Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. pratyēkagrahapratiṣēdhaḥ

Adhikarana atha pratyekagrahapratiShedho nAma ShaShTho~adhyAyaH - avataraNikA · Śloka

🔊 Audio coming soon

सामान्येन सर्वग्रहाणां स्नपनमुक्त्वा विशेषेण प्रत्येकं चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||

Adhikarana pratij~jA (1) · Śloka 1

अथातः प्रयेकग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana skandagrahacikitsA - guggulvAdipradeha pariShekAbhya~ggaH (2(1)) · Śloka 2

स्कन्दग्रहे गुग्गुल्वेलावालुकमनशिशलाहरितालमञ्जिष्ठो- शीररास्नागरुदेवदारुश्रीवेष्टकहरेणूगिरिकदम्बकचन्दनैः श्लक्ष्णपिष्टैः प्रदेहो वातहरवृक्षपत्रक्वाथेन कवोष्णेन परिषेकस्तेषामेव च मूलक्वाथे सर्वगन्धसुररामण्डाकैडर्यावापवत्तैलं विपक्वमभ्यङ्गः| (१)|२|

🔊 Audio coming soon

स्कन्दग्रहे गुग्गुल्वादिभिः श्लक्ष्णपिष्टैः प्रदेहः| एलवालूकं मालूकम्| श्रीवेष्टकं धूपद्रव्यम्| गिरिकदम्बको भूकदम्बकः भूकदम्बकः| वातहरवृक्षाणां भद्रदार्वादीनां पत्रक्वाथेन कोष्णेन परिषेकः| तेषामेव च वातहरवृक्षाणाम् मूलक्वाथे सर्वगन्धद्यावापतत्तैलं विपक्वमभ्यङ्गः| आवापः कल्कः| सर्वाणि गन्धद्रव्याणि यथा लाभम्| कैडर्यं सुरभिपत्रम्||२(१)||

Adhikarana bRuhatyAditailamabhya~ggArthe (2(2)) · Śloka 2

बृहतीद्वयद्विपुनर्नवरेणुकोपकुल्यामुस्तखदिरवचाशङ्खनाभिसरलसर्पसुगन्धासुराह्वकल्कविपक्वं वा| (२)|२|

🔊 Audio coming soon

अथवा बृहत्यादिभिर्विपक्वं तैलमभ्यङ्गः| रेणुका हरेणूः| उपकुल्या पिप्पली| सर्पसुगन्धा नाकुली| सुराह्वं देवदारु|| २(२)||

Adhikarana kShIrivRukShAdighRutaM pAnArthe (2(3)) · Śloka 2

क्षीरिवृक्षकषायेण क्षीरेण च सिद्धमर्धपलिकैश्च पिष्टैः शारिवाद्विकाकोलीद्विबलांशुमतीद्वयहस्तिकर्णपर्णैर्घृत- प्रस्थं पानम्| (३)|२|

🔊 Audio coming soon

क्षीरिवृक्षाणां वटादीनां क्वाथेन क्षीरेण च तत्सर्वमेकतः कृत्वा शारिवादिभिश्चार्धपलिकैः पिष्टैः घृतप्रस्थं सिद्धं पानम्| अंशुमती सालपर्णी|| २(३)||

Adhikarana rAsnAdisarpiHpAnam (2(4)) · Śloka 2

रास्नादेवदार्वन्यतरकल्केन वा सक्षीरं साधितं सर्पिः| (४)|२|

🔊 Audio coming soon

अथवा रास्नादेवदारुभ्यामन्यतरस्य कल्केन सक्षीरं सर्पिः साधितं पानम्||२(४)||

Adhikarana dhUpayogau (2 (5)) · Śloka 2

वचाकाकादनीसर्पकञ्चुकसर्षपैरुष्ट्राजाव्यश्वगोरोमभिश्च सघृतैर्धूपः| सिद्धार्थकसर्जरसकुष्ठहिङ्गुगुग्गुलुभिर्वा (५)|२|

🔊 Audio coming soon

वचादिभिरुष्ट्रादिलोमभिश्च सघृतैर्धूपः| सिद्धार्थकादिभिर्वा सघृतैर्धूपः|| २ (५)||

Adhikarana auShadhidhAraNam (2(6)) · Śloka 2

सोमवल्लीन्द्रवल्लीशमीबिल्ववन्दाकमृगादिनीमूलानि सूत्रेण ग्रथितानि कण्ठेन शिरसा वा धारयेत्| (६)|२|

🔊 Audio coming soon

सोमवल्यादीनां मूलानि सूत्रेण ग्रथितानि बद्धानि कण्ठेन शिरसा वा धारयेत्| सोमवल्ली गुडूची| इन्द्रवल्ली एन्द्री| बन्दाको वृक्षादिनी| मृगादिनी गवाक्षी|| २(६)||

Adhikarana baliH (2(7)) · Śloka 2

रक्तमाल्यानुलेपवस्रपताकामणिबीजैर्विविधैश्च भक्ष्यैः सदधिघृतमधुलाजकुल्माषमांसमत्स्यसुरासवं समयूरकु- क्कुटं सघण्टाकं सशूर्पव्यजनञ्च कुमारग्रहे रक्तौदनेन बलिमुपोषितो निवेदयेत्| (७)|२|

🔊 Audio coming soon

उपोषितश्च रक्तमाल्यादिभिर्बलिं बालग्रहे निवेदयेत्| रक्तशब्दो लोहितवर्णवाची माल्यानुलेपनाभ्यां सम्बध्यते| पताका वैजयन्ती| बीजानि सस्यानि| सदधीत्यादि बलिविशेषणम्| कुल्माषः स्विन्नसस्यम्||२(७)||

Adhikarana samantrako homaH (2(8)) · Śloka 2

तत्र च रात्राविग्निं ज्वालयित्वा मन्त्रमिमं पठन् मधुसर्पिषा जुहुयात्| अग्नये कृत्तिकाभ्यश्च स्वाहास्वाहेति चान्ततः| नमः स्कन्दाय देवाय ग्रहाधिपतये नमः| शिरसा त्वाभिवन्देहं प्रतिगृह्णीष्व मे बलिम्| नीरुजो निर्विकारश्च शिशुर्भवतु सर्वदा| स्वाहेति| (८)|२|

🔊 Audio coming soon

तत्र च कुमारग्रहे रात्रावग्निं ज्वालयित्वा मन्त्रमिमग्नये कृत्तिकाभ्यश्चेत्यादि पठन् मधुसर्पिषा मिश्रेणाग्निं जुहुयात्| स्वाहा स्वाहेत्यनेनाग्नये स्वाहा कृत्तिकाभ्यश्च स्वाहेत्युक्तम्| सर्वत्र स्वाहेत्येवमन्तो मन्त्रः|| २(८)||

Adhikarana prasa~ggAtsAmAnyanirdeshaH (2(9)) · Śloka 2

सर्वेष्वेव ग्रहेषु त्रिकालमग्निं पूजयेत्तर्पयेच्च| विशे- षतः स्कन्दग्रहे त्रिरात्रं च रात्रौ रात्रौ गायत्र्यभिमन्त्रितोद- केन चत्वरे धात्रीकुमारयोः स्नपनमाचरेत्| (९)|२|

🔊 Audio coming soon

सर्वेष्वेव ग्रहेषु त्रिकालं प्रातर्मध्याह्ने सायं चाग्निं पूजयेत्पुष्पादिना| विशेषतः इत्यादि सुबोधम्|| २(९)||

Adhikarana pratisarAmantraH (2(10)) · Śloka 2

त्रिकालं च मन्त्रेणानेन बालमपमार्जयेत् प्रतिसरां च बध्नीयात्| तपसां तेजसां चैवं यशसां वपुषां तथा| विधाता योऽव्ययो देवः स ते स्कन्दः प्रसीदतु| ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः| देवसेनारिपुहरः पातु त्वा भगवान् गुहः| देवदेवस्य महतः पावकस्य च यः सुतः| गङ्गोमाकृत्तिकानां च स ते शर्म प्रयुच्छतु| रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः| रक्तादित्यवपुर्देवः पातु त्वा क्रौञ्चसूदनः| (१०)||२||

🔊 Audio coming soon

त्रिकालमनेन वक्ष्यमाणेन तपसामित्यादिना मन्त्रेण बालमपमार्जयेत् मार्जनं च कुर्यात्| अनेनैव मन्त्रेण प्रतिसरां सूत्रवेणिकां च बध्नीयात्| तपसामित्यादिभिश्चतुर्भिः श्लोकैर्मन्त्रः| इति स्कन्दग्रहे||२(१०)||

Adhikarana vishAkhAgrahacikitsA (3) · Śloka 3

विशाखे स्कन्दग्रहोक्तो वचाकुष्ठान्वितः प्रदेहो गोलोमीबिल्वशिरीषमुस्तसुरसादिक्वाथेन परिषेकः| सर्पसुगन्धादेवदारुकुष्ठमुस्ताकल्केन सगोमूत्रबस्तमूत्रेण सिद्धं तैलमभ्यङ्गः| क्षीरिवृक्षकषायेण जीवनीयगर्भं सपयस्कं सर्पिः सिद्धं पानम्| जीवकर्षभकक्षीरिणीबृहतीहरिद्रांशुमतीद्वयकैर्वा विदारीद्वयतवक्षीरीमृद्वीकामधुकरास्नानीलोत्पलकन्दव- चाव्योषैर्वा| गृध्रोलूकपुरीषवृषभरोमकेशहस्तिनखैर्घृताक्तैर्धूपः| अनन्ता कुक्कुटीमर्कटीबिम्बीसमङ्गाश्वेतगिरिकर्णिकाः पूर्वोक्तानि च पूर्ववत् धारयेत्| पक्वाममांसरुधिरदधिवारुणीयुक्तो वटवृक्षे बलिश्च- तुष्पथे स्नानम्| मन्त्रश्च -- स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा| विशाखसंज्ञः स शिशोः शिवोस्तु विकृताननः||३||

🔊 Audio coming soon

विशाखाख्ये ग्रहे स्कन्दोक्तो गुग्गुल्वादिर्वचाकुष्ठाभ्यां युक्तः प्रदेहः| गोलोम्यादियुक्तसुरसादिगणक्वाथेन परिषेकः| गोलीमी दूर्वा| सर्पसुगन्धादिकल्केन गोवस्तमूत्रेण च सिद्धं तैलमभ्यङ्गः| सर्पसुग्गन्धा नाकुली| वस्तमूत्रं छागमूत्रम्| क्षीरिवृक्षाणां क्वाथेन जीवनीयगणं गर्भं दत्वा सक्षीरं सिद्धं सर्पिःपानम्| जीवकादिभिर्वा सिद्धं सर्पिः पानम्| क्षीरिणी क्षीरिका| अंशुमतीद्वयं पृश्निपर्णी सालपर्णी च| विदार्यादिभिर्वा सिद्धं सर्पिः पानम्| गुध्रपुरीषादिभिघृर्ताक्तैर्धूपः कार्यः| केशा मनुष्यस्य| अनन्तादीनि च पूर्वोक्तानि स्कन्दग्रहोक्तानि सोमवल्ल्यादीनि च पूर्ववदिति सूत्रेण बद्ध्वा कण्ठेन शिरसा वा धारयेत्| पक्वाममांसादियुक्तो वटवृक्षे बलिश्चतुष्पथे स्नानम्| स्कन्दापरमार इत्यादिश्लोकेन मन्त्रः| इति विशाखे|| ३||

Adhikarana naigameShagrahacikitsA (4) · Śloka 4

नैगमेषे विशाखोक्तः प्रदेहोऽग्निमन्थवरुणनलरोहिषपूतीकपारिभद्रकैः परिषेको धान्यम्लेन सबीजेन गुग्गुलु अश्वगन्धासर्षपोशीरश्वेताकुष्ठशताह्वाविपक्वं तैलमभ्यङ्गः| दशमूलक्वाथे मधुरस्कन्धगर्भं सक्षीरं सर्पिःपानम्| सर्पगन्धाबस्तनखरोमभिर्धूपः| सर्पगन्धाबस्तगन्धातुम्बी- मृगोर्वारुशतावरीसहदेवा पुनर्नवबीजानि धारयेत्| विचित्रमाल्यफलशुक्लविलेपनौदनदधिधृतगुडक्षीरैः महापथे क्षीरिद्रुमे वा बलिः| नदीतीरे स्नानम्| मन्त्रश्च -- अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः| बालं बालहितो देवो नैगमेषोऽभिरक्षतु| स्वाहा||४||

🔊 Audio coming soon

नैगमेषो मेषास्य इति पर्यायौ| तस्मिन् विशाखोक्तो वचाकुष्ठान्वितो गुग्गुल्वादिप्रदेहः| अग्निमन्थादिभिः परिषेकः| रोहिषः प्लीहघ्नः| पारिभद्रको निम्बतरुः| धान्याम्लादिभिः पक्वं तैलमभ्यङ्गः| धान्याम्लस्य बीजमधोऽवस्थितं तेन सह| श्वेता कटभी| शताह्वा शतपुष्पा| दशमूलस्य क्वाथे मधुरस्कन्धं सूत्रोक्तं गर्भं दत्वा सक्षीरं सर्पिर्विपक्वं पानम्| सर्पगन्धादिभिश्च धूपः| सर्पगन्धादीनि पूर्ववद्धारयेत्| बस्तगन्धाऽजगन्धा| तुम्बी कटुकालाबुनी| मृगोर्वारुर्गवाक्षी| सहदेवा बला| विचित्रमाल्यादिभिर्महापथे राजमार्गे क्षीरिद्रुमे वा बलिः| नदीतीरे स्नानम्| मन्त्रश्चाजानन इति श्लोकः| इति मेषास्ये||४||

Adhikarana shvagrahe cikitsA (5) · Śloka 5

श्वग्रहे गवाक्षीब्रह्मदत्ताबृहतीद्वयशारिवाह्नीवेरकुष्ठभूमि- कदम्बसुरसमञ्जरीकरवीरपुष्पैः प्रदेहः| मयूरोलूकाश्व महिषीपुरीषरोमभिश्च| बिल्वैरण्डनक्तमालारलुकपत्रक्वाथः परिषेकः| वयस्थाशतावरीशारिवापयस्यैरण्डसहदेवा त्रिकटुककल्कक्षीरसिद्धं तैलमभ्यङ्गः| तथैव च घृतं पानम्| गोवस्तमूत्रभावितशुष्कमत्स्यचूर्णो निशीथे धूपः| वचावयस्थाब्राह्मीजटिलागोलोमीलम्बापूतनाकेशीगिरि- कदम्बकेकैषीकासहदेवीर्धरयेत्| सघृतसुरामांसदधिरुधिरपललश्चत्वरे बलिः| अङ्करकूटे स्नानम्| मन्त्रश्च रक्षार्थं कार्तिकेयस्य कृत्तिकोमाग्निशूलिभिः| योऽसौ श्वविग्रहः सृष्टः स देवस्त्वाभिरक्षतु| स्वाहा||५||

🔊 Audio coming soon

श्वग्रहे गवाक्ष्यादिभिः प्रदेहः| ब्रह्मदत्ता| ह्रीबेरं वालकम्| भूमिकदम्बकम् गिरिकदम्बकम्| सुरसस्य मञ्जरी तथोक्ता| मयूरपुरीषादिभिर्लेपः| बिल्वादिपत्रक्वाथः परिषेकः| नक्तमालः करञ्जः| अरलुको मयूरजङ्घः| वयस्थादिकल्केन क्षीरेण च सिद्धं तैलमभ्यङ्गः| तथैव च वयस्थादिकल्कक्षीराभ्यां घृतं पानम्| वयस्था आमलकम्| पयस्या क्षीरिका| सहदेवा बला| शुष्काणां मत्स्यानां चूर्णो गोबस्तमूत्राभ्यां भावितो निशीथेय्ऽर्धरात्रे धूपः| वचादिकं धारयेत्| वयस्था आमलकम्| ब्राह्मी प्रसिद्धा| जटिला मांसी| गोलोमी दूर्वा| लम्बा कटुकालाबुनी पूतना हरीतकी| केशी गन्धमांसी| केषाञ्चिच्छतावरी| एकैषीका त्रिवृन्मयूरशिखा च| घृतादियुक्तः चत्वरे त्रिपथे बलिः| सङ्करकूटेऽवकरनिकरे स्नानम्| रक्षार्थमित्यादिना श्लोकेन मन्त्रः| इति श्वग्रहे|| ५||

Adhikarana pitRugrahacikitsA (6) · Śloka 6

पितृग्रहे पूर्वोक्तः प्रदेहो वचावयस्थाजीवन्तीधातकी- प्रियङ्गुगुग्गुलुरास्नामनश्शिलालैर्वा| वचादिभिरेव सिद्धं तैलमभ्यङ्गः| बिल्वकपित्थकरञ्जतक्कारीसुरसपाटलीवरणपारिभद्रक- पारिजातमातुलुङ्गपत्रक्वाथेन रात्रौ परिषेको बिल्वादिभिरेव च तैलं सुराबस्त्रमूत्रयुक्तं साधितमभ्यङ्गः| त्रिफलांशुमतीद्वयपयस्यामधुककल्केन दशमूलनिर्यूहे सक्षीरं सर्पिः पक्वं पानम्| देवदारुभार्ङ्गीविडङ्गच- न्दनकाकोलीद्वयजीवकर्षभकैर्वा सक्षीरैः| लक्ष्मीपुरकुष्ठगोलोमीजटिलोग्रगन्धाभिः सिद्धं तैलं नावनम्| एभिरेव च सुरापिष्टैर्लेपः| गृध्रोलूकवानररोमाणि सघृतानि तत्पुरीषं वा सुप्तजने धूपो वचादिभिर्वा प्रदेहोक्तैः पूर्वोक्तो वा| पूर्वोक्ता एव च धारयेत्| सुरासवगुडापूपपिष्टतिलकृतभक्षो वृक्षमूले सवृषभः कञ्चनाक्षियुगयुक्तः स्वयं पित्रा कुमारस्य निर्वापणीयो बलिः| क्षीरिवृक्षसमीपे स्नानम्| मन्त्रश्च यः पिता सर्वबालानां ग्रहाणां पूजितो वरः| वृक्षमूले कृतावासः स त्वां पातु पिता सदा| स्वाहा||६||

🔊 Audio coming soon

पितृग्रहे पूर्वोक्तः श्वग्रहोक्तो गवाक्ष्यादिः प्रदेहो वचादिभिर्वा| वचादिभिरेव सिद्धं तैलमभ्यङ्गः| बिल्वादिपत्रक्वाथेन रात्रौ परिषेकः| तक्कार्यग्निमन्थः| पारिभद्रको निम्बः| पारिजातो देवदारुः| बिल्वादिभिरेव च सुराबस्तमूत्रयुक्तं साधितं तैलमभ्यङ्गः| दशमूलक्वाथे त्रिफलादीनां कल्केन सक्षीरं पक्वं सर्पिः पानम्| पयस्या क्षीरिका| देवदार्वादिभिर्वा सक्षीरं पक्वं सर्पिः पानम्| लक्ष्म्यादिभिः सिद्धं तैलं नावनम्| सुरापिष्टैस्तैरेव च लेपः| लक्ष्मी ऋद्धिः शमी पद्मचारिणी च| गोलोमी दूर्वा| जटिला मांसी| उग्रगन्धा वचा| गृध्रादिलोमानि घृताक्तानि गृध्रादीनां पुरीषं वा सुप्तजने घनायां रात्रौ धूपः| अथवा वचादिभिः प्रदेहपठितैर्धूपः| पूर्वोक्तः श्वग्रहोक्तो वा मूत्रभावितमत्स्यचूर्णो धूपः| पूर्वोक्ता एव लक्ष्म्याद्या धारयेत्| कुमारस्य पित्रा वृक्षमूले सुरादियुक्तः स्वर्णमयेन चाक्षियुगेन युक्तो बलिः स्वयं निर्वापणीयो निवेदनीयः| क्षीरिवृक्षस्य समीपे स्नानम्| यः पितेत्यादिना श्लोकन मन्त्रः| इति पितृग्रहे|

Adhikarana shukunigrahacikitsA (7) · Śloka 7

शकुन्यां मधुकह्रीवेरोशीरशारिवापद्मकोत्पलमञ्जि- ष्ठालोध्रप्रियङ्गुगैरिकैः प्रदेहः| सुरामूत्रपिष्टैर्वा लोध्रयष्टी- मधुकमञ्जिष्ठाहरीतकीदेवरारुभिर्व्रणोक्ताश्च प्रदेहाः| वेतसाम्लकपित्थैः सपञ्चमूलैर्वा| शुक्तिशङ्खाशम्बूक- भस्म-मञ्जिष्ठाभयामधुकैस्तैलं पक्वं व्रणरोपणम्| क्षीरितरुभिः परिषेको मार्कवमूलकामलकीत्वक्पत्र- प्रियङ्गुमनश्शिलालैलाद्वययष्टीक्रमुकलोध्रधातकीशारि- वाञ्जनोत्पलपत्तङ्गसमङ्गाद्विहरिद्रामांसीमञ्जिष्ठाचन्दनपद्म- कसुवर्णगैरिकैस्तैलं सपयस्कं पक्वमाभ्यङ्गो ग्रहहा व्रणरोपणश्च| अर्जुनफललोध्रमधुकोदुम्बरवचाचूर्णः क्षौद्रयुक्तो मुख- पाके मुखोद्धर्षः| विशाखोक्तं सर्पिःपानम्| स्कन्दोक्तो धूपः| काकापिच्छेन वा गोबालोग्रगन्धा रक्षोघ्नघृत- मयूरचन्द्रकैर्वा| कटम्भराकुक्कुटीमर्कटीलम्बासहदेवह्रीवेरोशीराणी धारयेत्| नागदन्तीलक्ष्मणाबृहतीद्वयमृगोर्वारुशतावरी- सहदेवा वा| तिलतण्डुलमत्स्यमनशिशलाहरितालसम्पृक्तस्तिलपि- ष्टकृतशकुनिकैः करञ्जे बलिर्निष्कुटे स्नानम्| मन्त्रश्च- अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता| अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु| दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा| लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु||७||

🔊 Audio coming soon

शकुन्याख्ये मधुकादिभिः प्रदेहो लेपः| अथवा सुरादिपिष्टैर्लोध्रादिभिः प्रदेहः| व्रणप्रतिषेधिक्ताश्च प्रदेहाः| वेतसाम्लादिभिर्वा| शुक्तिभस्मादिभिः पक्वं तैलं व्रणरोपणम्| शुक्त्यादित्रयं जलप्राणिविशेषः| क्षीरिवृक्षजलैः परिषेको मार्कवमूलकादिभिः साधितेन तैलेन कृतोऽभ्यङ्गश्च ग्रहहा भवति व्रणरोपणश्च| क्रमुकः पट्टिकारोध्रः| मार्कवो भृङ्गराजः| अजुनफलादीनां चूर्णः क्षौद्रयुक्तो शाकुनिके मुखपाके मुखोद्घर्षः| विशाखोक्तं सर्पिर्जीवनीयक्वाथकृतं जीवकादिकृतं वा| स्कन्दोक्तो धूपो वचादिः सिद्धार्थकादिश्च| काकस्य वा पिच्छेन पश्चिमया पक्षसन्तत्या गोवालातत्या गोवालादिभिर्वा शूपः| उग्रगन्धा वचा| कटम्भरादीनि धारयेत्| कटम्भरा महाश्वेता| कटञ्जटीति च| कुक्कुटी मेकवाटिके प्रसिद्धा रसायनाध्यायोक्तलक्षणा| मर्कटी कपिकच्छुः| स्वनामिका च| नागदत्न्यादिर्वा धारयेत्| तिलादिभिः सम्पृक्तस्तिलपिष्टाभ्यां कृतैः शकुनिकैः पक्षिभिः सह करञ्जवृक्षे बलिः| निष्कुटे गृहारामे स्नानम्| अन्तरिक्षचरेत्यादिना श्लोकद्वयेन मन्त्रः| इति शकुन्याख्ये ग्रहे|| ७||

Adhikarana pUtanAgrahacikitsA (8) · Śloka 8

पूतनायां हिङ्गुवचागिरिकदम्बकुष्ठैलाद्वयसुराह्वैः प्रदेहः| कपित्थशिरीषन्यग्रोधबिल्वैरण्डबकुलधववंशाग्निमन्थ- पत्रक्वाथः सर्वगन्धोदकयुक्तः परिषेको वरणकट्वङ्गास्फोतकपोतपङ्कापारिभद्रकैर्वा| कुष्ठसर्जरसवचागोलोमीवयस्थामनश्शिलालैस्तैलं साधितमभ्यङ्गः| मधुरौषधैः साधितं सर्पिःपानम्| एलाद्वयकुष्ठवचाहिङ्गुदेवदारुगिरिकदम्बकैधूर्पः| बिब्बीगुञ्जाकाकादनीन्द्रवारुणीचित्रपला धारयेत्| विचित्रमाल्यमत्स्योदनकृसरपललवान् बलिः सङ्कर- कूटे| तद्वच्छरावसम्पुटस्थः शून्यगृहे चतुर्दिशं प्रक्षेप्यः| तत्र चोच्छिष्टेन स्नपनम्| मन्त्रश्च - मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा| शून्यागाराश्रया देवी दारकं पातु पूतना| दुर्दर्शना महाकाया कराला मेघमालिका| भिन्नागाराश्रया देवी दारकं पातु पूतना||८||

🔊 Audio coming soon

पूतनायां हिङ्ग्वादिभिः प्रदेहः| गिरिकदम्बको भूकदम्बः| कपित्थादिपत्राणां क्वाथः सर्वागन्धोदकेन युक्तः परिषेकः| वरणादिभिर्वा परिषेकः| कट्वङ्गः स्योनाकः| आस्फोतोऽर्कः| कपोतवङ्का सुवर्चला| पारिभद्रको मन्दारः| कुष्ठादिभिः साधितं तैलमभ्यङ्गः| मधुरौषधैः सूत्रोक्तैः सिद्धं सर्पिः पानम्| एलादिभिर्धूपः| गिरिकदम्बको भूकदम्बकः| बिम्ब्यादीर्धारयेत्| बिम्बी तुण्डिकेरी| विचित्रमाल्यादिमान् लःअङ्करकूटेऽवकरनिकरे| तद्वदिति सङ्करकूटवद्विचित्रमाल्यादिमान्| शरावसम्पुटसंस्थो बलिः शून्यगृहे चतुर्दिशं प्रक्षेप्यः| तत्र च शून्यगृहे उच्छिष्टेन भुक्तशिष्टेन बालस्य स्नपनम्| मलिनाम्बरेत्यादिश्लोकद्वयेन मन्त्रः| इति पूंतनायाम्|

Adhikarana shItapUtanAgrahacikitsA (9) · Śloka 9

शीतपूतनायं पूतनोक्तः प्रदेहो धारणीयानि च| वरण- कपित्थतुलसीपाशिकावंशीबिल्वपाटलीनन्दी भल्लात- कपत्रनिर्यूहेण परिषेकः| मुस्तामरदारुकुष्ठसर्पगन्धैर्गोबस्तमूत्रयुक्तं तैलं विप क्वमभ्यङ्गः| काश्मर्यपृश्नपर्णीलोध्रमधुकैर्मधुरवर्गेण च समक्षीरं सर्पिः शृतं प्राश्यमानं शीतपूतनां छर्दिहिध्मा- कासश्वासांश्च शमयति| सातिसारायं तु खदिरपलाशसर्जार्जुनरोहिणीत्वक्क्वा- थेन तुल्यपयः सर्पिः| गृध्रोलूकविड्बस्तगन्धाहिनिर्मो- कनिम्बपत्रैर्धूपः| जीर्णगोचर्मसर्षपभिक्षुसङ्कटीसर्पकञ्चु- कैर्वा| मुद्गौदनप्रायो जलाशयसमीपे बलिस्तत्रैव च स्नानम्| मन्त्रश्च- मुद्गौदनाशना देवी सुराशोणितपायिनी| जलाशयालयरता पातु त्वा शीतपूतना||९||

🔊 Audio coming soon

शीतपूतनायां पूतनोक्तैर्हिङ्ग्वादिभिः प्रदेहः| तदुक्तान्येव बिम्व्यादीनि धारणीयानि| वरुणकपित्थादिपत्रक्वाथेन परिषेकः| तुलसी सुरसा| पाशिकाख्यो वृक्षः प्रसिद्धो दाक्षिणात्येष| वंशी गिरिकर्णिका| नन्दी नन्द्यावर्ताख्या| मुस्तादिभिर्गोबस्तमूत्राभ्यां युक्तं तैलं विपक्वमभ्यङ्गः| काश्मर्यादिभिः सूत्रोक्तेन च मधुरवर्गेण समक्षीरं घृतं सर्पिः प्राश्यमानं शीतपतनादिञ्छमयेत्| अतिसारयुक्तायां तु शीतपूतनायां खदिरादित्वचां क्वाथेन तुल्यक्षीरं सर्पिः सिद्धं शस्यते| गृध्रविडादिभिर्धूपः| बस्तगन्धाजगन्धा| जीर्णोर्गोचर्मादिभिर्वा धूपः| भिक्षुसङ्घाटी श्रमणककन्था| अत्र च मुद्गौदनप्रायो जलाशयस्य नद्यादेः समीपे बलिः| तत्रैव च जलाशयसमीपे स्नानम्| मुद्गौदनाशनेत्यादिना श्लोकेन मन्त्रः| इति शीतपूतनायाम्|| ९||

Adhikarana andhapUtanAgrahacikitsA (10) · Śloka 10

अन्धपूतनायां सर्वगन्धैः सशिरोवक्त्रस्य प्रदेहः| वरुणास्फोतपारिभद्रकवृक्षादनीनागबलागैरिकशतावरीभिः परिषेकः| हरितालमनःशिलाकुष्ठसर्जरससुरासौवी- रकसंस्कृतं तैलमभ्यङ्गः| स्यन्दनस्योनाककाश्मर्यखदिरकुष्ठैर्मधुरवर्गेण च क्षीरि- वृक्षकषाये सक्षीरं शृतं घृतं मधुयुक्तं चक्षुः कामो- पसृष्टानां प्राशः| छर्दिकातीसारवतां तु तदेव पिप्पली- पिप्पलीमूलसालपर्णीबृहतीकल्कोपेतम्| रक्षोघ्नारुष्करसर्जरसमधुभिर्धूपः| जीर्णभिक्षुसङ्घाटी- कृकवाकुपुरीषाहित्वक्केशचर्मभिर्वा| अनन्ता कुक्कुटी मर्कटी बिम्बीर्धारयेत्| तुम्बी चित्र- फला मृगोव्क्रुजालिनी काकादनीर्वा| पक्वाम्रमांसशोणितैश्चतुष्पथे बलिगृहे स्नानम्| मन्त्रश्च- कराला पिङ्गला मुण्डा कषायाम्बरवासिनी| देवी बालमिमं प्रीता पालयत्वन्धपूतना||१०||

🔊 Audio coming soon

अन्धपूतनायां सर्वैर्गन्धद्रव्यैः सशिरोवक्त्रस्य बालस्य प्रदेहः| वरुणादिभिः परिषेकः| आस्फोता मुकुन्दा अर्कश्च| वृक्षादनी द्रुमव्याधिः| हरितालादिसंस्कृतं तैलमभ्यङ्गः| स्यन्दनादिभिः सूत्रोक्तेन च मधुरवर्गेण कल्कीकृतेन क्षीरिवृक्षकषाये सक्षीरं सिद्धं घृतं प्रयोगे च माक्षिकयुक्तं चक्षुः कामग्रहोपसृष्टानां प्राशः| छर्द्यादिमतामन्धपूतनार्तानां तदेव स्यन्दनादिभिः सिद्धं पिप्पल्यादिकल्कोपेतम्| रक्षोघ्नादिभिर्धूपः| अथवा जीर्णभिक्षुसङ्घाट्यादिभिः| रक्षोघ्नः सर्षपः| अरुष्करो भल्लातकः| जीर्णा शीर्णा भिक्षुसङ्घाटी श्रमणककन्था| कृकवाकुः कुक्कुटस्तस्य पुरीषम्| अनन्तादीर्धारयेत्| अनन्ता दूर्वा| कुक्कुटी प्रसिद्धामेकवाटिके| मर्कटी आत्मगुप्ता बिम्बी तुण्डीकेरी| अथवा तुम्ब्यादीर्धारयेत्| चित्रफला चिर्भिटो विशालभेदः| मृगोर्वारुर्गवाक्षी| जालिनी कोशातकी| काकादनी गुञ्जा| पक्वाममांसादिभिश्चतुष्पथे बलिः| गृहे स्नानम्| करालेत्यादि श्लोकेन मन्त्रः| इत्यन्धपूतनायाम्|| १०||

Adhikarana mukhamaNDitikAgrahacikitsA (11) · Śloka 11

मुखमण्डितिकायां वारुष्या श्लक्ष्णपिष्टैः सर्वगन्धैर्लेपः| बिल्वैरण्डकपित्थाग्निमन्थवंशीकुबेराक्षीपत्र- क्वाथेन परिषेकस्तेषामेव च स्वरसेन मधुकवाजिगन्धा- गर्भमैकध्यं तैलं वसा च पक्वमभ्यङ्गः| ह्रस्वपञ्चमूलमधुरवर्गसिद्धं घृतं समधुशर्करं प्राशः| पाठाकेतकसूचीनिम्बफलपिप्पलीविडङ्गहरीतकीभस्म- वचाचोरकचूर्णो वा मधुसर्पिर्भ्याम्| ऋक्षरोममषीपाठा- मरिचपिप्पलीचूर्णो वा| देवदारुभस्मयुक्तो मूर्वाव्योष- मुस्तरास्नागिरिकदम्बकाश्वगन्धाचूर्णो वाऽशोकरोहि- णीचूर्णा वा| एभिरेव च विपक्वमाजं घृतं पयो वा पिबेत्| एभिरेव च योगैर्धूपोपदेहाभ्यङ्गनस्यतैलाक्षिपूरणपरि- षेकान् कुर्यात्| यवकुष्ठसर्जरसैर्धूपः| सर्पचाषकीररल्लकजिह्वा धारयेत्| मातुश्चास्य श्लेष्महरमौषधं पाने स्तनोद्वर्तने च युञ्ज्यात्| विविधगन्धधूपमाल्याञ्जनपारदमनशिशलायुक्तो गोष्ठमध्ये बलिर्गवां मध्ये स्नानम्| मन्त्रश्च- अलङ्कृता रूपवती सुभगा कामरूपिणी| गोष्ठमध्यालयरता पातु त्व मुखमण्डिता||११||

🔊 Audio coming soon

मुखमण्डितिकायां वारुण्या सुरया श्लक्ष्णपिष्टैस्सर्वैर्गन्धद्रव्यैर्लेपः| बिल्वादिपत्रक्वाथेन परिषेकः| वंशी गिरिकर्णिका| कुबेराक्षी श्वेतपाटला| तेषामेव च बिल्वादिपत्राणां स्वरसेन मधुकाश्वगन्धगर्भं वसा तैलं चैकध्यमेकीभूतं पक्वमभ्यङ्गः| ह्ऱस्वपञ्चमूलेन सूत्रोक्तेन मधुरवर्गेण च सिद्धं घृतं मधुशर्कराभ्यां प्रयोगकाले युक्तं प्राशः| पाठादिचूर्णो वा मधुसर्पिर्भ्यां प्राशः| भस्मशब्दस्य पाठादिभिः सम्बन्धः| केतकसूची प्रसिद्धा| अथवा ऋक्षरोममषीपाठादीनां चूर्णो मधुघृताभ्यां प्राशः| अथवा मूर्वादीनां चूर्णो देवदारुभस्मना युक्तो मधुघृताभ्यां प्राशः| गिरिकदम्बकं भूकदम्बकम्| अथवैक एवाशोकरोहिण्याः कटुकरोहिण्याश्चूर्णः| एभिरेव च मूर्वादिभिर्विपक्वमाजं घृतं वा क्षीरं वा पिबेत्| एभिरेव चानन्तरोक्तैर्योगैर्धूपादीन् कुर्यात्| यवादिभिर्धूपः कार्यः| सर्पादिजिह्वा धारयेत्| रल्लकः प्राणिविशेषः| मातुरित्यादि सुबोधम्| विविधगन्धदियुक्तो गोष्ठमध्ये बलिः| गोमध्ये स्नानम्| अलंकृतादिश्लोकश्च मन्त्रः| इति मुखमण्डितिकायाम्|| ११||

Adhikarana revatIgrahacikitsA (12) · Śloka 12

रेवत्यां सर्वगन्धैः कुलत्थमाषचूर्णेन च प्रदेहः| अश्वग- न्धाजशृङ्गीशारिवाद्विपुनर्नवद्विसहाविदारीभिः परिषेकः| कुष्ठसर्जरससाधितं तैलमभ्यङ्गः| धवाश्वकर्णधात- कीककुभतिन्दुकैर्जीवनीयैश्च पिष्टैर्घृतं शृतं प्राशः| यव-यवफलोलूकगृध्रशकृद्भिः सघृतैर्धूपः| वरणारिष्टसिन्दुकान्वितश्चाविकमूत्रेण कण्डकलेपः| शुक्लमाल्यविलेपनलाजौदनपायसैर्गोतीर्थे बलिः| नदीसङ्गमे क्षीरिवृक्षसमीपे वा स्नपनम्| मन्त्रश्च- नानावस्त्रधरा देवी चित्रमाल्यानुलेपना| चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु|१२|

🔊 Audio coming soon

रेवत्यां सर्वगन्धैः कुलत्थमाषाभ्यां चूर्णेन च प्रदेहः| अश्वगन्धादिभिः परिषेकः| द्वे सहे मुद्गपर्णी माषपर्णी च| कुष्ठसर्जरसाभ्यां साधितं तैलमभ्यङ्गः| धवादिभिः पिष्टैः शृतं प्राशः| यवादिभिः सघृतैर्धूपः| यवफलो वंशफलः| वरुणारिष्टाद्यन्वितः कण्डकस्तण्डुलत्वकचूर्णं आविकमूत्रेण लेपः| सिन्दुकः सिन्दुवारकः| शुक्लमाल्यादिभिर्गोतीर्थे प्रधानगोस्थाने बलिः नदीसङ्गमे वा क्षीरिवृक्षसमीपे वा स्नपनम्| नानावस्त्रेत्यादिना श्लोकेन मन्त्रः| इति रेवत्याम्|| १२||

Adhikarana revatIgrahacikitsA (12) · Śloka 12

रेवत्यां सर्वगन्धैः कुलत्थमाषचूर्णेन च प्रदेहः| अश्वग- न्धाजशृङ्गीशारिवाद्विपुनर्नवद्विसहाविदारीभिः परिषेकः| कुष्ठसर्जरससाधितं तैलमभ्यङ्गः| धवाश्वकर्णधात- कीककुभतिन्दुकैर्जीवनीयैश्च पिष्टैर्घृतं शृतं प्राशः| यव-यवफलोलूकगृध्रशकृद्भिः सघृतैर्धूपः| वरणारिष्टसिन्दुकान्वितश्चाविकमूत्रेण कण्डकलेपः| शुक्लमाल्यविलेपनलाजौदनपायसैर्गोतीर्थे बलिः| नदीसङ्गमे क्षीरिवृक्षसमीपे वा स्नपनम्| मन्त्रश्च- नानावस्त्रधरा देवी चित्रमाल्यानुलेपना| चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु||१२||

🔊 Audio coming soon

रेवत्यां सर्वगन्धैः कुलत्थमाषाभ्यां चूर्णेन च प्रदेहः| अश्वगन्धादिभिः परिषेकः| द्वे सहे मुद्गपर्णी माषपर्णी च| कुष्ठसर्जरसाभ्यां साधितं तैलमभ्यङ्गः| धवादिभिः पिष्टैः शृतं प्राशः| यवादिभिः सघृतैर्धूपः| यवफलो वंशफलः| वरुणारिष्टाद्यन्वितः कण्डकस्तण्डुलत्वकचूर्णं आविकमूत्रेण लेपः| सिन्दुकः सिन्दुवारकः| शुक्लमाल्यादिभिर्गोतीर्थे प्रधानगोस्थाने बलिः नदीसङ्गमे वा क्षीरिवृक्षसमीपे वा स्नपनम्| नानावस्त्रेत्यादिना श्लोकेन मन्त्रः| इति रेवत्याम्|| १२||

Adhikarana shuShkarevatIgrahacikitsA (13) · Śloka 13

शुष्करेवत्यां धूपवर्ज्यः स्कन्दग्रहोक्तो विधिः| वचाश्वगन्धाहिङ्गुलाजसिद्धार्थरुद्वर्तनम्| सर्षपतैलं वचासिद्धं नेत्रपूरणम्| काकगृध्रगर्दभशकृद्भिर्लेपः| कुलीरकपालशल्यकशुक्तितमेषशृङ्गहयखरजाहकहस्तिनखनकुलरोमभिर्वपुः सर्वग्रहघ्नः| कुल्माषैर्मद्येन शुष्कमांसेन च शुष्कवृक्षे बलिः| तत्रैव च स्नानम्| मन्त्रश्चौपासते यां सततं देव्यो विविधभूषणाः| लम्बा कराला विनता तथैव बहुपुत्रिका| रेवती शुष्कनामा च सा ते देवी प्रसीदतु| इति||१३||

🔊 Audio coming soon

शुष्करेवत्यां धूपं वर्जयित्वा सर्वो विधिः स्कन्दग्रहोक्तः| वचादिभिरुद्वर्तनम्| वचया सिद्धं सर्षपतैलं नेत्रपूरणम्| काकादिशकृद्भिर्लेपः| कुलीरकपालं कच्छपवराटकः| जाहको नाम प्राणिविशेषः| कुल्माषादिभिः शुष्कवृक्षे बलिः| तत्रैव च शुष्कवृक्षे स्नानम्| उपासत इत्यादिना सार्धेन श्लोकेन मन्त्रः| इति शुष्करेवत्याम्||

Adhikarana anubandhacikitsAsUtram (14-6) · Śloka 6

भवति चात्र अनुबन्धान्यथाकृच्छ्रं ग्रहापायेऽप्युपद्रवान्| बालामयनिषेधोक्तभेषजैः समुपाचरेत्||१४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे प्रत्येकग्रहप्रतिषेधो नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

गतानुगतिका| ग्रहापाये ग्रहविगमेऽप्यनुबन्धानुपद्रवान्यथाकृच्छ्रं कृच्छ्रोपद्रवानतिक्रमेण यथास्वं बालामयप्रतिधोक्तैर्भेषजैः समुपाचरेदिति|| १४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे षष्ठोऽध्यायः द्वितीयं कौमारतन्त्रं सम्पूर्णम्