Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

2. garbhāvakrāntiḥ

Adhikarana atha garbhAvakrAntirnAma dvitIyo~adhyAyaH atha garbhAvakrAntirnAma dvitIyo~adhyAyaH upodghAtaH · Śloka

🔊 Audio coming soon

पूर्वस्मिन्नध्याये पुत्रकाममधिकृत्योक्तं, सम्प्रति तु यस्येव पुत्रस्य निषेकात् प्रभृति योगक्षेमौ यथा-यथा सम्भवतः यथा च मातरि तिष्ठति यथा च न व्यापद्यते, अव्यापन्नं च यथा सुखं सूत इति प्रदर्शनार्थमध्यायारम्भः|

Adhikarana pratij~jA (1) · Śloka 1

अथातो गर्भावक्रान्तिं शारीरं व्याख्यास्यामः| इति ह स्माहुरात्रेदयादयो महर्षयः||१||

🔊 Audio coming soon

अथात इत्यादि| अत्र गर्भशब्देन मनस्संय्गाच्चेतनेनात्मनाधिष्ठितानां महाभूतानां विकारविशेष उच्यते| तस्यावक्रमणं प्राप्तिः स्वरूपलाभो यस्मिन्नध्याये निर्णीयते सोऽप्युपचारात्तच्छेब्देनोच्यते|

Adhikarana garbhAvakrAntiprakAraH (2) · Śloka 2

गते पुराणे रजसि नवेऽवस्थिते शुद्धे गर्भस्याशये मार्गे च बीजात्मना शुक्रमविकृतमविकृतेन वायुना प्रेरितमन्यैश्च महाभूतैरनुगतमार्त्तवेनाभिमूर्च्छितमन्वक्षमेव रागादिक्लेशवशानुवर्तिना स्वकर्मचोदितेन मनोजवेन जीवेनाभिसंसृष्टं गर्भाशयमुपयाति||२||

🔊 Audio coming soon

सा च गर्भस्यावक्रान्तिः गते पुराण इत्यादिना प्रस्तूयते| पुराणेऽतीते कर्मतः सञ्चिते रजसि दुष्टरक्ते गते वायुना स्त्रीदेहाद्बहिः प्रेरिते ऋतोराद्यदिनत्रयं पश्चान्नवे साम्प्रतिकमासभवेऽवस्थिते आर्त्तवसंज्ञे लब्धप्रतिष्ठे सति शुद्धे च गर्भस्याशये दोषानुपहते मार्गे च शुद्धे येनानुपहतं शुक्रं क्षेत्रं प्राप्नोति| शुद्ध रति रजसा सम्बध्यते| गर्भाशयमार्गाभ्यां च| शुद्धिश्च स्वाभाविक्यौपाधिकी च| औपाधिकी द्रव्यसंस्कारकृता| बीजात्मना गर्भकारणमहाभूतस्वभावेन अङ्गादङ्गात् प्रेरितमन्यैश्च सूक्ष्मस्वरूपैर्मनः सहचारिभिस्तन्मात्राख्यैर्महाभूतैरनुगतं स्त्रीक्षेत्रप्राप्त्या कर्मवशादार्त्तवेन मिश्रीभूतमन्वक्षं मिश्रीभावाहीनकालमेव रागादीनां वशे योऽनुवर्त्तते तथाविधेन मनोजवेन जीवेनाभिसंसृष्टं प्राप्तसंयोगं गार्भाशयं शुक्रमुपयाति| रागद्वेषाविद्यास्मिताभिनिवेशाः क्लेशाः| एते पञ्च मिथ्याज्ञानानि| न प्रमाणं न चाप्रमाणं विपर्ययमात्रमिति कृत्वा अविद्या मूलं क्लेशानां शेषाणाम्| सुखानुशायी रागः| तत्प्रभेद एव द्वेषः क्रोधः| अस्मिताऽभिनिवेशौ मोहशब्देनोक्तौ| तत्र अविद्या या अनित्ये पृथिव्यादौ नित्यबुद्धिः| बीजगर्भवासादिना अशुचौ स्त्रीशरीरादौ शुचिबुद्धिः| दुःखे च परिणामतापादिभिरूपभोगसुखे सुखबुद्धिः| अनात्मनि च बाह्योपकरणभावेषु शरीरे चात्मबुद्धिरिति| आत्मनो बुद्धेश्चाभेदग्रह अस्मिता| अनुभूतसुखस्य तत्स्मृत्या तत्कारणप्राप्तौ गृद्धी रागः| अनुभूतदुःखस्य तद्ग्रथनेषु तात्कालिकी जिघांसा द्वेष इति क्लेशाः| अविद्या चाऽऽनादिः| एषां क्लेशानां वशमनुवर्तते यो जीव आत्मा स तथोक्तः शुभाऽशुभानि कर्माणि तानि चाऽऽत्मनः| क्लेशमूलत्वात् कर्मणाम्| अमूनि च कर्माणि पच्यमानानि विपाकेन सुखासुखलक्षणेन पुनरविद्यामेव पुष्णन्ति, अतोऽविच्छिन्नेन प्रवाहेण कर्मफलानुरूपेषु योन्यन्तरेष्वात्मनो मनःप्रभृतिभिः संयोगान्नित्यस्यापि जन्मशब्देनोच्यते| मनोजवेनेत्यात्मनो निष्क्रियत्वान्मनसा युक्तस्य क्रियावत्त्वमिव दर्शयति| एवम्भूतं शुक्रं गर्भाशयमुपयाति|| २||

Adhikarana kAryANA~gkAraNAnuvidhAyitvam (3) · Śloka 3

कार्याणां कारणानुविधायित्वात् तत्स्वभावतां प्रतिपद्यते||३||

🔊 Audio coming soon

तच्च शुक्रं कार्य्याणां कारणानुविधायित्वाद्धेतोस्तत्स्वभावतां कारणसादृश्यं प्रतिपद्यते| कार्यं हि कारणस्य स्वरूपानुगच्छति| तथा च तिलेभ्यस्तिला एव जायन्ते न माषाः| कारणं च यद् गर्भस्य मातृपितृमहाभूतदेशकालगर्भाशयमात्राहारविहारादिकम्| तस्य कारणस्य स्वरूपानुगमनाद् गर्भस्य तदाकृत्यादिमतश्च सम्भवः| अत एव कारणवशादाकृत्यादिवैलक्षण्यम्|| ३||

Adhikarana bhinnali~ggagarbhasambhave hetuH (4) · Śloka 4

तत एव च शुक्रस्य बाहुल्यात् पुमान् आर्त्तवस्य बाहुल्यात् स्त्री, तयोः साम्ये नपुंसकम्||४||

🔊 Audio coming soon

अत एव च कारणानुविधायित्वादेव पुंस्कारणस्य शुक्रस्य बाहुल्यात् पुमान् जायते, रक्तस्य तु योषित् | कारणयोः साम्ये नपुंसकमिति || ४ ||

Adhikarana bahvapatyatAkAraNam (5) · Śloka 5

शुक्रार्त्तवेऽनिलेन खण्डशो भिन्ने यथाविभागमपत्यानामुत्पत्तिः||५||

🔊 Audio coming soon

मिश्रीभूतश्च शुक्रार्त्तवं स्वविशिष्टहेतुकोऽनिलो यदा खण्डशः करोति, तदा बहूनामप्यपत्यानां सम्भवः || ५ ||

Adhikarana viyoni-vikRutAkArApatyakAraNam (6) · Śloka 6

विकृते वियोन्याकृतीनाञ्च||६||

🔊 Audio coming soon

यदा त्वनिलो वाऽन्यो वा दोषः शुक्रार्त्तवं केनचित् प्रकारेण विकरोति, तदा विकृतयोनीनां विकृताकृतीनाञ्च गर्भाणां सम्भवः | विकृतयोनयो ये योषितः पुंसा संसृष्टायाः मृगमेषमार्जारादयो जायन्तेऽतो विकृताकृतयः काणपङ्ग्वादयः || ६ ||

Adhikarana sadyogRuhItagarbhAyA lakShaNAni (7) · Śloka 7

अथ नार्य्याः सद्योगृहीतगर्भायाश्च लिङ्गं योन्या बीजग्रहणं तृप्तिर्गरिमा स्फुरणं शुक्रार्त्तवयोरनुबन्धश्च तथा प्रहर्षो हृल्लासस्तन्द्राऽङ्गसादः प्रसेको हृदयव्यथा ग्लानिः पिपासा च||७||

🔊 Audio coming soon

अथेति प्रस्तावे | योन्या बीजग्रहणादिकं सद्योगर्भायास्तत्कालप्राप्तगर्भाया नार्य्या लक्षणम् | योन्या बीजस्य शुक्रस्य ग्रहणं प्रस्रवाभावः | तृप्तिः प्राप्तगर्भापेक्षया रतावनभिलाषिता, शरीरप्रीणनं वा | गुरुत्वमङ्गस्य तस्यैव स्फुरणं चालनम् | अननुबन्धनम् गर्भविदारणादिना प्रतिबन्धः | हृदुत्क्लेशयुक्तः प्रसेक एव हृल्लासः || ७ ||

Adhikarana vyaktagarbhAyA lakShaNAni (8) · Śloka 8

क्रमेण तु व्यक्तगर्भायाः कुक्षिमात्रगौरवं क्षामनेत्रस्वरता योनिरोमसंलुलनं निद्रा जृम्भणं मूर्च्छा छर्दिररुचिः पादशोफोऽम्लेऽभिलाषस्तेषु तेषु च उच्चावचेषु भावेष्विति||८||

🔊 Audio coming soon

कालक्रमेण व्यक्तगर्भायाः क्रमेणैव कुक्षिगात्रादिगौरवादिलक्षणम् | क्रमेणेति | यथा-यथा प्रवर्धते तथा-तथा कुक्षिगौरवादयो भवन्ति | क्षामशब्दो नेत्रस्वराभ्यां च सम्बध्यते | योनिरोम्णीञ्च संलुलनं चलनम् | योनिरोम्णां वा संलुलनं व्यालोलता | तेषु तेष्वनुक्तेष्वपि स्वकल्पितेषु नानाविधेषूच्चावचेष्वनियतेषु भावेष्वाहारविहाराद्युपयोगिष्वभिलाष इति व्यक्तगर्भाया लिङ्गम् | व्यक्तः स्फुटो नातिसम्पूर्णो गर्भो यस्याः || ८ ||

Adhikarana garbhiNyA ArttavAdarshanaM, jarAyvAdisambhavashca (9) · Śloka 9

तस्याश्च रजोवाहिनां स्रोतसां वर्त्मान्युपरुध्यन्ते गर्भेण| तस्मात् ततः परमार्त्तवं न दृश्यते| ततस्तदधः प्रतिहतमपरमपरं चोपचीयमानमपरेत्याहुः, जरायुरित्यन्ये| स्थिते रक्ते रोमराजिः प्रादुर्भवति||९||

🔊 Audio coming soon

तस्याश्च व्यक्तगर्भाया रजोवहानि स्रोतांसि यैः स्रोतोभिर्मलभूतं रक्तमृतुकालं बहिर्वहति तेषां वर्त्मानि मार्गाणि मुखानि गर्भेण नैकाहादाच्छाद्यन्ते | तस्मात् कारणात् ततः गर्भस्य व्यक्तीभावात् परमार्त्तवं न प्रवर्त्तते | यत्तु कदाचिद् दृश्यते तद्वैकृतम् | तदैव चार्त्तवमधो गमने गर्भेण प्रतिहतमाहारपरिणामाच्च प्रतिदिनमुपचीयमानं गर्भस्याशय एवापरा गर्भशय्याऽऽख्या सम्पद्यत इति केचिदाहुः | अन्ये पुनराचार्य्यास्तदार्त्तवं जरायुभावेन परिणमतीत्याहुः | तस्मिन्नेव रक्ते स्थिते कोष्ठ एतावरुद्धे स्त्रिया नाभेरधो रोमराजिः प्रदुर्भवति | तेन रोमराज्यास्तदेव जरायोः सम्बन्धि कारणमुक्तम् || ९ ||

Adhikarana kapolAdau pInatAdarshanam (10) · Śloka 10

जरायुशेषं चोर्ध्वमसृक्प्रतिपद्यते| तस्मात् पीनकपोलपयोधरता कृष्णौष्ठचूचुकत्वञ्च||१०||

🔊 Audio coming soon

तद्द्यार्त्तवं बहु जरायुभावेन प्रतिघातादूर्ध्वं प्रतिपन्नं कपोलयोः पयोधरयोश्च पीनत्वं स्थौल्यं करोत्योष्ठयोश्चूचुकयोश्च स्तनमुखाख्ययोरिति | ततश्चोर्ध्वप्रतिपन्नाद्रतताद्यत् स्तनप्राप्तं तत्तत्स्थानस्थितेन श्लेष्मणा श्वेतेन कृतोपरागं स्तन्यतां याति || १० ||

Adhikarana stanyotpattau kAraNam (11) · Śloka 11

स्तनाश्रयमेव च कफोपरञ्जितं स्तन्यतामुपगतं प्रसूतायां पुनराहाररसेनाप्यायते||११||

🔊 Audio coming soon

यत्तत् स्तन्यतां यातं प्रसूताया आहाररसेनापि अविदग्धेन प्रभावादाप्यायते आसंस्कारक्षयाद्येन प्रसूताया भावि स्तन्यं नियतकालं भवति || ११ ||

Adhikarana tRutIyamAsAvadhi garbhasyopacayakramaH (12) · Śloka 12

तत्र प्रथमे मासे कललं जायते| द्वितीये घनः पेश्यर्बुदं वा| तेभ्यः क्रमात् पुंस्त्रीनपुंसकानि| तृतीये पञ्चधा प्ररोहति| तद्यथा-- सक्थिनी, बाहू, शिरश्च| सक्थ्यादि प्ररोहैककालमेव च सर्वमङ्गाऽऽवयवोन्द्रियाणि युगपत् सम्भवन्त्यन्यत्र जन्मोत्तरकालजेभ्यो दन्तादिभ्यः| क्रमेण तु स्फुटीभवन्ति| एषा प्रकृतिः| विकृतिरतोऽन्यथा||१२||

🔊 Audio coming soon

अतोऽनन्तरं गर्भस्याऽऽप्रसवमवस्थादिकं प्रदर्श्यते | तत्र प्रथमे मासे कललं क्रमेण भवति | कलले गृहीतकाठिन्यम् | द्वितीये तु मासे काठिन्यक्रमेण यदा पुमान् सम्पद्यते तदा घनो भवति | घनो नातिदीर्घपरिवृत्तो मांसप्रायः | यदा तु स्त्री सम्पद्यते तदा पेशी चतुरस्रा भवति | यदा तु नपुंसकं तदार्बुदं परिवृत्तं भवति | तृतीये तु मासे घनः पेशी वार्बुदं वा सामान्येन गर्भः पञ्चधा प्ररोहति | अधिकरणविचाले च इति 'धा' प्रत्ययः | द्वे सक्थिनी, द्वौ बाहू, शिरश्च पञ्चमः | सक्थ्यादिप्ररोहसमानकालमेव सर्वाङ्गाऽऽवयवानामिन्द्रियाणां च सम्भवः | अङ्गं शरीरं तस्याऽऽवयवा अङ्गावयवाः | सर्वे च तेऽङ्गावयवास्तथोक्ताः | एककालशब्देन बाह्वादिसमानकालत्वमुच्यते | युगपच्छब्देन परस्परैककालत्वम् | जन्मोत्तरकालभाविनां रोमदन्तादीनामङ्गावयवत्वेन तत्कालासम्भवत्रिर्धारणम् | ते हि दन्तादयो जातस्य जायन्त इति | तानि चाऽऽवयवेन्द्रियाणि दशसु मासेषु गर्भस्य स्फुटीभवन्ति | एषा प्रकृतिरतोऽन्यथा विकृतिर्ज्ञेया | तेनैतदुक्तं भवति- उपघातकाद्यभाव एष सम्भवक्रमः | यदा तु लक्ष्येणोपघातकारणप्राप्तिस्तदा तदानुरूप्येणैव विलक्षणा विकृतिः | यथोक्तक्रमवैपरीत्ये विकृतिरुच्यत इत्यन्यथार्थः || १२ ||

Adhikarana garbhali~ggAnurUpaM bhAvAnAM copasthitiH (13) · Śloka 13

यथास्वं च गर्भस्य पुंस्त्रीनपुंसकान्यतमलिङ्गानुरूपा भावा मनसि शरीरे च सन्तिष्ठन्ते| वैशेषिकलिङ्गसङ्करे तु यतो भूयस्त्वं ततोऽन्तरा भावाः||१३||

🔊 Audio coming soon

ननु द्वितीये घनः पेश्यर्बुदं वा पुंस्त्रीनपुंसकाख्यं जायत इति तत्र हेतुर्न ज्ञायते | केन हेतुना सदृशैरपि करचरणादिभिरङ्गावयवैः स्त्र्यादिकृतो गर्भस्य विशेषो भवतीत्यत आह- यथास्वमित्यादि | यथास्वं प्रत्यात्म | गर्भस्यान्यतमलिङ्गस्यानुरूपाभावाः मनसि शरीरे च सन्तिष्ठन्ते | तेनैतदुक्तं भवति- गर्भस्य सम्भवमत एव स्वकर्महेतुका भीरुत्वादयो मनस्यधोगुरुत्वादयश्च शरीरे सन्तिष्ठन्ते | ये स्त्रीनपुंसकहेतवस्त एव क्लैब्याधोगुरुत्वादयः स्त्र्याख्यं विशेषमारभन्ते | अक्लैब्याधोगुरुत्वादयः पुमाख्यमुभयसमत्वेन नपुंसकमिति | अतस्तेषां वैशेषिकगुणत्वम् | अतस्तेषाञ्च वैशेषिकाणां लिङ्गानां क्लैब्यभीरुत्वादीनां स्त्रीपुंसकारणानां सङ्करे मिश्रीभावे यतो भूयस्त्वमेषामेव वैशेषिकाणां प्रभूतत्वं ततोऽन्यतरा भावास्तैरेव भूयोभिरन्ततस्य स्त्रिया पुरुषस्य वा भावः | उभयेषामपि भूयस्त्वे नपुंसकस्येति || १३ ||

Adhikarana strIpuMnapuMsakakarAH bhAvAH (14) · Śloka 14

तद्यथा- क्लैब्यं भीरुत्वमवैशारद्यं मोहोऽनवस्थानमधोगुरुवमसंहानं शैथिल्यं मार्द्दवं गर्भाशयबीजभागस्तथायुक्ताश्चापरे स्त्रीकरा भावाः| ततो विपरीताः पुंस्कराः| सङ्कीर्णा नपुंसककराः||१४||

🔊 Audio coming soon

ननु के ते भावाः स्त्र्याद्यन्यतमलिङ्गारूपा इत्याह- तद्यथेत्यादि | क्लैब्यादयो मनोधर्माः | अधोगुरुत्वादयश्च शरीरधर्माः | स्त्रीकरा भावाः कर्महेतुकाः ये ते स्त्र्याख्यं विशेषमभिनिर्वर्त्तयन्ति | तुल्येष्वपि करणादिषु क्लैब्यं निस्तेजत्वात् | बुद्धेरवैशारद्यं मौग्ध्यम् | मोहोऽसम्यग्ज्ञानम् | अनवस्थानं चलचित्तत्वम् | इति मनः संश्रयाः स्त्रीकरा भावाः | अधोगुरुत्वं पश्चिमकायभागगौरवम् | असंहननं मांसास्थिसन्ध्यादीनामास्थितिनिविष्टत्वम् | शैथिल्यमनिबिडावयवदेहत्वम् | मार्दवं शिथिलस्यापि वस्त्रादेर्दृश्यते | गर्भाशयकारणो बीजभागो मातृसंभवो येनोत्पद्यमाने स्त्रीशरीरे गर्भाशयाख्योऽन्तरवयवः सम्पद्यते | तथायुक्ताः स्त्रीसम्भाविनोऽपरे योनिस्तनादिबीजभागाः | स्तनादीनामुत्तरकालभवित्वस्य समर्थो बीजभागो योग्यकालप्रतीक्षोऽदृश्यमानोऽप्यसत्त्वेन न विज्ञेय इति शारीराः स्त्रियाः स्त्रीकराभावाः | एत एव मनःशरीराश्रया भावा यथाक्रमं वैपरीत्ये पुंस्त्वेन व्याख्येयाः | सङ्कीर्णाः साम्येन् मिश्रीभूता नपुंसककरा इत्यादि || १४ ||

Adhikarana tRutIyAmAsAtprabhRuti garbhe vedanAdisambhavaH (15) · Śloka 15

तदा चास्य वेदना प्रव्यक्ता भवति| ततश्च तत्प्रभृति स्पन्दतेऽभिलाषं पञ्चेन्द्रियार्थेषु करोति||१५||

🔊 Audio coming soon

अस्य च गर्भस्य तदा तृतीये मासे वेदना चेतना प्रव्यक्ता स्फुटा भवति | ततोऽन्न्तरमेव स्वेच्छया स्पन्दते | इन्द्रियार्थेषु अभिलाषं करोति || १५ ||

Adhikarana garbhiNyAH tRutIyamAse daurhRudasambhavaH (16) · Śloka 16

मातृजं ह्यस्य हृदयं तद्रसहारिणीभिर्धमनीभिर्मातृहृदयेनाभिसम्बद्धं भवति| तस्मात्तयोस्ताभिः श्रद्धा सम्पद्यते| तथा च द्विहृदयां नारीं दौर्हृदिनीमित्याचक्षते||१६||

🔊 Audio coming soon

अस्मिन्नेव च काले नारी दौर्हृदिनी भवति | दौर्हृदिनी द्विहृदया कथमित्याह- मातृजमित्यादि | अस्य गर्भस्य मातृजं हृदयं भवति | मातुर्बीजभागेन मृदुना आर्त्तवाख्येन जायते | तच्च गर्भहृदयं रसवाहीभिर्नाडीभिर्मातृहृदयेन सम्बद्धं भवति | तेन गर्भस्येच्छया माता व्याप्यते मातुश्च गर्भ इति | अतो माता द्विहृदया तृतीयमास्युच्यते || १६ ||

Adhikarana matAntareNa daurhRudakAlaH (17) · Śloka 17

अन्ये तु पक्षत्रयात् प्रभृत्यापञ्चमात् मासात् दौर्हृदकालमाहुः||१७||

🔊 Audio coming soon

अन्ये पुनराचार्य्या गर्भग्रहणाद्गते पक्षत्रये यावच्चतुर्थो मासो निष्पन्नस्तावद्दौर्हृदकालमाहुः || १७ ||

Adhikarana daurhRudamahitamapi deyameva (18) · Śloka 18

प्रार्थनायाञ्च तीव्रायां काममहितमप्यस्यै हितोपसहितं दद्यात्||१८||

🔊 Audio coming soon

अस्मिंश्च दौर्हृदे गर्भिण्याः प्रार्थनायां नानाविधे आहारे पथ्ये यदि प्रार्थना भवति तत्तदानीमेव दद्यात् | अहिते पुनर्यदि प्रार्थना भवति ततोऽन्येन हितेनोपहितं मिश्रं तत्तस्यै प्रदद्यात् || १८ ||

Adhikarana daurhRudavimAnanAddoShaH (19) · Śloka 19

दौर्हृदविमाननाद्धि वायुः प्रकुपितोऽन्तःशरीरमनुचरन् गर्भस्य विनाशं वैरूप्यं वा कुर्य्यात्||१९||

🔊 Audio coming soon

अन्यथा दौर्हृदस्य विमाननात् प्रार्थनाभङ्गादसौम्यत्वाद्वायुः कुपितोऽन्तःशरीरं परिभ्रमन् गर्भस्य विनाशं करोति वैरूप्यं वा करोति || १९ ||

Adhikarana daurhRudAvAptiphalam (20) · Śloka 20

लब्धदौर्हृदा तु वीर्य्यवन्तञ्चिरायुषञ्च पुत्रं प्रसूते||२०||

🔊 Audio coming soon

यदा पुनर्दौर्हृदे प्रार्थितं लभते तदा सा लब्धदौर्हृदा वीर्य्यवन्तं चिरायुषं च पुत्रं सूते || २० ||

Adhikarana caturthe~a~ggapratya~ggavibhAgastatsthairyya~jca (21) · Śloka 21

चतुर्थेऽङ्गप्रत्यङ्गविभागः प्रव्यक्तो गर्भश्च स्थिरो भवति||२१||

🔊 Audio coming soon

चतुर्थे मासि सर्वावयवानां स्फुटता, व्यक्तिः स्थैर्य्यञ्च गर्भस्य भवति || २१ ||

Adhikarana pa~jcame mAse manaHprabodho mAMsashoNitopacayashca (22) · Śloka 22

पञ्चमे मनः प्रतिबुद्धतरं भवति मांसशोणितोपचयश्च||२२||

🔊 Audio coming soon

अन्यत् सुबोधम् || २२ ||

Adhikarana ShaShThe mAse keSaromAdInAmabhivyaktiH balavarNopacayashca (23) · Śloka 23

षष्ठे केशरोमनखास्थिस्नाय्वादीन्यभिव्यक्तानि बलवर्णोपचयश्च| सप्तमे सर्वाङ्गसम्पूर्णता||२३||

🔊 Audio coming soon

सुगमम् || २३ ||

Adhikarana aShTame mAsi ojasaH mAtRugarbhayossa~jcAraH (24) · Śloka 24

अष्टमे गर्भश्च मातृतो गर्भतश्च माता रसहारिणीभिर्वाहिनीभिर्मुहुरोजः परस्परमाददाते| तस्मात्तदा गर्भिणी मुहुर्मुदिता भवति मुहुर्ग्लाना तथा गर्भः||२४||

🔊 Audio coming soon

अष्टमे मासि ताभिरुभयलग्नाभी रसवहाभिर्नाडीभिरोजः प्रतिक्षणं द्वयोः शरीरयोः प्रभावाद्वातवशाच्च सञ्चरति | यत्र च तदोजस्तिष्ठति तत्र शरीरे हर्षो भवत्यन्यत्र ग्लानिः || २४ ||

Adhikarana aShTame mAse jAtasya garbhasya vinAshe hetuH (25) · Śloka 25

एवं गर्भस्य जन्म व्यापत्तिमत्तदा भवत्योजसोऽनवस्थितत्वात्| तथा ह्यस्य निष्क्रमणोन्मुखस्य परिवर्त्तनादीन्यनुभवत एवौजसा वियोगः| यद्यपि च किञ्चित्कालमस्योच्छ्वसनं स्यात्तच्छिन्नस्येवाङ्गस्यौजः संस्कारानुवृत्तिकृतम्| जनन्यास्तु स्थिरौजस्कतयैकदेशेन रसे संक्रान्ते ग्लानिरेवेति||२५||

🔊 Audio coming soon

तत्र मातृशरीरं गते ओजसि यदि गर्भं प्रसूते तदा स जातो विनश्यति | यत्तु किञ्चित् स्वल्पमेवोजो भवति तन्निष्क्रमणक्लेशेन क्षयं याति | यत्तु किञ्चित्कालमुच्छ्वसनं भवति तदोजः संस्कारात् | यथा छित्रस्याङ्गस्य चलनम् | यदा गर्भशरीरं प्राप्ते ओजसि गर्भो निष्क्रामति तदा ओजसः सद्भावात् जातो जीवत्यत्र माता यतः स्थिरौजस्का भवत्यतः सा केवलं ग्लाना भवति, न तु विपद्यते | तस्यास्तु सम्बन्धिन ओजसस्तोकमात्रं गर्भशरीरं संक्रामति || २५ ||

Adhikarana aShTame prasavena garbhasya maraNamiti (26) · Śloka 26

अन्ये पुनराहुः| नैऋतभागत्वात्तत्र गर्भस्य मरणम्||२६||

🔊 Audio coming soon

अन्ये पुनराचार्य्याः सुश्रुतादयस्तत्राष्टमे मासे नैर्-ऋतभागत्वात् भूतावसरत्वात् तस्य कालस्य गर्भस्य मरणमाहुः | न त्वोजसोऽनवस्थानात् || २६ ||

Adhikarana aShTame mAsi garbhaprasavanirodhApAyAH (27) · Śloka 27

तस्मात् प्रसवप्रतिषेधार्थं स्त्री स्नाता, शुचिर्ब्रह्मचारिणी, देवताराधनमपरा स्यात्| मांसौदनबलिं चात्र निर्वपेत||२७||

🔊 Audio coming soon

तस्मान्नैर्-ऋतभागत्वात्तस्य कालस्य प्रतिषेधार्थं भूयो मे प्रसवो न भूयादिति कृत्वा गर्भिणी स्त्री स्नानादियुक्ता सती देवाराधनपरा स्यात् | तेषाञ्च नैर्-ऋतानां मांसोदनादिकं बलिपललपिष्टादिकं निर्वपेत् || २७ ||

Adhikarana garbhasya sUteH kAlaH (28) · Śloka 28

तस्मिन्नेकदिवसातिक्रान्तेπ प्रसवकालमाहुरासंवत्सरात्| अतः परं विकारी भवति||२८||

🔊 Audio coming soon

अस्मिंस्त्वष्टमे मासे एकदिवसातिक्रान्तेπ प्रसवकालमाहुः | एकदिवसमतिक्रान्तो यः स तथोक्तः | यावद्गर्भग्रहणात् संवत्सरं तावन्नवमान्मासात् प्रभृति चतुर्मासं प्रसवकालमाहुः | संवत्सरात् परे च त्रयोदशादिषु मासेषु अन्तःस्थितो गर्भो विकारित्वं भजते || २८ ||

Adhikarana garbhakoShThe garbhasthitiprakAraH (29) · Śloka 29

गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृताञ्जलिः सङ्कुचिताङ्गो गर्भकोष्ठे दक्षिणपार्श्वमाश्रित्यावतिष्ठते पुमान्, वामं स्त्री, मध्यं नपुंसकम्||२९||

🔊 Audio coming soon

स च गर्भो यावत् जठरे तिष्ठति तावदेवं तिष्ठति, एवञ्च निष्क्रामतीति प्रदर्शनार्थमाह-- गर्भस्त्वित्यादि | सर्वो गर्भो मातृ-पृष्ठाभिमुखो ललाटे कृताञ्जलिस्तिष्ठति सङ्कुचितैरङ्गैः | स च यदा पुंव्यञ्जनस्तदा गर्भकोष्ठस्य दक्षिणं पार्श्वमाश्रित्य तिष्ठति | स्त्रीव्यञ्जनो वामं मध्यं नपुंसकमिति | सुबोधमन्यत् || २९ ||

Adhikarana garbhasya mAtRuparAyattavRuttitvAdi (30) · Śloka 30

तत्र स्थितश्च गर्भो मातरि स्वपत्न्यां स्वपिति प्रबुद्धायां प्रबुद्ध्यते| परतन्त्रवृत्तेश्च गर्भस्य| निषेकात् प्रभृति गर्भाशयोपस्नेहोपस्वेदौ वर्तनम्||३०||

🔊 Audio coming soon

परतन्त्रवृत्तैर्मातृपरायत्तवृत्तित्वात् | द्वौ तु गर्भाशयसम्बन्धिनावुपस्नेहोपस्वेदौ वर्तनम् | उपस्नेहः स्निग्धत्वम् | उपस्वेद उत्क्लेदः | तौ चाहारायत्तौ | सुबोधमन्यत् || ३० ||

Adhikarana garbhasya poShaNam (31) · Śloka 31

ततो व्यक्तीभवदङ्गप्रत्यङ्गस्याऽस्य नाभ्यां प्रतिबद्धा नाडी नाड्यामपरा तस्यां मातृहृदयम्| ततो मातृहृदयादाहाररसो धमनीभिः स्यन्दमानोऽपरामुपैति| ततः क्रमान्नाभिम्| ततश्च सपुनर्गर्भस्य पक्वाशये स्वकायाग्निना पच्यमानः प्रसादबाहुल्याद्धात्वादिपुष्टिकरः सम्पद्यते| तथा रोमकूपैरुपस्नेहो रस एव च पयोभूतः||३१||

🔊 Audio coming soon

तस्य च गर्भस्य क्रमेण व्यक्तीभवदङ्गप्रत्यङ्गस्य सतस्तन्मातुराहारसारो रसाख्यो धातुः पुष्टिकरः सम्पद्यते | कथमित्याह-- नाभ्यामिति | गर्भस्य नाभ्यां प्रतिसम्बद्धा नाडी भवति, तस्यां नाड्यां प्रतिबद्धा पूर्वोक्तापरा तस्यां प्रतिबद्धं मातृहृदयम् | तत्र मातुः सम्बन्ध्याहाररसस्तद्धृदयलग्ना धमनीः प्राप्नोति | ताभिर्धमनीभिः स्रुतोऽपरां प्राप्नोति | ततो नाभिप्रतिबद्धनाडीक्रमेण नाभिमनुप्राप्तो गर्भस्य कायाग्निस्थानमनुप्राप्तस्तेन कायाग्निना पच्यमानः ससारः स्वल्पोπ प्रसादबाहुल्याद्धेतोर्धातुपुष्टिकरः सम्पद्यते | अस्य ह्याहारः सरो भवति | गर्भशरीरं तु सर्व एव सारः प्राप्नोतीति प्रसादबाहुल्यम् | तथा गर्भाशयस्यापि स्नेहोगर्भस्य रोमकूपैः प्रविष्टो धातुः पुष्टिकरः सम्पद्यते | तथा गर्भस्य जातस्यापि स एव मातुराहाररसः पयोभूतो धातुपुष्टिकरः सम्पद्यते || ३१ ||

Adhikarana garbhasya sthUlamalAsambhave hetuH (32) · Śloka 32

अजातस्य साक्षादन्नपानानुप्रवेशादमलत्वाच्च रसस्य गर्भस्य स्थूलमलासम्भवः||३२||

🔊 Audio coming soon

गर्भस्य तु जठरस्थस्य स्थूलानां मलानां मूत्रपुरीषादीनामसम्भवः साक्षादन्नपानाननुप्रवेशाद्धेतोः | यश्च प्रविशति रसः सोऽमलः प्रसादरूपत्वादित्यर्थः || ३२ ||

Adhikarana garbhaniShkramaNakramaH (33) · Śloka 33

एवं जठरस्थो गर्भो जन्मकाले तु प्रसूतिमारुतयोगात् परिवृत्त्याऽवाक्शिरा निष्क्रामत्यनु चापरा च्युता मातृहृदयात्| एषा प्रकृतिः| विकृतिरतोऽन्था||३३||

🔊 Audio coming soon

एवमनन्तरोक्तेन प्रकारेण जठरस्थो गर्भः प्रसूतिवशात् पृष्ठाभिमुखत्वात् परिवृत्य नाभ्याभिमुखो भूत्वाऽवाक्शिरा निष्क्रामति आवाक्शिरा अधोमुखः | अनु च गर्भे निष्क्रान्ते अपरा निष्क्रामति | एषा अनन्तरोक्ता प्रकृतिः अतो यथोक्तादन्यथा विकृतिः तेनैतदुक्तं भवति-- यथा गर्भसम्भवादनन्तरमाप्रसवं यथोक्ताकारत्वेन गर्भस्य स्थानं प्रकृतिरुच्यते | अतो वैपरीत्याद् विकृतिरतस्तत्र यद्विधेयं तद्वक्ष्यामः || ३३ ||

Adhikarana puMstrInapuMsakagarbhalakShaNam (34) · Śloka 34

तत्र या दक्षिणं पादं पूर्वमभिसरति दक्षिणश्च बाहुर्बलवांस्तेन चेष्टते तत्स्तने च प्राक् पयो दृश्यतेऽभ्युन्नतदक्षिणकुक्षिः परिमण्डलगर्भा पुन्नामदर्शनस्पर्शाप्रश्नदौर्हृदाभिरता पुन्नामधेयांश्च स्वप्नात् पश्यति प्रसन्नमुखवर्णा तीक्ष्णक्षुदूर्ध्वरोमराजिः पुरुषानभिलाषिणी च सा पुत्रं प्रसूते| तद्विपर्य्यये कन्याम्| सङ्करे च नपुंसकम्| प्रश्नकाले नारी यल्लिङ्गमङ्गं बाह्यद्रव्यं वा परामृशति तल्लिङ्गमस्या गर्भमादिशेत्||३४||

🔊 Audio coming soon

अनन्तरं पुंस्त्रीनपुंसकानां गर्भस्थानां पुंसवनादिफलज्ञानाय भिषजश्च प्रतिपत्तये क्रमेण लक्षणमुच्यते- तत्र या दक्षिणमित्यादि | या स्त्री दक्षिणं पादं पूर्वमभिसरत्यभिसरणकाले सा पुत्रं सूत इति सम्बन्धः | तदित्यनेन सर्वत्र दक्षिणशब्दस्य परामर्शः | परिमण्डलः सर्वतः समः | पुँल्लिङ्गनाम्नो भावात् झटिति स्वप्ने पश्यति | पुन्नामभिरेव यत्किञ्चित् पृच्छति | पुन्नाम्नि दौर्हृदेऽभिलाषं करोति | मुखवर्णयोः प्रसन्नत्वं बुभुक्षायास्तीक्ष्णत्वम् | रोमराज्या नाभेरधोभवाया ऊर्ध्वत्वमूर्ध्वाभिमुखत्वम् | गर्भिणी सती पुरुषगमनाय नाभिलषतीति | एतद्वैपरीत्ये न दुहितरं प्रसूत इति व्याख्येयम् | तत्र दक्षिणशब्दस्थाने वामशब्दप्रयोगः | पुन्नामस्थाने स्त्रीशब्दप्रयोगः | परिमण्डलस्थाने दीर्घशब्दन्यासः | तीक्ष्णे मन्दशब्दः | ऊर्ध्वस्थाने अधःशब्दः | पुरुषानभिलाषशब्दे हितत्वमित्येवमादि सर्वं योज्यम् | उभयलिङ्गसङ्करे मिश्रीभावे नपुंसको विज्ञेयः | विरुद्धयोर्मिश्रीभावेतूभयच्छायाग्रहणेन तयोश्च क्रमयौगपद्यम् | यथासम्भवं व्याख्येयम् | प्रश्नकाले यस्मिन् काले भिषजो गर्भप्रसवाय कश्चित् पृच्छति किंलिङ्गो गर्भः प्रसोष्यत् इति | सुबोधमन्यत् || ३४ ||

Adhikarana garbhasya vAtarogitAdisambhave hetuH (35) · Śloka 35

यदा तून्मार्गगो वातोगर्भस्य रसवाहीनी स्रोतांसि शोषयति तदा वातरोगी हीनाङ्गो वा जायते| बहूनि वा वर्षाण्युदरे तिष्ठति||३५||

🔊 Audio coming soon

यदा त्वित्यादिना वेगधारणेन वातकोपात् परिपोषकरसक्षयाद्दोषसम्भवदर्शनं गर्भशरीरे भवतीत्युच्यते | वायुरुन्मार्गगः स्वमार्गं त्यक्त्वाऽन्यमार्गतो गर्भस्य रसवाहिस्रोतांसि शोषयति तदा तैः शुष्यद्भिः शरीरे रसो न वहत्यतो वातरोगी हीनाङ्गो वा जायते अपरिपूर्णत्वाद् बहून् वर्षानुदरे तिष्ठति || ३५ ||

Adhikarana dviretAkhyanapuMsakotpattikAraNam (36) · Śloka 36

यद स्त्रीपुंसयोः सममेवार्थो निष्पद्यते| बीजं वा तयोः समांशं सम्मुखं च| यदा च बीजं भागे दुष्यति तदा द्विप्रकृतिद्विरिता नपुंसकं भवति||३६||

🔊 Audio coming soon

यदा तु रतिकाले स्त्रीपुंसयोः सममेककालमर्थो रतिसमाप्तिलक्षणो निष्पद्यते | अनयोः स्त्रीपुंसयोः सम्बन्धि बीजं वा समभागं भवति सम्मुखं चैक्यरूपेण | यदा च तस्मिन् स्त्रीभूतं बीजं गर्भस्य बीजारम्भके भागे दुष्यति येनैकरूपता पुंविशेषेण योषिद्विशेषेण वा गर्भबीजस्य न सम्पद्यते तस्मिंस्त्रीपुरुषबीजभागे केनापि दोषकोपकारणेन दुष्टे द्विः प्रकृतिरेकोऽप्युभयस्वरूपो द्विरेता नपुंसको भवति | स्त्रीकार्य्यमपि स्तोकं साधयति पुंस्कार्य्यमपि न पुमानित्यर्थः || ३६ ||

Adhikarana vAtendriyAkhyanapuMsakotpattikAraNam (37) · Śloka 37

यदा स्त्री प्रथमं कृतार्था भवति, ततः पुरुषेण पश्चात् शुक्रमुत्सृष्टं हर्षानवस्थितचेतसः स्त्रिया वातो विगुणीकरोति| पुंस्त्ववाहीनि स्रोतांसि चोपहन्ति तदा वातेन्द्रियं भवति| तन्मैथुने वातमेवोत्सृजति||३७||

🔊 Audio coming soon

यदा तु स्त्री रतौ पुंसः पूर्वं कृतार्था सम्प्राप्तरत्यवसाना भवति, ततोऽस्याः स्त्रियाः पश्चात् पुंसा शुक्रमुत्सृष्टं भवति | रतिकालभूतेन हर्षेणानवस्थितचेतसः सत्या अत एव कारणाद्वातो दुष्टः तच्छुक्रं पश्चादुत्सृष्टं विगुणीकरोति | गर्भशुक्रबीजभागे विकृतिमापादयत्यस्य गर्भस्य च स वातः पुस्त्ववहानि शुक्रवहानि स्रोतांसि चोपहन्ति | तदा जातो नपुंसको वातेन्द्रियो नाम्ना भवति | स स्त्रिया सङ्गतो शुक्रवन्मेढ्रेण वातमेवोत्सृजति || ३७ ||

Adhikarana saMskAravAhyAkhyanapuMsakotpattikAraNam (38) · Śloka 38

यदा तु कार्त्स्न्येन नोपहन्त्यनुपघ्नन्नेव वा स्रोतोमुखं पिधत्ते तदा संस्कारवाह्यं भवति| तत्र संस्कारो वाजीकरा बस्तयोऽभ्यवहारश्चेतोहर्षणानि च| तानि हि शुक्रे बलमादधानानि स्रोतांस्यस्याप्याययन्तीति च||३८||

🔊 Audio coming soon

यदा त्वनन्तरोक्तं शुक्रं वातो दुष्टः कार्त्स्न्येन नोपहन्ति | किञ्चिदुपहन्त्यनुपघ्नन् वा स्रोतोमुखं पिधत्त एव न शोषयति तदा संस्कारवाह्यो नाम्ना नपुंसको भवति | संस्कारेण वाजीकरणादिना स्त्रीगमनाय संबाह्यत इत्यर्थः || ३८ ||

Adhikarana AsekyAkhyanapuMsakotpattikAraNam (39) · Śloka 39

यदापबीजोऽपबलः पुमानुद्वेगः स्त्रीद्वेषयुक्तोऽन्यकामो वा नार्य्या व्यवायप्रतिघातं करोति तद्विधा वा नारी पुंसः| तदाऽऽसेक्यं नाम भवति| तच्छुक्रास्वादाद् ध्वजोच्छ्रायं लभते||३९||

🔊 Audio coming soon

यदाऽल्पबीजत्वादियुक्तः पुमांस्त्रिया व्यवायप्रतिघातं रत्यवसानविनाशं करोति तदाऽऽसेक्यो नाम नपुंसको भवति | स स्वमन्यभवं वा शुक्रं मुखे आसिच्यास्वादनाद् ध्वजस्य मेढ्रस्योच्छ्रायं लभते | यदि वाल्पबीजत्वादियुक्ता स्त्री पुंसो व्यवायप्रतिघातं करोति तदाऽप्याऽऽसेक्यो भवति || ३९ ||

Adhikarana vakradhvajAkhyanapuMsakotpattikAraNam (40) · Śloka 40

यदा पुनरुभावपि भवतः स्त्रीपुंसौ तद्विधौ तदा वक्रध्वजो भवति| तस्य नैव ध्वजः स्तभ्यते||४०||

🔊 Audio coming soon

यदा तूभावपि स्त्रीपुंसावल्पबीजत्वादियुक्तौ भवतः परस्परञ्च व्यवायप्रतिघातं कुरुतस्तदा वक्रध्वजो नाम नपुंसको भवति | यो वक्रेणैव ध्वजेन वर्तते न त्वस्य मेहनं स्तभ्यते इति || ४० ||

Adhikarana saugandhikAkhyanapuMsakotpattikAraNam (41) · Śloka 41

यदा पूतियोन्याः स्त्रिया गर्भो भवति, तदा सौगन्धिकाख्यं स योनिध्वजगन्धेन बलं लभते||४१||

🔊 Audio coming soon

यदा पूतियोन्यभिधानयोनिव्यापत्संयुक्तायाः स्त्रिया गर्भो भवति, तदा स गर्भः सौगन्धिकाख्यो नपुंसको भवति | स स्वलब्धेन ध्वजगन्धेन योनिगन्धेन वा स्त्रीगमने बलं लभते || ४१ ||

Adhikarana IrShyAratisaMj~jakanapuMsakotpattikAraNam (42) · Śloka 42

यदा त्वीर्ष्याभिभूतौ मन्दहर्षौ संसृज्येते तदेर्ष्या रतिसंज्ञम्| तस्य परं मिथुनीभूतं दृष्ट्वा मैथुनप्रवृत्तिर्भवति||४२||

🔊 Audio coming soon

यदा पुनर्द्वावपि स्त्रीपुंसौ परस्परमीर्ष्यया बलवत्याभिभूतौ संसृज्येते तदेर्ष्यारतिर्नाम्ना नपुंसको भवति | स परस्य मैथुनं दृष्ट्वा तदीर्ष्या मैथुने प्रवृत्तिं लभते || ४२ ||

Adhikarana vAtaShaNDakAkhyanapuMsakotpattikAraNam (43) · Śloka 43

यदा पुरुषस्य गर्भस्य वाय्वाग्निदोषाद् वृषणनाशस्तदा वातषण्डकाख्यं भवति| एताः कर्मवैचित्र्यादष्टौ षण्डयोनयोऽसङ्कीर्णाः कथिताः||४३||

🔊 Audio coming soon

यदा गर्भस्य सम्भवकाले वायुना ऊष्मणा च वृषणनाशः क्रियते तदा वातषण्डकाख्यं नपुंसकं भवति | वातेन षण्डको वातषण्डकः | एता अष्टौ षण्डानां योनयोऽसङ्कीर्णाः पृथग्भूताः षण्डभूता इत्यर्थः | आसां च शुक्राणां कर्मणां पूर्वजन्मकृता तां वैचित्र्यात् सम्भव इति || ४३ ||

Adhikarana strIbIjadoShAMshAdi strIgarbhAvayave vikRuti~jjanayet (44) · Śloka 44

यदा तु स्त्रियाः शोणितगर्भाशयौ दोषाः किञ्चित् प्रदूषयन्ति तदा यो गर्भो भवति, तस्य गर्भस्य यस्य यस्य मातृजस्यावयवस्य बीजे बीजांशे वा दोषः प्रकोपमापद्यते तं तमवयवं विकृतिराविशति||४४||

🔊 Audio coming soon

अनन्तरं स्त्रीपुरुषगर्भावस्थायां बीजदोषाद्ये विशेषा भवन्ति ते यदा त्वित्यादिनोच्यन्ते | यदा तु स्त्रिया मातुः शोणितं बीजोपयोगि गर्भाशयं वा दोषा वातादयः स्वकारणैर्दुष्टा दूषयन्ति तदा ते साकल्येन वा दूषयन्ति अंशेन वा | यदा तु साकल्येन दूषयन्ति तदा गर्भस्य सम्भव एव न भवति | यदा पुनः किञ्चिद्दूषयन्ति तदा शोणितकारणस्य स्त्रीगर्भस्य विशिष्टेष्ववयवेषु गर्भाशयादिषु ये कारणबीजभूता बीजांशास्तेषामंशानां कदाचित् साकल्येन दूषणं कुर्वन्ति भागेन वा | तेनोभयरूपेण बीजांशदूषणेन स्त्रीगर्भस्य विकृतिरुत्पद्यते | एवमुक्तमनेन | यथा शोणितगर्भाशययोर्दुष्टयोः स्त्रीगर्भस्य यो मातृजोऽवयवः शोणितकारणो गर्भाशयरक्तादिस्तस्यावयवस्य यो बीजांशो मातृशोणितभागस्तस्य यस्मिन् यस्मिन्नंशे वा दोषो वातादिः प्रकोपमापद्यते तं तं शोणितकारणमवयवं गर्भाशयाद्यं दूषणानुरूपेण विकृतिर्भविष्यद्गर्भग्रहण आविशति | एतदेव यदा हीत्यादिना विभागेन दर्शयति || ४४ ||

Adhikarana strIgarbhe vandhyotpattiH (45) · Śloka 45

यदा ह्यस्याः शोणिताख्ये बीजे गर्भाशयस्थे निर्वर्तकं बीजं प्रदुष्यति तदा वन्ध्यां जनयति||४५||

🔊 Audio coming soon

स्त्रीगर्भे गर्भाशये निर्वर्तके स्त्रियाः शोणिताख्ये बीजभागे साकल्येन दुष्टे वन्ध्या स्त्री जायते || ४५ ||

Adhikarana garbhAshayasthastrIbIje ki~jcitpraduShTe pUtiprajotpattiH (46) · Śloka 46

यदा तस्यावयवस्तदा पूतिप्रजाम्| तस्या जातं जातं म्रियते||४६||

🔊 Audio coming soon

यदा त्वसाकल्येन तदा पूतिप्रजा जायते | तस्या जातं जातं म्रियते | लिङ्गविशेषेण नपुंसकम् | पूतिः क्लिन्ना क्षीणाप्रजा यस्याः सा तथोक्ता || ४६ ||

Adhikarana strIvyApadutpattikAraNam (47) · Śloka 47

यदा पुनः सोऽवयवः स्त्रीकराणां च शरीरसंश्रयाणामधोगुरुत्वादीनां निर्वर्तका ये बीजांशास्तेषामेकदेशः| तदा स्त्र्याकृतिप्रायामस्त्रियं वार्तां नाम जनयति| तां स्त्रीव्यापदमाचक्षते||४७||

🔊 Audio coming soon

यदा पुनः सोऽवयव अनन्तरोक्तबीजभागावयवः पूर्वोक्तानां चाधोगुरुत्वादीनां भावानां ये निर्वर्तकाभावास्तेषां य एकदेशस्तदुष्ट्या माता वार्ता नाम स्त्रियं जनयति | या स्त्र्याकृतिबाहुल्यात् स्त्री, स्त्रीकार्य्याकरणाच्चास्त्री | तस्याश्च स्त्रीव्यापदिति नाम || ४७ ||

Adhikarana shukrAkhyabIjadoShAMshena puruShavandhyAdInAM sambhavaH (48) · Śloka 48

एवमेव पुंसो यदा शुक्राख्ये बीजे बीजं प्रदुष्यतीत्यादि योजयेद्वन्ध्यं पूतिप्रजं तथा पुरुषाकृतिप्रायमपुरुषं तृणमुखिनं नाम जनयतीत्येन मातृजानां पितृजानां चावयवानां विकृतिर्व्याख्याता||४८||

🔊 Audio coming soon

एवमेव यथा स्त्रियाः शोणिताख्ये बीजे गर्भाशयस्य निर्वर्तकं बीजमित्युक्तं तथैव च पुंसः शुक्राशयनिर्वर्तकं प्रदुष्यतीत्यादि योज्यम् | तेन वन्ध्यावद्वन्ध्यो यो गर्भस्तं जनयति | पूतिप्रजावत् पूतिप्रजो यस्माज्जातंजातं प्रियते | वार्तावत्तृणमुखी | यः पुरुषाकृतिप्रायत्वात् पुरुषकार्याकरणाच्चापुरुष इति | एतेन मातृपितृजाऽवयवदोषा व्याख्याताः || ४८ ||

Adhikarana sasattvAdInAM duShTyA garbhasya vikArasambhavAdiphalam (49) · Śloka 49

अनेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति| यस्य-यस्याङ्गावयवस्य बीजे बीजांशे वा उपतप्तिर्भवति तस्य-तस्याङ्गावयवस्य विकृतिरुपजायते| नोपजायतेऽनुतापात्||४९||

🔊 Audio coming soon

अनेन सात्म्यरससत्त्वजानामवयवानां दोषविकृतिर्व्यख्याता भवति | कारणसामान्यात् सात्म्यजानामायुरारोग्यादीनामङ्गविभागे वक्ष्यमाणानां रसजानाञ्च कृत्स्नदेहसम्भवादीनाम् | सत्त्वजानां शौचादीनामद्रव्याणामुपचर्य्यते | तेनैतदुक्तम् भवति-- रसस्य नानाविधया दुष्ट्या तत्कार्य्याणामपि गर्भे तदनुगुणैव विकृतिर्भवति | एवं सात्म्यासात्म्ययोरपि वाच्यम् | अपि च बीजभागोपतापाद् गर्भावयवानां विकृतिर्भवति | एतदाह- यस्य यस्येत्यादि | सुबोधम् || ४९ ||

Adhikarana garbhiNyA satataM vAtalAnAM sevayA jAyamAnAH doShAH (50) · Śloka 50

यदा च लब्धगर्भाऽन्वक्षमेव वातलान्यासेवते तदाऽस्या वायुः प्रकुपितः शरीरमनुसर्पन् गर्भाशयेऽवतिष्ठमानो गर्भस्य जड-बधिर-मूक-मिन्मिण-गद्गद्-खञ्ज-कुब्ज-वामन-हीनाङ्गाधिकाङ्गत्वान्यन्यं वा वातविकारं करोति||५०||

🔊 Audio coming soon

लब्धगर्भा वाऽन्वक्षं निरन्तरं यदा वातलान्याऽऽसेवते तदाऽस्या वायुः प्रकुपितः शरीरोपसर्पणेन गर्भाशयानुप्रप्तो गर्भस्य जडबधिरत्वादीनन्यांश्च यथा हेतुवातविकारान् करोत्येवं पित्तलान्यासेवमानाया पित्तं खलत्यादीनि श्लेष्मा कुष्ठादीनि | त्रिवर्गसन्निपातो मिश्राननन्तरोक्तान् वातपित्तकफजान् | जडः स्तोकश्रुतिः बधिरोऽश्रुतिः | मूको वाग्रहितः | मिन्मिणोऽनुनासिकभाषी | गद्गदो घर्घरस्वरः | खञ्जः एकपात् | तथा हीनाङ्गोऽधिकाङ्गो वा || ५० ||

Adhikarana garbhiNyA satataM pittalAnAM sevayA jAyamAnAH doShAH (51) · Śloka 51

तथा वायुवत् पित्तमपि खलित-पलित-श्मश्रु-हीनता-त्वङ्-नख-केश-पैङ्गल्यादीनि||५१||

🔊 Audio coming soon

खलितनिर्लोमशिरस्त्वम् | पलितं श्वेतलोमत्वम् | श्मश्रुहीनता निःश्मश्रुत्वम् | त्वगादीनां पैङ्गल्येन सम्बन्धः | आदिग्रहणेन पित्तविकाराणां सम्बन्धः || ५१ ||

Adhikarana garbhiNyAH sarvadA shleShmalAnAM sevayA jAyamAnA doShAH (52) · Śloka 52

श्लेष्मा तु कुष्ठकिलाससदन्तत्त्वादीनि| त्रिवर्गो मिश्रान् विकारान्||५२||

🔊 Audio coming soon

सदन्तत्वं गर्भ एव दन्तजन्म | आदिग्रहणेन श्लेष्मविकाराणां ग्रहणम् || ५२ ||

Adhikarana jAtyandhAdInAM samuptattau kAraNam (53) · Śloka 53

अपि च-- दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वम्| तदेव वातानुगतं विकृतरूक्षारुणाक्षम्| पित्तानुगतं पिङ्गाक्षम्| श्लेष्मानुगतं शुक्लाक्षम्| रक्तानुगतं रक्ताक्षम् इति||५३||

🔊 Audio coming soon

अपि चेति विकृतिप्रसङ्गसमुच्चये | गर्भस्य दृष्टिभागं यदि तेजो न प्रतिपद्यते दृष्टादृष्टात् कारणात्तदा जात्यन्धो जातये | तदेव तेजो वातानुगतं दृष्टिभागं प्रतिपन्नं विकृतरूक्षारुणाक्षं जनयति | पित्तादौ तेजोऽनुवर्तते | अन्यत् सुबोधम् || ५३ ||

Adhikarana garbhiNyAH garbhopaghAtakarebhyo rakShaNIyatvam (54) · Śloka 54

गर्भसमानयोगक्षेमा हि गर्भिणी भवति| तस्माद्विशेषतस्तां प्रियहिताभ्यां गर्भोपघातकरेभ्यो रक्षेत्||५४||

🔊 Audio coming soon

प्रस्तुतस्य गर्भस्य विकृतिर्यथा न भवति तथोच्यते | गर्भसमानयोगक्षेमा हि यतो गर्भिणी भवति ततस्तां प्रियहितैः करणभूतैर्वक्ष्यमाणेभ्यो गर्भविघातकरेभ्यो भावेभ्यो रक्षेत् || ५४ ||

Adhikarana garbhiNyA balakShayakAraNAni (55) · Śloka 55

यथा-यथा च गर्भो वृद्धिमाप्नोति तथा-तथा भाराहारानादानादाहाररसापहाराच्च स्त्रिया बलक्षयः||५५||

🔊 Audio coming soon

यथाक्रमं च गर्भिण्या गर्भभारेणाऽऽहारानादानात् गर्भेण चाहाररसापहाराद् बलक्षयो भवत्ययो बलं पालयेदिति तात्पर्य्यार्थः | अन्यत् सुबोधम् || ५५ ||

Adhikarana garbhopaghAtakarA bhAvAH (56) · Śloka 56

तत्रेमे गर्भोपघातकराः| तद्यथा-- व्यवायव्यायामकर्शनाभिघातातिमात्रसंक्षोभियानयानरात्रिजागरणदिवास्वप्नवेगविधारणाजीर्णातपाग्निक्रोधशोकभयोत्रासोप्रवासोत्कटकविषमकठिनासनश्वभ्रकूपपाताप्रियावलोकनश्रवणादयः| समासतः सर्वमतिगुरूष्णतीक्ष्णरूक्षमन्नपानं दारुणाश्च चेष्टाः||५६||

🔊 Audio coming soon

यानशब्देन वाहनाभिधेयेन सह संक्षोभिशब्दस्य समासं कृत्वा तेन सह क्रियावचनस्य यानशब्दस्य समासः | आसनशब्द उत्कटकादिभिः प्रपातशब्दः श्वभ्रकूपाभ्याम् | अप्रियशब्दोऽवलोकनश्रवणाभ्याम् | आदिशब्देन सर्वेषां मिथ्यायोगादीनां ग्रहणम् | समासतः संक्षेपेणोच्यते | अतिगुरुतीक्ष्णत्वादियुक्तमन्नपानं दारुणाश्च दुःखाश्चेष्टा गर्भोपघातकराः || ५६ ||

Adhikarana garbhiNIniyamAH tadvighAte~atyAhita~jca (57) · Śloka 57

तथा-- देवतारक्षोऽनुपचयपरिरक्षणार्थं न रक्तानि वासांसि धारयेन्न यानमधिरोहेन्न मद्यमासमश्नीयात्| यच्चान्यदपि वृद्धस्त्रियो ब्रूयुः| प्रततोत्तानशयिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्ट्य व्यापत्तिं करोति| विवृतशया नक्तचारिणी चोन्मत्तं जनयति| कलहशीलापस्मरिणम्| व्यवायशीलादुर्वपुषमह्नीकं स्त्रैणं वा| शोकनित्या भीरुमपचितमल्पायुषं वा| अभिध्ययिनी परोपतापिनमीर्ष्यालुं स्त्रैणं वा| स्तेना त्वायासबहुलमभिद्रोहिणमकर्मशीलं वा| अमर्षणा चण्डमौपधिकं वा| स्वप्नशीला निद्रालुमबुधमल्पाग्निं वा| मद्यनित्या तृष्णालुमल्पस्मृतिमनवस्थितं वा| गोधामांसनित्याश्मरिणं शनैर्मेहिनं वा| वराहमांसनित्या रक्ताक्षं क्रथनमतिपरुषरोमाणं वा| मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा| मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा| अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा| लवणनित्या शीघ्रवलीपलितं खलितकं वा| तिक्तनित्या शोषिणमबलमपचितं वा| कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा| कषायनित्या श्याममानाहिनमुदावर्तिनं वा| यच्च यस्य व्याधेर्निदानं तत्तदाऽऽसेवमानान्तर्वत्नी स्त्री तद्विकारबहुलमपत्यं जनयति| एतेन पितृजा अपि शुक्रदोषा व्याख्याताः||५७||

🔊 Audio coming soon

तथा गर्भोपघातरक्षणार्थञ्च देवताद्यनुपघाताय च लोहितवासोधारणादीन्न कुर्य्यात् | सुबोधम् | विवृतानना या शेते सा तथोक्ता | नक्तं या बहिः परिभ्रमति सा तथा | दुर्वपुषमलसप्रायम् | स्त्रैणं स्त्रीप्रियम् | भीरुं भयशीलम् | अपचितं स्वल्पभोगशरीरम् | अभिध्यायिनी नानाचिन्ताशीला | स्तेना चौर्य्यपरा | औपधिकः कपटजीवी | तृष्णालुः पिपासास्वभावः | अनवस्थितो व्याक्षिप्तचित्तः | क्रथनो यः सुप्तो नासया शब्दं करोति | रक्तपित्ती यस्य प्रायेण रक्तपित्तमुत्पद्यते | सुबोधम् | यद्विकारकारणानि गर्भिण्याऽऽसेवते सा तद्विकारमैवापत्यं प्रसूते | यावन्मातृदोषाद्गर्भविकृतिस्तावत् पितृदोषाच्छुक्रदोषाद्गर्भविकृतिः तावत् पितृदोषात् शुक्रदोषाद् गर्भविकृतिरित्यपि व्याख्यातं कारणसामान्यात् || ५७ ||

Adhikarana garbhiNIvikAre upakramavisheShaH (58) · Śloka 58

तस्मात् प्रजासम्पदमिच्छन्तौ साध्वात्मानमुपाचरेताम्| विशेषेण नारी| व्याधींश्चास्या मृदुमधुरशिशिरसुखैरौषधाहारविहारैरुपाचरेत्| न चास्या वमनादीनि प्रयोजयेत्| न रक्तावसेचनम्| केवलं त्वष्टममासमुपादायास्थापनमनुवासनं वा| वमनादिसाध्येषु पुनर्विकारेषु मृदुभिस्तदर्थकारिभिर्वोपक्रमेत् पूर्णमिव तैलपात्रमसंक्षोभयद्गर्भिणीमुपाचरेदिति||५८||

🔊 Audio coming soon

उपसंहरन्नाह-- तस्मादित्यादि | प्रजासम्पदमिच्छन्तौ मातापितरौ साधु कृत्वा आत्मानमुपाचरेताम् | नारी तु विशेषतः साध्वात्मानमुपाचरेत् | गर्भस्य हि तत्र यस्मात् सम्बन्धः | तस्माच्च नार्य्या गर्भिण्या मृदादिगुणैराहारादिभिर्व्याधीनुपाचरेत् | वमनादीनि कर्माण्यस्या व्याधिवशात् प्रसक्तान्यपि न प्रयोजयेत् | केवलमष्टममासप्रथमदिवसादारभ्याप्रसवाद्दोषाद्यपेक्षया आस्थापनमनुवासनं वा प्रयोजयेत् | वमनादिसाध्येषु गर्भिण्या विकारेषु कुष्ठादिषु मृदुभिर्वमनादिभिर्गर्भिणीमुपक्रमेत | वमनादीनि कर्मण्यस्या व्याधिवशात् प्रसक्तान्यपि न प्रयोजयेत् | केवलमष्टममासप्रथमदिवसादारभ्याप्रसवाद्दोषाद्यपेक्षया आस्थापनमनुवासनं वा प्रयोजयेत् | वमनादिसाध्येषु गर्भिण्या विकारेषु कुष्ठादिषु मृदुभिर्वमनादिभिर्गर्भिणीमुपक्रमेत | छर्द्यतीसारादिषु तदर्थकारिभिः | व्याधेः स्वरूपं कुर्वन् व्याध्युपशममर्थं यत् करोति तत् तदर्थकारि | यथा पर्णं तैलेन पात्रं चलनादिक्रियास्वसंक्षोभयंस्तदध्युपचारास्तद्वद्गर्भिणीमपि भिषग् व्याधिषूत्पन्नेषु असंक्षोभयन्नुपचरेदिति || ५८ || भवन्ति चात्रेति तन्त्ररीतिः |

Adhikarana garbhiNyAH Atyayike vikAre visheShavidhiH (59) · Śloka 59

भवन्ति चात्र-- इत्यनात्ययिके व्याधौ विधिरात्ययिके पुनः| तीक्ष्णैरपि क्रियायोगैः स्त्रियं यत्नेन पालयेत्||५९||

🔊 Audio coming soon

भवन्ति चात्रेति तन्त्ररीतिः | इत्यनन्तरोक्तविधिरनात्ययिके स्वल्पे व्याधावुक्तः | आत्ययिके पुनः शीघ्रं महादोषकारिणि व्याधौ तीक्ष्णैरपि नानाविधैर्यथायोगं क्रियायोगैः स्त्रियं यत्नेन पालयेत् | गर्भनिरपेक्षमेवेत्यर्थः || ५९ ||

Adhikarana garbhiNIM yatnena pAlayet (60) · Śloka 60

स्त्री हि मूलमपत्यानां स्त्री हि रक्षति रक्षिता| सर्वाश्रमाणां प्रथमं गृहस्थत्वमनिन्दितम्||६०||

🔊 Audio coming soon

यस्मादपत्यानां मूलकारणं स्त्री तस्मात् पालयेत् | अतश्च तां यत्नेन पालयेद्यतः सा रक्षिता सती पुंसो गृहस्थत्वं गृहित्वं रक्षति | किम्भूतमित्याह-- सर्वाश्रमाणामित्यादि | सर्वेषां ब्रह्मचर्य्यादीनामाश्रमाणां प्रथमं प्रधानम् || ६० ||

Adhikarana garbhasyArodane hetuH (61-62) · Śloka 62

जरायुणा मुखे छन्ने कण्ठे च कफवेष्टिते| वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति||६१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहव्याख्यायां शारीरस्थाने गर्भावक्रान्तिर्नाम द्वितीयोऽध्यायः||६२||

🔊 Audio coming soon

जरायुणा इत्यादिना प्रतिरूपयोगविप्रतिपन्नवादिनिग्रहमात्रया गर्भस्यारोदने कारणमुपसंहृत्याध्यायमाचार्य्यः कथयति | इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां शारीरस्थाने द्वितीयोऽध्यायः