Adhikarana atha snapanavidhirnAma pa~jcamo~adhyAyaH - avataraNikA · Śloka
🔊 Audio coming soon
ग्रहप्रतीकारस्य प्रकृतत्वात् स्नपनविधेश्च तत्र प्राधान्यात्तं प्रदर्शयितुं पृथगध्याय आरभ्यते
Adhikarana atha snapanavidhirnAma pa~jcamo~adhyAyaH - avataraNikA · Śloka
🔊 Audio coming soon
ग्रहप्रतीकारस्य प्रकृतत्वात् स्नपनविधेश्च तत्र प्राधान्यात्तं प्रदर्शयितुं पृथगध्याय आरभ्यते
Adhikarana pratij~jA (1) · Śloka 1
अथातः स्नपनाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रे यादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana snapanasthAnam (2) · Śloka 2
सरित्सङ्गमगोतीर्थगजेन्द्रस्कन्धगोकुले| चतुष्पथे च स्नपयेद्बालं सस्तन्यमातरम्| श्मशाने दीर्घरोगार्त्तं मृतापत्यां च योषितम्||२||
🔊 Audio coming soon
सरित्सङ्गमादिके बालं स्नपयेत्| सह स्तन्यमात्रा धात्र्या यो वर्तते तम्| सरिन्नदी| गोतीर्थं प्रधानगोस्थानम्| गजेन्द्रस्कन्धो भद्रवारणसमूहः| गोकुलो यत्र गोसमूहो वर्तते| दीर्घरोगेणार्त्तं बालं श्मशाने स्नापयेत्| तत्रैव च मृतवत्सां योषितम्|| २||
Adhikarana snapanayogyA mahI (3) · Śloka 3
दूर्वाक्षीरिद्रुमवती प्रागुदक्प्रवणा मही| स्निग्धनीरुजपुष्पाढ्यपादपा स्नपने शुभा||३||
🔊 Audio coming soon
दूर्वावत्वादिगुणा मही भूमिर्बालस्य स्नपने शुभा| प्राग्दिशाभिमुख्येन निम्ना प्राक्प्रवणा स्निग्धादिगुणाः पादपा यस्यां सा तथोक्ता||३||
Adhikarana snapanayogyaH kAlaH (4) · Śloka 4
रेवतीश्रवणस्वातीप्राजापत्योत्तरैन्देवे| पुष्ये मूले च बालस्य स्नानं पर्वदिनेषु च||४||
🔊 Audio coming soon
रेवत्याद्यन्यतमे नक्षत्रे बालस्य स्नानं शुभम्| प्राजापत्यं रोहिणी| एन्दवं मृगशीर्षम्| पर्वदिनेषु चाष्टम्यादिषु बालस्य स्नानं शुभम्||४||
Adhikarana snapanasthale maNDalanirmANam (5) · Śloka 5
चतुर्हस्ताष्टहस्तं वा द्वात्रिंशद्धस्तमेव वा| नल्वमात्रप्रमाणं वा त्रिवर्णं मण्डलं लिखेत्| गोचर्मचापेषुमितस्त्रिविधो नल्व उच्यते| चतुरस्रं चतुर्द्वारं पताकाभिरलङ्कृतम्| आकीर्णं परितो दूर्वासिद्धार्थकयवाङ्कुरैः||५||
🔊 Audio coming soon
चतुर्हस्ताद्यन्यतमेन मानेन त्रिवर्णं सितरक्तपीतादिकेन विभागेन मण्डलं लिखेत्| नल्वो मानविशेषः| किंलक्षण इत्याह| त्रिविधो नल्वः| एको गोचर्ममितः द्वितीयश्चाषेन धनुषा मितः तृतीय इषुणा शरेण मितः| चतुरस्रमित्यादि मण्डलविशेषणम्| पताका वैजयन्त्यः| परितः समन्ताद् दूर्वादिभिराकीर्णम्|| ५||
Adhikarana maNDale devatA~gkanam (6) · Śloka 6
क्रमात्प्राच्यादिषु लिखेद्गजारूढं पुरन्दरम्| धर्मराजं महिषगं चक्राह्वस्थमपाम्पतिम्| धनदं च गदापाणिं यमस्थानमतीत्य च| मातृस्थानं लिखेत्तस्मिन् सवृषं नन्दिकेश्वरम्| सवध्वनुचरं चादौ मृन्मयं च विनायकम्||६||
🔊 Audio coming soon
तस्मिंश्च मण्डले प्राच्यादिषु दिक्षु क्रमात् पुरन्दरादीन् लिखेत्| प्राग्दिश्यैरावतारूढं पुरन्दरं सहस्राक्षं लिखेत्| दक्षिणस्यां महिषगतं धर्मराजं यमम्| पश्चिमायां चक्रवाकारूढमपांपतिं वरुणम्| मकरासनस्थमिति दारुवाहिः| उत्तरस्यां गदापाणिं धनदं वैश्रवणम्| दारुवाहिः सिंहासनस्थमिति| यमस्थानमतीत्यातिक्रम्य दक्षिणायां मातृस्थानं लिखेत्| सह वध्वा अनुचरैश्च वर्तत इति तथोक्तम्| तत्र चादावेव मृन्मयं विनायकं लिखेत्|| ६||
Adhikarana maNDale vividhacihnAnAma~gkanam (7) · Śloka 7
अतीत्य वरुणावासं सहस्रारं निवेशयेत्| विष्णुप्रहरणं चक्रं सर्वविघ्ननिवारणम्| सुरयक्षेशयोर्मध्ये पद्महस्तालयां श्रियम्| नन्द्यावर्ताङ्कुशादर्शमत्स्यस्वस्तिकतोरणम्| शङ्खं च दक्षिणावर्तं श्रीवत्सं माल्यदाम च| इन्द्रादीनां परीवारमैशान्यादि विदिक्षु च||७||
🔊 Audio coming soon
तत्र च मण्डले वरुणावासमतीत्य पश्चिमायां विष्णोः प्रहरणं निवेशयेत्| सुरयक्षेशयोरिन्द्रधनदयोर्मध्ये पद्महस्तां पद्मालयां च् श्रियं विनिवेशयेत्| तत्र च नन्द्यावर्तादिकं लिखेत्| स्वस्तिकनन्द्यावर्तौ सन्निवेशौ मण्डलार्थं प्रसिद्धौ| श्रीवत्साख्यो मणिस्तिर्यग्दीर्घश्चतुष्कोणः| एशान्यादिविदिक्षुक्रमेणेन्द्रादीनां परिवारं लिखेत्| एशान्यामिन्द्रपरिवारम्| आग्नेय्यां यमपरिवारम्| नैऋत्यां वरुणपरिवारम्| वायव्यां धनदपरिवारमिति|| ७||
Adhikarana maNDale rAkShasInAma~gkanam (8) · Śloka 8
लम्बोदरी लम्बभुजा लम्बकर्णी च राक्षसी| इन्द्रद्वारे निवेश्याः स्युर्यमद्वारे प्रलम्बिनी| लम्बकेश्यपतिद्वारे कौबरे लम्बनासिका||८||
🔊 Audio coming soon
इन्द्रद्वारे पूर्वे लम्बोदरादिरूपास्तिस्रो राक्षस्यो निवेश्याः स्युः| उद्देश एकवचनेनापि कर्तृबहुत्वात् बहुवचनम्| प्रलम्बिनीरूपानुगमा राक्षसी यमद्वारे| तद्वदपाम्पतेर्वरुणस्य द्वारे लम्बकेशीनामा| कौबरे धनदद्वारे लम्बनासिका|| ८||
Adhikarana maNDale sha~gkUnAma~gkanam (9) · Śloka 9
षट्कीलानायसान्कुर्यात्सप्तत्रैलौहिकान् भिषक्| द्वौ चात्र खादिरौ शङ्कू चन्दनाम्बुसमुक्षितौ||९||
🔊 Audio coming soon
अत्र मण्डले सर्वतोदिक्कं पञ्चदश शङ्कून् कुर्यात्| तत्र केवलायोमयाः षण्मिश्रीकृतलोहत्रयमयाः सप्त| चन्दनाम्बुसमुक्षितौ चन्दनाम्बुसिक्तौ द्वौ खादिराविति| त्रयो लोहाः सितकृष्णपीताः||९||
Adhikarana maNDale ghaTAnAM niveshanam (10) · Śloka 10
अष्टौ घटाः षोडश वा द्वात्रिंशद् द्विगुणा अपि| स्वस्तिकाङ्काः प्रवालाभा रङ्गैरश्लेषकैः कृताः| यथार्हौषधसंयुक्तशुचितोयप्रपूरिताः| क्षीरिवृक्षपलाशाब्जगन्धमाल्योपशोभिताः| मण्डलस्य चतुद्वरि कर्तव्याः सुनिवेशिताः||१०||
🔊 Audio coming soon
स्वस्तिकाङ्का इत्यादि घटविशेषणम्| अश्लेषका रङ्गाः पृथग्भूता वर्णाः| यथार्हैरौषधैर्युक्तं यत् शुचि तोयं तेन प्रपूरिताः|| देवता घटवर्णविशेषपरभागलाभयोग्यो यथार्हार्थः| क्षीरिवृक्षपलाशादिभिः शोभिताः| पलाशं छदनम्| इन्द्रद्वारे शुक्लरङ्गाः| यमद्वारे कृष्णाः वरुणद्वारे पीताः| कुबेरद्वारे लोहिताः| इत्येवमादिना सुनिवेशिताः||१०||
Adhikarana ghaTAdiShu hemAdinikShepaNam (11) · Śloka 11
पूर्वेषु प्रक्षिपेद्धेम ततश्च मणिमौक्तिकम्| अपरेष्वौषधीबीजानुदक्ष्वक्षतसर्षपान्||११||
🔊 Audio coming soon
पूर्वेषु घटेषु हेम काञ्चनं प्रक्षिपेत्| तत इति दक्षिणेषु मौक्तिकम्| सुबोधम्|| ११||
Adhikarana mRudAdisAmagryAharaNam (12) · Śloka 12
मृदः पवित्रा रक्षोघ्नीराहरेत सुरालयात्| हस्तिशालाश्वशालाभ्यां शृङ्गाटकचतुष्पथात्| वल्मीकाग्रान्नदीतीराद्वेश्याकोशनृपालयात्| गुप्तिद्वारात्समुद्राच्च समिद्धं चाग्निमाहरेत्| समिधः क्षीरिवृक्षाणां गन्धमाल्यं घृतं मधु| अक्षतांस्तण्डुलान् लाजान् पञ्चवर्णोदनं तिलान्||१२||
🔊 Audio coming soon
तत्र च सुरालयादितो रक्षोघ्नीर्मृद आहरेत्| शृङ्गाटकं त्रिपथम्| वल्मीकः पिपीलिकास्थाणुः| वेश्यालयात् कोशालयान्नृपालयाच्च| कोशो धननिचयः| गुप्तिद्वारात् समुद्राच्च| समिद्धं दीप्तमग्निं यागजमरणिजं वा यथालाभमाहरेत्| क्षीरिवृक्षसमिदादींश्च|| १२||
Adhikarana tatra pIThe dhAtrIbAlayorupaveshanam (13) · Śloka 13
ततो मध्यस्थिते पद्मे सह धात्र्योपवेशयेत्| बालमौदुम्बरे पीठे पालाशे वाप्युदङ्मुग्खम्| आस्तृते हरितैर्दर्भैर्न तु प्राच्यादिदिङ्मुखम्||१३||
🔊 Audio coming soon
ततोऽनन्तरं मण्डलमध्यस्थिते पद्मे धात्र्या सह बालमुदङ्मुखमुदुम्बरकाष्ठकृते पालाशे वा पीठे हरितैर्भैरास्तृते उपवेशयेत्| प्राच्यादिदिगभिमुखन्नैवोपवेशयेत्|| १३||
Adhikarana tatra samantraM juhuyAt (14) · Śloka 14
उदाहरिष्यते मन्त्रो यः स्कन्दबलिकर्मणि| जुहुयात्तेन तत्राग्निमुदीच्यां स्थापितं दिशि||१४||
🔊 Audio coming soon
तत्र पद्ममण्डलस्योदीच्यां दिशि स्थापितमग्निं तेन मन्त्रेण जुहुयाद्यो मन्त्रः स्कन्दबलिकर्मण्युदाहरिष्यते स च प्रत्येकग्रहप्रतिषेधे अग्नये कृत्तिकेत्यादिना पठितः|| १४||
Adhikarana vaidyadvArA snapanavidhiH (15) · Śloka 15
त्रिरात्रोपोषितो वैद्यः शुक्लवासा जितेन्द्रियः| सर्षपाक्षतयुक्ताभिर्मृद्धिर्गात्राणि मार्जयेत्| यथोदिताभिः स्नपयेद् घटैः प्राच्यादिदिक्स्थितैः| क्रमात् प्रदक्षिणोत्क्षिप्तः ....................||१५||
🔊 Audio coming soon
ततोऽनन्तरं त्रिरात्रोपोषितत्वादिगुणो वैद्यो बालस्य गात्राणि सर्षपाक्षतयुक्ताभिर्मृद्धिर्मार्जयन् तं बालं प्राचीदक्षिणादिदिभ्यः क्रमेण मण्डलादुत्क्षिप्तैर्घटैः स्नापयेत्|| १५||
Adhikarana atha mantrAH - tatra prathamakalashamantraH (indrakalashamantraH) (17) · Śloka 17
...................................... तत्र मन्त्रं प्रयोजयेत्| अमृतात् पूर्वमुत्पन्नमिमं ते कलशं शुभम्| ददातु भगवानिन्द्रो विजयं नाम नामतः| रक्तपीताम्बरधरैर्भूतैर्बहुभिरन्वितः| राक्षसोरगगन्धर्वपिशाचैश्चानुसेवितः| वज्रघण्टाशनिधरैर्मेघैश्च विविधस्वनैः| देवसङ्घैः परिवृतो गजेन्द्रस्कन्धसंश्रितः| एभिः सार्धं महानिन्द्रः स्नपनं तेऽनुमन्यताम्| पूर्वद्वारे स्थितं दिव्यं वज्रमिन्द्राज्ञया शुभम्| तत्र सर्वाणि पापानि निहन्ता चापराजितः| इन्द्राय नमः स्वाहा| इन्द्राण्यै नमः स्वाहा| अपरा- जिताय स्वाहा| मेघाधिपतये स्वाहा| देवाधिपतये स्वाहा| शतक्रतवे स्वाहा| १६(१)|१७|
🔊 Audio coming soon
अमृतादित्यादिस्नपने इन्द्रकलशोत्क्षेपे च मन्त्रः| एवमुत्तरत्रापि||
Adhikarana dvitIyakalashamantraH (yamakalashamantraH) (16(2)) · Śloka 17
द्वितीयं कलशं पुण्यमादित्यसदृशप्रभम्| यमो ददातु भगवन् वैजयन्तं तु नामतः| कृष्णाञ्जननिभैर्घोरैः कृष्णाम्बरधरैस्तथा| वृतः करालैर्विकृतै राक्षसैरुग्रविक्रमैः| श्मशानारण्यनिलयैर्मृतवस्त्रान्त्रभूषणैः| त्वगस्थिमज्जमांसादैः प्रेतैर्बहुभिरावृतः| धर्मराजो यमः श्रीमान् सत्यसन्धो महातपाः| दिव्यं महिषमारुह्य स्नपनं तेऽनुमन्यताम्| दक्षिणद्वारसंस्थस्ते यमदण्डः प्रतापवान्| दुःस्वप्नं दुष्कृतं पापं सर्वमद्य हनिष्यति| यमाय नमः स्वाहा| यमदण्डाय नमः स्वाहा| महिष वाहनाय स्वाहा| प्रेताधिपतये स्वाहा| धर्माधिपतये स्वाहा| वैजयन्ताय स्वाहा| १६(२)||१७||
🔊 Audio coming soon
द्वितीयमित्यादि वैजयन्ताख्ये यमकलशे मन्त्रः|| १६(२)||
Adhikarana tRutIyakalashamantraH (varuNakalashamantraH) (16(3)) · Śloka 15
जयन्तं जयवृद्ध्यर्थं तृतीयं कलशं शुभम्| ददातु मधुराजस्ते भगवान् वरुणः स्वयम्| श्वेतमाल्याम्बरधरैः श्वेतगन्धानुलेपनैः| गन्धर्वैः पत्रगेन्द्रैश्च भगवाननुशोभितः| तीर्थकूपनदीवृक्षनिष्कुटोद्यानवासिभिः| प्रबलैः कपिलैः मुण्डैर्विकटैर्वामनैस्तथा| वृतः परिषदैर्भूतैः पाशमुद्गरपाणिभिः| एभिः सहाद्य भगवान् वरुणस्त्वाभिषिञ्चतु| वरुणस्य महापाशोऽप्यपरद्वारमाश्रितः| तव पापं विहन्त्याशु सर्वविघ्ननिवारणः| वरुणाय नमः स्वाहा| श्वेताम्बरधराय स्वाहा| मकर वाहनाय स्वाहा| जयन्ताय स्वाहा| १६(३)||१५||
🔊 Audio coming soon
जयन्तमित्यादि तृतीयकलशे जयन्ताख्ये मन्त्रः| निष्कुटो गृहारामः| विकुटो विस्तीर्णः|| १६(३)||
Adhikarana caturthakalashamantraH (dhanadakalashamantraH) (16(4)) · Śloka 13
चतुर्थं कलशं पुण्यं प्रधानमपराजितम्| धनेश्वरो महाबाहुः प्रयच्छत्वलकाधिपः| चित्रमाल्याम्बरधरैश्चित्रगन्धानुलोपनैः| चित्रमद्यमदोन्मत्तैर्यक्षैः समुपसेवितः| मुदितोद्गीतगन्धर्वैः सेवितश्चाप्सरोगणैः| स ते वैश्रवणः श्रीमान् स्नपनत्वनुमन्यताम्| सर्वव्याधिहरा दीप्ता द्वारमुत्तरमाश्रिता| गदा ते नाशयत्वद्य सर्वपापं दिशो दश| धनाधिपतये स्वाहा| गदापाणये स्वाहा| अपराजिताय स्वाहा| चित्राम्बरधराय स्वाहा| १६(४)||१३||
🔊 Audio coming soon
चतुर्थमित्यादि धनदकलशे अपराजिताख्यो मन्त्रः| अलका नाम यक्षनगरी|| १६(४)||
Adhikarana mantrapAThaH (16(5)) · Śloka 33
आपः पवित्रं लोकेऽस्मिन्नापो वै परमं शुचिः| आपो वै देवताः सर्वा आपस्त्वामभिषिच्यताम्| ब्रह्मा ब्रह्मर्षिभिः सार्धं भगवांस्त्वाभिषिञ्चतु| स्वाहा| साङ्गोपाङ्गास्तथा वेदाः कीर्तिर्लक्ष्मीः सरस्वती| बाला दाक्षायणी सीता सावित्री सरमा द्युतिः| आकाशगङ्गा गङ्गाद्या महानद्यो महोदधिः| नदीनां सङ्गमास्तीर्था निर्झराः सागरास्तथा| मेरुर्महेन्द्रो हिमवान् जगच्च स्थावरत्त्रयम्| स्कन्दादयो ग्रहाश्चैव तोषिता बलिकर्मणा| अद्य त्वामिभिषिञ्चन्तु नीरुजो भव दारक| नमो भगवते पितामहाय| औम् - मं औम् - मं - ल्मि - ल्मि - लिमुक् - लिमुक् - लिपिभवनेभ्यः स्वाहा| नमो भगवते रुद्राय हिलि - हिलि मेल्लि - मेल्लि वेल्लि - वेल्लि म्मिलि -म्मिलि स्वाहा| राक्षसाश्च पलायन्तु भूताश्च त्रस्तमानसाः| मृताशना महाजिह्वास्तथा विघ्नविनायकाः| नमो भगवते कुमाराय पिलि-पिलि खिल्लि-खिल्लि खिणि-खिणि स्वाहा| पुष्करं पुष्कराख्यं नैमिशं च तथा गया| प्रभासं प्रवरं तीर्थं तथा पिण्डारकाह्वयम्| तीर्थान्येतानि सर्वाणि अभिषिञ्चन्तु स्वस्ति ते| नमो भगवतीभ्यो महायोगीश्वरीभ्यो निमि-निमि मेनु- मेनु तरु-तुरु स्वाहा| याश्च जातापहारिण्यो राक्षस्यो विकृताननाः| अपि ता निहताः सर्वाः याश्चान्याः पापचिन्तकाः| सतीनां कपिलानां च सिद्धानं चैव तेजसा| तेजसा चर्षिविप्राणां मयाद्य स्नपितो भवान्| प्रभुर्मृत्युरलक्ष्मीश्च कालरात्रिश्च सारथिः (सारतिः)| लम्बा च लोहशङ्कुश्च पूतना कूटपूतना| अशुभं यच्च ते किञ्चित्सर्वं प्रतिहतं मया| आदित्या वसवो रुद्रा अश्विनावौषधीगणाः| गावोऽन्तरिक्षं सन्ध्ये च नक्षत्रग्रहवत्सराः| विश्वावसुश्च हाहा च नारदस्तुम्बुरुस्तथा| धन्वन्तरिरगस्त्यश्च सुस्नातं प्रदिशन्तु ते| १६(५)||३३||
🔊 Audio coming soon
आप इत्यादिकः धन्वन्तरिरगस्त्यश्च सुस्नातं प्रदिशन्तु ते इत्येव मन्त्रो मन्त्रपाठो विज्ञेयः|| १६(५)||
Adhikarana snapanottarA caryA (17) · Śloka 17
स्नातो द्विजभिषग्भृत्यान्यथाविभवमर्चयेत्| मांसव्यवायाहः स्वप्नान् पञ्चरात्रं विवर्जयेत्||१७||
🔊 Audio coming soon
एतेन च विधिना स्नातः सन् बालो यथाविभवं द्विजादीनर्चयेत्| पञ्चरात्रञ्च मांसादीन् वर्जयेत् || १७||
Adhikarana vidhivatsnapanastavanam (18) · Śloka 18
स्नपनं पाप्मजित्पुण्यं नीरुजामपि पुष्टिकृत्| रोगिणां सर्वरोगघ्नं वन्ध्यानामपि पुत्रदम्| विधिना विधिहीनन्तु सवैद्यं हन्ति बालकम्| नैतदश्रद्दधानाय योज्यं नानुपसीदते||१८||
🔊 Audio coming soon
एतच्च स्नपनं पाप्मजित् पुण्यं नीरुजानामपि बालानां पुष्टिकृद्भवति| रोगिणां पुनर्बालानां सर्वरोगघ्नम्| वन्ध्यानामपि योषितां पुत्रदं भवति| एवङ्गुणं च विधिना शस्त्रोक्तेन युक्तं भवति| विधिहीनं पुनः सवैद्यं बालकं हन्ति| तच्च स्नानमश्रद्दधानाय यो न श्रद्दधाति तस्मै न योज्यम्| अनुपसीदत इत्युपसदनमकुर्वते न योज्यम्||१८||
Adhikarana snapanajalasAdhanArthamauShadhinirdeshaH (19-20) · Śloka 20
पूतीकरञ्जत्वक्पत्रं क्षीरिभ्यो वर्बरादपि| तुम्बीविशालारलुकशमीबिल्वकपित्थतः| स्थाल्यामुत्क्वाथ्य तत्तोयं बालानां स्नपनं शिवम्| रात्रौ प्रसुप्तलोकायां पुष्टिदं सर्वरोगजित्||१९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे स्नपनविधिर्नाम पञ्चमोऽध्यायः||२०||
🔊 Audio coming soon
पूतीकरञ्जादीनां त्वक्पत्रं स्थाल्यामुत्क्वथितं तत्तोयं बालानां सुप्तलोकायामिति रात्रावर्धमात्रगतायां स्नपनं शिवं श्रेयस्करं पुष्टिदं सर्वरोगघ्नं च भवति| क्षीरिणो वटादयः| वर्बरवृक्षश्चन्दनाकारः प्रसिद्धः| तुम्बी कटुकालाबुनी| विशाला गवाक्षी| अरलुको मयुरजङ्घ इति|| १९|| इति श्रीमन्महामहोपाद्यायेन्दुविरचितायामष्टाङ्गसंग्रह व्याख्यायां शशिलेखायामुत्तरतन्त्रे पञ्चमोऽध्यायः||