Adhikarana atha kShArapAkavidhirnAmaikonacatvAriMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातः क्षारपाकविधिमध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
यथैव भेषजविषयमतिक्रान्ते व्याधौ शस्त्रस्योपयोगस्तथा क्षाराग्न्योरपि| अतस्तद्विज्ञानार्थमध्यायारम्भः|| १||
Adhikarana kShArasvarUpaM guNAH upayogashca (2) · Śloka 2
क्षारो हि नानौषधसमवायनिर्वृत्तेः सर्वरसाधिष्ठानं कटु कलवणरसभूयिष्ठस्तीक्ष्णोष्णो दहनः पाचनो विदारणो विलायनः शोधनो रोपणः कृम्याममेदोविषापहः सर्व शस्त्रानुशस्त्राणां च वरिष्ठश्छेदनभेदनपाटनलेख़नक रणाद्यतश्च सम्बाधावकाशजेषु दुःख़ावचारणीयशस्त्रेषु नासार्शोऽर्बुदादिषु शस्त्रेण चासिध्यत्सु दुष्टव्रणेषु बहुशः प्रकोपिषु प्रयुज्यते||२||
अत्र प्रथममेव क्षारो हीत्यादिना क्षारस्वरूपं कथयति| छेदनादिकरणात् सर्वशस्त्राणामनुशस्त्राणां च श्रेष्ठः| सम्बाधावकाशजाः सङ्कटप्रदेशजाः व्याधयो येषु न शस्त्रं क्रमते|| २||
Adhikarana kShAradvaividhyaM tayorviShayashca (3) · Śloka 3
स द्विधा-बाह्याभ्यन्तरपरिमार्जनभेदेन|
तत्रार्शोर्बु दभगन्दरग्रन्थिदुष्टव्रणनाडीचर्मकीलवर्त्ममुख़रोगकुष्ठ किलासतिलकालकादिषु बहिः परिमार्जनेन अन्तः परि मार्जनेन तु गुल्मगरोदराग्निसादमलसङ्गशूलानाहाश्म रीशर्करादिषु|
स यथास्वमेवोपदेक्ष्यते||३||
तत्राशोऽर्बुदादिषु बहिःपरिमार्जनं यदिहोच्यते| गुल्मादीनामन्तःपरिमार्जनं; तच्च स्वेषु स्वेषु प्रकारेषु वक्ष्यते||३||
Adhikarana kShArAnarhAH (4) · Śloka 4
न तूभयोऽपि योज्यो भीरुदुर्बलक्षामवातपित्तार्दितज्व रातिसारपाण्डुशिरोहृदयरोगमेहाक्षिपाकतिमिरारोचका तुरकृतवमनविरेकर्तुमतीगर्भिण्युद्वृत्तफलयोनिसर्वाङ्ग शूलविषमद्यपीतेषु|
मर्मसिरास्नायुसन्धितणास्थिसेवनी धमनीगलनाभिनख़ान्तरमुष्कशेफस्रोतस्स्वल्पमांसेषु च देशेष्वक्ष्णोश्चान्यत्र वर्त्मरोगात्|
तथाऽतिशीतोष्णवर्ष दुर्दिनप्रवातेषु च||४||
भीतादिषु नान्तः परिमार्जनं नापि बहिःपरिमार्जनम्| मर्मसिरादिषु तु सम्भवाद्बहिःपरिमार्जनस्यैव प्रतिषेधोऽन्यत्र वर्त्मरोगात्| तत्र त्वक्ष्णोरपि योज्यः| अतिशीतादिषु च कालेष्वल्पयोगादिभयान्न सेव्यः|| ४||
Adhikarana barhiHparimArjanakShAraBedAH (5) · Śloka 5
अथ बहिःपरिमार्जनस्त्रिविधो मध्यो मृदुस्तीक्ष्णश्च|५|
Adhikarana kShArapAkavidhiH (5) · Śloka 5
तस्य पाकविधिः शरदि शुचिरुपोषितः शुक्लवासाः प्रशस्तेऽहनि प्रशस्तदेशजातं मध्यमवयसमनुपतं महान्तं कालमुष्ककं सुरापललसुमनोऽक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यर्च्यैनमधिवासयेत्|
दैवतेभ्यो नमस्तेभ्यो निवसन्तीह ये श्रिताः|
गन्तुपर्हन्त्यसंक्रुद्धास्त्यक्त्वेमं वाससव्यम्|
भेषजार्थं ग्रहीष्यामि सर्वप्राणभृतामिमम्|
वृक्षं न लोभान्न क्रोधाद् ब्राह्माणार्थे विशेषतः|
अथातरेद्युस्तत्र यद्यद्भुतं वैकृतं वा किञ्चिन्न पश्येत्ततो युगमात्रमारुढे सवितरि ब्राह्मणान्वाचयित्वा तं पादपं पूर्वाग्रमुत्तराग्रं वा पातयेत्|
एवं च पारिभद्रपलाशशव कर्णराजवृक्षमहावृक्षवृक्षकेन्द्रवृक्षस्फोतसप्तच्छदनक्त मालतिल्वककदलीबिभीतकाश्वमारकपूतीकचित्र कार्ककाकजङ्ग़ापामार्गाग्निमन्थान्वसन्तोपसंगृहीतांश्च यवान् सशूकनालांश्चतस्रश्च कोशातकीः सर्वान् समूल फलपत्रशाकान् ख़ण्डशः कल्पयित्वा नातिशुष्कान् शिलातलस्थान् निवाते पृथङ् निचयीकृत्य मुष्कक निचये च सुधाशर्कराः प्रक्षिप्य तिलकुन्तलैरादीपयेत्|
दग्ध्वा च शान्तेऽग्नौ पृथक् सुधाशर्कराभस्म कृत्वे तरत्सर्वक्षारद्रोणमधिकमुष्ककं सलिलपलसहस्रेण गवा दिमूत्रपलसहस्रेण चालोड्य महता वस्त्रेण परिस्रा वयेत्|
यावदच्छो रक्तस्तीक्ष्णः पिच्छिलश्च जातस्तदा तं क्षारनिष्यन्दं गृहीत्वा भस्म विवर्जयेत्|
ततः स्नेहपाक विधिना पाचयेत्|
पच्यमाने च तस्मिंस्ताः सुधाभस्म शर्कराः क्षीरबकं शङ्गनाभिं चायसे पात्रेऽग्निवर्णान् कृत्वा तत्क्षाराच्छकुडवमात्रे निर्वाप्य तेनैव च सुश्लक्ष्णं पिष्ट्वा प्रतीवापं दद्यात्|
ततश्च सुतरां दर्व्यावग़ट्टयन् विप चेद्यावच्च सबाष्पैर्बुद्बुदैः समुत्तिष्ठेत् सान्द्रतया च दर्वी प्रलेपी स्यात्तदैनमवतार्यायोग़टे यवराशौ सुगुप्तं स्थाप येत्|
एष मध्यमः क्षारः||५||
अथेत्यादि| कालमुष्ककपूजामन्त्रविधानान्तं सुबोधम्| अथाधिवासाद् द्वितीये दिवसे अद्भुतादिभिर्विना नभसि युगमात्रं हस्तद्वयमात्रमारूढे भगवत्यंशुमालिनि कालमुष्ककपादपं पातयेत्| पातयित्वा च ख़ण्डशः छेदयित्वा च राशिं कुर्यात्| तथा पारिभद्रादींश्च समूलफलशाख़ादीन् ख़ण्डशः छेदयित्वा पृथक् शिलातलेषु राशीन् कुर्यात्| मुष्ककराशौ च सुधाख़ण्डाः प्रक्षेप्तव्याः| तस्तान् राशीन् पृथगेव तिलकुन्तलैर्दहेत्| दग्ध्वा च शान्तेऽग्नौ प्रतिराशि स्तोकं स्तोकं समं गृह्णीयात्| मुष्ककराशितोऽधिकं गृह्णीयात्| सुधाख़ण्डांस्तद्भस्म च पृथक्कुर्यात्| तं गृहीतं सर्वं क्षारमेकीकृत्य क्षारस्य प्रमाणं षट्पञ्चाशच्छतद्वयं कारयेत्| तच्च द्रोणं पानीयपलसहस्रेण गवादिमूत्राणां च पलसहस्रोणालोड्य वस्त्रेण परिस्रावयेत्| यावदच्छतालौहित्याद्युत्पत्तिः| ततस्तत्परिस्रुतशेषं भस्म त्याज्यम्| निष्यन्दाच्च पृथक्कुडवः कार्यः पच्यमाने तस्मिंस्ताः पृथक्कृता भस्ममय्यः सुधाशर्कराः क्षीरबकादि च लौहे भाण्डे अग्निवर्णान् कृत्वा तस्मिन्निष्यन्दकुडवे निर्वापयेत्| निर्वापशीर्णशेषांश्च तेनैव पिष्ट्वा निक्षिपेत् कटाहे| इति मध्यमः क्षारः|| ५||
Adhikarana mRudutIkShNayorvisheShaH (6) · Śloka 6
मूर्दौ शर्करादीन्निर्वाप्यापनयेन्न तु पिष्ट्वा क्षिपेत्|
तीक्ष्णे तु दन्तीचित्रकलाङ्गलिकापूतीकप्रवालतालपत्रीबिड स्वर्जिकाकनकक्षोरीहिङ्गुवचातिविषाः श्लक्ष्णचूर्णीकृता दग्धाश्च शङ्ख़शुक्तीः पूर्ववत् प्रतिवापं दद्यात्|
तांश्च व्याधिबलतः सप्तरात्रादूर्ध्वं प्रयुञ्जीत|
क्षीणबले तु बलाधानार्थं पुनः क्षारजलमावपेत्||६||
मृदौ तु सुधाशर्करादीन्निर्वपयेदेव| न तु पिष्ट्वा क्षिपेदन्यत एव त्यजेत्| तीक्ष्णस्य तु मध्यमक्षारविधाने सति दन्तीचित्रकाद्यधिकं प्रतिवापनम्| सर्वत्र क्षीयमाणे जले तज्जातीयमन्यत् क्षारजलमावपेत्|| ६||
Adhikarana kShAraguNadoShAH (7) · Śloka 7
तत्र नातितीक्ष्णो नातिमृदुः श्वेतः श्लक्ष्णः शीग़्रः पिच्छिलः शिख़री सुख़निर्वाप्योऽल्परुगनिभिष्यन्दी चेति दश क्षारस्य गुणाः|
दशैव च दोषाः|
तद्यथा-अत्यु ष्णोऽतिशीतोऽतितीक्ष्णोऽतिमृदुरतितनुरतिग़नोऽतिपि च्छिलो विसर्पी हीनौषधो हीनपाकश्चेति||७||
सुबोधम्| शिख़री ग़नत्वेन शिख़राकारः पतितो भवति| सुख़ेन निर्वाप्यते मृज्यत इति तथोक्तम्|| ७||
Adhikarana kShArapAtanasyopakalpanIyam (8) · Śloka 8
तत्र क्षारकर्मण्युपहरेत् पिचुवर्तिशलाकादर्व्यञ्जलिका ग़ृतमधुशुक्ततुषोदकमस्तुक्षीरोदकशीतप्रदेहशयनासना दीनि|८|
Adhikarana kShArapAlanavidhiH kShArapAlanavidhiH (8) · Śloka 8
अथ क्षारार्हस्योपविष्टस्य संविष्टस्य वाप्तपरिचारक गृहीतस्य व्याधिं छित्वाऽवलिख़्य प्रच्छाय वा पिचुप्लो तान्यतरावगुण्ठितया शलाकया क्षारं पातयेत्|
ततो मात्राशतमुपेक्षेत|
वर्त्मरोगे तु निर्भुज्य वर्त्मनी पिचुना मधूच्छिष्टेन वा कृष्णभागं प्रच्छाद्य पद्मपत्रतनुः क्षार लेपः|
ग़्राणजेशु त्वर्शोऽर्बुदेष्वादित्याभिमुख़स्योन्नमय्य नासिकामुपेक्ष्याश्च पञ्चाशन्मात्राः|
तद्वच्छ्रोत्रजेषु|
गुदा र्शस्सु पाणिना यन्त्रद्वारं पिधाय धारयेन्मात्राशतमेव|
ततः प्रमार्जनेन प्रमृज्य क्षारं सम्यग्दग्धमवेक्ष्य निर्वापयेत् सर्पिर्मधुभ्यां शुक्ततुषोदकमुस्तुक्षीरादिभिश्च|
ततः परं शीतमधुरैः सग़ृतैः प्रदिह्यात्|
अभिष्यन्दीनि भोज्यानि क्लेदनाय च|
स्थिरमूलत्वात्तु यदि क्षारदग्धं न विशीर्यते ततो धान्याम्लबीजमधुयष्टिकायुक्तैस्तिलैरालेपयेत्सुव र्णक्षीरीयुतैर्वा त्रिवृद्विडङ्गसारवद्भिर्वा|८|
Adhikarana vraNaprakShAlanaropaNadravyANi (8) · Śloka 8
मालतीवृषाङ्कोलनिम्बास्फोतपटोलीकरवीरपत्रक्वाथेन व्रणप्रक्षालनम्|
एषामेव च कल्कक्वाथे सिद्धं सर्पिस्तैलं वा रोपणम्|
नागपुष्पमञ्जिष्ठाचन्दनतिलपर्णिकासु वा|
यथाव्याधिदोषं च व्रणमुपक्रमेत्|
तिलाः सयष्टिमधुका रोपणे चास्य पूजिताः||८||
तत्र क्षारकर्मणि प्रकृते पिचुवर्त्यादीन्युपहरेन्निकटीकुर्यात्| व्याधेर्यथायोग्यं छेद्याद्यन्यतमं कृत्वा निर्भुज्य परिवृत्य| सुबोधमन्यत्| एको भोज्यशब्द आहारपर्यायः| द्वितीयः क्रियाविनियोगवचनः| धान्याम्लबीजं काञ्जिकस्याधो घनो भागः| एषामेव कल्कक्वाथे यथायोग्यं तैलं घृतं वा| नागपुष्पादिषु कल्क एव तैलं घृतं वा| क्षारव्रणं तु व्याध्यानुगुण्येन चोपक्रमेत||८||
Adhikarana samyagdagdhalakShaNam (9) · Śloka 9
तत्र पक्वजाम्बवसङ्काशमवसन्नमीषद्यथास्वविकारोप शान्तौ च सम्यग्दग्धं भवति||९||
पक्वजाम्बवेत्यादि क्षारसम्यग्योगलक्षणम्|| ९||
Adhikarana durdagdhalakShaNaM tatropacArashca (10) · Śloka 10
तद्विपर्ययेण तोदकण्डूजाड्यादिभिश्च दुर्दग्धम्|
तत्र पुनः पातयेत्|१०|
Adhikarana atidagdhalakShaNaM tatropacArAshca (10) · Śloka 10
ऊषादाहरागशोफज्वरपाकविसर्पशिरोरोगवातपित्तको पैरतिदग्धम्|
अपि च नेत्रेऽतियोगाद्वर्त्मनिर्भेदेनेन्द्रियभ्रंशः|
ग़्राणे नासावंशतरुणास्थिदरणं सङ्कोचो गन्धाज्ञानं च तद्वच्छ्रोत्रादिष्वपि च यथास्वं व्यापत्|
गुदे विण्मूत्र रोधोऽतीसारः पुंस्त्वोपग़ातो गुदविदरणाच्च मृत्युर्वा सर्वदा वा शोफतोदवेदनास्रावाः शकृन्मूत्रवातविधार णशक्तिर्वा|
तमतिप्रवृत्तमाशु पूर्वोक्तैरेव निर्वापणैः पुनः पुनर्निर्वापयेत्|
अतश्च दाह्यमतिप्रमाणं न सकृदेव दहेदिति||१०||
वैपरीत्येन तोदादिभिश्च हीनयोगः| तत्र पुनः पातयेत् क्षारमित्यर्थात्| ऊषाद्यतियोगलक्षणम्| तं क्षारमतिप्रवृत्तमतियोगादाधिक्येन स्थितम्| पूर्वोक्तैरिति क्षारसम्बन्ध्यतियोगविभ्रमज्वरादिभिः शरीरं दहति| अतो वक्ष्यमाणं पाययेदिति सम्बन्धः|| १०||
Adhikarana kShAranirvApaNaM sahetukam (11) · Śloka 11
भवति चात्र अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः|
यात्याशु स्वादुतां तस्मादम्लैनिर्वापयेत्तराम्||११||
अम्लो हि शीत इत्यादि सुबोधम्|| ११|
Adhikarana kShArAtiyogalakShaNaM visheShopacArAH (12-39) · Śloka 39
ज्वरातिसारतृण्मोहमूर्छाहृद्वेदनार्तिभिः|
कक्षं दहत्यग्निरिव शरीरं क्षारविभ्रमः|
पाययेतातियोगेऽतस्तं शीग़्रं सग़ृतं दधि|
सगुडं वा दधिसरं तैलं वा ससितोपलम्|
धात्रीफलकपित्थाम्लदाडिमस्वरसे ग़ृतम्|
द्विगुणे साधितं पानसेकैः क्षारातिरुग्धरम्|
दाडिमामलकाम्रातकपित्थकरमर्दकान्|
आम्राच्च मातुलुङ्गाच्च रसं मृद्विग्निना पचेत्|
ततोऽतिवृत्तक्षाराय दद्यान्मात्रां यथाबलम्|
क्षारो निवर्तते तेन प्रसादं त्वक् च गच्छति|
शोणितातिप्रवृत्तौ तु बाह्यान्तः शिशिरो विधिः||१२||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने क्षार विधिर्नामैकोनचत्वारिंशोऽध्यायः||३९||
घृताद् द्विगुणो मिश्रीभूत आमलकादिरसः| अतिवृत्तक्षाराय क्षारातियोगयुक्ताय दाडिमादिरसान् पक्वान् बलापेक्षया पाने मात्रां दद्यात्| किमर्थमित्याह-क्षार इत्यादि| क्षारातियोगे व्रणाद्रक्तस्यातिप्रवृत्तौ बहिश्चान्तश्च शीतो विधिः कार्य इति|| १२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने एकोनचत्वारिंशोऽध्यायः