Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. rasabhēdīyaḥ

Adhikarana atha rasabhedIyo nAmA~aShTAdasho~adhyAyaHpratij~jA (1) · Śloka 1

अथातो रसभेदीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

पूर्वस्मिन्नध्याये द्रव्यवीर्यविपाकप्रभावा निर्णीताः| रसस्तु बहुवक्तव्यत्वात् पुनरत्रोच्यते|| १||

Adhikarana ApyasyAvyaktasya ca rasasya ShoDhA vipariNAmaH (2) · Śloka 2

रसः खल्वाप्यः प्रागव्यक्तश्च| स षडृतुकत्वात् कालस्य महाभूतगुणैरूनातिरिक्तैः संसृष्टो विषमं विदग्धः षोढा पृथग्विपरिणमते मधुरादिभेदेन||२||

🔊 Audio coming soon

रसः खल्वाप्यः योऽयं जिह्वेन्द्रियग्राह्यः, सोऽबाख्यान् महाभूतात् सम्पद्यते| स च रसः प्राक् प्रथममनासादितान्यमहाभूतानुरागोऽव्यक्त एव स्वरूपेण| ततो महाभूतानां पृथिव्यादीनां गुणैः पार्थिवादिभिः पञ्चभिः कैश्चिदधिकैः संस्पृष्टस्तैश्च गुणैर्विषममूनाधिक्यादिनियमेन विदग्धः परिणत्या गृहीतमहाभूतगुणानुराग एक एव रसः पृथड्मधुराम्लादिभेदेन षड्भिर्विकारैर्विपरिणमते|| २||

Adhikarana raseShu mahAbhUtabAhulyam (3) · Śloka 3

तत्र भूजलयोर्बाहुल्यान्मधुरो रसः| भूतेजसोरम्लः जलतेजसोर्लवणः| वाय्वाकाशयोस्तिक्तः| वायुतेजसोः कटुकः| वायूर्व्योः कषायः||३||

🔊 Audio coming soon

कथं महाभूतानामूनाधिक्यमुच्यते| कालस्य संवत्सराख्यस्य षडृतुकत्वाद्रसस्यापि षड्भेदत्वं तथा च शिशिरे वाव्याकाशयोराधिक्याद्रसस्य तिक्तता| वसन्ते वायुपृथिव्योः कषायता| ग्रीष्मेऽग्निवाय्वोः कटुकता| वर्षास्वग्निपृथिव्योरम्लता| शरद्यग्न्युदकयोर्लवणता| हेमन्ते पृथिव्युदकयोर्मधुरतेति| प्रधान्याद् व्यपदेशः तेनान्यर्तूद्भवानामपि रसानां यथोक्तमहाभूतद्वयाधिक्यमेव कारणं विज्ञेयम्|| ३||

Adhikarana madhurAdirasAnAM lakShaNam (4) · Śloka 4

तेषां स्वादुरास्वाद्यमानो मुखमुपलिम्पतीन्द्रियाणि प्रसादयति| देहं प्रह्लादयति| षट्पदपिलीलिकादीनामपीष्टतमः| अम्लस्तु जिह्वामुद्वेजयत्युरः कण्ठं विदहति| मुखं स्रावयत्यक्षिभ्रुवं सङ्कोचयति दशनान् हर्षयति रोमाणि च| लवणो मुखं विष्यन्दयति कण्ठकपोलं विदहति अन्नं प्ररोचयति| तिक्तो विशदयति वदनं विशोधयति कण्ठं प्रतिहन्ति रसानाम्| कटुको भृशमुद्वेजयति जिह्वाग्रं चिमिचिमायति कण्ठकपोलं स्रावयति मुखाक्षिनासिकं विदहति देहम्| कषायस्तु जडयति जिह्वां बध्नाति कण्ठं पीडयति हृदयम्||४||

🔊 Audio coming soon

ननु केन रूपेण रसविशेषो विज्ञायते? अत आह-तेषामित्यादि| तेषां रसानां मध्ये यो रसो मुखलेपादिकरः स स्वादुरिति विज्ञेयः| आस्वाद्यमानो जिह्वया संयोगं नीयमानः| आस्वाद्यमान इतिसर्वरसानां योज्यः| प्रह्लादनः आश्वासकरः| अम्लरसो जिह्वोद्वेजनादिस्वरूपः उरसि कण्ठे च विदाहं करोति| लवणो मुखमन्तर्विष्यन्दयति स्रावयति कण्ठे कपोलयोश्च विदाहं करोति अन्ने च रुचिमुत्पादयति| तिक्तो मुखवैशद्यादिकरणस्वरूपः| वैशद्यं पैच्छिल्यनाशः| कण्ठं चोपलेपनाशनेन शोधयति रसनमिन्द्रियं प्रतिहन्ति अन्यरसग्रहणशक्तिं नाशयति इत्यर्थः| कटुक आस्वाद्यमानो भृशमत्यर्थमुद्वेजयति जिह्वाग्रं| उद्वेगं करोतीत्यर्थः| कण्ठे कपोलयोश्च तैक्ष्ण्याच्चिमिचिमायनमग्नि ज्वालासंस्पर्शादिव करोति मुखादिकं विस्रावयति सकले च शरीरे विदाहं करोति| कषायो जिह्वां जडयति रसनादिक्रियासु मन्दीकरोति| कण्ठबन्धं श्वासादीनामयथाप्रवृत्तिमिव करोति||४||

Adhikarana madhurarasya karmANyatisevane doShAshca (5) · Śloka 5

तत्र मधुरो रसो जन्मप्रबृति सात्म्यात्सर्वधातुविवर्धन आयुष्यो बालवृद्धक्षतक्षीणबलवर्णेन्द्रियत्वक्केशकण्ठहितः प्रीणनो बृंहणो जीवनस्तर्पणः स्थैर्यसन्धानस्तन्यकरोवातपित्तविषदाहमूर्च्छातृष्णा प्रशमनः स्निग्धः शीतो मृदुर्गुरुश्च| एवङ्गुणोऽपि स सदात्युपयुज्यमानः स्थौल्याग्निसादगुरुतालसकातिनिद्राः| श्वासप्रमेहगलरोगविसंज्ञतास्य माधुर्यलोचनगलार्बुदगण्डमालाः| छर्द्युदर्दमूर्धरुक्कासपीनसक्रिमीन्| श्लीपदज्वरोदरष्ठीवनानि चावहेत्||५||

🔊 Audio coming soon

इति रसानां स्वरूपमुक्त्वा तत्र मधुरेत्यादिना कर्म निर्दिशति| तत्र तेषु रसेषु मध्ये मधुर उपयुक्तो धातूनां रसादीनां सप्तानां वृद्धिकरः| कुतः आजन्मसात्म्यात् जन्मनः प्रभृति देहस्य सत्म्यादित्यर्थः| बालभाव एव क्षीरादिना मधुरेण देहवृत्तिः पुरुषस्य| हित इति बालादिभिः सम्बध्यते| प्रीणनस्तुष्टिकरः| जीवन ओजस्यः| एवङ्गुणोऽपि मधुरो रसः सदैवात्युपयुज्यमानः स्थौल्यादीन् रोगान् कुरुते| यदा त्वतिमात्रत्वेन रहितः सदोपयुज्यते तदा सुखकर एव| स्थौल्यादयो रोगाः केचिद्वक्ष्यमाणलक्षणाः| अर्बुदशब्दस्य लोचनगलाभ्यां सम्बन्धः||५||

Adhikarana amlarasakarmANyatisevane doShAshca (6) · Śloka 6

अम्लोऽनिलबर्हणोऽनुलोमनः कोष्ठविदाही रक्तपित्तकृदुष्णवीर्यः शीतस्पर्शो बोधयतीन्द्रियाणि रोचनः पाचनो दीपनो बृंहणस्तर्पणः प्रीणनः क्लेदनो व्यवायी लघुः स्निग्धो हृद्यश्च| जनयति शिथिलत्वं सेवितः सोऽतिदेहे कफविलयनकण्डूपाण्डुतारक्तदृग्विघातान्| क्षतविहितविसर्पं रक्तपित्तं पिपासां श्वयथुमपि कृशानां तैजसत्वात् भ्रमञ्च||६||

🔊 Audio coming soon

अम्लोऽनिलनिबर्हणत्वादियुक्तः स चातिसेवितो देहे शैथिल्यादीन् जनयति||६||

Adhikarana lavaNarasakarmANyatisevane doShAshca (7) · Śloka 7

लवणः स्तम्भबन्धसङ्घातविध्मापनः सर्वरसप्रत्यनीको दीपनो रोचनः पाचनः क्लेदनः शोषणः स्नेहनः स्वेदनः भेदनश्छेदनः सरो व्यवायी विकाषी हरति पवनं विष्यन्दयति कफं विशोधयति स्रोतांसि नातिगुरुः स्निग्धतीक्षोष्णश्च| खलतिपलिततृष्णातापमूर्च्छाविसर्प- श्वयथुकिटिभकोठाक्षेपरोधास्रपित्तम्| क्षतविषमदवृद्धिं वातरक्तं करोति क्षपयति बलमोजः सोऽति वा सेवनेन||७||

🔊 Audio coming soon

लवणरसः स्तम्भादीनां विध्मापनो विनाशकरः| स्तम्भोऽङ्गदोषादेः बन्धः तस्यैव मार्गरोधः सङ्घातो भावानां निबिडत्वम्| प्रतिपक्षो विघातित्वात्| विष्यन्दयति स्रावयति| नातिगुरुर्नातिस्निग्धश्च| सोऽतिसेवितः खलत्यादीन् करोति बलादींश्च क्षपयति||७||

Adhikarana tiktarasakarmANyatisevane doShAshca (8) · Śloka 8

तिक्तः स्वयमरोचिष्णुररुचिविषकृमिमूर्च्छोत्क्लेदज्वरदाहतृट्कुष्ठकण्डूहरः क्लेदमेदोवसामज्जविण्मूत्रपित्तश्लेष्मोपशोषणो दीपनः पाचनो लेखनः स्तन्यकण्ठविशोधनो मेध्यो नातिरूक्षः शीतो लघुश्च| धातुबलक्षयमूर्च्छाग्लानिभ्रमवातरोगपरुषत्वम्| खरविशदरौक्ष्यभावैः सोऽतिसमासेवितः कुर्यात्||८||

🔊 Audio coming soon

तिक्तो रसः स्वयं पुरुषस्यारोचनशीलः| अरुचिं चाहारद्रव्यविषयान् नाशयति| विषादींश्च| देहे च क्लेदादीनामुपशोषणः| सोऽतिसेवितो धातुक्षयादीन् करोति खरत्वाद्वैशद्याद्रौक्ष्याच्च|

Adhikarana kaTurasakarmANyatisevane doShAshca (9) · Śloka 9

कटुकोऽलसकश्वयथूदर्दस्थौल्याभिष्यन्दकृमिवक्त्ररोगविषकुष्ठ कण्डूप्रसाधनो व्रणावसादनः स्नेहक्लेदशोषणो रोचनः पाचनो दीपनो लेखनः शोधनः शोषयत्यन्नं स्फुटयतीन्द्रियाणि भिनत्ति शोणितसङ्घातं छिनत्ति बन्धान् विवृणोति स्रोतांसि क्षपयति श्लेष्माणं लघुरूक्षतीक्षोष्णश्च| कुरुतेऽतिनिषेवितः स तृष्णां मदमूर्च्छावमिमोहदेहसादान्| बलशुक्रगलोप शोषकम्पभ्रमतापग्लपनातिकर्शनानि| करचरणपार्श्वपृष्ठप्रभृतिष्वनिलस्य कोपमतितीव्रम्| सङ्कोचतोदभेदैः वाय्वग्निगुणाधिकत्वेन||९||

🔊 Audio coming soon

कटुकोऽलसकश्वयथूदर्दस्थौल्याभिष्यन्दकृमिवक्त्ररोगविषकुष्ठ कण्डूप्रसाधनो व्रणावसादनः स्नेहक्लेदशोषणो रोचनः पाचनो दीपनो लेखनः शोधनः शोषयत्यन्नं स्फुटयतीन्द्रियाणि भिनत्ति शोणितसङ्घातं छिनत्ति बन्धान् विवृणोति स्रोतांसि क्षपयति श्लेष्माणं लघुरूक्षतीक्षोष्णश्च| कुरुतेऽतिनिषेवितः स तृष्णां मदमूर्च्छावमिमोहदेहसादान्| बलशुक्रगलोप शोषकम्पभ्रमतापग्लपनातिकर्शनानि|| करचरणपार्श्वपृष्ठप्रभृतिष्वनिलस्य कोपम् करोति| किम्भूतं सङ्कोचादिभिस्तीव्रं दुस्सहमेतच्च तृष्णादिकं वाय्वग्निगुणाधिक्येन हेतुना करोति| हेतुकीर्तनं देशादिवशाद्धेतोरूनाधिक्येन तत्कार्यस्यापि तथाभावसूचनायान्यत्र च तद्धेतुसद्भावे तथैवेति प्रदर्शनाय च||९||

Adhikarana kaShAyarasakarmANyatisevane doShAshca (10) · Śloka 10

कषायो बलासं सपित्तं सरक्तं निहन्त्याशु बध्नाति वर्चोतिरूक्षः| गुरुस्त्वक्सवर्णत्वकृत् क्लेदशोषी हिमः प्रीणनो रोपणो लेखनश्च| अत्यभ्यासात्मोऽपि शुक्रोपरोधं तृष्णाध्मानस्तम्भविष्टम्भकार्श्यम्| स्रोतोबन्धं वातविण्मूत्रसङ्गं पक्षाघाताक्षेपकादींश्च कुर्यात्||१०||

🔊 Audio coming soon

कषायः बलासं श्लेष्माणं सपित्तं सरक्तं चाशु निहन्ति| वर्चः पुरीषं बध्नाति रुणद्धि| सोऽप्यत्यभ्यासात् शुक्रोपघातादीन् कुर्यात्||१०||

Adhikarana madhuradravyaskandhaH (11) · Śloka 11

अथ मधुरस्कन्धो घृतमधुतैलक्षीरमेदोमज्जेक्षुविकृतिद्राक्षाक्षोड खर्जूरमोचचोचपनससिञ्चतिकाप्रियालराजादनखर्जूरीतालमस्तक काश्मर्यमधूकपरूषकतामलकीवीरविदारीशतावरीतुगाक्षीरी जीवकर्षभक्षीरशुक्लामधूलिकात्मगुप्ताबलातिबलाविश्वदेवासहदेवा सालिपर्णीमुद्गपर्णीपृश्निपर्णीमाषपर्णीमहासहाक्षुद्रसहाऋद्धि वृद्धिश्रावणीच्छत्रातिच्छत्रर्श्यप्रोक्ताश्वगन्धाश्वदंष्ट्रामृणालिका पुष्करबीजशृङ्गाटककशेरुकतककनकबिम्बीप्रपौण्डरीकप्रभृतीनि जीवनीयो गणस्तृणपञ्चमूलञ्च||११||

🔊 Audio coming soon

अथानन्तरमेतेषां रसानामाश्रयद्रव्यस्कन्धा द्रव्यसमूहा उच्यन्ते| तत्र घृतादितृणपञ्चमूलान्तो मधुरस्कन्धः| प्रभृतिशब्देनापठितानि मधुरदाडिमादीनि गृह्यन्ते||११||

Adhikarana amladravyaskandhaH (12) · Śloka 12

अम्लद्रव्यस्कन्धो दाडिमामलकाम्राम्रातकशीशाम्रमातुलुङ्गवृक्षाम्लाम्लीकाम्लवेतस कुवललकुचपारावतभव्यकरमर्दधवधन्वनकोलबदरैरावतकपित्थ दन्तशठप्राचीनामलकनारङ्गतिलकण्टकरूप्यदधिमस्तुतक्रधान्याम्ल मद्यशुक्तप्रभृतीनि||१२||

🔊 Audio coming soon

दाडिमादिशुक्तान्तोऽम्लद्रव्यस्कन्धः||१२||

Adhikarana lavaNadravyaskandhaH (13) · Śloka 13

लवणद्रव्यस्कन्धः सैन्धवादीनि क्षारान्तानि त्रपुसीसप्रभृतीनि च||१३||

🔊 Audio coming soon

सैन्धवादीनि सीसकान्तान्यन्यानि चैवंरसानि लवणस्कन्धः|

Adhikarana tiktadravyaskandhaH (14) · Śloka 14

तिक्तद्रव्यस्कन्धोऽगरुतगरोशीरवालकचन्दननलदकृतमालनक्तमाला पामार्गहरिद्राद्वयमुस्तमूर्वामदनफलाजशृङ्गीत्रायमाणाकटुका किराततिक्तककरवीरविशालासुषव्यतिविषायवासकज्योतिष्मतीपाठा विकङ्कतार्ककाकमाचीवचावरणवत्सकवैजयन्तीवेतससप्तपर्णसोमवल्क सुमनःकांस्यलोहप्रभृतीनि पटोलादिश्च शाकवर्गः||१४||

🔊 Audio coming soon

अवर्गादीनि लोहान्तान्यन्यानि चैवंविधरसानि पटोलसप्तलेत्यादिना ग्रन्थेन पटोलादिकटुकान्तश्च शाकवर्गस्तिक्तस्कन्धः|

Adhikarana kaTukadravyaskandhaH (15) · Śloka 15

कटुकद्रव्यस्कन्धो मरिचहिङ्गुतेजोवतीहस्तिपिप्पलीविडङ्गभल्लातकास्थिमूलकसर्षपलशुन पलाण्डुकरञ्जमनःशिलालदेवदारुकुष्ठैलासुरसचोरकहरेणुकामूत्र पित्तप्रभृतीनि कुठेरादिश्च हरितवर्गः पञ्चकोलञ्च||१५||

🔊 Audio coming soon

मरीचादीनि हरेणुकान्तान्यन्यानि चैवंरसानि मूत्राणि गवादीनां पूर्वनिर्दिष्टानि सर्वं च प्राणिनोऽन्तर्भवमवयवरूपं पित्तं कुठेरादिश्च पूर्वोक्तो हरितवर्गः पञ्चकोलं चेति कटुकस्कन्धः||१५||

Adhikarana kaShAyadravyaskandhaH (16) · Śloka 16

कषायद्रव्यस्कन्धो हरीतकीप्रियङ्ग्वनन्ताक्षौद्रलोध्रकट्फलधवधन्वनधात्रीफलधातुकीपुष्पपद्मापद्मकपद्मपुष्पनागकेसरकुमुदोत्पलतङ्गतिन्दुककदम्बोदुम्बरजम्ब्वाम्रप्लक्षवटबिभीतकविकङ्कतजम्ब्वाम्रास्थ्यामकपित्थाश्वत्थमोचरससमङ्गासोमवल्कसप्तपर्णस्यन्दनासनसल्लकीसालतालप्रियालैलावास्तुकपरिपेलवजिङ्गिणीबदरीखदिरकदरारिमेदकाशकशेरुकवंशाश्मन्तकाशोकशिरीषशिंशपापलाशशमशिणशङ्खनाभिमेषशृङ्गीतरुणखर्ज्जूरस्फूर्ज्जकभूर्ज्जार्जुनाजकर्णवरणप्रियालमुक्ताञ्जनगैरिकबिसमृणालप्रभृतीनि||१६||

🔊 Audio coming soon

हरीतक्यादीनि मृणालान्तान्यन्यानि चैवं रसानि कषायस्कन्धः|

Adhikarana madhurAdirasAnAM shleShmalatvAdi tatrApavAdashca (17) · Śloka 17

तत्र प्रायो मधुरं श्लेष्मलमन्यत्र पुराणशालियवगोधूममुद्गमधुशर्कराजाङ्गलमांसात्| प्रायोऽम्लं पित्तलमन्यत्र दाडिमामलकात् प्रायो लवणमवृष्यं चान्यत्रामृतापटोलीनागरपिप्पलीलशुनात्| प्रायः कषायं शीतं स्तम्भनं चान्यत्र हरीतक्या||१७||

🔊 Audio coming soon

तत्र सर्वेषां मधुरादीनां सामान्येन श्लेष्मलादित्वमुक्तं यत्र चैतत् व्यभिचरति तद्दर्शयति| पुराणशाल्यादि वर्जयित्वा सर्वं मधुरं प्रायः श्लेष्मकरम्| मधुरदाडिमादि मधुरमपि न श्लेष्मकरमिति प्रदर्शनार्थं प्रायोग्रहणम्| एवं सर्वेषु प्रायोग्रहणेषूह्यम्| अन्यत् सुबोधम्| अमृतापटोल्यौ तिक्तानां नागरपिप्पलीलशुनं कटुकानाम्|| १७||

Adhikarana rasadravyasaMgrahopasaMhAraH (18) · Śloka 1

इति यथास्थूलं नित्योपयोगिनां प्रधानतमानाञ्चोपसंग्रहः||१||

🔊 Audio coming soon

इत्येवंविधैः स्कन्धैर्बाहुल्यानतिक्रमेण नित्योपयोगिनां प्रधानतमानां च द्रव्याणां सङ्ग्रहः कृतः||१८||

Adhikarana madhurAdiskandheShu shreShThadravyanirdeshaH (19) · Śloka 19

घृतामलकसिन्धूत्थपटोलीनागराभयाः| श्रेष्ठा यथास्वं स्कन्धेषु.............||१९||

🔊 Audio coming soon

तत्र षट्सु मधुरादिषु स्कन्धेषु मध्ये घृतादिकं यथाक्रमं श्रेष्ठम्||१९||

Adhikarana AnUpadeshalakShaNaM tasya madhurarasayonitva~jca (20) · Śloka 20

.......................रसदेशस्तु वक्ष्यते| अथ यः शिशिरपवनधरणीधरविविधवनगहननदीतटाकपल्वलोदपान कमलकुमुदकुवलयावकीर्णो रम्यः स्थिरस्निग्धभूमिर्भूरिहरिततृणोऽति दूरविस्तृतप्रतानप्रवालोपसञ्छन्नपादपः सस्यसरीसृपखगबहुलः श्लेष्मपित्तप्रायो गुर्वौषधिसलिलः श्लीपदगलरोगापचीज्वराद्यामयोपद्रुतजनपदः सोऽनूपो मधुररसयोनिः||२०||

🔊 Audio coming soon

एषां च रसानामथ यः शिशिरेत्यादिना उत्पत्त्याधारो देश उच्यते| शिशिरश्चासौ पवनः शिशिरपवनः| धरणीधरः पर्वतः| वनानां गहनानि वनगहनानि वनसङ्कटानि विविधानि च वनगहनानि विविधवनगहनानि| पल्वलं नड्वलमुदपानं कूपप्रायो जलाशयः| एतैः कुवलयान्तैराकीर्णो व्याप्तः| रम्यः मनोरमः| स्थिरः असरणशीलः| तथा स्निग्धः तथा प्रभूतानि हरितानि च तृणानि यत्र स भूरिहरिततृणः| तथातिदूरं विसृतैः प्रतानैः लतासन्ततिभिः प्रवालैश्च सुजातैरङ्कुरैरुपसञ्छन्नाः स्थगिताः पादपा यत्र| तथा सस्यादिबहुलः| सरीसृपाः सर्पादयः| श्लेष्मपित्तप्रकृतिजनपदौषधादिः| गर्वौषधपानीयः श्लीपदाद्यामयोपद्रुत जनपदौ यो देशः स आनूपनामा मधुररस्य योनिरुत्पत्तिस्थानम्|| २०||

Adhikarana jA~ggaladeshalakShaNaM tasya kaTukarasayonitva~jca (21) · Śloka 21

यस्तु विषमविपुलसिकतास्थलबहुलोऽतिदूरावगाढविरससलिलः क्लेशसहारोगशरीरदीर्घायुःप्रायो जनपदोऽनूपपरीतश्च स जाङ्गलः कटुकरसयोनिः||२१||

🔊 Audio coming soon

यस्तु पुनर्विषमश्चासौ विपुलो विषमविपुलः पुनर्विषमविपुलेन सिकतास्थलबहुलस्य कर्मधारयः| निम्नोन्नतो विस्तीर्णः प्रभूतस्थलः स्वल्पजलश्चेत्यर्थः| तथातिदूरमवगाढं स्वल्पत्वान्मग्नं विरसं च सलिलं यस्मिन् स तथा| कठिनाः क्लेशसहाः अरोगशरीराः दीर्घायुःप्राया जनपदा यत्र| तथानन्तरोक्तानूस्वरूपविपरीतश्च यो देशः स जाङ्गलनामा कटुकरसयोनिः|

Adhikarana sAdhAraNedeshasya dvaividhyam (22) · Śloka 22

अत एव चानूपसाधारणो जाङ्गलसाधारणश्च विकल्प्यः| तयोराद्यो लवणाम्लयोर्योनिरितरश्चेतरयोः||२२||

🔊 Audio coming soon

उभयलक्षणमिश्रीभावात् साधारणः| स च द्विविधः आनूपलक्षणानामाधिक्यादानूपसाधारणः| स च पाठक्रमे आद्यो लवणाम्लयोर्योनिः| इतरो जाङ्गललक्षणाधिक्याज्जाङ्गलसाधारणः| स इतरयोः शेषयोस्तिक्तकषाययोर्योनिः|| २२||

Adhikarana saptapa~jcAshadrasasaMyogAH triShaShTirasabhedAshca (23) · Śloka 23

सम्योगास्त्वेषां सप्तपञ्चाशद्भवन्ति- स्वादुर्द्विकेषु पञ्चाम्लश्चतुरो लवणस्त्रयम्| द्वौ तिक्तः कटुकश्चैकं याति पञ्चदशैव ते| त्रिकेषु मधुरः साम्लश्चतुरो लवणान्वितः| त्रीन्युक्तस्तिक्तकेन द्वौ कटुनैकं निषेवते| स्वादुर्दशैवमम्लः षट् संयोगान् पूर्ववत्क्रिया| लवणस्त्रीन् भजत्येकं तिक्त एवं तु विशंतिः| स्वाद्श्चाम्लश्चतुष्केषु षट् त्रयं लवणानुगः| एकं तिक्तयुतो याति दशैव मधुरो रसः| चत्वारोऽम्लः पटुश्चैकं भेदाः पञ्चदशेति च| एकैकस्य परित्यागात् संयोगाः पञ्चके च षट्| एकश्च षड्रसः षट् च पृथगेवं त्रिषष्टिधा||२३||

🔊 Audio coming soon

एषां च मधुरादीनां रसानां रसान्तरसंयोगेन सप्तपञ्चाशत् संयोगा भवन्ति वक्ष्यमाणेन प्रकारेण| भवन्ति चात्रेति पद्यवस्त्वारम्भे तन्त्ररीतिः| ते च संयोगाः द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिः षड्भिश्च रसैर्निष्पद्यन्ते| ते च स्वादुरित्यादिना क्रमेणोच्यन्ते| द्विकेषु संयोगेषु स्वादुर्मधुरः पञ्चसंयोगान् जनयति| मधुराम्लः| मधुरलवणः| मधुरतिक्तः| मधुरकटुकः| मधुरकषायः| अम्लोलवणादिभिश्चतुर्भिः सम्बद्धश्चतुरः संयोगान् जनयति| अम्ललवणः| अम्लतिक्तः| अम्लकटुकः| अम्लकषायश्चेति| लवणस्तु तिक्तादिभिस्त्रिभिः सम्बद्धस्त्रीनेव संयोगान् जनयति| लवणतिक्तः| लवणकटुकः| लवणकषायश्चेति| तिक्तः कटुकषायाभ्यां सम्बद्धौ द्वौ संयोगौ जनयति| तिक्तकटुकः| तिक्तकषायश्चेति| कटुकश्चैकं संयोगं जनयति| कटुकषायः| एवं द्विकसंयोगाः पञ्चदश| त्रिकेषु संयोगेषु मधुरो रसः साम्लो लवणादिभिश्चतुर्भिः क्रमेण युक्तश्चतुरः संयोगान् जनयति| मधुराम्ललवणः| मधुराम्लतिक्तः| मधुराम्लकटुकः| मधुराम्लकषायः| स एव च मधुरोऽम्लत्यागेन तत्स्थाने लवणान्वितः तिक्तादिभिस्त्रिभिः क्रमेण संयुक्तस्त्रीन् भेदान् जनयति| मधुरलवणतिक्तः| मधुरलवणकटुकः| मधुरलवणकषायश्चेति| स एव मधुरो लवणत्यागेन तत्स्थाने सतिक्तः कटुकषायाभ्यां क्रमेण संयुक्तौ द्वौ संयोगौ जनयति| मधुरतिक्तकटुकः| मधुरतिक्तकषायश्चेति| स एव तिक्तत्यागेन तत्स्थाने कटुकसंयुक्त एकं संयोगं जनयति| मधुरकटुकषायः| एवं जनयति मधुरः संयोगान् दश| अम्लस्तु त्रिकसंयोगात् षड् जनयति| पूर्ववत्तु क्रिया| तत्राम्ललवणः तिक्तादिभिः क्रमेण सम्बद्धस्त्रीन् संयोगान् जनयति| अम्ललवणतिक्तः| अम्ललवणकटुकः| अम्ललवणकषायः| स एवाम्लो लवणत्यागेन तत्स्थाने सतिक्तः कटुकषायाभ्यां क्रमेण सम्बद्धौ द्वौ संयोगौ जनयति| अम्लतिक्तकटुकः| अम्लतिक्तकषायः| एवं स तिक्तत्यागेन अम्लकटुककषायः इत्यम्लः षट्| लवणः सतिक्तः कटुकषायाभ्यां क्रमेण सम्बद्धौ द्वौ संयोगौ जनयति| लवणतिक्तकटुकः| लवणतिक्तकषायः| एवं स तिक्तत्यागेनैकं जनयति, लवणकटुकषायः| एवं लवणस्त्रीन्| तिक्त एकं सयोगं जनयति| तिक्तकटुकषायः| एवं त्रिकसंयोगा विंशतिः| चतुष्कसंयोगा उच्यन्ते| तत्र मधुरः पूर्ववत् साम्लो लवणादिभिश्चतुर्भिर्युक्तः षट् संयोगान् जनयति| मधुराम्ललवणतिक्तः| मधुराम्ललवणकटुकः| मधुराम्ललवणकषायः| मधुराम्लतिक्तकटुकः| मधुराम्लतिक्तकषायः| मधुराम्लकटुकषायः| स एव मधुरोऽम्लत्यागेन तत्स्थाने लवणानुगस्त्रीन् संयोगान् जनयति| मधुरलवणकटुकः| मधुरलवणकषायः| स एव लवणत्यागेन तत्स्थाने तिक्तयुक्त एकं संयोगं जनयति| मधुरतिक्तकटुककषायः| एवं चतुष्केषु मधुरो दश संयोगान् जनयति| अम्लः पूर्ववच्चचतुरः संयोगान् जनयति| अम्ललवणतिक्तकटुकः| अम्ललवणतिक्तकषायः| अम्ललवणकटुककषायः| स एव लवणत्यागेन तत्स्थाने तिक्तयुक्त एकं संयोगं जनयति| अम्लतिक्तकटुककषायः| एवं चतुष्केष्वम्लश्चचतुरः| ततोऽम्लादनन्तरो लवण एकं भेदं याति| लवणतिक्तकटुककषायः| एवं चतुष्कभेदाः पञ्चदश| पञ्चकसंयोगे एकैकस्य रसस्य क्रमेण त्यागात् षट् संयोगा उत्पद्यन्ते| तत्र मधुरत्यागादम्ललवणतिक्तकटुककषायः| अम्लत्यागात् मधुरलवणतिक्तकटुककषायः| लवणत्यागात् मधुराम्लतिक्तकटुककषायः| तिक्तत्यागान्मधुराम्ललवणकटुककषायः| कटुकत्यागान्मधुराम्लतिक्तकटुकः| एवमेकीकृताः षट्पञ्चाशत् संयोगा भवन्ति| सप्तपञ्चाशच्चा षड्रसः संयोगः| षट् च रसाः पृथग्भूताः| एवं त्रिषष्टिप्रकारा रसाः|| २३||

Adhikarana rasAnAmAnantyaM teShAmupayogaprakArashca (24-25) · Śloka 25

ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च| सम्भवन्ति गणानां समतीता दोषभेषजवशादुपयोज्याः||२४|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने रसभेदीयोनामाष्टादशोऽध्यायः||२५||

🔊 Audio coming soon

ते च त्रिषष्टिसङ्ख्याभेदा गणानां समतीता अहुत्वात् गणयितुमशक्याः सम्भवन्ति निष्पद्यन्ते| कुतः? आह- रसानुरसतः क्वचित्कश्चिद्विशिष्टो यो रसः स एवाऽन्यत्राऽनुरसः| तथा कश्चिद्विशिष्टसङ्ख्यः क्वचिदधिकः| क्वचिदधिकतरः इत्यतस्ते च रसभेदा नानाविधा नानाविधानां दोषाणां रसाश्रयाणां च भेषजानां विशेषं विकल्प्य शरीरिण उपयोज्या इति|| २४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्ठाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने अष्टादशोऽध्यायः