Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

45. pratyēkalūtāpratiṣēdhaḥ

Adhikarana atha pratyekalUtApratiShedho nAma pa~jcacatvAriMsho~adhyAyaH, adhyAyapratij~jA (1) · Śloka 1

अथातः प्रत्येक लूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

सामान्येन लूतानां चिकित्साविधानुमुक्त्वा यथाप्रधानं प्रत्येकं चिकित्सां प्रदर्शयितुमध्याय आरभ्यते|| १||

Adhikarana kapilAlakShaNaM pratiShedhashca (2) · Śloka 2

आदंशे पिटका ताम्रा भवेत्कपिलया स्थिरा| लसीका रोमकूपेषु दाहोष्णौ मूर्ध्नि गौरवम्| पाननस्याञ्जनालेपसेकेष्वत्र प्रयोजयेत्| निशापद्मककुष्ठैलाकरञ्चककुभत्वचः| स्थिरार्कपर्ण्यपामार्गब्राह्मीज्वलननाकुलीः| अथवा कुष्ठपत्तङ्गनखजोऽङ्गककुङ्कुमम||२||

🔊 Audio coming soon

कपिलाख्यया लूताया आदंशे ताम्रा स्थिरा च पिटका भवेन्मूर्धगौरवान्तं च| अत्र निशादिकं नाकुल्यन्तं पानादिषु योजयेदथवा कुष्ठादिकं कुङ्कुमान्तम्| ककुभोऽर्जुनः| अर्कपर्ण्यलर्कः|| २||

Adhikarana agnimukhIlakShaNam pratiShedhashca (3) · Śloka 3

अग्निमुख्यातिरुक्स्फोटः सम्भवत्यग्निदग्धवत्| अग्निज्वालासमानेन प्रस्विद्यति विषोष्मणा| तृड्दाहकम्पमूर्च्छावान् पित्तास्रमतिसार्यते| योजयेत्पूर्ववत्तत्र प्रत्याख्याय त्वरान्वितः| कुष्ठलामज्जकोशीरमधुकं मधुकं मधु| लाभतः शीतवीर्याणि तालीसं गोपकन्यकाम्||३||

🔊 Audio coming soon

अग्निमुख्याख्यया लूतया आदंशे अतिरुक्स्फोटः सम्भवति यथाऽग्निदग्धे| अग्निज्वालासदृशेन च विषोष्मणा पुरुषः प्रस्विद्यति| तृडादिमांश्च रक्तपित्तमतिसार्यते| तत्राग्निमुख्यां प्रत्याख्यानं कृत्वा त्वरया पूर्ववत् कपिलावत् पानादिकं योजयेत्| शीतवीर्याणि चन्दनोशीरादीनि च लाभतो यथालाभम्| तालीसादिकं च|| ३||

Adhikarana pItAlakShaNaM pratiShedhashca (4) · Śloka 4

पीतया पीतविण्मूत्रदंशक्लेदाक्षिदर्शनः| मूर्च्छाच्छर्दिशिरोदुःखज्वरारोचकशूलवान्| तत्रेष्टाः कटभोशीरमुञ्जावञ्जुलपावकाः| वंशकाशार्जुनकुशाः शिरीषकिणिहीत्वचः| अथवा वन्यबाह्लीककुष्ठकेसरजोङ्गकम्||४||

🔊 Audio coming soon

पीताख्यया लूतया आदंशे सति पुरुष पीतवर्णैर्विडादिभिर्मूच्छादिभिश्च युक्तो भवति| तत्र कटभादिकं पानादिषु योजयेत्| अथवा वन्यादिकम्| कटभा कटभी| जोङ्गकं कृष्णागरु|| ४||

Adhikarana padmAlakShaNaM pratiShedhashca (5) · Śloka 5

पद्माभः पद्मया स्फोटो भिन्नोऽभिन्नः पुनर्भवेत्| क्लिद्यत्याशु स्रवत्युष्णं क्लेदस्पर्शेऽतिरुक्करः| तत्र पद्मोत्पलान्नालो हिमवेतसवञ्जुलाः| समृणालाः सकुमुदाः सक्षौद्रघृतशर्कराः||५||

🔊 Audio coming soon

पद्माख्यया आदंशे पद्माभः स्फोटो भवति| भिन्नोऽपि सन् पुनरभिन्नो भवति| स च स्फोट आशु क्लिद्यत्युष्णं च क्लेदं स्रवति| स्पर्शे चातिरुक्करो भवति| तत्र पद्मोत्पलादिकं शर्करान्तं पानादिषु|| ५||

Adhikarana mUtraviShAlakShaNaM pratiShedhashca (6) · Śloka 6

पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः| श्वासकासज्वरच्छर्दिमूर्च्छादाह्भ्रमान्वितः| मनश्शिलालमधुकमधुकोत्पलचन्दनम्| कुष्ठलामज्जकोशीरपद्मकं तत्र भेषजम्||६||

🔊 Audio coming soon

मूत्रविषायाः पूतिर्दंशो भवति विसर्पाद्यन्वितश्च| तत्र मनश्शिलादिकं पानादिषु भेषजम्|| ६||

Adhikarana shvetAlakShaNaM pratiShedhashca (7) · Śloka 7

आदंशे श्वेतया श्वेता पिटका भृशकण्डुला| दाहमूर्च्छाज्वररुजाविसर्पक्लेदकारिणी| तत्रेष्टाः शीतरास्नैलाहरेणुनलवञ्जुलाः| कुष्ठमांसी नतोशीरकान्ताध्यामकपद्मकाः||७||

🔊 Audio coming soon

श्वेताख्यया आदंशे श्वेता कण्डूला दाहादिकारिणी च पिटका भवति| तत्र शीतादिकं पानादिष्विष्टम्| शीतं चन्दनम्|| ७||

Adhikarana kRuShNAlakShaNaM pratiShedhashca (8) · Śloka 8

आदंशः कृष्णया कृष्णो विड्गन्धिः कलेदशोफवान्| उत्थाप्यते कृष्णमसृग्दुष्टम् तत्र च भेषजम्| महासुगन्धा सर्पाक्षी वक्रैला गन्धनाकुली||८||

🔊 Audio coming soon

कृष्णाख्यया आदंशः कृष्णवर्णः पुरीषगन्धिः क्लदशोफयुक्तश्च भवति| दुष्टम् कृष्णं चासृगुत्थाप्यते विरेच्यते| तत्र महासुगन्धादिकं भेषजम्| महासुगन्धा रास्ना| वक्रं तगरम्| गन्धनाकुली(नि) सूक्ष्मपत्रा परा ज्ञेया सर्पाक्षी गन्धनाकुली|| ८||

Adhikarana pANDuralakShaNam pratiShedhashca (9) · Śloka 9

शूनः पाण्डुरया दंशः शोफो वक्त्रस्य गौरवम्| ज्वरो विघूर्णनं जृम्भा शिरोरुक् तत्र भेषजम्| मूलं वारुणपुष्पाया रोचना गोशकृद्रसः||९||

🔊 Audio coming soon

पाण्डुरया दंशः शूनो भवति| वक्त्रशोफो गौरवादिकं च| तत्र वारुणपुष्पामूलादि भेषजम्| वारुणपुष्पा विशाला|| ९||

Adhikarana raktapadikAlakShaNaM pratiShedhashca (10) · Śloka 10

आपाण्डुपिटको दंशः शोफवान् रक्तपादया| अस्रस्रुत्तत्र नलदसेव्योदीच्यहिमं मधु||१०||

🔊 Audio coming soon

रक्तपादाख्यया दंश आपाण्डुभिः पिटकाभिर्युक्तः शोफवांश्च भवति अस्रस्रुच्च| तत्र नलदादिकं भेषजम्| नलदं मांसी| सेव्यमुशीरम्| उदीच्यं बालकम्| हिमं चन्दनम्|| १०||

Adhikarana bhRu~ggalakShaNaM pratiShedhashca (11) · Śloka 11

भृङ्गाभो भृङ्गया दंशः पिटका दाहरुक्करी| कोठैश्च चीयते गात्रं तत्र शस्तं भिषग्जितम्| अङ्कोलसारं फलिनी गवां पित्तं मिसिर्गदः||११||

🔊 Audio coming soon

भृङ्गाख्ययो दंशो भृङ्गाभो भ्रमरवर्णः पिटका च दाहरुक्करी भवति| गात्रं च कोठैश्चीयते| तत्राङ्कोलसारदिकं भिषग्जितमौषधं शस्तम्| फलिनी प्रियङ्गुः| मिसिः शतपुष्पा| गदः कुष्ठम्| अङ्कोलवृक्षाः प्रसिद्धस्तस्य सारः|| ११||

Adhikarana pi~ggAlakShaNaM pratiShedhashca (12) · Śloka 12

पिङ्गया वह्निदग्धाभो दंशः स्फोटो बहुस्रुतिः| तीव्रशोफज्वररुजाहृत्पीडादाहतृड्युतः| तत्राऽगदः सिता गुन्द्रा मल्लिका मधुकोत्पलम्| जीवकः क्षीरिणां शुङ्गा द्विहिमं नागकेसरम्||१२||

🔊 Audio coming soon

पिङ्गाख्यया दंशोऽग्निदग्धाभो भवति| स्फोटश्च बहुस्रुतिस्तीव्रशोफादिभिर्युक्तो भवति| तत्र सितादिकमगदः|| १२||

Adhikarana trimaNDalAlakShaNaM pratiShedhashca (13) · Śloka 13

त्रिमण्डलाया बहलो दंशः कृष्णं स्रवत्यसृक्| अरुचिर्नेत्रयोर्दाहः कलुषस्रुतिदृष्टिता| विविधैर्मण्डलैश्चास्य शरीरमुपचीयते| तत्रार्कमूलद्विनिशासुरालापृश्निपर्णिकाः| दधित्थनाकुलब्राह्मीज्योतिष्मत्यो हितोऽगदः||१३||

🔊 Audio coming soon

त्रिमण्डलाख्याया दंशो बहलो घनो भवति| कृष्णवर्णञ्च रक्तं क्षरति स्रवति| अरुच्यादिकं च भवति| अस्य चातुरस्य शरीरं विविधैर्नानाविधैर्मण्डलैरुपचीयते| तत्रार्कमूलादिकमगदः|| १३||

Adhikarana pUtigandhAlakShaNaM pratiShedhashca (14) · Śloka 14

आदंशः पूतिगन्धाया विसर्पक्लेददाहवान्| अलजीसन्निभो रुग्वान् विबद्धपिटकाचितः| भार्ङ्गीनिदिग्धिकानिम्बपाटलीसिन्दुवारकम्| दूर्वा हरिद्रे वासा च पूतिगन्धा विषापहम्||१४||

🔊 Audio coming soon

पूतिगन्धाख्याया आदंशो विसर्पादिमानलजीसदृशत्वादियुक्तश्च भवति| भार्ङ्ग्यादिकं तु पूतिगन्धा विषापहम्|| १४||

Adhikarana vIrAlakShaNaM pratiShedhashca (15) · Śloka 15

चित्रमण्डलवान् दंशः पिटकाजालकावृतः| वीराया मुर्धरुक् शीतज्वरान्नद्वेषसंयुतः| हरिद्रे नलदं कुष्ठमेला सुरसमञ्जरी| तगरञ्च श्वपित्तेन पिष्टं वीराविषापहम्||१५||

🔊 Audio coming soon

वीराख्याया दंशश्चित्रैर्मण्डलैर्युक्तो भवति| पिटकाजालकैरावृतो मूर्धरुगादिभिर्युक्तश्च| श्वपित्तेन पिष्टं हरिद्राद्वयादिकं तु पानादिभिर्वीराविषापहं भवति|| १५||

Adhikarana kumudAlakShaNaM pratiShedhashca (16) · Śloka 16

दंशः कुमुदया दाहस्फोटस्फुरणतोदवान्| पिच्छिलक्लेदविस्रावी सश्वासस्सगलग्रहः| प्रत्याख्यायात्र कुर्वीत सामान्योक्तं क्रियाक्रमम्||१६||

🔊 Audio coming soon

कुमुदाख्यया दंशो दाहादिमान् पिच्छिलक्लेदस्रावी श्वासगलग्रहाभ्यां युक्तश्च भवति| श्वासस्तमकश्वासः| अत्र प्रत्याख्यानं कृत्वा सामान्योक्तं पूर्वाध्यायविहितं क्रियाक्रमं चिकित्सितं कुर्यात्|| १६||

Adhikarana alaviShAlakShaNaM pratiShedhashca (17) · Śloka 17

भवन्त्यलविषादंशे पीतलोहितमण्डलाः| पिटकाः सर्षपप्रख्यास्तालुशोषो रुजा ज्वरः| छर्दिर्दाहः शिरः कम्पस्तत्र सेव्यः समाक्षिकः| सकासीसकह्नीबेरः सपिप्पलिवटाङ्कुरः||१७||

🔊 Audio coming soon

अलविषया दंशे पीतादिगुणाः सर्षप्रमाणाः पिटका भवन्ति| तालुशोषदिकञ्च| तत्र सेव्यादिकं वटाङ्कुरान्तं भेषजम्| सेव्यमुशीरम्| वटाङ्कुरो वटप्ररोहः|| १७||

Adhikarana raktAlakShaNaM pratiShedhashca (18) · Śloka 18

रक्तान्तो रक्तया दंशः सपाण्डुपिटकाज्वरः| श्वेतोऽतिसारः श्वसनं दाहः क्लेदः सशोणितः| शस्तं शेलवर्जुनाम्रातात्त्वङ्मूलं सिन्दुवारतः||१८||

🔊 Audio coming soon

रक्ताख्यया लूतया दंशो रक्तान्तो भवति| पाण्डुवर्णाभि पिटकाभिर्ज्वरेण च युक्तः| अतिसारश्च श्वेतो भवति| श्वसनादिकं च| अत्र श्लेष्मातकत्वगादिकं सिन्दुवारमूलान्तं शस्तम्| सिन्दुवारः प्रशस्तः|| १८||

Adhikarana citrAlakShaNaM pratiShedhashca (19) · Śloka 19

आदंशे चित्रया रक्ता पिटका विसृता स्थिरा| पर्वभेदशिरस्तापज्वरशोफा विसर्पिणी| भिन्ना कृष्णत्वमभ्येति पीतास्रावा महाव्रणा| तत्रेष्टाः कुष्ठनलदशिरीषनलरेणुकाः||१९||

🔊 Audio coming soon

चित्राख्यया आदंशे रक्तादिगुणा पिटका भवति| सा च स्वयं भिन्ना कृष्णत्वमभ्येति प्राप्नोति| पीतास्रावा महाव्रणा च भवति| तत्र कुष्ठादिकमिष्टम्|| १९||

Adhikarana santAnikAlakShaNaM pratiShedhashca (20) · Śloka 20

दंशे च सन्तानिकया शूलमाकुलताश्रुणः| प्रदराक्षेपकौ तत्र केसरं क्षीरिणां त्वचः| आम्रस्य सिन्दुवारस्य मूलमश्मन्तकस्य च||२०||

🔊 Audio coming soon

सन्तानिकाख्यया दंशे शूलादिकमाक्षेपकान्तं भवति| प्रदरं स्त्रियोऽतिरजः| आक्षेपको वातव्याधिः| तत्र नागकेसरादिकं भेषजम्| मूलशब्दस्याम्राद्यश्मन्तकान्तैः सम्बन्धः|| २०||

Adhikarana mecakAlakShaNaM pratiShedhashca (21) · Śloka 21

पिटका मेचका दंशमध्ये जतुकणोपमा| ज्वरः शोफोऽत्र वारुण्या रोचना रजनीद्वयम्||२१||

🔊 Audio coming soon

मेचकाख्यायाः सम्बन्धिनो दंशस्य मध्ये जतुकणोपमा पिटका ज्वरः शोफश्च भवति| अत्र वारुण्यादिकं भेषजम्| वारुणीन्द्रवारुणी|| २१||

Adhikarana kasanAlakShaNaM pratiShedhashca (22) · Śloka 22

राजीमान् कसना दंशः शिरोरुक् श्वासकासवान्| शीतपिच्छिलरक्तस्रुद्रक्तोक्तं तत्र भेषजम्||२२||

🔊 Audio coming soon

कसनाख्यया दंशो राजीमान् शिरोरुगादियुक्तश्च भवति| तत्र रक्ताख्यदंशोक्तं भेषजम्|| २२||

Adhikarana kAkANDIlakShaNaM pratiShedhashca (23) · Śloka 23

पाण्डुरक्तोऽतिरुग्दंशः काकाण्ड्याः स्मृतिमोषकृत्| हिध्मा श्वसनतृण्मूर्च्छानिद्राक्षेपकहृद्गदाः||२३||

🔊 Audio coming soon

काकाण्ड्या दंशः पाण्डुरक्तत्वादिगुणो भवति| स्मृतिमोषकृच्च| हिध्मादयश्च भवन्ति| इतः प्रभृत्यसाध्यत्वाच्चिकित्सा नोच्यते| निद्राक्षेपः सहृद्गदः इति च पाठः|| २३||

Adhikarana eNapadIlakShaNaM pratiShedhashca (24) · Śloka 24

रक्तान्तस्त्वेणपादाया दंशः कृष्णतिलाकृतिः| दाहमोहाग्निवीसर्पतृड्वमिश्वासकासवान्||२४||

🔊 Audio coming soon

एणपादाया दंशः पर्यन्तेषु लोहितः कृष्णतिलाकृतिर्दाहादिमांश्च भवति|| २४||

Adhikarana lAjavarNAlakShaNaM pratiShedhashca (25) · Śloka 25

पूतिः श्यावोऽतिरुक् सासृगादंशो लाजवर्णया| शीतज्वरसमुत्थानो दाहमूर्च्छातिसारवान्||२५||

🔊 Audio coming soon

लाजवर्णया दंशः पूत्यादिगुणो भवति| शीतज्वरहेतुर्दाहादिमांश्च|| २५||

Adhikarana vaidehIlakShaNaM pratiShedhashca (26) · Śloka 26

अग्निदग्धनिभो दंशो वैदेह्या भृशवेदनः| गम्भीरः सज्वरस्तीक्ष्णमोहो हृदयपीडनम्||२६||

🔊 Audio coming soon

वैदेह्या दंश अग्निदग्धनिभत्वादिगुणो भवति|| २६||

Adhikarana jAlinIlakShaNaM pratiShedhashca (27) · Śloka 27

ऊर्ध्वराजीचितो दंशो जालिन्यास्तीव्रशोफरुक्| उदीर्णतृड्भ्रमश्वासस्तम्भमोहोऽवदीर्यते||२७||

🔊 Audio coming soon

जालिन्या दंश ऊर्ध्वराजीचितत्वादियुक्तो भवति| उदीर्णा वृद्धास्तॄडायो यस्मिन्| अवदीर्यते भिद्यते|| २७||

Adhikarana mAlAguNAlakShaNaM pratiShedhashca (28) · Śloka 28

रक्तो मालागुणादंशो धूमगन्धिः सतीव्ररुक्| दीर्यते पार्श्वतस्तैस्तैः संरब्धैर्मण्डलैर्युतः| अन्तर्दाहो बहिः शैत्यमाध्मानं मूत्रकृच्छ्रता| मूर्च्छाप्रलापातीसारज्वराः प्राणान्तकारिणः||२८||

🔊 Audio coming soon

मालागुणाया दंशो धूमगन्धत्वादियुक्तो भवति| अस्यां च लूतायामन्तर्दाहादयः प्राणानामन्तकारिणः|| २८||

Adhikarana sauvarNikAlakShaNaM pratiShedhashca (29) · Śloka 29

ध्मातः सौवर्णिकादंशः स्यन्दते मत्स्यगन्धिकः| शिरोऽक्षिरुग्ज्वरः कासस्तृष्णा शोफो वमिर्भ्रमः||२९||

🔊 Audio coming soon

सौवर्णिकाख्याया दंशो ध्मातत्वादिगुणो भवति| शिरोरुगादिकञ्च||२९||

Adhikarana asAdhyeShvapi cikitsAyAH dik (30) · Śloka 30

असाध्यानामपि हितं प्रत्याख्यायाशु योजयेत्| दोषोच्छ्रायविशेषेण छेददाहादिवर्जितम्||३०||

🔊 Audio coming soon

यासामसाध्यत्वाच्चिकित्सा नोक्ता तासामसाध्यानामपि प्रत्याख्यानं कृत्वा दोषोच्छ्रायविशेषवशेन हितं चिकित्सितं योजयेत्| छेददाहदिकं वर्जयित्वा|| ३०||

Adhikarana lUtAnusAraM daMshadeshanidarshanam (31-45) · Śloka 45

कपिला तत्र नासायामग्निदर्शति जत्रुणि| पीता तु गण्डयोः पद्मा दक्षिणांसेऽथ कक्षयोः| लूता मूत्रविषा श्वेता चिबुके कालिकाक्षिणि| पाण्डुरा दक्षिणस्कन्धे करयो रक्तपादिका| वामपार्श्वे दशेद् भृङ्गा वामांसे पिङ्गला दशेत्| त्रिमण्डलोदरे पूतिः पृष्ठे वीरा तु दक्षिणे| बाहौ नाभ्यां कुमुदिका वामस्कन्धेऽलसंज्ञिता| कण्ठे रक्ता ललाटे तु चित्रा सन्तानिकौष्ठयोः| मेचका मूर्ध्नि कसनाद्धस्तयोः कक्षमूलयोः| काकाण्ड्येणी तु हृदये लाजवर्णा स्तनान्तरे| बाहुसन्धिषु वैदेही लूताऽपाङ्गे तु जालिनी| मालागुणाख्या ग्रीवायां सौवर्णी कर्णमूलयोः| इति क्षेत्राणि नियतान्यत्युदीर्णविषाः पुनः| परक्षेत्रेऽपि वर्तन्ते राजानोऽतिबला इव||३१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे प्रत्येकलूता प्रतिषेधो नाम पञ्चचत्वारिंशोऽध्यायः||४५||

🔊 Audio coming soon

इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे प्रत्येकलूता प्रतिषेधो नाम पञ्चचत्वारिंशोऽध्यायः||४५|| यस्मिन् देहदेश या लूता दशति सा कपिलेत्यादिना क्रमेण प्रदर्श्यते| तत्र तासां लूतानां मध्ये कपिला नाम लूता नासायां दशति| एवमग्निरित्यादि| व्याख्यासमम्| इत्येतानि नासादीनि क्षेत्राणि कपिलादीनां लूतानां नियतानि| यास्त्वत्युदीर्णविषा भवन्ति ता लूताः परक्षेत्रेऽपि वर्तन्ते यथातिबला राजान इति| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे पञ्चचत्वारिंशोऽध्यायः