Adhikarana atha lUtApratiShedho nAma catushcatvAriMsho~adhyAyaH, adhyAyapratij~jA (1) · Śloka 1
अथातो लूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
जङ्गमविषप्रसङ्गेन लूतानां प्रदर्शयितुमध्याय आरभ्यते|| १||
Adhikarana lUtAsambhave matAntarANi (2) · Śloka 2
विश्वामित्राय रुष्टस्य वसिष्ठस्य ललाटजाः|
स्वेदलेशाः स्मृता लूता लूने ये पतितास्तृणे|
खाण्डवे दह्यमानानामसुराणां शरीरतः|
ये स्फुलिङ्गा विनिश्चेरुस्ते लूता इति केचन|
अन्ये वदन्ति भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनात्|
सम्भवन्ति विषस्फोटा ये लूताः...................||२||
तत्र प्रथमं लूतानां सम्भव उच्यते| तत्र च पक्षत्रयम्| केचिदाचार्य आहुः कस्मिंश्चिदितिहासे विश्वामित्राय क्रुद्धस्य वसिष्ठस्य ये ललाटजाः स्वेदलेशास्ते निकटवर्तिनि लूने छिन्ने तृणे पतितास्ते लूताः स्मृता इति| अन्ये पुनराहुः-खाण्डवदहने दह्यमानानामसुराणां शरीराद्ये अग्निस्फुलिङ्गा विनिश्चेरुस्ते सम्प्रति लूता वर्तन्ति इति| अन्ये तु वदन्ति-भुक्तस्य दुष्टस्यान्नस्य मूर्च्छनान्मिश्रीभावात् कोद्रावविषवद्ये विषस्फोटा उत्पद्यन्ते ते लूता इति|| २||
Adhikarana sAmAnye kITalakShaNam (3) · Śloka 3
.....................कीटलक्षणम्|
यथास्वं धारयन्तस्ते लूताः कीटाश्च संज्ञिताः||३||
ते चाविचारितपूर्वजन्मभेदा यथास्वं वायव्यादिभेदेन कीटलक्षणं धारयन्तः कीटा इत्युच्यन्ते|| ३||
Adhikarana lUtAnAM ghoratamatvam (4) · Śloka 4
तत्र घोरतमा लूता भिद्यन्ते ता अपि त्रिधा|
तीक्ष्णमध्यावरत्वेन घ्नन्ति चाश्वचिकित्सिताः|
सप्ताहेन दशाहेन पक्षेण च परं क्रमात्||४||
पूर्वेभ्यश्च कीटेभ्यो घोरतमा लूताः सदृशत्वेऽपि| ता अपि लूतास्तीक्ष्णादिभेदेन त्रिधा भवन्ति| ताश्चाचिकित्सिता आशु घ्नन्ति| तीक्ष्णाः सप्ताहेन घ्नन्ति मध्या दशाहेन अवराः पक्षेणेति क्रमार्थः| परशब्देन सप्ताहादिमर्यादादिनादूर्ध्वं न जीवतीत्यर्थः||४||
Adhikarana AgneyAH lUtAH (5) · Śloka 5
कपिलाग्निमुखी पीता पद्मा मूत्रा सिताऽसिता|
आग्नेय्यः स्वेदजाः सप्त लताः पित्तविकारदाः||५||
कपिलादयः स्वेदजाः सप्तलूता आग्नेयो भवन्ति| ताश्च पित्तविकारदाः|| ५||
Adhikarana saumyAH lUtAH (6) · Śloka 6
पाण्डुरा रक्तपदिका भृङ्गा पिङ्गा त्रिमण्डला|
पूतिर्वीराऽरण्डजाः सप्त सौम्याः श्लेष्मविकारदाः||६||
अण्डजाः पाण्डुरादयह् सप्त लूताः सौम्याः भवन्ति| ताश्च श्लेष्मविकारदाः|| ६||
Adhikarana vAyavyAH lUtAH (7) · Śloka 7
कुमुदाऽलविषा रक्ताश्चित्रा सन्तानिमेचका|
कसना चोद्भिदाः सप्त वायव्या वायुरोगदाः||७||
उद्भिदाः कुमुदादयः| सप्त लूता वायव्या भवन्ति| ताश्च वायुरोगदाः|| ७||
Adhikarana mishrAH lUtAH (8) · Śloka 8
काकाण्ड्येणपदी लाजा वैदेही जालिनी तथा|
मालागुणा सुवर्णा च मिश्राः सप्तोपपादिकाः||८||
काकाण्ड्यादयः सप्त लूता मिश्राः सङ्कीर्णा भवन्ति| ताश्चो पपादिका उच्यन्ते|| ८||
Adhikarana sAdhyAsAdhyatA (9) · Śloka 9
व्याप्नुवन्त्याशु गात्राणि ज्वलत्पावकसन्निभाः|
सन्निपातकृतोऽसाध्याः साध्याः कृच्छ्रेण चेतराः||९||
ज्वलदग्निवदाशु गात्राणि व्याप्नुवन्ति सन्निपातञ्च कुर्वन्त्यसाध्याश्च| इतराः पित्तविकारदादयः कृच्छ्रसाध्याः|| ९||
Adhikarana teShAM dashanakAlAH (10) · Śloka 10
ता दशन्ति सिते पक्षेऽसिते सन्धौ सदैव च||१०||
ताश्च लूताः सितपक्षादिषु क्रमेण दशन्ति| आग्नेयाः शुक्लपक्षे| सौम्याः कृष्णपक्षे| वायव्याः सन्धावमावस्याराकयोः| मिश्राः सदैव|| १०||
Adhikarana sAmAnyaM daMshalakShaNam (11) · Śloka 11
दंशः सामान्यतस्तासां दद्गुमण्डलसन्निभः|
सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरुन्नतः|
मध्ये कृष्णोऽथवा श्यावः पर्यन्ते जालकावृतः|
विसर्पवाञ्छोफयुतस्तप्यते बहुवेदनः|
ज्वराशुपाकविक्लेदकोथावदरणान्वितः|
क्लेदेन यत्स्पृशत्यङ्गं तत्रापि कुरुते व्रणम्||११||
लूतादंशस्य लक्षणं सामान्येनाह-कुरुते व्रणमित्येवमन्तं सामान्येन लूतादंशलक्षणम्| तासामाग्नेय्यादिभेदेन चतुर्विधानां लूतानां सामान्येन दंशो दंशव्रणः दद्रुमण्डलसन्निभः दद्रवाख्यकुष्ठमण्डलसदृशः तथा सिताद्यन्यतमवर्णः मृदुर्मृदुस्पर्शः उन्नतः औत्रत्ययुक्तः| दद्रुमण्डलसाम्येनैवोन्नत्यै सिद्धे पुनरप्यौन्नत्यकथनमाधिक्यसूचनार्थम्| मध्ये दंशव्रणमध्ये कृष्णः कृष्णवर्णः अथवा श्याववर्णः| पर्यन्ते दंशव्रणस्य परितः जालकVरुतः जालकाकाराभिः सूक्ष्माभिः सिराभिरावृतः विसर्पाद्यन्वितश्च भवति| क्लेदेनेति दंशव्रणोद्भूतेन पूयेन यदङ्गं स्पृशति तत्र तस्मिन्नङ्गेऽपि व्रणं कुरुते|| ११||
Adhikarana viShodvamanasAdhanAni (12) · Śloka 12
श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्त्तवैः|
अष्टाभिरुद्वमन्त्येता विषम् वक्त्राद्विशेषतः||१२||
एताश्च सर्वा लूताः श्वासादिभिरष्टाभिः करणैर्विषमुद्वमन्ति| वक्त्रेण तु विशेषेणोद्वमन्ति|| १२||
Adhikarana karaNabhedena daMshalakShaNAni (13) · Śloka 13
श्वासेन दंशः सहसा सूयते ज्वरदाहवन्|
दंष्ट्राकृतस्तूग्रतरो विवर्णः कठिनः स्थिरः|
गम्भीरशोफवांस्तोदवेदनादाहसंयुतः|
दुर्गन्धी शकृता दाहकण्डूचिमिचिमान्वितः|
पच्यते चाशु पक्वश्च पाण्डुः पीलुफलोपमः|
मूत्रेण रक्तपर्यन्तो मध्ये कृष्णो विशीर्यते|
आवर्त्तसदृशः शूनः पूतिः सर्पति दह्यते|
शुक्रेन ग्रन्थिसंस्थानः कठिनस्तीव्रवेदनाः|
अल्पमूलोऽल्परुक्कोठो लालया कण्डूरो मृदुः|
नखेन चोषपिटकाकण्डूधूमायनान्वितः|
किंशुकोदरवर्णस्तु रजसा चञ्चुमालवान्||१३||
श्वासेनेत्यादिना करणविशेषेणाष्टानां दंशानां लक्षणं सुबोधम्| दाहान्तं श्वासेन दंशे| दाहसंयुतमित्येवमन्तं दंष्ट्राकृते| पीलु फलोपम इत्येवमन्तं शकृत्कृते| दह्यत इत्येवमन्तं मूत्रेण दंशे| तीव्रवेदन इत्येवमन्तं शुक्रेण| मृदुरित्येवमन्तं लालया| धूमायन इत्येवमन्तं नखदंशे| चञ्चुमालवानित्येवमन्तं रजसा आर्त्तवेन| किंशुकोदरं पलाशकुसुमाभ्यन्तरम्| चञ्चुरिव मालमुपरिभागोऽस्यास्तीति चञ्चुमालवान्|| १३||
Adhikarana kITalUtayordashasthAnAni (14) · Śloka 14
लूता नाभेर्दशन्त्यूर्ध्वमूर्ध्वं चाधश्च कीटकाः|
तद्दूषितं च वस्त्रादि देहे पृक्तं विकारकृत्||१४||
लूतानां कीटानाञ्च दंशस्थानान्याह-लूतेत्यादि| सुबोधम्| तद्दूषितं लूतादूषितं वस्त्रादि आदिशब्देन शयनासनादिकं गृह्यते| देहे पृक्तं सम्पृक्तं यथास्वं विकारकृद् भवति| तद्दूषितं तया लूतया मलमूत्रशुक्रलालाप्रक्षेपेणाधिष्ठानादिना दूषितं देहे शरीरे पृक्तं विकारकृत् विषविकारं करोति|| १४||
Adhikarana lUtAnAM viShavardhanaprakAraH (15) · Śloka 15
दिनार्धं लक्ष्यते नैव दंशो लूताविषोद्भवः|
सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि|
अव्यक्तवर्णः प्रचलः किञ्चित्कण्डूरुजान्वितः|
द्वितीये त्युन्नतोऽन्तेषु पिटकैरिवचाचितः|
व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभिः|
तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः|
शरावरूपस्तोदाढ्यो रोमकूपेषु सास्रवः|
महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः|
विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान्|
षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम्|
विषमित्यतितीक्ष्णानामितरे विभजेदतः||१५||
लूताविषोद्भवो दंशः दिनार्धं न लक्ष्यत एव| लूतानां श्वासाद्यष्टविधविषोद्वमनसाधनसम्पर्कादुद्भूतो दंशो व्रणः दिनार्धं पञ्चदशनाडीकामात्रं न लक्ष्यते न दृश्यते| एवशब्देन न किञ्चिदपि लक्ष्यत इत्यर्थः| लूताविषस्योपेक्षया अनुदिवसं वर्धमानप्रकारमाह| ततः प्रथमेऽहन्यसौ दंशः सूचीव्यधवत् पीडामावहति| सुबोधम्| अव्यक्तवर्णोऽस्पष्टवर्णविशेषः| प्रचलः प्रकर्षेण चलः स्पृष्टे तोयपूर्णदृतिवच्चलतीत्यर्थः| ग्रन्थिसन्निभ इत्येवमन्तं द्वितीयेऽहनि| द्वितीयेऽहनि दंशः अन्तेषु पर्यन्तभागेष्वत्युन्नतः पिटकैराचित इव च पिटकाचितप्रतीतियुक्तश्च व्यक्तवर्णः स्पष्टपीतरक्ताद्यन्यतमवर्णः मध्ये नतो निम्नः कण्डूयुक्तो ग्रन्थिसदृशश्च भवति| सास्रव इत्येवमन्तं तृतीयेऽहनि| तृतीयेऽहनि दंशो ज्वरान्वितो रोमहर्षकारी रक्तवर्णमण्डलः शरावाकारोऽधिकव्यथो रोमकूपेषु रक्तस्राववांश्च भवति| भ्रमप्रद इत्येवमन्तं चतुर्थेऽहनि| दंशे तापादिकरो महान् शोफो भवति| तापः प्रादेशिकदाहः| पञ्चमादिषु सुबोधम्| पञ्चमेऽहनि दंशस्थितZं विषं विषकोपजान् दाहकण्डूपर्वभेदहन्मोहादिकान् वक्ष्यमाणांस्तांस्तान् विकारान् कुरुते| षष्ठेऽहनि दंशस्थितं विषं तस्मात् सर्वमर्माणि व्याप्नोति| सप्तमेऽहन्यखिलमर्मस्थितं जीवितं नाशयति| अतितीक्ष्णानां लूतानामेवैतद्विषलक्षणम्| इतरे मध्यमल्पञ्चातो लक्षणाद्यथातथमेव लाघवेन बुद्ध्या विभजेत्| अतितीक्ष्णानां पित्तात्मिकानां लूतानां विषमेवं भवति| इतरे मध्यं श्लैष्मिकमल्पं वातिकञ्च अतस्तीक्ष्णविषाद्विभजेद् दिनबाहुल्यानुसारेण विभज्यैवं कल्पयेत्|| १५||
Adhikarana viShashamane paramAvadhiH (16) · Śloka 16
विषं शाम्यति सर्वासामेकविंशतिरात्रितः||१६||
विषमित्यादि सुबोधम्| सुचिकित्सितस्य विषमोचने कालस्य परमावधिं दर्शयति-विषमिति| सर्वासां लूतानां विषमेकविंशतिदिनैः शाम्यति|| १६||
Adhikarana doShAnusAraM daMshalakShaNAni (17) · Śloka 17
दंशः पित्तात्मको दाहतृट्स्फोटज्वरदाहवान्|
सशोफः कठिनः पाण्डुः कण्डूमान् श्लैष्मिकोऽल्परुक्|
वातिकः परुषः श्यावः पर्वभेदादिरुक्करः||१७||
ज्वरमोहवानित्येवमन्तं पित्तात्मकलूतादंशविषलक्षणम्| अल्परुगित्येवमन्तं कफात्मके| पर्वभेदादिरुक्कर इत्येवमन्तं वातात्मके|| १७||
Adhikarana doShodrekanirdhAraNe upAyAntaram (18) · Śloka 18
सर्पज्ञानोदितैर्लिङ्गैर्दोषोद्रेकं च लक्षयेत्||१८||
न केवलमेतैर्लिङ्गैर्लूताविषे विषोद्रेकं लक्षयेद्यावत् सर्पज्ञानोक्तैरपि दोषोद्रेकलक्षणैः|| १८||
Adhikarana lUtAsu daMshasambhavaprAyikatvam (19) · Śloka 19
त्रिदोषाः प्रायशः सर्वा लूताः पित्तकफाधिकाः||१९||
सर्वा अपि लूताः प्रायेण त्रिदोषाः पित्तकफाधिकाश्च|| १९||
Adhikarana prANAntikIShu lakShaNam (20) · Śloka 20
प्राणान्तिकीषु हृन्मोहश्वासहिध्माशिरोग्रहाः|
श्वेतासिताः पीतरक्ताः पिटकाः श्वयथूद्भवः|
वेपथुर्वमथुर्दाहस्तृडान्ध्यं वक्रनासता|
श्यावोष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम्|
पक्वजम्बूसवर्णञ्च दंशात्स्रवति शोणितम्||२०||
प्राणान्तिकीषु मारणफलासु लूतासु हृन्मोहादिकं पक्वजम्बूसवर्णशोणितस्रावान्तं लक्षणम्| प्राणान्तिकीषु सन्निपातवृद्धिकरकाण्ड्यादिसप्तलूतासु ताभिर्दष्टस्येत्यर्थः| श्वेताद्यन्यतमवर्णाः पिटकाः| वक्रनासता नासाया वक्रत्वम्| दंशाद्दंशव्रणात्|| २०||
Adhikarana lUtAdaMshe chedadAhau (21) · Śloka 21
अथाशु लूतादष्टस्यशस्त्रेणादंशमुद्धरेत्|
दहेत् जाम्बवोष्ठाद्यैर्न तु पित्तोतरं दहेत्||२१||
लूताविषस्य लक्षणमुक्त्वा चिकित्सामाह-अथेत्यादिना लूतानां चिकित्सा| दंश एवादंशस्तम्| जम्बवोष्ठं नाम यन्त्रं सूत्रोक्तम्| पित्तोत्तरं तु दंशं न दहेत्| अथ पैत्तिकादि लूताद्दंशपरिज्ञानादनन्तरं लूतादष्टस्य आदंशं समूलं दंशस्थानं दंशव्रणावधीत्यर्थः| आशु शस्त्रेण मण्डलाग्रादिना उद्धृत्य दहेत्| जाम्बवोष्ठाद्यैर्यन्त्रैर्दशं दहेच्च|| २१||
Adhikarana chedanadahanAyogyavraNAH (22) · Śloka 22
कर्कशं भिन्नरोमाणं मर्मसन्ध्यादिसंश्रितम्|
प्रसृतं सर्वतो दंशं न छिन्दीत दहेत वा||२२||
छेदनदहनायोग्यं दर्शयति-कर्कशादिकं दंशं न छिन्दीत नापि दहेत| कर्कशं कठिनस्पर्शम्| भिन्नरोमाणं च्युतरोमाणम्| मर्मसन्ध्याद्याश्रितं आदिशब्देन क्षारविधावुक्ताः सिरास्नाय्वादयो गृह्यन्ते| सर्वतः प्रसृतं देहे सर्वतो व्याप्तञ्च दंशं न छिन्द्यान्न दहेत च||२२||
Adhikarana dAhAnantarIyakRutyam (23) · Śloka 23
लेपयेद्दग्धमगदैर्मधुसैन्धवसंयुतैः|
सुशीतैः सेचयेत्र्यानु कषायैः क्षीरिवृक्षजैः||२३||
दाहानन्तरकरणीयमाह-दग्धं च दंशं मधुसैन्धवयुक्तैरगदैर्लेपयेत्| तथानु पश्चात् क्षीरिवृक्षजैः सुशीतैः कषायैः सेचयेच्च||२३||
Adhikarana raktanirharaNam (24) · Śloka 24
सर्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयापि वा|
स्रुते रक्ते परीषेको घृतक्षिरादिभिर्हितः||२४||
सर्वतः इति सर्वाङ्गेभ्यः| व्याख्यासमम्| शृङ्गाद्यैः शृङ्गजलूकालाबुभिः सिरयापि वा सिरावेधेन वा शरीरात् सर्वतो रक्तमपहरेत्| रक्ते स्रुते सति घृतादिभिः परिषेको हितः|| २४||
Adhikarana prapauNDarIkAdilepaH paittike (25) · Śloka 25
प्रपौण्डरीकह्रीबेरशारिवोशीरजीवकाः|
लोध्रचन्दनजीवन्तीमञ्जिष्ठासर्जवञ्जुलाः|
मृणालबिसशैवालकुमुदोत्पलगैरिकाः|
न्यग्रोधोदुम्बराश्वत्थनिचुलप्लक्षवेतसाः|
समङ्गापाटलीगुन्द्राकाकोलीशतपर्विकाः|
शिरीषधातकीमूर्वाविदारीपद्मकिंशुकः|
शृङ्गाटकं कोशवती वायसी सोमराजयः|
मधुकांशुमती मूर्वा यथालाभं समाहृताः|
शस्तः पर्युषितो लेपः सघृतः पैत्तिके व्रणे||२५||
प्रपौण्डरीकादिकं श्लोकचतुष्टयोक्तं यथालाभं सर्वम् संगृह्य सघृतः सन्नहोरात्रं पर्युषितो लेपः| पैत्तिके लूताव्रणे प्रशस्तः| कोशवती कोशातकी| वायसी काकोदुम्बरिका|| २५||
Adhikarana shyAmAdilepaH shlaiShmike (26) · Śloka 26
श्यामाद्वयनिशामुस्तानखरास्नामहासहाः|
वासापत्तङ्गसुवहानाकुलीगिरिकर्णिकाः|
सर्पगन्धायवफलानिर्गुण्ड्यश्मन्तकस्थिराः|
शुकाख्या महिषाक्रान्ता कुष्ठेन्द्रयवकुङ्कुमम्|
करवीरागरुनतं सुगन्धा सिन्दुवारकम्|
आस्फोतगुन्द्रा च हिता प्रलेपः श्लैष्मिके विषे||२६||
श्यामाद्वयादिभिस्त्रिभिः श्लोकैः श्लैष्मिके लूताविषे लेपः| श्यामाद्वयं पिप्पली प्रियङ्गुश्च| सुवहोत्तमकारिणी| निर्गुण्डी प्रसिद्धा| अश्मन्तको मालुकपर्णः| शुकाख्या शुकनासा| महिषाक्रान्ता आस्फोतोऽर्कः| गुन्द्रा तृणजातिः|| २६||
Adhikarana bimbyAdilepaH vAtike (27) · Śloka 27
बिम्बीविदुलबन्धूककोविदारपलाशकाः|
सुवहारिष्टकब्राह्मीगुडूचीविश्वसैर्यकाः|
सिद्धार्थका देवदारुविडङ्गानीन्द्रवारुणी|
शतावरीलाङ्गलिकीराजवृक्षपुनर्नवाः|
जीवन्तीवायसीभार्ङ्गीकतकेन्द्रयवार्जुनाः|
मिसिव्याघ्रपदीसिंहपुच्छीमण्डलपर्णिकाः|
श्वदंष्ट्राकोलबृहती रेवती पुष्पसेविका प्रपुन्नाटः कुरवकः प्रलेपो वातिके विषे||२७||
बिम्ब्यादिभिश्चतुर्भिः श्लोकैर्वातिके लूताविषे लेपः| सुवहोत्तमकारिणी| अरिष्टकः कृष्णफलः| सैर्यकः सहचरः| इन्द्रवारुणी गवाक्षी| राजवृक्षः आरग्वधः| वायसी काकोदुम्बरिका| कतकः फलविशेषः| मिसिः शतपुष्पा| व्याघ्रपदी शार्दूलपदिका| सिंहपुच्छी गुहा| मण्डलपर्णिका शिंशपा| श्वदंष्ट्रा गोक्षुरकः| कोलो बदरः| श्वेतपुष्पिका रेवती| श्वेतपुष्पी गवाक्षी|| २७||
Adhikarana bodhyAdilepaH sarvatra viShe (28) · Śloka 28
सर्वत्रैव च शस्यन्ते बोधिश्लेष्मातकाक्षकाः||२८||
बोध्यादिकं सर्वत्रसर्वस्मिन् लूताविषे लेपे शस्यते| बोधिः पिप्पलः| श्लेष्मातकः शेलुः| अक्षको विभीतकः|| २८||
Adhikarana mahati viShe vamanarekau (29) · Śloka 29
उदीर्णदोषान् बलिनो विषे महति वामयेत्|
काकाण्डकीकोशवती लोध्रेन्द्रयवसैन्धवैः|
पटोलपत्रमरिचकरघाटप्रियङ्गुभिः|
कृष्णाशुकनसानीपनिम्बसप्ताह्वयष्टिभिः|
विरेचयेच्च त्रिफलात्रिवृत्त्रिकटुसैन्धवैः|
सदन्तीपूगमृद्वीकाविडङ्गैरथवा पचेत्|
एभिः पलार्धिकैः प्रस्थं समब्राह्मीरसं घृतात्|
पञ्चमूलशृतं क्षीरं तोयं वा शोधनौषधैः|
यथास्वं कल्कितैर्युक्तं पृथग्दद्याद्विरेचनम्||२९||
महति विषे उदीर्णदोषादियुक्तान् काकाण्डक्यादिभिर्वामयेत् काकाण्डकी काकमाची| कोशवती कोशातकी| करघाटो मदनः| त्रिफलादिभिरुदीर्णदोषादिकमेव विरेचयेत्| अथवैभिस्त्रिफलादिभिः पलार्द्धिकैरर्द्धपलप्रमाणैर्घृतात् प्रस्थं समब्राह्मीरसं पचेत्| शेषं सुबोधम्| शोधनौषधानि सूत्रोक्तानि विरेचनद्रव्याणि| तेषां पृथक् कल्कैर्यथास्वम् दोषाद्यपेक्षया युक्तं पञ्चमूलशृतं क्षीरं तोयं वा शोधनार्थं दद्यात्|| २९||
Adhikarana shuddhasya saMsarjanakramaH (30) · Śloka 30
पिप्पलीपिप्पलीमूलशुण्ठीन्द्रयवसैन्धवैः|
पाठाजमोदायष्ट्याह्वमुस्तासर्षपदारुभिः|
लघुना पञ्चमूलेन सरलेन च साधिता|
पेया संसर्जने योज्या सघृता विषनाशिनी||३०||
शुद्धस्य च संसर्जने पेयादिक्रमे पिप्पल्यादिभिः सिद्धाः पेया घृतसहिता विषनाशिनी योज्या|| ३०||
Adhikarana viShe bastividhAnam (31) · Śloka 31
आध्मानहिध्माश्वासेषु पृष्ठग्रीवावभञ्जने|
सङ्कोचस्तमकम्पेषु शूलेष्वर्धावभेदके|
वातरोगेषु चान्येषु पर्वभेदार्दितादिषु|
एरण्डबिल्वसरलचिरिबिल्वार्कपाटलीः|
शिग्रुपाठा कुशवृषं विदुलं च जले पचेत्|
कनीयः पञ्चमूलञ्च तस्मिन्मण्डं पचेद्घृतात्|
द्विगुणे तुल्यगोक्षीरे पिष्टैर्यष्टीनिशानतैः|
सुराह्ववेल्लसरलशताह्वालोध्रगैरिकैः|
पयस्याक्लुष्ठगाङ्गेयीकृष्णामदनसैन्धवैः|
बस्तौ प्रत्यागतेऽश्नीयात्पञ्चमूलान्वितैः रसैः||३१||
आध्मानादिष्वन्येषु पर्वभेदादिषु वातरोगेषु च एरण्डादिक्वाथे घृतान्मण्डं पचेत्| घृतमण्डाद् द्विगुण एरण्डादिक्वाथस्तावन्मात्रमेव गोक्षीरम्| यष्ट्याह्वादिकं गर्भम्| गाङ्गेयी मुस्ता| मदनः करघाटः| इदं घृतं बस्तौ योज्यम्| तस्मिन् गुदात् प्रत्यागते पञ्चमूलान्वितैर्मांसरसैरश्नीयात्|| ३१||
Adhikarana tIkShNaM nAvanam (32) · Śloka 32
नावनं गौरवे शोफे लालास्रावे हनुग्रहे|
गिरिकर्णी फलरसो बन्धूकं किणिही सिता|
षड्ग्रन्थालशुनव्योषब्रुहतीवेल्लसैन्धवम्|
अपामार्गफलं भार्ङ्गी नाकुली सर्पगन्धिका|
श्यामा यवफला बीजं फणिर्जकशिरीषयोः|
वार्ताकरसपिष्टानि नस्यं विषहरं परम्||३२||
गौरवादिके गिरिकर्ण्यादिकं सर्पगन्धिकान्तं नावनम्| सर्पगन्धिका नाकुली सर्पसुगन्धा इति जेज्जटः| श्यामादिकं वार्तकरसपिष्टं नस्यं परं विषहरम्| यवफला दुग्धिका|| ३२||
Adhikarana snehanasyam (33) · Śloka 33
विरिक्तशिरसश्चास्य सर्पिर्मण्डोऽनु नावनम्||३३||
अनेन च तीक्ष्णनस्येन विरिक्ते शिरसि सर्पिर्मण्डोऽनु पश्चान्नावनं हितम्|| ३३||
Adhikarana vacAdi a~jjanam (34) · Śloka 34
नेत्रोपरोधश्वयथुकण्डुनिद्रासमागमे|
वचामनोह्वात्रिकटुत्रिफलालोध्रगैरिकाः|
शङ्खो नीलोत्पलं ताम्रं मुक्ता हेम प्रवालकम्|
जीवन्ती लशुनं कुष्ठं कतकं मार्कवं नतम्|
प्रपौण्डरीकं मधुकं करञ्जफलसैन्धवम्|
निशे फणिर्जकं तुत्थं स्रोतोऽञ्जनरसाञ्जने|
मेषशृङ्ग्याश्च कुसुमं पिष्टं गोवारिणाञ्जनम्||३४||
नेत्रोपरोधादिके वचादिभिस्त्रिभिः श्लोकैर्गोमूत्रपिष्टैः अञ्जनम्||३४||
Adhikarana surasAdi a~jjanam (35) · Śloka 35
सुरसप्रसवव्योषबिल्वमूलसुराह्वयम्|
हरिद्राछागलीमूत्रम् लूताकीटघ्नमञ्जनम्||३५||
सुरसप्रसवादिकं छागलीमूत्रपिष्टं लूताकीटविषघ्नमञ्जनम्| सुरसप्रसवम् सुरसमञ्जरी| सुराह्वयं देवदारु|| ३५||
Adhikarana shirIShAdyagadaH (36) · Śloka 36
शिरीषपद्मकोशीरपाटलीसिन्दुवारकम्|
क्षीरिशुङ्गनतोदीच्यशारिवाकुष्ठचन्दनम्|
शेलुस्वरसपिष्टोऽयमगदो नावनेऽञ्जने|
पाने प्रलेपे सेके च लूतासु परमं हितः||३६||
शिरीषादिकः श्लेष्मातकस्वरसपिष्टोऽयमगदो नावनादिके युक्तो लूतासु परमं हितः| सिन्दुवारको निर्गुण्डी| शेलुः श्लेष्मातकः|| ३६||
Adhikarana payasyAdiragadaH (37) · Śloka 37
पयस्या मधुमृद्वीकाश्वदम्ष्ट्राक्षीरमोरटाः|
गोजीविदारीयष्ट्याह्वमधुकानि च तद्गुणः||३७||
पयस्यादिरगदस्तद्गुणः पूर्वगुणः| क्षीरमोरटा मधुस्रवा| गोजी गोजिह्वा|| ३७||
Adhikarana shirIShakusumAdyagadaH (38) · Śloka 38
तथा शिरीषकुसुमं चन्द्रलेखोद्भवं फलम्|
सुराला कटभी जातिः श्वेता च गिरिकर्णिका||३८||
शिरीषकुसुमादिकं श्वेतगिरिकर्णिकान्तं तथेति गुणैः पूर्ववत्| सुराला अतिविषा|| ३८||
Adhikarana tagarAdi agadaH (39) · Śloka 39
तद्वच्च युञ्ज्यात्तगरकुष्ठनागबलाबलाः||३९||
तद्वदेव तगरादिकं बलान्तम्|| ३९||
Adhikarana haridrAyugalAdiragadaH (40) · Śloka 40
हरिद्रायुगलं नागदन्ती लोध्रं च शावरम्|
शिरीषपुष्पं तगरं सहदेवा शतावरी|
पुनर्नवा नागबला सर्पगन्धा कुटन्नटम्|
गवादनी दन्तशठसोमवल्केन्दुराजयः|
विषेषु सर्वेष्वगदः सक्षौद्रः सर्वकर्मकृत्||४०||
हरिद्रायुगलादिरगदः सक्षौद्रः सर्वविषेषु सर्वाभीष्टकर्मकृत्| कुटन्नटं परिपेलवम्| सोमवल्कः सोमवृक्षवल्कः| सोमवृक्षःकट्फलः|| ४०||
Adhikarana sarpAkShyAdirvaro agadaH (41) · Śloka 41
सर्पाक्षी चन्दनं वक्रं मृगाक्षी गन्धनाकुली|
एला महासुगन्धा च बस्तमूत्रेण कल्कितः|
लेपे पाने च लूतासु नानेन सदृशोऽगदः||४१||
सर्पाक्ष्यादिर्बस्तमूत्रकल्कितो लूतासु लेपे पाने च योज्यः| अनेन समोलूताविषस्यागदो न भवति| सर्पाक्षी रक्तपुष्पा पुर्वदेशे प्रसिद्धा| वक्रं तगरम्| गन्धनाकुली सुगन्धमूला रास्ना| इति प्रबन्धसंग्रहे|| ४१||
Adhikarana kaTabhImUlAdighRutam (42) · Śloka 42
कटभीमूलतगरसमङ्गादेवदारुभिः|
बृहतीद्वयगाङ्गेयीरोचनाचन्दनैर्घृतम्|
सिद्धं चतुर्गुणक्षीरं पानाभ्यञ्जनयोर्हितम्|
लूताकणभकीटनां विषे परमदारुणे||४२||
कटभीमूलादिभिश्चतुर्गुणक्षीरं सिद्धं घृतं पानाभ्यञ्जनयोः परमदारुणे लूतादिविषे हितम्| समङ्गा मञ्जिष्ठा| गाङ्गेयी मुस्ता||४२||
Adhikarana karNikApAtanam (43) · Śloka 43
निवृत्ते दाहशोफादौ कर्णिकां पातयेद् व्रणात्|
कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्|
त्रिवृता सैन्धवं दन्ती कर्णिकापातनं तथा|
हरिद्रा गुग्गुलुः किण्वं वंशलेखः कपोतविट्|
तद्वच्च सैन्धवं कुष्ठं दन्तीकटुकदौग्धिकम्|
राजकोशातकीमूलं किण्वो वा मथितोद्भवः||४३||
एवं दाहशोफादौ निवृत्ते सति व्रणात् पूर्वोक्तां कर्णिकां पातयेत्| आदिग्रहणेन रुग्रागादिपरिग्रहः| निवृत्ते उपशान्ते| व्रणाद् व्रणमुखात् कर्णिकां दंशस्थाने कर्णिकावदुत्पन्नं मांसाङ्कुरं पातयेदपनयेत्| कुसुम्भपुष्पादि दन्तीपर्यन्तं कर्णिकायाः पातनम्| हरिद्राकपोतविडन्तं तथेति कर्णिकापातनम्| वंशलेखः वंशतनुवल्कः| सैन्धवादि राजकोशातकीमूलान्तं च तद्वत् पूर्ववत्| (कटुकदौग्धिकं पेच्चुरः राजकोशातकी वलियपुट्टलपीरम्) अथवा मथितोद्भवः किण्वस्तक्रमलः|| ४३||
Adhikarana karNikApAtasamaye bRuMhaNam (44) · Śloka 44
कर्णिकापातसमये बृंहयेत विषापहैः||४४||
यदा तु कर्णिका पात्येते तदा ये विषापहा भवन्ति तैर्यथायथं च बृंहयेत्| अनन्तरोक्तैरोषधैः कर्णिकापातनकाले विषहरद्रव्यैर्लूतादष्टं नरं पोषयेत्|| ४४||
Adhikarana karNikAbAhulyavisheShaH (45) · Śloka 45
ऋतुकाले च लूतानां यावन्तः शुक्रविन्दवः|
देहे पतन्ति तावत्यो जायन्ते कर्णिकाः समम्||४५||
लूतानां च यदा गर्भग्रहणयोग ऋतुकालो भवति तदा यावन्तः शुक्लबिन्दवः पुंसो देहेऽङ्गेषु पतन्ति तावत्य एव कर्णिकाः सममेककालं जायन्ते|| ४५||
Adhikarana vraNashodhanaM sarpiH (46) · Śloka 46
गोदन्तदन्ती त्रिवृता हरिद्रे सैन्धवं तिलाः|
मधुकं निम्बपत्राणि घृतं च व्रणशोधनम्|
कान्ताविडङ्गखदिरनिम्बकाम्पिल्यकाम्बुदैः|
सर्जैलाधातकीलोहैः सिद्धं सर्पिर्व्रणापहम्||४६||
गोदन्तादिकं व्रणानां शोधनम्| कान्तादिभिः सिद्धं सर्पिर्व्रणापहम्|| ४६||
Adhikarana shirIShAdikalkAdirvraNaghnaH (47) · Śloka 47
शिरीषकटभीशेलुक्षीरिवृक्षार्जुनत्वचः|
कल्कचूर्णपरीषेकैः कीटलूताव्रणापहाः||४७||
शिरीषादिकं कल्कादिभिः प्रयुक्तम् कीटानां लूतानाञ्च व्रणापहम्|| ४७||
Adhikarana shatAhvAdirvraNaropaNam (48) · Śloka 48
शताह्वालोध्रकासीसदार्वीजम्ब्वस्थिरोचनाः|
हरीतकी पूगफलं चूर्णोऽयं व्रणरोपणम्||४८||
शताह्वादीनां चूर्णो व्रणरोपणः|| ४८||
Adhikarana lAkShAdikaM tvagvishodhanam (49) · Śloka 49
लाक्षा रजन्यौ मञ्जिष्ठा हरितालं मनश्शिला|
सर्पिर्मधु च लेपोऽयं त्वग्विशुद्धिकरः परम्||४९||
रूढे च लाक्षादिभिर्लेपः परं त्वचो विशुद्धत्वं करोति|| ४९||
Adhikarana romasa~jjananam (50) · Śloka 50
रोमसञ्जननं कुर्याद्यदुक्तं व्रणसाधने||५०||
व्रणसाधने व्रणप्रतिषेधे यत् किञ्चिद्रोमसञ्जननमुक्तं तदत्रापि कुर्यात्|| ५०||
Adhikarana snehakArye sarpireva yojyam (51-44) · Śloka 44
स्नेहकार्यमशेषं च सर्पिषैव समाचरेत्|
विषस्य वृद्धये तैलमग्नेरिव तृणोपलम्||५१||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे लूताप्रति षेधो नाम चतुश्चत्वारिंशोऽध्यायः||४४||
यत् किञ्चिदभ्यञ्जननावनादिस्नेहकार्यं तत्सर्पिषैव समाचरेत् नान्येन तैलादिना स्नेहेन| तैलं यत्नतः परिहरेत्| तैलं यत्नतः परिहरेत्| यतस्तैलं तथा वृद्धये भवति यथा तृणोपलमग्नेरिति| तैलं तीक्ष्णादिगुणसाम्याद्विषस्य वृद्धये भवति तृणोपलं शुष्कतृणमग्नेर्वृद्धये यथा|| ५१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे चतुश्चत्वारिंशोऽध्यायः