Adhikarana atha dravyAdivij~jAnIyo nAma saptadasho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
पूर्वेषु अध्यायेषु रसादिविशेषैर्द्रव्यकार्यस्वरूपमुक्तं, ते च द्रव्यरसादयो न ज्ञाताः, अतस्तद्विज्ञानार्थमध्यायारम्भः| तत्र रसादीनामाश्रयत्वेन प्राधान्याद् द्रव्यमेवादावुच्यते| रसस्य तु बहुवक्तव्यत्वादस्मिन्नध्याये किञ्चित् सूत्रणम्| द्वितीये तु निर्णयः| वीर्यादीनां त्वत्रैव|| १||
Adhikarana dravyasya pa~jcamahAbhUtAtmakatvam (2) · Śloka 2
इह हि द्रव्यं पञ्चमहाभूतात्मकम्|
तस्याधिष्ठानं पृथिवी, योनिरुदकं, खानिलानलसमवायान्निर्वृत्तिविशेषौ|
उत्कर्षेण तु व्यपदेशः|
तस्माद्भूतसमवायाम्भवान्नैकरसं द्रव्यम्|
ततश्च नैकदोषा व्याधयः||२||
तच्च द्रव्यं पञ्चभूतात्मकं पञ्चभिर्महाभूतैरारब्धमित्यर्थः| पञ्चभूतानि पृथिव्यप्तेजोवाय्वाकाशानि लोके प्रसिद्धानि| आकाशस्य तु शून्यात्मनोऽपि गुणाश्रयत्वात् पृथिव्यादिवदेव भूतत्वं द्रव्यारम्भकत्वं च विज्ञेयम्| तथा च नभोभागाधिके द्रव्येऽवयवनिबिडभावाद्यभावेन स्वरूपमजहदेव नभःकारणतां याति| एषां च भूतानां परस्परवैलक्षण्यं भावहेतुत्वं पञ्चसङ्ख्यावत्त्वं च भावस्वरूपान्वयव्यतिरेकसमधिगम्यम्| ननु पृथिव्यादयः केन प्रकारेण कारणतां तत्र गच्छन्तीत्याह-तस्य द्रव्यस्याधिष्ठानमाश्रयः पृथिवी| सा हि गुडूच्यादेराहाराद्युपयोगिनो द्रव्यस्योपलम्भेन प्रधानं कारणम्| तस्य च गुडूच्यादेः सर्वस्यैव द्रव्यस्याम्बु योनिः| यु मिश्रणे धातुः तस्मिन्योनिरिति रूपं भवति| कारणं स्वभावसम्बन्धहेतुरित्यर्थः| नभोवाय्वनलानां समवायात् पृथिव्युदकाभ्यामविनाभाववृत्तित्वात्तस्य द्रव्यस्य निर्वृत्तिविशेषौ भवतः| निर्वृत्तिर्निष्पत्तिरात्मलाभः| विशेषो द्रव्यान्तरेणासादृश्यम्| तथा च संस्थानविशेषलाभायावयवव्यूहने नभःकारणतां याति| काठिन्यादिके वायुः| तेजःप्रसादलभ्याश्चाङ्कुराद्यवस्थाविशेषाः| तेनैतदुक्तं भवति- पञ्चानामेव भूतानां संयोगात् सर्वद्रव्याणामाहाराद्युपयोगिनां सम्भवः| तेषामेव भूतानामेकादितारतम्यादिसंयोगविशेषेण द्रव्याणां परस्परव्यावृत्तिः| यश्च पार्थिवं द्रव्यमाप्यमित्यादिव्यपदेशः स भूयसा प्रभूतेन महाभूतेन जन्यते| तेन पञ्चसु मध्ये यदधिकं तदीयं व्यपदेशं प्राप्नोतीत्यर्थः| एवं सर्वस्य द्रव्यस्य पञ्चभूतात्मकत्वात् सर्वरसत्वम्| यतो येयं षट्सङ्ख्या परस्परविलक्षणा रसानां निष्पत्तिः सा महाभूतानां विशेषकृता| तथा च भूजलयोरित्यादिना वक्ष्यति| यश्च सर्वस्य द्रव्यस्यापि षड्रसत्वेऽपि माधुर्यादिव्यपदेशः स भूयसां भूतेन क्रियते| एवं यतः सर्वस्य द्रव्यस्य न सर्वरसत्वं ततस्तेन द्रव्येण जनितत्वात्सर्वरोगाणामपित्रिदोषजत्वम्| यस्माद्रोगाणां दोषाः कारणं तेषां च रसास्ते च रसाः सर्व एवैकस्मिन् द्रव्ये स्थिताः द्रव्यस्य रसजनकभूतनिष्पादितत्वात्| अत एव संसर्गसन्निपातभेदानामानन्त्यम्| यत्तु कतिपयानां भेदानां निदानादिषु कीर्तनं तदन्यापेक्षया प्राधान्याच्चिकित्सासुखप्रदर्शनाय| या तु रोगाणामेकदोषोक्तिः सा सतिशयप्राधान्यहेतुका| तथा चैकदोषाभिमतेष्वपि रोगेषु विवक्षितदोषप्रतीकारोपयोग्यसधारणं तद्दोषविपरीतगुणमेकं द्रव्यं दुष्प्रापमिति स्थितम्| नैकदोषा रोगा इति| अथ चैवं व्याख्यायते द्रव्याणां पञ्चभूतात्मकत्वे सति विशेषव्यपदेशो यतो भूयसा प्रभूतेन भवति| तत एव हेतोर्नैकरसं द्रव्यं न सदृशरसं भिन्नरसमित्यर्थः| भूतसङ्घातसम्भवाद्धेतोर्यदेकरसत्वं सर्वस्य प्राप्तं तत् प्रतिषिद्ध्यते| अन्यथा यदि विशेषव्यपदेशवद्भिन्नरसत्वमपि न स्यात्ततः सर्वस्य द्रव्यस्य पञ्चभूतात्मकत्वात् सादृश्यादेकरसत्वमेव स्यात्| ततश्च सर्वाणि द्रव्याणि मधुराद्यन्यतमरसानि स्युः| तस्मान्नैकरसं द्रव्यम्| अत एव हेतो रोगा अपि दोषस्य व्यवधानेन द्रव्यहेतुत्वाद् द्रव्यविशेषवद्भिन्नरसवच्च तेऽपि नैकदोषाः| अन्यथा ज्वराणामन्येषां द्रव्यहेतुत्वसामान्यात्सदृशदोषापरपर्यायमेकदोषत्वं स्यात्|| २||
Adhikarana rasAnurasalakShaNam (3) · Śloka 3
तत्र व्यक्तो रसः|
अनुरसस्तु रसेनाभिभूतत्वादव्यक्तो व्यक्तो वा किञ्चिदन्ते||३||
तत्र च द्रव्य रसनेन्द्रियग्राह्यो व्यक्तः स्फुटो रसशब्देनोक्तः| यश्च रसो यस्मिन् द्रव्येऽनुरसत्वेनोक्तः स प्रधानरसेनाभिभूतत्वादव्यक्त एव तिष्ठति| प्रधानरसविजातीयकार्यकतृत्वात्तस्य सद्भावोऽनुमीयते| आगमाच्च| अथवा यो रसः प्रधानरसस्यान्ते किञ्चिद्व्यक्तोऽप्युपलभ्यते सोऽनुरसः|| ३||
Adhikarana chedanopashamanahitAhitAnAM na rasatvam (4) · Śloka 4
रसस्य तु छेदनोपशमने द्वे कर्मणी|
हिताहितौ प्रभावौ||४||
तत्र य आचार्याः छेदनोपशमनहिताहितानां चतुर्णां रसत्वमिच्छन्ति तान् प्रत्यात्रेयमतानुसारेणेदमुच्यते| रसस्य छेदनोपशमने कर्मणी तस्यैव हिताहितौ प्रभावौ| प्रभावो रसादिविलक्षणा शक्तिः न तु तेषां रसत्वमिति| तेन छेदनोपशमनयोर्भावे ल्युडिति छेदनं दोषादीनां भागशः करणम्| उपशमनं तु दोषाणामनुत्क्लेशेन समीकरणम्| हितं यत् प्रभावादेव शरीरस्य पथ्यम्| विपरीतमहितम्|| ४||
Adhikarana raseShu gurutvAdiguNanirdeshaH upacArAt (5) · Śloka 5
तदाश्रयेषु च द्रव्यसंज्ञकेषु पृथिव्यादिषु गुणाः प्रकृतिविकृतिविचारदेशकालवशाद्गुर्वादयो रसेषु साहचर्यादुपचर्यन्ते||५||
तेषां च रसादीनामाश्रयभूतेषु पृथिव्यादिषु पञ्चसु द्रव्यसंज्ञकेषु कार्यद्रव्यावस्थायां ये गुणा गुर्वादयो गुरुस्नेहोष्णसूक्ष्मलघ्वादयः ते द्रव्यगुणाः सन्तो रसेषु गुणत्वेनोपचारादुच्यन्ते| उपचारस्य बहुहेतुदर्शनाय साहचर्यं विशेषण्म्| ननु कथं ते द्रव्यस्येत्याशङ्क्याह- प्रकृत्येत्यादि| क्वचित् प्रकृत्यवस्थायां न सन्तोऽपि नानाविधक्रियासाध्यया विकृत्या जन्यन्ते| केचित्तु विचारादिभिः| विचारो विशिष्टमात्रादिकः संयोगः| देशो द्विविध उक्तः| तद्वशाद् गुर्वादिगुणयोगो द्रव्यस्य| देहदेशवशात् सक्थिमांसाद्गुरुस्कन्ध इत्यादि| भूमिदेशवशादन्यथा जाङ्गले अन्यथानूप इति| एवं कालेऽपि| तेन यत्राऽपि विकृत्यादिवशाद्रसानां सम्भवः तत्रापि ये रसगुणास्ते द्रव्यस्यैव विज्ञेयाः| एषा च प्रकृत्यादिवशाद् गुर्वादिकल्पना रसाश्रयस्य द्रव्यस्यैव गुणाश्रयात् सम्भवति; न रसस्य| तस्य तु साहचर्यादुपचर्यते|| ५||
Adhikarana pArthivAdidravyANAM lakShaNaM tatkarmANi ca (6) · Śloka 6
तत्र द्रव्यं गुरुकठिनविशदमन्द्रसान्द्रस्थूलस्थिरगन्धगुणबहुलं पार्थिवं उपचयगौरवसङ्घातस्थैर्यकरम्|
द्रवस्निग्धशीतगुरुमन्द्रसान्द्रसरमृदुपिच्छिलरसगुणबहुलमौदकमुपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकरम्|
तीक्ष्णोष्णरूक्षसूक्ष्मलघुविशदरूपगुणबहुलमाग्नेयं दाहपाकप्रकाशप्रभावर्णकरम्|
रूक्षसूक्ष्मलघुविशदविकाषिव्यवायिशीतखरस्पर्शगुणबहुलं वायव्यं रौक्ष्यलाघववैशद्यग्लानिविचारकरम्|
सूक्ष्मलघुविशदश्लक्ष्णव्यवायिविविक्तशब्दगुणबहुलमाकाशात्मकं सौषिर्यलाघवकरम्||६||
तत्र पार्थिवं द्रव्यं गुरुत्वादिगुणयुक्तं गन्धगुणेन चाधिकमुपयुक्तं च देह उपचयादिकरम्| उपचयो महत्त्वम्| सङ्घातः काठिन्यम्| स्थैर्यं दार्ढ्यम्| औदकं द्रव्यं द्रवत्वादिगुणयुक्तं रसगुणाधिकं च| देहे चोपक्लेदादिकरम्| विष्यन्दः स्रोतसां स्रावः| प्रह्लादो हृत्पुष्टिः| आग्नेयं तीक्ष्णत्वादिगुणयुक्तं रूपगुणबहुलं च देहे च दाहादिकरम\\\\\\\\ वायव्यं रूक्षत्वादिगुणयुक्तं स्पर्शगुणबहुलं च| देहे च रौक्ष्यादिकं करोति| विचारो धातुवहनम्| नाभसं सूक्ष्मत्वादिगुणयुक्तं शब्दगुणाधिकं च| देहे च सौषिर्यलाघवकरम्|| ६||
Adhikarana sarvasyaiva dravyasyauShadhatvam (7) · Śloka 7
इत्थञ्च नानौषधभूतं जगति किञ्चिद् द्रव्यमस्ति विविधार्थप्रयोगवशात्||७||
इत्थमेवं स्थिते जगति तद् द्रव्यं नास्ति यदौषधत्वेन नोपयुज्यते| कुतः? नानाविधार्थप्रयोगवशात्| अर्थः प्रयोजनं, प्रयोग उपयोगः| तेनैतदुक्तं भवति- विचित्रितो भावः स्वभावस्तेन यद्यत्रापथ्यं तत्तत्रैव प्रयोजनान्तरेण पथ्यम्| तथा यत् पानेऽपथ्यं तदभ्यङ्गे पथ्यम्| एवं मात्रादिविशेषो विकल्पनीयः| तेन भस्मपांस्वादीनामपि प्रयोजनवशेनौषधत्वम्|| ७||
Adhikarana dravyeShu mahAbhUtabAhulyAdvamanavirecanAdivisheShAH (8) · Śloka 8
तत्राग्निमारुतात्मकं प्रायेणोर्ध्वभागिकम्|
तयोर्हि लाघवादूर्ध्वगतित्वाच्चाग्नेः प्लवनत्वाच्च मारुतस्य|
भूम्यौदकात्मकं तु प्रायेणाधोभागिकम्|
तयोर्हि गौरवान्निम्नगत्वाच्च तोयस्य|
व्यामिश्रात्मकमुभयतोभागम्|
शमनं तु दोषविपरीतगुणमुक्तं प्राक्|
तत्सङ्करे च यतो बाहुल्येन कार्यकर्तृत्वं भवति यदेवाधिकं तदेव तत्कार्यकरमिति व्यपदेशः|
तथाऽनिलात्मकं ग्राहि|
अनलात्मकं दीपनपाचनम्|
उभयात्मकं लेखनम्|
भूम्युदकात्मकं बृंहणम्||८||
तस्य च द्रवस्य ये शोधनशमनग्राहिदीपनत्वादयो विशेषास्तेऽप्येकादिमहाभूतोत्कर्षापकर्षकृता एवेति प्रदर्शनार्थमाह- तत्रेत्यादि| ऊर्ध्वभागिकं यस्यातिशयो वमनं तदग्निमारुतात्मकम्; अग्निमारुतयोर्लघुत्वादग्नेरूर्ध्वगमनसम्भवाद्वायोश्च प्लवनत्वात्| पृथिव्युदकात्मकमधोभागिकं यस्यातिशयो विरेचनम्| पृथिव्युदकयोर्गुरुत्वादधोगमनं तोयस्य निम्नगत्वादपि| व्यामिश्रभूतचतुष्टयाधिक्येनोभयात्मकं वमनविरेचनम्| शमनं यदुक्तभूताधिक्यरहितं नाधो गच्छति नाप्यूर्ध्वमेति केवलं दोषविपरीतगुणमेव तच्च प्रकृतिविघातत्वेन पूर्वमुक्तम्| तेनैतदुक्तम्- शमनत्वं दोषगुणवैपरीत्यापेक्षया सर्वस्मिन् द्रव्ये सम्भ्वति| न त्वेवं शोधनत्वम्| तस्य विशिष्टभूताधिक्यहेतुत्वात्| यत्र त्वेकस्मिन्नेव द्रव्ये ऊर्ध्वगत्वाधोगत्वशमनत्वानां सम्भवः तत्र यतो बाहुल्येन कार्यकर्तृत्वं भवति ततो यदेवाधिकं तदेव कार्यकरमिति व्यपदेश इत्यर्थः| अन्यत् सुबोधम्|| ८||
Adhikarana rasAdiShu vIryatAratamyam (9) · Śloka 9
तत्र कट्वम्ललवणा वीर्येण यथोत्तरमुष्णाः|
तिक्तकषायमधुराः शीताः||९||
तत्र रसानां गुणनियमः कट्वम्ललवणा वीर्येण यथोत्तरमुष्णाः| शीताः शेषाः||९||
Adhikarana tiktAdiShu rUkShatvAditAratamyam (10) · Śloka 10
तिक्तकटुकषाया रूक्षा बद्धविण्मूत्रमारुताः|
लवणाम्लमधुराः स्निग्धा सृष्टविण्मूत्रमारुताः|
लवणकषायमधुरा गुरवः|
तद्वदम्लकटुकतिक्ता लघवः||१०||
तिक्तकटुकषाया रूक्षा बद्धविण्मूत्रामारुताश्च| शेषा लघवः तथोत्तरमिति सर्वत्राभिसम्बध्यते| पूर्वादुत्तरो यथोक्तगुणाधिक इत्यर्थः||१०||
Adhikarana anyamatena lavaNaguNAH (11) · Śloka 11
अन्ये पुनर्गुरुलघुस्निग्धरूक्षसाधारणं लवणमिच्छन्ति||११||
अन्ये पुनराचार्या गुरुत्वलघुत्वस्निग्धत्वरूक्षत्वसाधारणं लवणमिच्छन्ति| इति द्रव्यरसावुक्तौ||११||
Adhikarana keShA~jcinmatena vIryasyAShTavidhatvam (1) · Śloka 1
वीर्यन्तु केचिद् गुरुलघुस्निग्धरूक्षतीक्ष्णमन्दशीतोष्णभेदेनाष्टविधमाहुः||१||
Adhikarana apareShAM matena vIryasya bahuvidhatvam (12) · Śloka 12
अपरे पुनः पठन्ति- वीर्यम् द्रव्यस्य तज्ज्ञेयं यद्योगात् क्रियते क्रिया|
नावीर्यं कुरुते किञ्चित् सर्वा वीर्यकृता हि सा||१२||
वीर्यमुच्यते- केचिदाचार्या अष्टविधं गुर्वादिभेदेन वीर्यमाहुः| अन्ये बहुविधम्| अन्ये द्विविधमिति| ये तु बहुवीर्यवादिनस्ते पठन्ति| वीर्यं द्रव्यस्येत्यादि| द्रव्यस्य तद्वीर्यं ज्ञेयं यस्य योगात् द्रव्यं कार्यं कर्तुं क्षमम्| न च द्रव्यमवीर्यं वीर्येण विना किञ्चित् कर्म कुरुते| अतः सर्वाः क्रियाः वीर्यकृताः| एवं वीर्यं शक्तिः कारणमिति बहुवीर्यवादिनः||१२||
Adhikarana bahuvidhivIryavAdinAmapi aShTavidhavIryatve eva tAtparyaM prabhAvasvarUpasUcanA ca (13) · Śloka 13
तैरपि चैवमतिप्रकृष्टशक्तियुक्तानामशेषौषधगुणसारभूताना- मष्टानामेव गुर्वादीनां वीर्यसंज्ञाविशिष्टाम्नायविहितापि लौकिकीति समुद्भाव्यते|
तथा हि तया रसविपाकगुणाऽन्तरविजयिनो भूयांसश्च वरिष्ठाश्च गुणाः सङ्गृहीताः|
विशेषवृत्त्या च तत्र तत्र द्रव्यस्वरूपकथने व्यवहारः प्रवृत्तितो भवति|
अत एव सर्वातिशायी द्रव्यस्वभावः प्रभाव इत्याम्नातः|
सत्यपि च क्रियानिर्वर्तनसामान्ये तद्विपरीता रसादयो वीर्याख्यया प्रभावसंज्ञया वा न परामृश्यन्ते||१३||
तैश्चानन्तरोक्तैर्नानाविधशक्तित्वात् द्रव्यस्य बहुवीर्यवादिभिर्गुर्वादीनामष्टानां वीर्यसंज्ञा विशिष्टागमविहितापि लौकिकीति कथ्यते| यतः शक्तिर्वीर्यम्| सा च नानाविधा| तत् गुर्वादीन् को नियमितुं शक्नोति| केवलं प्रकृष्टशक्तित्वादशेषाणामौषधगुणानां मध्ये सारभूतत्वाल्लोक एव कथ्यतेऽष्टावेव वीर्याणीति| अतो बहुवीर्यवादिभिर्गुर्वादिगुणनियम आगमविहितोऽपि लौकिक इति कथ्यते| एतदेवाह-तथेत्यादि| तथा वीर्यसंज्ञया रसविपाकगुणान्तरविजयिन एतेऽष्टावेव गुणाः सङ्गृहीता भूयांसश्च वरिष्ठाश्च| तेनैतदुक्तं भवति| एषामष्टानामेव वीर्यसंज्ञा भूयिष्ठत्वात् वरिष्ठत्वात् रसादिविजयित्वाच्चेति| बहुवीर्यवादिभिरपि बलादङ्गीकृतमेव| द्रव्ये हि न तथा अन्ये गुणाः प्रभूतत्वेन भवन्ति यथा गुर्वादय इति प्रभूतत्वम्| अन्ये च गुणाः न तथा देहोपयोगित्वे वराः यथा गुर्वादयः इति वरिष्ठत्वम्| रसकार्यं विपाककार्यं| गुणान्तरञ्च द्रव्यस्थितम्| वीर्यत्वेनाभिभवन्तीति रसादिविजयित्वम्| तत्र रसविजयित्वं यथा किञ्चिद् द्रव्यं मधुररसं तीक्ष्णगुणं च तत्र तीक्ष्णगुणेनोपलेपादि मधुररसकार्यमभिभूयते| एवं विपाककार्यं गुणान्तरे च| एवं तेषां प्राधान्येन तत्र तत्र हरीतक्यादिद्रव्यस्वरूपकथने गुर्वादीनां विशेषवर्त्तित्वेन गुरुलघ्वित्यादिव्यवहारः प्रवर्त्तितो भवति| एवमुत्कृष्टा शक्तिर्वीर्यम्| अनयैव युक्त्या यो द्रव्यस्य सर्वगुणातिशायी स्वभावः स प्रभावशब्देनोक्तः| तेनैतदुक्तं भवति- यथैव गुर्वादीनां कार्यकर्तृत्वे प्राधान्यापेक्षया वीर्यत्वं तथैव गुर्वादीनां प्राधान्यापेक्षया कस्याश्चिच्छक्तेः सर्वातिशायित्वात् संज्ञा प्रभाव इति| न हि तद्व्यतिरिक्तेषु रसादिषु कल्प्यमानेषु दृश्यते| अतः स्वभावविशेष एव सः| रसादयो रसवीर्यविपाकगुणान्तराणि यद्यपि स्वां स्वां क्रियां कुर्वन्ति तत्रापि गुर्वाद्युक्तप्रकारवैपरीत्यात् वीर्यसंज्ञया न परामृश्यन्ते| एवं बहुवीर्यवादिनामप्यष्टविधवीर्यवादित्वं युक्त्या साधितं तैरपीत्यादिना||१३||
Adhikarana anyeShAM matena vIryasya dvaividhyam (14) · Śloka 14
अन्ये तु गुर्वादीनामग्नीषोमात्मकत्वादादानविसर्गविभागेन कालस्य चोष्णशीतात्मकत्वाद् द्विविधमेवामनन्ति|
एवं चाहुः- नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ|
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्||१४||
अन्ये वीर्यद्वयवादिनः अग्नीषोमात्मकत्वाद् गुणानां कालस्य चोष्णशीतद्वैविध्याद् द्विविधमेव वीर्यमुष्णं शीतं चेति वदन्ति| तथा हि गुर्वादीनां केचन सौम्याः केचनाग्नेयाः| महाभूतपरायत्तत्वाद् गुणानाम्| ते गुर्वादयो द्विविधे काले सम्भवन्त्यादाने विसर्गे च| तत्रादानकालभवानामाग्नेयत्वं गुर्वादीनां विसर्गभवानां तु सौम्यत्वमिति स्थितमेव| एतस्यैवाग्नीषोमद्वयात्मकत्वस्य तैर्दृष्टान्तोपपत्तिरुच्यते- नानात्मकमित्यादिना| नानात्मकं परस्परेण व्यावृत्तमपि द्रव्यजातं महाबलावुत्कृष्टशक्ती अग्नीषोमौ नातिक्रामति नातिवर्तते| अवश्यं किञ्चिदाग्नेयं भवति किञ्चित्सौम्यमिति| दृष्टान्तो यथा- नानात्मकमपि जगद् व्यक्तमव्यक्तं च नातिक्रामति व्यक्तम् तरुपर्वतजलादि अव्यक्तं कालभूतग्रामादि| अस्मिन् पक्षे पूर्वयोरपि पक्षयोरन्तर्भावः| विशेषस्य सामान्येऽन्तर्भावात्||१४||
Adhikarana uShNashItavIryayoH guNAH (15) · Śloka 15
तत्रोष्णं दहनपचनस्वेदनविलयनानिलकफशमनानि करोति|
शीतं ह्लादनस्तम्भनजीवनरक्तपित्तप्रसादनादीनि||१५||
तत्रोष्णवीर्यस्य दहनादीनि कर्माणि शीतस्य ह्लादनादीनि||१५||
Adhikarana vipAkasya traividhyam (16) · Śloka 16
इति वीर्यमुक्तं विपाकस्तूच्यते|
विपाकस्तु प्रायः स्वादुः स्वादुलवणयो- रम्लोऽम्लस्य कटुरितरेषाम्|
रसैरसौ तुल्यफलः|
द्रव्यगुणविशेषेण चास्याल्पमध्यभूयस्त्वमुपलक्षयेत्||१६||
स्वाद्वम्लकटुकास्त्रयो विपाकाः| तत्र मधुरद्रव्यस्य सर्वस्य मधुरविपाकित्वम्| तद्वल्लवणस्य| अम्लो विपाकोऽम्लस्यैव| शेषाणां कटुः| विपाकस्तु जठराग्निसंयोगे परिणामवशात् द्रव्यस्य रसस्य स्वरूपान्तरप्रादुर्भावः| असौ विपाको रसैर्मधुराम्लकटुकैस्तुल्यफलः सदृशफलः| तेन मधुरस्य विपाकस्य ते गुणा ये मधुरस्य रसस्य| एवमम्लकटुकयोरपि| अस्य च विपाकस्य स्वल्पत्वं मध्यत्वं भूयस्त्वं च द्रव्यगुणविशेषेणोपलक्षयेत्| किमुक्तं भवति? उच्यते- यत्र रसेन सदृशो विपाको मधुराम्लकटुकानां द्रव्याणां तत्र प्रधानरससमानगुणानामुत्कृष्टत्वाद्विपाकस्योत्कृष्टत्वं कल्पनीयम्| एवं मध्यत्वान्मध्यत्वम्| स्वल्पत्वाच्च स्वल्पत्वम्| यत्र तु रसाद्विपरीतो विपाको लवणतिक्तकषायाणां तत्र रसविपरीतानां गुणानामुत्कृष्टत्वादुत्कृष्टत्वं कल्पयेद्विपाकसदृशानामित्यर्थः| एवं मध्यत्वमल्पत्वं च| विपाकमेवमूचुश्चरकविदः||१६||
Adhikarana parAsharamatena vipAkatraividhyaM saMshayotthApana~jca (17) · Śloka 17
पराशरस्तु पठति- पाकास्त्रयो रसानामम्लोऽम्लं पच्यते कटुः कटुकम्|
चत्वारोऽन्ये मधुरं सङ्कीर्णरसास्तु सङ्कीर्णम्|
कटुतिक्तकषायाणां कटुको येषां विपाक इति पक्षः|
तेषां पित्तविघाते तिक्तकषायौ कथं भवतः||१७||
पराशरनामा मुनिर्विपाकमन्यथा पठितवान्| पाकास्त्रयो रसानामित्यार्याद्वयं पराशरपठितमनुपठति| सर्वेषां रसानां त्रयो विपाकाः मधुरोऽम्लः कटुश्च| तत्राम्लरसोऽम्लविपाकः कटुरसः कटुविपाकः| चत्वारोऽन्ये शेषा मधुरलवणतिक्तकषाया मधुरविपाकाः| सङ्कीर्णरसानां मिश्ररसानां सङ्कीर्णविपाकित्वम्| स तु पराशरस्तिक्तकषाययोर्मधुरविपाकित्वमिच्छन्ति| अन्ये त्वाचार्यास्तावेव कटुकविपाकाविच्छन्ति| तन्मतं दूषयितुकामः पराशर आह- य आचार्याः कटुतिक्तकषायाणां कटुविपाकित्वमिच्छन्ति तेषां तिक्तकषाययोः पित्तहरत्वं न सम्भवति| मन्मते तु तयोर्मधुरविपाकित्वात् पित्तहरत्वं सम्भवतीति पराशरः| तच्च न चतुरस्रमिति मन्यामहे| यतः पित्तहर्त्तृत्वं रसस्यैव स्वरूपम्| कटुस्तु विपाको यत्र स्वल्पोऽपि भवति न तत्र कटुः स्वकार्यं करोति यद्यद् द्रव्ये रसादीनामिति न्यायात्| तथा च तिक्तरसस्य कटुविपाकस्यापि निम्बस्य पित्तरत्वमेव| यत्र च विपाकस्य कटोराधिक्यं तत्र तस्य पित्तकर्तृत्वमेव| यथा तिक्तरसेऽपि द्रव्ये कटोर्विपाकस्याधिक्याद् बृहतीद्वयस्य पित्तकरत्वमेवं कषायेऽपि कल्पीनयम्| एवं रसस्यैव स्वभावः पित्तहरत्वम्| यतश्च तिक्तरसे कषायरसे च द्रव्ये नैसर्गिकेण बलेन रसवीर्याभ्यां विपाकः प्रायेणाभिभूयते| अत उच्यते- तिक्तकषायौ पित्तहरावित्यस्माभिरतः पराशरमतमचतुरस्रमिव||१७||
Adhikarana granthakartuH siddhAntaH (18) · Śloka 18
तत्र यन्मधुरं रसविपाकयोः शीतवीर्यञ्च द्रव्यं यच्चाम्लं तयोरूष्णवीर्यञ्च यद्वा कटुकं तेषां यथास्वं रसेभ्यः प्रायो गुणान् दोषकोपशमनत्वं च विद्यात्|
तद्यथा क्षीरमदिरामरिचादीनाम्||१८||
अनन्तरं वाग्भटो यन्मधुरमित्यादिना प्रकृतं प्रस्तैति| यद्द्रव्यं मधुररसं मधुरविपाकं शीतवीर्यं च तथा तयोः रसविपाकयोरस्लं सद्यदुष्णवीर्यं यद्वा कटुकं तयो रसविपाकयोरुष्णवीर्यं च तेषां त्रयाणामपि यथात्मीयरसगुणान् सातिशयान् विद्यात्| रसानुरूपेणैव च तेषां दोषकोपशमौ| तेनैतदुक्तं भवति- यत्र रसवीर्यविपाकानामेकजात्यन्वयत्वं तत्रैकगुणत्वमपि| तथा च क्षीरे मधुररसविपाके शीतवीर्ये च मधुररसवत् श्लेष्मकोपनत्वं वातपित्तशमनत्वं च| एवं मदिराया अम्लरसविपाकाया उष्णवीर्यायाश्चाम्लरसवद्वातशमनत्वं पित्तस्लेष्मप्रकोपनत्वादिकं च| कटुकरसविपाकस्योष्णवीर्यस्य मरिचस्य कटुकरसवत्श्लेष्मशमनत्वं वातपित्तप्रकोपनत्वं च||१८||
Adhikarana svamatapuShTyarthaM nidarshanAni (19) · Śloka 19
रसादिसङ्करेण त्वन्यथात्वम्|
यथा मधु मधुरं श्लेष्माणं शमयति कटुविपाकतया|
सकषायत्वाद्रौक्ष्याच्च वातं जनयति शीतवीर्यत्वाच्च|
तथा यवोऽपि|
आनूपौदकपिशितं शीतमपि पित्तं करोत्युष्णवीर्यत्वात्|
तथा तैलं कटुविपाकतया च विपाकत एव बद्धविण्मूत्रम्|
अम्लं काञ्जिकं कफं जयति रूक्ष्णोष्णत्वात्|
कपित्थं तु रौक्ष्यात्, पित्तं तु शीतवीर्यत्वात्|
आमलकं पित्तं शीतवीर्यत्वात् स्वादुपाकतया च कफं रौक्ष्याल्लाघवाच्च शैत्यरौक्ष्यलाघवैस्तु न वातम्|
लवणं सैन्धवं स्वादुपाकतया पित्तं जयति लाघवात्कफं जयति|
कटुकाऽपि शुण्ठी स्नेहौष्ण्यस्वादुपाकैर्वातं क्षपयति पिप्पली च|
लशुनोऽपि स्नेहौष्ण्यगौरवैः|
पलाण्डुश्च|
स तु स्नेहगौरवाभ्यां जनयति श्लेष्माणम्|
वृद्धं च मूलकं स्वादुपाकतया|
स्निग्धानि तिक्तानि व्याघ्रीविशल्याऽर्कागरूण्युष्णवीर्यत्वात् पित्तं जनयन्ति|
कषायतिक्तं महत् पञ्चमूलं वातं जयति नतु पित्तमुष्णवीर्यत्वात्|
कषायश्च कुलत्थोऽम्लपाकतया चेत्येतन्निदर्शनमात्रमुक्तम्||१९||
यत्र तु रसादीनां विजात्यन्वयत्वेन सङ्करस्तत्र क्वचिद्रसाधिक्येन कार्यकारित्वं क्वचिद्वीर्याधिक्येन क्वचिद्विपाकाधिक्येन इत्यस्यैवार्थस्य यथा मधुमधुरमित्याद्युदाहरणम्| सुबोधम्| वृद्धमूलकस्य त्रिदोषकर्तुः कटुकस्य कफकर्तृत्वे यदाचार्यवाग्भटेन मधुरविपाकित्वं कारणमुक्तं तत्स्वयं हृदयपठितस्यैव वृद्धमूलकस्य कटुविपाकित्वं स्मृतं किं वान्यत् किञ्चिदिति न जाने|
Adhikarana dravyasya rasavIryAdinA bhinna-bhinna-kAryakartRutvam (20) · Śloka 20
तस्मात्- किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्|
द्रव्यं गुणेन वीर्येण प्रभावेणैव किञ्चन||२०||
एवं स्थितेऽनन्तरप्रक्रान्तमेवार्थं स्फुटयन्नाह-तस्मादित्यादि| द्रव्यं मध्वादि किञ्चित् कर्मास्रपित्तोपशमनादिकं रसेन कुरुते| किञ्चित् श्लेष्म- शमनादिकं विपाकेनापरं वातवृद्ध्यादिलघ्वादिना गुणेनापरं तृट्शमनादि वीर्येण शीतेन किञ्चन विषापनुत्यादि प्रभावेणेति||२०||
Adhikarana rasavIryAdiShu balIyasya kAryasAdhakatvam (21) · Śloka 21
यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते|
अभिभूयेतरांस्तत्तत् कारणत्वं प्रपद्यते|
विरुद्धसंयोगे प्रभूतेनाल्पं जीयते विरुद्धगुणसंयोगे भूयसाऽल्पं हि जीयते||२१||
ननु च यत्र द्रव्याश्रितानां रसवीर्यगुणविपाकप्रभावानां विरोधः तत्र तेषां कार्यनिष्पादने समशक्तित्वं न वेत्याशङ्कानिवृत्त्यर्थमाह- यद्यद् द्रव्य इति| रसादीनां रसवीर्यगुणविपाकप्रभावानां यद्रसो वा वीर्यं वा विपाको गुणः प्रभावो वा बलवत्त्वेन विजातीयाधिक्येन वर्तते तत्तत् कारणत्वं कार्यसाधकत्वं प्रतिपद्यते| किं कृत्वा? इतरान् द्रव्याश्रितान् हीनानभिभूय विफलीकृत्य| यत्र तु द्रव्ये रसादिद्रावको विरुद्धानां गुणानां गुर्वादीनामेव संयोगो न तु रसादयोऽपेक्ष्यन्ते| तत्र कथं कार्यकर्तृत्वमिति पृष्ट आह- विरुद्धेत्यादि| अथवा रसादिकल्पनाविशेषेणैव यत्र विरुद्धगुणोपनिपातः तत्र कथं कार्यकारणत्वमित्याह-विरुद्धेत्यादि| तत्र भूयसा प्रभूतेन गुणेनाल्पं जीयते निष्फलीक्रियते| द्विविधश्च विरोधः-स्वरूपतः कार्यतश्च| स्वरूपविरोधो यथा गुरुलघ्वोः शीतोष्णयोश्च| कार्यविरोधो यथा गुरुरूक्षयोरुष्णस्निग्धयोश्च| तथा हि गुरुः श्लेष्मवृद्धिकरः रूक्षश्च गुरोर्विरुद्धः कार्येण श्लेष्मवृद्ध्याख्येन विरुद्ध्यते| एवमुष्णस्य श्लेष्महन्तृत्वं स्निग्धस्य श्लेष्मकर्तृत्वेन| इह चोभयोरपि विरोधयोर्ग्रहणम्| एकत्र् द्रव्ये स्वरूपकार्यविरुद्धयोर्भाव आगमलब्धः पञ्चभूतात्मकत्वाद् द्रव्यस्योपपद्यते||२१||
Adhikarana rasAdInAM balasAmye naisargikabalanirdeshaH (22) · Śloka 22
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति|
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्||२२||
ननु यद्यद् द्रव्ये रसादीनां बलवत्तत्तत् कार्यकरणशक्तमित्युक्तम्| यत्र तु द्रव्ये रसादीनामुत्कर्षासम्भवः परस्परसाम्यं तत्र कस्य कार्यकारणत्वमित्युच्यते- रसमित्यादि| विपाकः कर्ता रसं कर्मापोहति कार्यकरणे कुण्ठयति| तौ रसविपाकौ कर्मणी वीर्यं कर्तृ अपोहति| तानि रसविपाकवीर्याणि प्रभावो वक्ष्यमाणः अपोहतीत्येतद्रसादीनां बलसाम्ये नैसर्गिकं स्वाभाविकं बलम्| तेनैतदुक्तं भवति- रसादीनां समबलानामपि तथाविधो बलस्वभावो यत् पूर्वस्य बलमुत्तरस्य बलेन समेनाप्यभिभूयते| रसबलं विपाकबलेन समेनापि स्वभावादेवाभिभूयते| एवं रसविपाकयोर्बलं वीर्यबलेन| रसविपाकवीर्यबलं प्रभावबलेनेति| तेन रसादीनां विषमत्वेऽपि स्वभावबलमपेक्ष्याधिकस्य सामर्थ्यं विज्ञेयम्||२२||
Adhikarana rasAdayaH viruddhA api nAnyonyakAryanAshakAH (23) · Śloka 23
विरुद्धा अपि चान्योन्यं रसाद्याः कार्यसाधने|
नावश्यं स्युर्विघाताय गुणदोषा मिथो यथा||२३||
ननु यत्र रसादीनामन्यतमस्य कार्यमितरस्य कार्येण विरुद्ध्यते तत्र कस्य कार्यकर्तृत्वं भवति? यदि तु प्रभूतस्य स्वभावबलवतश्चेत्युच्यते| तत्राल्पोऽल्पबलश्च किञ्चित् कर्तुं शक्तो न वेत्येवं पृष्ट इदमाह- विरुद्धा इत्यादि| रसाद्या रसवीर्यविपाकगुणप्रभावा अन्योन्यं परस्परं विरुद्धा अपि न नाशाय भवन्ति कार्यसाधनकाले| दृष्टान्तो-गुणदोषा मिथो यथेति| गुणाः सत्त्वरजस्तमांसि परस्परं पुरुषाद्यभिधानकार्यसाधने विरुद्धा अपि यथा विघाताय न भवन्ति| दोषाश्च वातपित्तकफाविरुद्धा अपि देहरोगादिसाधने यथा मिथो विघाताय न भवन्ति| तद्वद्रसादयोऽपि||२३||
Adhikarana rasavIryAdInAM samaviShamatve bhUtotkarShApakarShayorhetutvam (24) · Śloka 24
रसवीर्यप्रभृतयो भूतोत्कर्षापकर्षतः|
एकरूपा विरूपा वा द्रव्यं समधिशेरते|
माधुर्यशैत्यपैच्छिल्यस्नेहगौरवमन्दताः|
सहवृत्त्या स्थिताः क्षीरे न त्वानूपौदकामिषे||२४||
ननु द्रव्ये रसादीनां परस्परसमविषमतया कार्यकरत्वमुक्तं तस्याश्च रसादिसमविषमतायाः कारणं न ज्ञायते| अत उच्यते-रसवीर्येत्यादि| रसवीर्यादीनां कार्यकरत्वे परस्परसदृशानां विसदृशानां वा यद् द्रव्याश्रयणं तन्महाभूतस्य पृथिव्यादेरुत्कर्षादपकर्षाच्च सम्पद्यते| तेनैतदुक्तं भवति यत् द्रव्ये रसस्य वीर्यादिभिः सादृश्यमसादृश्यं वा तत्सर्वमेकादीनां भूतानां केषाञ्चित् कियताप्युत्कर्षेणान्येषां कियताप्यपकर्षेण जन्यते| तेन द्रव्येण सदृशस्यापि द्रव्यस्य योंऽशांशो विशेषः स भूतकृत एव| एतदेव माधुर्येणेत्याद्युदाहरणेन स्फुटयति| तेन क्षीरे माधुर्यादीनां समानकार्यकर्तृत्वेन यदेकत्र सदृशानामवस्थानं तदेवान्यस्य महाभूतस्योत्कर्षेणान्यभूतेभ्यः ||२४||
Adhikarana sharIradoShANAM sthitivRuddhikShayA dravyahetukAH (25) · Śloka 25
गुणा द्रव्येषु ये चोक्तास्त एव तनुदोषयोः|
स्थितिवृद्धिक्षयास्तस्मात्तेषां हि द्रव्यहेतुकाः||२५||
ये हि गुरुत्वादयो द्रव्ये सम्भवन्ति त एव गुणास्तनोः शरीरस्य प्रत्यङ्गं सम्भवन्ति| दोषस्य च वातादेः तस्मात्तनोर्वातादीनां च स्थितिवृद्धिक्षया द्रव्यहेतुकाः| वृद्धिः समानैरित्यादिन्यायात्||२५||
Adhikarana rasavIryavipAkaj~jAne prakArAH (26) · Śloka 26
रसं विद्यान्निपातेन तेनाधिवसनेन च|
वीर्यं विपाकं द्रव्याणां कर्मणः परिनिष्ठया||२६||
रसादीनां द्रव्यस्थितानां स्वरूपविशेषः कथं ज्ञायते इत्याह- रसमित्यादि| जिह्वानिपातेन स्पर्शमात्रेण रसविशेषं विद्यात् द्रव्यस्य| तेन निपातेनाधिवासनेन कालपरिवसनेन च ज्ञायते वीर्यविशेषः| निपातमात्रेणौष्ण्यं शैत्यं वा ज्ञायते| यत्र तु द्रव्ये विपरीतत्वाद्रसेनाभिभूतं वीर्यं निपातमात्रान्न ज्ञायते तत्र कालाधिवासेन देहमार्दवादिकरणात् ज्ञायते| विपाकविशेषस्तु कर्मणः तत्कृतस्य परिनिष्ठया निष्पत्तेर्दोषवृद्धिक्षयेण||२६||
Adhikarana rasasa~gkhyAviShaye pUrvapakShaH siddhAntashca (27) · Śloka 27
मधुरस्कन्धनिर्दिष्टघृततैलगुडादिषु|
गुणास्वादादिभेदेन रसषट्कं न युज्यते|
अस्तु भेदादसङ्ख्यत्वमैक्यं वा स्वादलक्षणात्|
भूतोत्कर्षापकर्षेण भेदो योऽल्पेन कल्प्यते|
सङ्कीर्णात्व फले चासौ तुल्यत्वान्न विवक्ष्यते|
गुर्वादीनां विशेषेऽपि स्वजातेरनतिक्रमात्|
सङ्ख्याभेदो यथा नास्ति रसानामपि स क्रमः|
दृष्टं मुखोपलेपादि यत्सर्वेषु घृतादिषु|
न च तद्दाडिमाद्येषु षडेवातो रसाः स्मृताः|
आनन्त्यैकत्वयोश्च स्यान्न विचित्रार्थतन्त्रणम्||२७||
ननु रसानां मधुरादित्वेन षट्सङ्ख्यानियम उक्तः; स न युज्यते केवलमेकरसत्वमनेकरसत्वं वा| तत्रानेकरसत्वे कारणं वक्ष्यमाणमधुरादिस्कन्धनिर्दिष्टानां घृततैलगुडद्राक्षाशर्करामधुमधुकादीनां गुणस्वादादिभेदः| तथा हि त्वया ये मधुरत्वेन निर्दिष्टा गुडद्राक्षादय आस्वादनेन ते न परस्परसदृशाः न च गुरुत्वादिना गुणेन| न चाम्लादियुक्ता इति वक्तुं युज्यते| अतो ज्ञायते अन्ये विशिष्टा एव त इति प्रतिरसस्कन्धमानन्त्यम्| रसैकत्वे कारणं जिह्वेन्द्रियास्वादनसामान्यम्| तत्र प्रतिविधीयते भूतोत्कर्षापकर्षेणेत्यादि| तत्र प्रथमं गुणभेददूषणं परिह्रियते| योऽयमल्पेन भूतानामुत्कर्षेणापकर्षेण मधुराणां गुणभेदः स सङ्कीर्णत्वात् फले च सदृशत्वात् सन्नपि न विवक्ष्यते| आस्वादभेदादानन्त्यं परिह्रियते| गुर्वादीनामित्यादि| गुर्वादीनां गुणानां यद्यपि प्रतिद्रव्यं वैलक्ष्यण्यमस्ति तथापि गुरुत्वादिजात्यनतिक्रमात् गुरुर्गुरुर्लघुर्लघुरिति सङ्ख्याभेदाविवक्षया निर्दिश्यन्ते| तद्वन्मधुरादिस्कन्धपठितानां द्रव्याणां यद्यप्यास्वादवैलक्षण्यं दृश्यते तथापि यन्मुखोपलेपह्लादनादि घृतादिषु मधुरेषु दृष्टं न तन्मुखोपलेपादि दाडिमसैन्धवादिष्वम्ललवणादिषु दृश्यते| न चैतान् रसानतिक्रम्य जात्यन्तरं संभवति| अतः षडेव रसाः नोनाधिकाः| यदि सदेवानन्त्यमैक्यं वा यथोक्तप्रकारेण तन्त्रव्यवहारे गृह्यते ततो विचित्रस्य रसपृष्ठभाविनो वक्तव्यस्यानेकस्य तन्त्रणस्य शास्त्रे प्रयोगो न स्यात्| अत आनन्त्येन रसानां तत्स्वरूपतन्त्रणस्याप्यानन्त्यादवक्तव्यता| एकरसत्वे च विशेषस्यानुक्तत्वात् स्वरूपतन्त्रेणापि न युज्यत इति| रसा उपसंहृताः||२७||
Adhikarana vIryAkhyaguNavaishiShTyam (28) · Śloka 28
गुर्वाद्या वीर्यमुच्यन्ते शक्तिमन्तोऽन्यथा गुणाः|
परसामर्थ्यहीनत्वाद् गुणा एवेतरे गुणाः||२८||
वीर्यमुपसंह्रियते-गुर्वाद्या इत्यादि| पूर्वोक्ता गुर्वाद्या अष्टौ यदोत्कृष्टशक्तयः सन्तो द्रव्यं समधिशेरते तदा वीर्यशब्दवाच्याः| यदा तूत्कृष्टशक्तियुक्ता न भवन्ति सामान्यगुणा एव| ये च गुर्वादिविशिष्टा द्वादशगुणाः ते स्वभावेनैव परसामर्थ्यहीना उत्कृष्टशक्तिरहितास्तेऽपि सामान्यगुणशब्दवाच्याः| ते न कदाचिदपि वीर्याख्यां लभन्त इति वीर्यमुपसंहृतम्||२८||
Adhikarana yathArasavipAkapakShaH tatkhaNDana~jca (29) · Śloka 29
यथारसं जगुः पाकान् षट् केचित्तदसाम्प्रतम्|
यत्स्वादुर्व्रीहिरम्लत्वं न चाम्लमपि दाडिमम्|
याति तैलं च कटुतां कटुकापि न पिप्पली|
यथारसत्वे पाकानां न स्यादेवं विपर्ययः|
यस्मात् दृष्टो यवः स्वादुर्गुरुरप्यनिलप्रदः|
दीपनं शीतमप्याज्यं वसोष्णाप्यग्निसादिनी|
कटुपाकोऽपि पित्तघ्नो मुद्गो माषस्तु पित्तलः|
स्वादुपाकोऽपि चलकृत्स्निग्धोष्णं गुरु फाणितम्|
रसः स्वादुर्यथा चैतत्तथान्येष्वपि दृश्यते|
वातलं कफपित्तघ्नमम्लमप्यक्षिकीफलम्|
कुरुते दधि गुर्वेव वह्निं पारावतं न तु|
कपित्थं दाडिमं साम्लं ग्राहि नामलकीफलम्|
कषाया ग्राहिणी शीता धातकी न हरीतकी|
अप्रधानाः पृथक् तस्माद्रसाद्याः संश्रितास्तु ते||२९||
विपाक उपसंह्रियते-यथारसमित्यादि| केचिदाचार्या रसानतिक्रमेण पाकषट्कं जगुरवदन्| यथारसमिति यथाविधो रसः स्वरूपेण तथाविध एव तस्य विपाकः तेन मधुरस्य मधुरो विपाकः अम्लोऽम्लस्य पटुर्लवणस्य तिक्तस्तिक्तस्य कटुः कटोः कषायः कषायस्येति| तच्चाचार्य- मतमसाम्प्रतमयुक्तमिति| कुतः? व्यभिचारात्| एतदेवोदाहरणेन दर्शयति- यत्स्वाद्वित्यादि| यदि हि रससदृशः सर्वस्य विपाकः स्यात् तत एवं विपर्ययो न स्यात्| ते च रसादयो द्रव्यात् पृथग्भावेन कार्यकरत्वेन विकल्प्यमाना अप्रधाना यतस्ते स्थिता अपि यस्मिन् द्रव्ये न तद्द्रव्ये तत्सदृशमेव कार्यं कुर्वन्ति| एतदेव यस्माद् दृष्ट इत्यादिनिदर्शनेन दर्शयति| एवं यथा मधुररसे विपर्ययो दृष्टस्तथान्येष्वपि रसेषु दृश्यत इत्यप्रधानाः रसाद्याः|
Adhikarana dravyameva pradhAnam (30) · Śloka 30
प्रभावश्च यतो द्रव्ये द्रव्यं श्रेष्ठमतो मतम्||३०||
द्रव्यं तु श्रेष्ठमित्याचार्याणां मतं, यतस्ते रसाद्या रसवीर्यविपाकाः प्रभावश्च द्रव्यसंश्रिताः तत्परतन्त्रा इत्यर्थः||३०||
Adhikarana prabhAvo~acintyaH prabhAvanirUpaNa~jca sodAharaNam (31) · Śloka 31
रसादिसाम्ये यत्कर्म विशिष्टं तत् प्रभावजम्|
दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी|
मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्|
कटुपाकरसस्निग्धगुरुत्वैः कफवातजित्|
लशुनो वातकफकृन्न तु तैरेव यद्गुणैः|
मिथो विरुद्धान्वातादीन्लोहिताद्या जयन्ति यत्|
कुर्वन्ति यवकाद्याश्च तत्प्रभावविजृम्भितम्|
शिरीषादिर्विषं हन्ति स्वप्नाद्यं तद्विवृद्धये|
मणिमन्त्रौषधीनाम् च यत्कर्म विविधात्मकम्|
शल्याहरणपुञ्जन्म रक्षायुर्धीवशादिकम्|
दर्शनाद्यैरपि विषं यन्नियच्छति चागदः|
विरेचयति यद्वृष्यमाशु शुक्रं करोति वा|
ऊर्ध्वाधोभागिकं यच्च द्रव्यं यच्छमनादि च|
मात्रादि प्राप्य तत्तच्च यत्प्रपञ्चेन वर्णितम्|
तच्च प्रभावजं सर्वमतोऽचिन्त्यः स उच्यते||३१||
एवं रसाद्याः ज्ञाताः, प्रभावस्तु न ज्ञातः, अतस्तद्विज्ञानार्थमुच्यते-रसादीत्यादि| रसवीर्यविपाकानां परस्परसाम्येऽपि यद्यद्विशिष्टं कर्म दृश्यते तत्तत् प्रभावजं विद्धि| एतावदैतदुक्तं भवति-विशिष्टा सर्वातिशायिनी द्रव्यशक्तिः प्रभावशब्दवाच्या| तस्य च प्रभावजस्य कर्मण उदाहरणमुच्यते-दन्तीत्यादि|दन्ती रसाद्यैश्चित्रकस्य तुल्यादि विरेचनी न तु चित्रकमपि विरेचनमिति प्रभावकर्म| मधुकस्य रसाद्यैः सदृशापि द्राक्षा विरेचनी न मधुकमिति प्रभावकर्म| क्षीरस्य रसाद्यैः सदृशमपि घृतं दीपनं न क्षीरमिति प्रभावः| लशुनः कटुरसत्वेन कटुविपाकित्वेन कफजित् स्निग्धत्वेन गुरुत्वेन वातजित् स लशुनः स्वैरेव गुणैर्वातकफौ न करोतीति प्रभावः| तेनैतदुक्तं भवति- कटुकरसविपाकौ तु लशुने कफच्छित्वे द्रव्यप्रभावात् पर्याप्तौ| न तु वातकरत्वे| तथा तत्र स्निग्धत्वं गुरुत्वं च वातजित्त्वे द्रव्यप्रभावादेव पर्याप्तम्, न तु श्लेष्मकरत्वं इति| परस्परविरुद्धानपि वातादीन् दोषान् रक्तशालिः स्निग्धत्वेन गुरुत्वेन नाशयति| यवकश्च तानेव करोतीति प्रभावकर्म| शिरीषहरिद्रादिकं विषं नाशयति स्वप्नमेघादि च तदेव विषं वर्द्धयति तत् प्रभावकर्म| वृष्यञ्च द्रव्यं यच्छीघ्रमेव शुक्रं वर्द्धयति बहिर्विरेचयति वा तत् प्रभावकर्म| यच्च द्रव्यं मदनफलादि ऊर्ध्वं देहे गच्छति हरीतक्यादि बाधस्तत् प्रभावात्| अन्यच्च शमनं प्रभावादेव| यच्च मात्रादिप्रकरणे प्रपञ्चेन विस्तारेण वर्णितं तत् प्रभावजं विद्धि| अतः प्रभावस्य तत्स्वभावत्वात् स प्रभावोऽचिन्त्यः कीदृक्कदा कुतस्य इति ज्ञातुं न शक्यते| सदपि तत्कारणं महाभूतविशेषपरिणामाख्यमस्मद्विधैस्तत्राधिगन्तुं न शक्यतः इत्यर्थः||३१||
Adhikarana prabhAvavaishiShTyam (3) · Śloka 3
रसेन वीर्येण गुणैश्च कर्म द्रव्यं विपाकेन च यद्विदध्यात्|
सद्योऽन्यथा तत्कुरुते प्रभावाद्धेतोरतस्तत्र न गोचरोऽस्ति|
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने द्रव्यादिविज्ञानीयो नाम सप्तदशोऽध्यायः||३||
एतमेव प्रभावार्थमुपसंहति-रसेनेत्यादि| रसादिभिः करणैर्द्रव्यं यत् कर्म करोति तत् प्रभावेनान्यथा कुरुते विपरीतयतीत्यर्थः| अतस्तस्य प्रभावहेतोर्मार्गणा न शक्यते| तथाविधभावस्वभावत्वात्||३२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने सप्तदशोऽध्यायः