं बीजं गृह्णीयात्|
तथा हि यथास्थानमेव तिष्ठन्ति दोषाः||५६||
तस्मिंश्च काले न्युब्जां पार्श्वगतां का न सेवेत उत्तानामेव सेवेतेति यावत्| न्युब्जा अधोमुखी| पुरुषस्याऽधःस्थितावपि दक्षिणपार्श्वगाया दक्षिणपार्श्वस्य श्लेष्माश्रयत्वं पित्तस्य वामपार्श्वाश्रयत्वाच्छ्लेष्मा पीडितः स्वस्थानाच्च्युतः पित्तेन सह गर्भाशयं विदधति, तथैव वामपार्श्वगतायास्तद्वत्पित्तं विदहति|| ५६||
Adhikarana puMsavanakAlaH matAntarANi ca (57) · Śloka 57
लब्धगर्भां चैनां विदित्वा, प्राग्व्यक्तीभावाद्गर्भस्य पुष्ये पुंसवनानि प्रयुञ्जीत|
द्वादशरात्रमित्यन्ये|
तत्रापि युग्मदिनेष्विति केचित्|
प्रत्यहमित्यपरे||५७||
अथ यत्योक्तेन लक्षणेन लब्धगर्भां विदित्वा कुक्षिगौरवादिलक्षणाद्गर्भव्यक्तीभावात्| पूर्वस्मिन्नेव दिने पुष्यनक्षत्रवति पुत्रार्थिन्यां भिषक् पुंसवनानि योगानि प्रयुञ्जीत वक्ष्यमणानि यैः पुमांसं सूयेत| प्रथमेऽह्नि केचित् पुंसवनमिच्छन्ति| तत्राप्ययुग्मदिनं विभागयुग्मेषु दिनेष्विति केचित् प्रवदन्ति| केचित्तन्त्रकाराः प्रत्यहं पुंसवनमिच्छन्ति| गर्भलक्षणात् पूर्वं प्रतिदिनमेवेति केचित्| केचित्तु द्वादशरात्रस्यैव युग्मदिनेष्विति विशेषं निक्षिपन्ति| युग्मदिनानि द्वितीयचतुर्थादीनि|| ५७||
Adhikarana puMsavanavidhiH (58) · Śloka 58
तद्यथा-- लक्ष्मणा-वटश्रृङ्ग-सहदेवा-विश्व-देवानाम-न्यतमां क्षीरेऽभिषुत्य त्रीश्चतुरो वा बिन्दून् दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना|
वामे तु दुहितृकामा|
न चैतान् निष्ठीवेत्|
तथा पुष्योद्धृतायाः श्वेतबृहत्या मूलकल्काद्रसं नावयेत्|
तद्वच्चोत्पलपत्रं कुमुदपत्रं लक्ष्मणामूलं वटशृङ्गाणि चाष्टौ च नावयेत्|
शुक्ल-माल्याम्बरधरा च नारी पुष्योद्धृताया लक्ष्मणाया मूलकल्कमुदुम्बरमात्रं पयसा पिबेत् पुत्रस्योत्पादनाय स्थितये च|
तद्वद्गौरदण्डमपामार्गं जीवकर्षभकौ शङ्खपुष्पीमध्यदण्डां सहचरं नग्नजितमग्निजिह्वामष्टौ वा वटश्रृङ्गानि|
शालिपिष्टस्य च पच्यमानस्योष्माणमाघ्राय तद्रसं देहल्यां स्थिता पूर्ववन्नावयेत्|
यच्चान्यदपि ब्राह्मणा वृद्धस्त्रियो वा ब्रूयुस्तच्च कुर्यात्||५८||
तद्यथेति पुंसवनप्रदर्शनपरम्| लक्ष्मणादीनामन्यतमं यथालाभं क्षीरेणाभिषुत्य वस्त्रान्तर्गतं गर्भवृद्ध्यर्थं च जपन् पवित्रान् मन्त्रान् वामहस्तेन दक्षिणनासापुटे सिञ्चेत् अनेनैव विधिना दुहितृकामा वामे नासापुटे सिञ्चेत| तांश्च बिन्दून् न निष्ठीवेत्| मुखेन नोद्गिरेदेवेत्यर्थः| दुहितृकामेति प्रासङ्गिकम्| तथैव वामदक्षिणभेदेन परिषेचनात् पुंस्त्रियौ भवतः| वामे दुहिता दक्षिणे पुमान्| एवं पुष्योद्धृतायाः श्वेतबृहत्याः कल्कान् सुश्लक्ष्णपिष्टादयो रसस्य नावयेत्| तद्वदेव वामदक्षिणभेदेन रसविधानेनोत्पलपत्रादीनामन्यतमं नावयेत्| तथैवाष्टौ वटश्रृङ्गानि| श्रृङ्गं प्रथमोद्भिन्नं पत्राङ्कुरम्| शुक्लमाल्यादिका नारी पुष्योद्धृताया लक्ष्मणाया मूलकल्कमुदुम्बरफलमात्रं पयसा पिबेत् पुत्रस्योत्पादनाय स्थितये च| नासया वा गर्भिण्या मुखेन वा पीतमिति| केचित् तत्कालमपि पीतो व्यक्तस्यापि पुत्रस्य परिस्थापनं रक्षाभिधानां स्थितिं करोति| उदुम्बरं नाम फलविशेषः| क्षीरं च पानायालोडनोपयोगि| सर्वापि तद्वल्लक्ष्मणा विधानेन गौरदण्डादीन्यपि पिबेत्| संख्यायामनियमः| तेन यथासम्भवम् एकं, द्वे, त्रीणि| शालिपिष्टस्य वा पिण्डीकृतस्याग्निना पच्यमानस्योष्माणमाघ्राय तत एव पीडितं सा योषित् द्वारदेहल्यं द्वारशाखाधारे स्थिता दक्षिणे नासापुटे स्वयं सिञ्चेदिति पुंसवनानि| तथान्यदपि यत्किञ्चिद् वृद्धस्त्रियो ब्राह्मणाश्च ब्रूयुस्तत् सर्वं योषित् कुर्यात्| वृद्धस्त्रीग्रहणं गर्भिण्यां हेयोपादेयतत्फलानामनुभवाभ्यासेन परिज्ञानविशेषप्रदर्शनार्थं, न तु सामान्येन वृद्धस्त्रीवचनस्यानुष्ठेयत्वम्| तथैव ब्राह्मणवचनं श्रौतस्मार्त्तविधानोपलक्षणार्थम्|| ५८||
Adhikarana garbhasthApanAni (59) · Śloka 7
ततः प्रजास्थापनाख्या दशौषधीः शिरसा दक्षिणेन च पाणिना धारयेत्|
एताभिश्च सिद्धं पयो घृतं वा पिबेत्|
एताभिरेव पुष्ये-पुष्ये स्नायात्|
सदा च समालभेत|
तथा सर्वासां जीवनीयानामौषधीनां सदोपयोगस्तैर्विधानैः|
इति गर्भस्थापनानि|
सौम्याकृतिवचनोपचारचेष्टाश्च प्रियहितानुवर्तिनः परिचारकास्तथा भर्तेति||७||
ततोऽनन्तरमैन्द्रीब्राह्मीत्यादिना दशौषधीः प्रजास्थापनाख्या गर्भिणी शिरसा धारयेत् तथा दक्षिणेन च पाणिना| तथाताभिः प्रजास्थापनाख्याभिर्यथास्वविधानेन सिद्धं पयो घृतं वा पिबेत्| सुबोधम्| तैस्तैर्विधानैर्विधारणस्नानादिभिरिति| गर्भस्थापनानियैर्गर्भो न स्रवति| तथा सौम्याकृत्यादियुक्ताः परिचारका भर्ता च गर्भस्थापनम्| सौम्या आकृत्यादयश्चेष्टान्ता येषान्ते तथोक्ताः प्रियाश्च ते| ते क्रियाश्चेष्टास्तथा हिताश्चानुवर्तिनश्च ते तथोक्ताः|| ५९||
Adhikarana punarupagamananiShedhakAlaH (60) · Śloka 60
पुनश्चैनां मासादुपेयात्||६०||
एनां च लब्धगर्भां मासादुपेयाद् भर्तेति सम्बध्यते| नेदं मासादुपगमनविधानपारमुच्येत| किं तर्हि ? मासमत्यन्तप्रतिषेधपरम्|
Adhikarana garbhasya varNavisheShahetavaH (61) · Śloka 61
तत्र शुक्रे शुक्ले घृतमण्डाभे वा गर्भस्य गौरत्वम्|
तैलाभे कृष्णत्वम्|
मध्वाभे श्यामत्वम्|
तथा क्षीरादिमधुराणामुपयोगात् मातुरुदकविहाराच्च गौरता|
तिलान्नविदाहिनां कृष्णता|
व्यामिश्राणां श्यामता|
देशकुलानुवृत्तितश्च वर्णभेदः|
तथा तेजोधातोरुदकाऽऽकाशधातुसम्पर्काद्गौरता, भूवायुसम्पर्कात् कृष्णता, सर्वधातुसाम्ये श्यामता||६१||
अनन्तरं गर्भस्य वर्णविशेषहेतुप्रदर्शनं करोति-- तत्र शुक्रेत्यादि| शुक्रं विशिनष्टि-- पुरुषाहारादिहेतुना शुक्रस्यानेकशो दृष्टेन वर्णेन भविष्यतस्तद्गर्भस्य वर्णविशेषनियम उच्यते| एतेन वर्णविशेषस्य पितुरायत्तत्त्वं दर्शितम्| माताऽप्यन्तर्वत्नी सती यदा सौम्यान्यासेवते तदा गर्भस्य गौरता| उदकविहारः जलक्रीडा| आग्नेयैस्तिलादिभिः कृष्णता| विदाहिनः सर्वे द्रव्यतो गुणतः कर्मतश्च| तेनोषरदेशाधिवासोऽपि गृहीतः| मिश्राणां सेवनात् श्यावत्वम्| एवं स्थितिदेशकुलानुवृत्त्यापि वर्णभेदो भवति| यथा-- औत्तरापथिकानां गौरता, दाक्षिणात्यानामान्ध्रद्रविडपाड्यादीनां कृष्णता| मध्यदेशे श्यावत्त्वमित्येवमादि| तथा कुलेऽपि जात्या शिल्प्यादिभेदभिन्ने क्वचिद्गौरत्वं, क्वचित्कृष्णत्वं, क्वचिच्छ्यावत्वं चेति| न केवलमेतदेव वर्णविशेषकारणं यावद्गर्भारम्भकगृहा भूताधिक्यमपि| एतद्दर्शयति-- तथेत्यादि| तेजोदधानोर्वर्णविशेषकर्त्तृत्वे सति प्राधान्याद् वर्णसंग्रहेष्वाधिक्येनैवान्वयित्वम्| तेषां चाहारविहारदेशकुलादिभूताधिक्यानां परस्परनानाविधभेदभिन्नानां मिश्रीभावेन वर्णानां मानम्| इति गर्भस्य वर्णविशेषताकरा भावा उक्ताः|| ६१||
Adhikarana garbhasya sattvavisheShakarANi (62) · Śloka 62
सत्त्वविशेषकराणि पुनर्मातापितृसत्त्वादयोऽन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोपचितं च कर्म भवति|
पूर्वाभ्यासश्चेति||६२||
सत्त्वविषेषाणां कारणत्वमुच्यते-- मातेत्यादि| गर्भस्य ह्येतदेव प्रधानं यत्सत्त्वं चित्तम्| सत्त्वशब्देन शुद्धं मन उच्यते| यच्च परमात्मनश्चेतनस्वरूपस्यापि मनसा संयुक्तस्य चेतनादिभिर्व्यक्तं चैतन्यं तन्मनस उपचारादुच्यते| तस्य च मनसो रजस्तमोभ्यामशुद्धिः| ताभ्यामेवासंख्यभेदेन परस्परनानासंयोगविशेषेण तस्य सत्त्वस्य विशेषा उत्पद्यन्ते| गर्भस्य तु सत्त्वविशेषप्राप्तौ किं कारणमित्युच्यते __ मातापितृसत्त्वादय इति| आदिग्रहणेन मातापितृसम्बन्धिनां शीलकुलाचारशौचादीनां ग्रहणम्| अन्तर्वत्न्याः गर्भिण्याः| अभीक्ष्णं पुनः पुनर्विहिताः श्रुतयो गर्भस्य सत्त्वविशेषकरा| तेन सुसत्त्वादीनां वृद्धादीनां सम्बन्धिन्यः श्रुतयो गर्भिण्याः| अभीक्ष्णं श्रुताः सुसत्त्वमेव गर्भं जनयन्ति| अन्येषां दुस्सत्त्वम्| गर्भेण चान्यस्मिञ्जन्मनि यदुपचितं कर्म,धर्माधर्मलक्षणं तद्वशादपि सत्त्वविशेषः सम्पद्यते| तथा अन्यजन्मसहस्राभ्यस्तवासनावशादपि सत्त्वविशेषो भवति| केषा- ञ्चित् सत्त्वकराणां परस्परसंयोगविशेषेण गर्भस्य सत्त्वविशेषाणामानन्त्यम्|| ६२||
Adhikarana adhyAyopasaMhAraH (63) · Śloka 63
भवन्ति चात्र||६३||
भवन्ति चात्रेति तन्त्ररीतिः सहेतुरध्यायोपसंहारश्लोकसमुच्चयप्रदर्शनाय|
Adhikarana Arttavasya bahvalpakAlasthitau hetuH (64) · Śloka 64
घृतक्षीरादिनित्यासु मुदितासु कफात्मसु|
आर्त्तवं तिष्ठति चिरं विपरीतास्वतोऽन्यथा||६४||
घृतादिसौम्यमाहारं या नित्यं सेवन्ते, याश्च नित्यं मुदिता हर्षपराः, याश्च श्लेष्मप्रकृतयस्तासामार्त्तवं गर्भयोग्यं शोणितमृतौ बहुकालं भवति| न तु क्षीयते| नापि विकृतिमायातीत्यर्थः| यथोक्तलक्षणविपरीतासु विपरीतं चिरं न तिष्ठतीत्यर्थः|| ६४||
Adhikarana shuddhe garbhAshaye bIjanipAtAdeva garbhagrahaNam (65) · Śloka 65
निपातादेव गृह्णाति रागं वासो यथाऽमलम्|
ध्रुवं गर्भं तथा बीजं क्षेत्रं बीजमुपस्कृतम्||६५||
शुद्धशुक्रार्त्तवमित्यादेर्निपातादेवेत्यादिना हेतुमुपसंहरति-- निपातादिति| अमलं निर्मलं, वासो निपातमात्रादेव यथा ध्रुवमवश्यं रागं गृह्णाति, तथैवोपस्कृतं शुद्ध्यादिसंस्कारकरणेनोत्पादितयोग्यत्वं स्त्रीशरीराख्यं क्षेत्रं ध्रुवमवश्यं गर्भं गृह्णाति तथैव बीजमनन्तरोक्तेनाऽऽहारादिना ध्रुवमुपनिपातादेव गर्भं गृह्णाति|| ६५||
Adhikarana garbhali~ggAbdivyakteH pUrvameva puMsavanasya anuShTheyatvam (66) · Śloka 66
अविरुद्धे ध्रुवं दैव काले युक्तस्य कर्मणः|
सिद्धिः पुंसवनाद्यस्मात्पूर्वं व्यक्तेः प्रयोजयेत्||६६||
प्राग्व्यक्तीभावाद्गर्भस्येत्यत्र सहेतुकमुपसंहरति-- अविरुद्ध इत्यादि| अस्माद्धेतोर्व्यक्तेः पूर्वं पुंसवनानि प्रयोजयेत्| यतः फलावाप्तिर्योग्ये काले प्रयुक्तस्य कर्मणः क्रियायाः सिद्धर्ध्रुवमवश्यम्भाविनी दृष्टा| अन्यलिङ्गाभिमुखस्य बीजस्य ततो निर्वृत्तिं कृत्वा यथाभिमतलिङ्गयोजनं द्रव्यप्रभावात् क्रियते| तच्च निष्पन्ने कार्य्ये निष्प्रयोजनम्| न हि विशिष्टवर्णकार्पासार्थी निष्पन्ने फले रागमुपदधाति| क्वचित् कालेऽपि युक्तस्य कर्मणः सिद्धिर्न दृष्टेति| चोद्यपरिहारायाविरुद्ध इति विशेषणम्| विरुद्धे हि दैवे बलवति पूर्वजन्मनि कृते कर्मणि कालेऽपि युक्ते पौरुषस्य न सिद्धिरित्यर्थः|
Adhikarana puMsavanAdividhinA jAtAnAM putrANAM sadguNatvam (67) · Śloka 67
जाताश्चैवं रूपवन्तो महासत्त्वाश्चिरायुषः|
ऋणान्मोचयितारः स्युः सुपुत्राः पुत्रिणां मताः||६७||
एवंविधेन संस्कारेण सुपुत्रः सम्पद्यत इत्यत्र जाता इत्यादिना प्रयोजनकथनम्| एवंविधिना जाताः सत्पुत्राः कामं पूजिताः रूपादिमन्तः पुत्रिणां ऋणान्मोचयितारः स्युरिति| पुत्रो हि देवर्षिपितृणामृणवान् भवतीति वेददर्शनम्|| ६७||
Adhikarana devatAdiratAnAM mahAguNaputrotpattiH (68) · Śloka 68
देवताचारशौचादिरता सूते महागुणम्|
धावत्येवं चाचरितं प्राग्जन्माभ्यासयोगतः||६८||
तथा देवतादिरता महागुणमुदारगुणं पुत्रं सूते| एनं च तथाविधमातृसम्भूतं तथा स्वकर्मवशात् पूर्वाऽनेकजन्माभ्यासयोगेन तथाविधमेवाचरितं धावत्याऽऽश्वायाति||६८||
Adhikarana strIshukrasya garbhaM pratyaki~jcitkaratvam (69-5) · Śloka 5
योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे|
गर्भस्य तत्र किञ्चित्तुं करोतीति न चिन्त्यते||६९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थानेऽङ्ग- विभागो नाम प्रथमोऽध्यायः||५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां शारीरस्थाने पुत्रकामीयो नाम प्रथमोऽध्यायः योषित इत्यादिभ्रान्तिनिरासायोच्यते -- योषितोऽपि विशिष्टे पुंसः समागमे शुक्रं स्रवत्येव| न केवलं योषितः समागमेषु पुंसः स्रवतीत्यपिशब्दस्यार्थः| तेन स्त्रीपुरुषयोर्भावलाभे सर्वसमत्वम्| तथा च समलिङ्गयोः समकालयोश्चानवतरङ्गमेन ग्लान्यादयः समादृष्टा एवेति| तच्च योषितः स्रुतमपि गर्भस्य न किञ्चिद्यतः करोति नोकाराय भवत्यतो न विचिन्त्यते| न हि स्त्रीशरीरच्युतस्य बहिः प्रवृत्तस्य पुनः क्षेत्रलाभ इति|| ६९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यां शशिलेखायां शारीरस्था प्रथमोऽध्यायः