Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

14. śōdhanādigaṇasaṁgrahaḥ

Adhikarana athAtaH shodhanAdigaNasaMgraho nAma caturdasho~adhyAyaH pratij~jA (1) · Śloka 1

अथातः शोधनादिगणसङ्ग्रहमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

शोधनं वमनविरेचनकारणत्वात् द्रव्यं शोधनम्| अथवा करणसाधन एव शोधनशब्दः आदिग्रहणेनास्थापनानुवासनादि- परिग्रहः| गणः समूहः| तेषां शोधनादिगणानां सङ्ग्रहमेकत्रस्थापनमस्मिन्नध्याये क्रियते सुखग्रहणार्थम्||१||

Adhikarana vamanopayogIni dravyANi (2) · Śloka 2

मदनजीमूतकेक्ष्वाकुकोशातकीद्वयफलपुष्पपत्राणि कुटज- करञ्जत्रपुससर्षपपिप्पलीविडङ्गैलाप्रत्यक्पुष्पीहरेणु- पृथ्वीकाकुस्तुम्बरुप्रपुन्नाटानां फलानि शारदानि च, हस्तिपर्ण्याः कोविदारकर्बुदारारिष्टाश्वगन्धानीपविदुलबिल्वबिम्बीबन्धु-जीवकश्वेताशणपुष्पीसदापुष्पीवचाचित्राचित्रकमृगेन्द्र-वारुणीसुषवीचतुरङ्गुलस्वादुकण्टकपाठापाटलीशार्ङ्गेष्टा-मधुकमूर्वासप्तपर्णसोमवल्कद्वीपिशिग्रुसुमनस्सौमनस्या- यवानीवृश्चीवपुनर्नवामहासहाक्षुद्रसहेक्षुकाण्डकालक्त वृन्तपिप्पलीमूलचविकानलदोशीरह्रीबेरमूलानि| शाल्मलीशेलुकाभद्रपर्ण्यैरावण्यावर्तक्युपोदकोद्दालधन्वन-रसाञ्जनराजादनोपचित्रागोपशृङ्गाटिकापिच्छाः| प्रियङ्गुपुष्पम्| तालीसपत्रम्| हरिद्राशृङ्गवेरकन्दौ| मधुयष्टी दारुहरिद्रासारौ| तगरगुडूचीमधुफाणित क्षीरक्षारलवणानि चेति वमनोपयोगीनि||२||

🔊 Audio coming soon

मदनादीनां पञ्चानां फलं पुष्पं पत्रं च प्रत्येकम्| कुटजादीनां च फलानि| हस्तिपर्ण्याः शरदुद्भूतानि फलानि| कोविदारादीनां च मूलानि| शाल्मल्यादीनां च पिच्छा मण्डप्रायम्| प्रियङ्गोः पुष्पम्| तालीसस्य पत्रम्| पिण्डहरिद्रायाः शृङ्गवेरस्य च कन्दो भूमिभवः| मधुयष्ट्या दारुहरिद्रायाश्च सारं काष्ठम्| तगरादीनि स्वरुपेणैव| इत्येतानि सकलानि द्रव्याणि वमनोपयोगे त्वङ्गत्वं यान्तीति || २||

Adhikarana virecanopayogIni dravyANi (3) · Śloka 3

त्रिवृच्छ्यामादन्तीद्रवन्तीशङ्खिनीसप्तलाजगन्धाजशृङ्गीवचा गवाक्षीछगलान्त्रीसुवर्णक्षीरीचित्रककिणिहीह्रस्वपञ्चमूल वृश्चीवपुनर्नवापलङकषावास्तुकशाकसालमूलानि| तिल्वक रम्यककाम्पिल्यकपाटलीत्वचः| त्रिफलापीलुप्रियालकुवलबदर कर्कन्धुकाश्मर्यपरूषकद्राक्षानीलिनीक्लीतनकोदकीर्याविडङ्ग पूगपञाङ्गुलफलानि| चतुरङ्गुलफलपत्राणि| पूतीकस्य त्वक्फलपत्राणि| महावृक्षसप्तच्छदज्योतिष्मतीक्षीराणि| क्षीरमद्यमस्तुतक्रधान्याम्लमूत्राणि चेति विरेचनोपयोगीनि||३||

🔊 Audio coming soon

त्रिवृतादीनां मूलानि| तिल्वकादीनां त्वक्| त्रिफलादि फलानि| चतुरङ्गुलस्य फलं पत्रं च| पूतीकस्य त्वक् फलं पत्रं च| महावृक्षादीनां क्षीराणि| क्षीरादीनि स्वरूपेणैवेति विरेचनोपयोगीनि||३||

Adhikarana vamanavirecanopayogIni dravyANi (4) · Śloka 4

कोशातकीदेवदालीसप्तलाकारवेल्लिकास्वरसमर्कक्षीरमुष्णो-दकं चेत्युभयात्मकानि||४||

🔊 Audio coming soon

कोशातक्यादीनां स्वरसाः अर्कक्षीरमुष्णोदकं चोभयोपयोगि वमने विरेचने चोपयुज्यते||४||

Adhikarana bastyupayogIni dravyANi (5) · Śloka 5

बस्तिषु तु तेषु तेष्ववस्थान्तरेषु यान्युपयुज्यन्ते द्रव्याणि तान्येवासङ्ख्येयत्वान्नोपदिश्यन्ते| असस्कन्धेभ्य एव यथादोषं यथावस्थं च विभजेत्| सर्वेषु तु प्रायो मदनकुटजजीमूतकेक्ष्वाकुकोशातकीद्वयत्रपुससिद्धार्थक शताह्वाफलानि| बलादशमूलैरण्डत्रिवृद्धचायष्ट्याह्वकुष्ठ- रास्नापुनर्नवकत्तृणमूलानि| सरलदेवदारुहपुषाहिङ्गु- रसाञ्जनव्योषपत्रैलामृतायवकोलकुलत्थगुडलवणमस्तु धान्याम्लमूत्रस्नेहक्षीरक्षौद्राणि चेति निरूहोपयोगीनि||५||

🔊 Audio coming soon

बस्तिषु त्वौषधान्यस्माभिर्न्नोपदिश्यन्ते| असङ्ख्येयत्वात्| असङ्ख्येयत्वं व्याध्यवस्थाविशेषेषु तेषु तेषु च चिकित्सितस्थानोक्तेरवस्थान्तरेषु बहुभिर्भेदैर्यतो बस्तस्य उक्ताः| बस्तिशब्देनात्र सर्वं निरूहादिकमुच्यते| तानि तु बस्तिद्रव्याणि वातादिदोषापेक्षया व्याध्यवस्थापेक्षया च विभजेत्| रसस्कन्धेभ्यो रसभेदीये वक्ष्यमाणेभ्यो द्राक्षादिभ्य उद्धृत्य| सर्वबस्तिषु च प्रायो बाहुल्येन यानि दृश्यन्ते द्रव्याणि तान्युच्यन्ते| मदनादीनां फलानि| बलादीनां मूलानि| सरलादीनि स्वरूपेणैवेति बस्त्युपयोगीनि|

Adhikarana shirovirecanopayogIni dravyANi (6) · Śloka 6

अपामार्गविडङ्गमरिचपिप्पलीशिरीषबिल्वाजाज्यजमोजवार्ताक- पृथ्वीकैलाहरेणुफलानि| तालीसतमालतर्कारीहरितकवर्गपत्राणि| सर्षपाफलपत्राणि| शिग्रुफलपत्रत्वचः| हरिद्रामूलकलशुननागरकन्दपत्राणि| अतिविषाकन्दाः| कुष्ठवचाभार्ङ्गीश्वेताकिणिहीनागदन्ती- ज्योतिष्मतीगवाक्षीवयःस्थावृश्चिकालीबिम्बीकरञ्जमूलानि| अर्कालर्कपुष्पमूलानि| लोध्रमदनसप्तपर्णनिम्बपीलुबीजानि| मुरुङ्गीमातुलुङ्गी लवङ्गपुष्पाणि| अगरुसुरदारुसरलसल्लकीजिङ्गिण्यनरसाञ्जनहिङ्गुलाक्षा-निर्यासाः| तमालसालतालमधूकदार्वीसाराः| तेजस्विनी-मेषशृङ्गीवराङ्गेङ्गुदीबृहतीद्वयचोचत्वचः| राजादनमज्जक्षौद्रलवणानि मद्यानि गवादिशकृद्रसमूत्र- पित्तान्येवंविधानि चेन्द्रियोपशयान्यन्यानपि तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोप- योगीनि||६||

🔊 Audio coming soon

अपामार्गादीनां फलानि| तालीसादिपत्राणि| सर्षपायाः पत्रं फलञ्च| शिग्रोः फलं पत्रं त्वक् च| हरिद्रादीनां कन्दः पत्रं च| अतिविषायाः कन्दः| कुष्ठादीनां मूलानि| अर्कालर्कयोः पुष्पं मूलं च| लोध्रादीनां बीजानि मुरङ्ग्यादीनां पुष्पाणि| अगर्वादीनां निर्यासः स्वयं प्रस्तुतो रसः| सालादीनां सारः| तेजस्विन्यादीनां त्वक्| राजादनस्य मज्जा| क्षौद्रादीनि स्वरूपेणैव| गवादीनामष्टानां मूत्रयोनित्वपाठितानां शकृतः पीडितो रसः| मूत्रं पित्तं च तेषामेवैवंविधानि रसवीर्यविपाकप्रभावैरेतत्सदृशा-नीन्द्रियाणां चक्षुरादिनामुपशयानि स्वास्थ्यसंवाहकानि तानि स्नेहा यथोक्ताः क्षीररक्तादयश्चेति शिरोविरेचने नस्ये उपयुज्यते||६||

Adhikarana prAyogikadhUmopayogIni dravyANi (7) · Śloka 7

मधुकपद्मकमञ्जिष्ठाशारिवामुस्तापुन्नागनागकेसरैवालवालुक सुवर्णत्वक्तमालपृथ्वीकाहरेणुलाक्षाशतपुष्पासल्लकीशर्करा-मदनकमरुबकन्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वक्पद्मो-त्पलानि सर्वगन्धद्रव्याणि च कुष्ठतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि||७||

🔊 Audio coming soon

मधुकादीनि प्रायोगिके स्वास्थ्यवृत्तिके धूमे योगमर्हन्तीति|

Adhikarana snaihikadhUmopayogIni dravyANi (8) · Śloka 8

अगरुगुग्गुलुसल्लकीशैलेयकनलदह्रीबेरहरेणूशीरमुस्ता- ध्यामकवराङ्गश्रीवेष्टकस्थौणेयकपरिपेलवैलवालुक कुन्दरुकसर्जरसयष्ट्याह्वफलसारस्नेहमधूच्छिष्टबिल्वफल- मज्जयवतिलमाषकुङ्कुमानि मेदोमज्जवसासर्पिषि च स्नैहिकधूमोपयोगीनि||८||

🔊 Audio coming soon

अगर्वादीनि स्नैहिकधूमोपयोगीनि||८||

Adhikarana tIkShNAni shirovirecanadravyANi (9) · Śloka 9

शिरोविरेचनद्रव्याणि गन्धद्रव्याणि च तीक्ष्णानि मनोह्वा हरितालं चेति तीक्ष्णधूमोपयोगीनि||९||

🔊 Audio coming soon

तीक्ष्णानि शिरोविरेचनद्रव्याणि हैमवतीदन्त्यादीनि मनश्शिला हरितालं चेति तीक्ष्णधूमोपयोगीनि||९||

Adhikarana vAtashamanAni dravyANi (10) · Śloka 10

भद्रदारुकुष्ठतगरवरुणबलातिबलातिबलार्तगलकच्छुरा- ह्लादिनीकुबेराक्षीवत्सादिन्यर्कालर्ककतकभार्ङ्गीकार्पासीवृश्चिका- लीपत्तूरप्रभृतीनि विदार्यादिगणो वीरतरादिस्तृणाख्यवर्ज्यानि षट् पञ्चमूलानि चेति वातशमनानि||१०||

🔊 Audio coming soon

भद्रदार्वादीनि वक्ष्यमाणौ च विदारीवीरतरादिकौ गणौ तृणाख्यपञ्चमूलं वर्जयित्वा शेषाणि षट् पञ्चमूलानि चेति क्रुद्ध वातशमनानि||१०||

Adhikarana pittashamanAni dravyANi (11) · Śloka 11

दूर्वाऽनन्तामोचरसमञ्जिष्ठापरिपेलवकालाकालीयक- कदलीकन्दलीपयस्यात्मगुप्तानालिकेरखर्ज्जूरद्राक्षाविदारीबदरी- बलानागबलानागपुष्पाशतावरीशीतपाक्योदनपाकीतृण- शूल्यांशुमतीद्वयारिष्टकारिष्टाटरूषकेत्कटप्रियङ्गुधातकीधवधन्वन- स्यन्दनखदिरकदरप्रियालतालसालसर्जतिनिशाश्वकर्ण-गुन्द्रावानीरपद्मापद्मबीजमृणालकुमुदनळिनसौगन्धिक-पुण्डरीकशतपत्रशैवालकल्हारोत्पलकाकोल्युत्पलिकाशालूक-शृङ्गाटककशेरुकक्रौञ्चादनप्रभृतीनि अन्यानि च शीतवीर्याणि सारिवादिः पद्मकादिः पटोलादिर्न्यग्रोधादिर्दाहहरो महाकषायस्तृणपञ्चमूलं चेति पित्तशमनानि||११||

🔊 Audio coming soon

दूर्वादीनि यथापठितान्यन्यानि च शीतवीर्याणि शारिवापद्मकपटोलन्यग्रोधादिगणचतुष्टयं वक्ष्यमाणं, दाहहरो महाकषायः तृणपञ्चमूलं चेति पित्तशमनानि||११||

Adhikarana shleShmashamanAni dravyANi (12) · Śloka 1

शीतशिवशतपुष्पासरलसुरदारुरास्नेन्गुदीसातलासुमनः-काकादनीलाङ्गलिकाहस्तिकर्णमुञ्जातलामज्जकप्रभृतीन्यानि च रूक्ष्णोष्णवीर्याण्यारग्वधादिरसनादिरर्कादिः सुरसादिर्मुष्ककादिर्वत्सकार्मुस्तादिः शीतघ्नश्च महाकषायो वल्लीकण्टकपञ्चमूले च श्लेष्मशमनानीति||१||

🔊 Audio coming soon

शीतशिवाद्यन्यानि च रूक्ष्णोष्णवीर्याणि आरग्वधासनार्कसुरसमुष्ककवत्सकमुस्तादिगणसप्तकं शीतघ्नश्च महाकषायो बल्याख्यं पञ्चमूलं कण्टकाख्यं चेति श्लेष्मप्रशमनानि||१२||

Adhikarana upasaMhAraH (13-14) · Śloka 14

भवति चात्र- समीक्ष्य दोषदूष्यादीनमी वर्गाः सुयोजिताः| सर्वामयजयायालं जयन्ते नियतात्मनाम्||१३|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने शोधनादिगणसंग्रहो नाम चतुर्दशोऽध्यायः||१४||

🔊 Audio coming soon

भवति चात्रेति तन्त्ररीतिः| अमी यथोक्तवर्गा वमनोपयोग्यादयो दोषदूष्यबलकालादीनवेक्ष्य नानाविधाभिः क्वाथस्नेहादिपरिकल्पनाभिः योजिता नियतात्मनामलोलुपानां सर्वव्याधिनाशनायालं जायन्ते पर्याप्तं भवन्तीत्यर्थः||१३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया-मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने चतुर्दशोऽध्यायः