Adhikarana athAto~agnikarmavidhirnAma catvAriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातोऽग्निकर्मविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
पूर्वोक्तो हेतुरौषधस्य|| १||
Adhikarana athAto~agnikarmavidhirnAma catvAriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातोऽग्निकर्मविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
पूर्वोक्तो हेतुरौषधस्य|| १||
Adhikarana agneH shreShThatamopacAratvam (2) · Śloka 2
अग्निः क्षारादपि गरीयानौषधशस्त्रक्षारैरसिद्धानां तद्दाहसिद्धेरपुनर्भवाच्च||२||
🔊 Audio coming soon
औषधेभ्यः क्षारो गुरुरित्युक्तस्ततोऽपि क्षारादग्निर्गरीयान्| कुत इत्याह-औषधेत्यादि|| २||
Adhikarana agnikarmaNi vyAdhiBedena dAhaviBedashca (3) · Śloka 3
तत्राग्निकर्म त्वचि मांसे सिरास्नायुसन्ध्यस्थिषु च प्रयुज्यते| तत्र मशतिलकालकचर्मकीलसरुक्स्तब्धप्रम्लानाङ्गाभिष्यन्दाधिमन्थशिरोभ्रूशङ्ख़ललाटरुजार्दितेषु सूर्यकान्तपिप्पल्यजाशकृद्गोदन्तशरशलाकाभिस्त्वग्दाहो यथास्वमभिष्यन्दादिषु तु भ्रूशङ्ख़ललाटदेशेषु| ग्रन्थ्यर्बुदार्शोभगन्दरगण्डमालाश्लीपदान्त्रवृद्धिदुष्टव्रणगतिनाड्यवगाढपूयालसकेषु जाम्बवौष्ठसूचीशलाकाग़ृतगुडमधुमधूच्छिष्टतैलवसाहेमताम्रायोरूप्यकांस्यैर्मांसदाहः| सिरास्नायुसन्ध्यस्थिच्छेदशोणितातिप्रवृत्तिदन्तनाडीश्लिष्टवर्त्मोपपक्ष्मलगणलिङ्गनाशासम्यग्व्यधेषु जाम्बवौष्ठसूचीशलाकामधुमधूच्छिष्टगुडस्नेहैः सिरादिदाहः||३||
🔊 Audio coming soon
तत्राग्निकर्म त्वगादिषु प्रयुज्यते| कस्मिन् रोग इत्याह-तत्रेत्यादि| मशादिरोगार्दितेषु सूर्यकान्तदिभिः करणैस्त्वग्दाहो विधेयः| सूर्यकान्तेन सूर्यतप्तेनाभिष्यन्दादिषु वक्ष्यमाणेषु रोगेषु यथास्वं कस्यचिच्छङ्ख़योः कस्यचिल्ललाट इति त्वग्दाहः| ग्रन्थ्यादिषु जाम्बवौष्ठादिभिर्मांसदाहः| सिरादिदाहो यथासम्भवम्| आदिग्रहणेन स्नायुसन्ध्यस्थ्नां ग्रहणम्|| ३||
Adhikarana adAhyAH apavAdashca (4) · Śloka 4
न तु दहेद्भिन्नकोष्ठमन्तशशोणितममुद्धृतशल्यमनेकव्रणपीडितमुष्णे च काले तथा क्षारानर्हञ्चात्ययिके तुव्याधौ कृतोष्णप्रतीकारस्य पिच्छिलमन्नमशितवतोऽग्निकर्म कुर्यात्||४||
🔊 Audio coming soon
भिन्नकोष्ठादींस्तथा क्षारं च ये प्रतिषिद्धत्वान्नार्हन्ति तानग्निना न दहेत्| उष्णप्रतीकारः पित्तचिकित्सा धारगृहादि|| ४||
Adhikarana dAhavidhirdAhAnantaravidhishca (5) · Śloka 5
अथ दाहार्हमातुरं कृतस्वस्त्ययनमुपहृतसर्वोपकरणं प्राक्शिरः संविष्टमाप्तावलम्बितं कृत्वा वैद्यो निर्धूमबृहत्स्थिरदीप्तख़दिरबदराद्यङ्गारैरयोग़टनप्रकारेण भस्त्रानिलाध्मातैर्व्यजनेन चोर्ध्वानिर्गच्छज्ज्वालतयापादितापाद्यमानभासुराग्निवर्णैर्जाम्बवौष्ठादिभिर्व्याधिप्रदेशवशाद्वलयार्धचन्द्रस्वस्तिकाष्टापदबिन्दुरेख़ाप्रतिसारणविकल्पेन मुहुर्मुहुर्हितोपहिताभिर्वाग्भिरद्भिश्चातुरमाश्वासयन् दहेदासम्यग्दाहलिङ्गोत्पत्तेः| उच्छूनसुषिरप्रलूनदन्तनाडीसजन्तुदुष्टव्रणेषु तु स्नेहमधूच्छिष्टमधुगुडैः पूरयित्वा दहेत्| सम्यग्दग्धे च मधुसर्पिषी दद्याच्छीतस्निग्धांश्च प्रदेहान्||५||
🔊 Audio coming soon
अथेत्यादि सुबोधम्| शस्त्रं ग़टयन् पचते यथाहि भस्त्रनिलेन ध्मानं तथात्रापि| अत्र तु निर्गच्छन्त्या ज्वालाया व्यजनवातेन प्रतिषेधः| केचित् प्रथमोपयोगिन आपादितभसुरवर्णाः| अन्ये आपाद्यमानजाम्बवोष्ठादयस्तथोक्ताः| कस्मिंश्चिद्व्याधिविशेषे देहप्रदेशविषयविशेषे वा वलयाकृतिः तथा कस्मिंश्चिदर्धचन्द्रप्रख़्योऽन्यत्र स्वस्तिकसमानोऽन्यत्राष्टापदानुकारोऽन्यत्र बिन्दुतुल्योऽन्यत्र रेख़ासदृशोऽन्यत्र प्रतिसारणरूपो दाहस्य विकल्पस्तेन दहेदिति सम्बध्यते| अष्टापदं चतुरङ्गपीठः| प्रतिसारणं चूर्णविकिरणम्| सुबोधम्|| ५||
Adhikarana tvagAdiShu samyagdagdhalakShaNAni (6) · Śloka 6
सम्यग्दग्धलिङ्गं पुनः सशब्दं दहनं दुर्गन्धित्वं त्वक्सङ्कोचश्च त्वग्दग्धे| कपोतवर्णत्वमल्पशोफरुजता शुष्कसङ्कुचितव्रणता च मांसदग्धे| कृष्णोन्नतव्रणत्वं स्थिते च रक्ते लसीकास्रुतिः सिरादग्धे| कृष्णारुणकर्कशस्थिरव्रणता स्नाय्वादिदग्धे च||६||
🔊 Audio coming soon
सशब्दादि सम्यग्दग्धस्य लक्षणं त्वग्दग्धे मांसदग्धे कपोतवर्णादि सम्यग्दग्धलक्षणम्| सिरादग्धे कृष्णोन्नतादि सम्यग्दग्धलक्षणम्| स्नाय्वातिदग्धे कृष्णारुणादि सम्यग्दग्धलक्षणम्||६||
Adhikarana durdugdhAtidagdhalakShaNa~jcikitsA ca (7) · Śloka 7
दुर्दग्धातिदग्धयोः प्रमाददग्धवल्लक्षणं चिकित्सितं च| दुर्दग्धे तथातिदग्धे च प्रमाददग्धसदृशलक्षणत्वम्| तत्समप्रतीकारत्वञ्च||७||
🔊 Audio coming soon
Adhikarana pramAdadagdhaBedAH lakShaNAni ca (8) · Śloka 8
प्रमाददग्धं पुनश्चतुर्विधं भवति| तुत्थं दुर्दुग्धं सम्यग्दग्धमतिदग्धञ्च| तत्र यद्विवर्णमूष्यतेऽतिमात्रं तत्तुत्थम्| यत्रोत्तिष्ठन्ति स्फोटास्तीव्रोषादाहरुजश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धम्| पक्वतालफलवर्णं समस्थितं पूर्वलक्षणयुक्तं च सम्यग्दग्धम्| अतिदग्धे तूग्ररुजता धूमायनं मांसावलम्बनं सिरादिव्यापदो गम्भीरव्रणता ज्वरदाहतृण्मूर्च्छाच्छर्दयः शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपद्रवाः कृच्छ्रेण रोहणं रूढे च विवर्णतेति| स्नेहदाहस्तु कष्टतरो भवति| स हि स्नेहस्य सूक्ष्ममार्गानुसारित्वाद्दूरमनुप्रविशतीति||८||
🔊 Audio coming soon
प्रमादेन प्रज्ञापराधेन दग्धं तच्च तुत्थादिभेदेन चतुर्विधम्| तुत्थं स्तोकदाहः| सुबोधमन्यत्| ऊष्यते दाहं प्राप्नोति| पूर्वलक्षणं सम्यग्योगे सशब्दवेदनादिकम्| शोणितातिप्रवृत्तिनिमित्ता व्याधयः शोषकम्पाङ्गावक्षेपादयः|| ८||
Adhikarana pramAdadagdhopacArAH (9) · Śloka 9
तुत्थस्याग्निप्रतपनं कार्यमुष्णं च भेषजम्| स्याने रक्ते हिमैर्नोष्मा निष्क्रामति यतो बहिः| वेदना वर्धते तेन रुधिरं च विदह्यते| उष्णं निष्क्रामयत् कुर्यादूष्माणं मन्दतां रुजः| शीतामुष्णां च दुर्दग्धे क्रियां कृत्वा ततः पुनः| ग़ृतालेपनसेकांस्तु शीतानेवावचारयेत्| सम्यग्दग्धे तवक्षीरीप्लक्षचन्दनगैरिकैः| सामृतैः सग़ृतैर्लेपः कल्कैर्वानूपमांसजैः| शान्तोष्मणि परं कुर्यात्पित्तविद्रधिसाधनम्| अतिदग्धे विशीर्णानि मासांन्युद्दृत्य शीतलाम्| क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः| तिन्दुकीत्वक्कषायैर्वा पिष्टैः साज्यैः प्रलेपयेत्| गुडूच्याश्छादयेत् पत्रैस्थवौपदकैर्व्रणम्| भेषजं चास्य कुर्वीत सर्वं पित्तं विसर्पवत्| स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत्||९||
🔊 Audio coming soon
तत्र तुत्थास्याग्निप्रतपनादिकं कार्यम्| यतः शीतेन स्त्यानं रक्तं देहोष्माणं रुणद्धि ततस्तेनोष्मणा वेदना वर्धते रुधिरं च दुष्यति| उष्णं पुनश्चिकित्सितं विलयनेनोष्माणं बहिर्निष्क्रामयद्ररुजो मन्दतां कुर्यात्| दुर्दग्धे आदौ शीतां क्रियां कुर्यात्| तत उष्णं ततश्च ग़ृतादीन् शीतानेवावचारयेत्| सुबोधमन्यत्| कण्डनं तण्डुलत्वक्चूर्णम्| तिन्दुकीत्वक्कषायं तिन्दुक्याः त्वक्चूर्णम्||९||
Adhikarana vaidyaH shastrakShArAgnyavacAre apramatto Bavet (10) · Śloka 10
शस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम्| अप्रमत्तो भिषक् तस्मात्तान् सम्यगवचारयेत्||१०||
🔊 Audio coming soon
उपसंहरति-भिषग्वैद्योऽप्रमत्तः सन् शस्त्रादीनवचारयेत्| यतस्ते मृत्योः परममायुधम्|| १०||
Adhikarana sUtrasthAnopasaMhAraH (11-40) · Śloka 40
इति तन्त्रस्य हृदयं सूत्रस्थानं समाप्यते| अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः||११|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने अग्निकर्मविधिर्नाम चत्वारिंशोऽध्यायः||४०||
🔊 Audio coming soon
इत्यनेनाध्यायेन संग्रहाख़्यस्य ग्रन्थस्य हृदयमिव हृदयं समाप्यते| अत्र सूत्रस्थाने सूक्ष्मा अर्थाः सूत्रिताः तन्त्रे सर्वतः प्रतन्यन्ते विस्तीर्यन्त इति| सुबोधमन्यत्|| ११| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने चत्वारिंशोऽध्यायः