Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

28. śirōrōgapratiṣēdhaḥ

Adhikarana atha shirorogapratiShedho nAmAShTAviMsho~adhyAyaH - pratij~jA (1) · Śloka 1

अथातः शिरोरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

उक्तक्रमेणैव शिरोरोगाणां चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana vAtajashirobhitApacikitsA (2) · Śloka 2

वातजे शिरोभितापे वातव्याधिविहितं कुर्यात्| निवातस्थं च नक्तमभ्यक्तशिरसं सर्पिः पयोनुपानं तैलं वा पाययेत्| माषान् वा ससर्पिष्कानुष्णपयोनुपानान् भक्षयेत्| तद्वद्वा मुद्गान्| आनूपपिशितवेशवारेण यवतिलमुद्गमाषकुलत्थकुष्ठदारुहरिद्रातसीसैन्धवैर्वा महास्नेहवतीमुत्कारिकां दत्वा शिरो वेष्टयेत्| ततः प्रत्यूषे दशमूलसिद्धेन पयसा कवोश्ग्णेन परिषेकं कुर्यात्| तत्सिद्धैश्च पायसैः पिण्डस्वेदं लेपं वा| कूर्ममहिषवराहकुक्कुटशल्लकीनां वसा ससैन्धवा नस्यं शिरःकर्णपूरणं च| तथैव च पञ्चमूलबलासारिवाद्वयक्वाथे मधुकजीवकर्षभकपुनर्नवगर्भं सपयं सर्पिस्तैलं चैकतो विपक्वम्| कार्पासमज्जत्वङ्मुस्तासुमनःकोरकाण्युष्णाम्बुपिष्टानि नावनं सर्वशिरोरुजाघ्नम्| तद्वत् त्वक्पत्रशर्कराशिग्रुकरञ्जबीजानि| तथा चन्दनोत्पलतगरकुष्ठैः सघृतैर्लेपः| देवदारुकुष्ठचोरकयष्टीमधुककमलनीलोत्पलैलाप्रपौण्डरीकैश्च| कुङ्कुमशर्करासंस्कृतमाज्यं रक्तपित्तानुबन्धे मर्शः| न चात्र रक्तमवसेचयेद्वातोद्रेकभयात्| स्नैहिकं धूमं पिबेत्| शिरोबस्तिश्च शीलयेत्| बस्तिकर्म चाचरेत्| एवमसिद्धौ वातजे श्लेष्मजे च यथोक्तो दाहः||२||

🔊 Audio coming soon

यथोक्तो दाह इत्येवमन्तं वातजे शिरोभितापे| वातव्याधिविहितं चिकित्सितम्| सर्पिस्तैलं वा यथायोग्यं नक्तं पयोऽनुपानं पाययेदिति सम्बन्धः| तद्वन्मुद्गान् ससर्पिष्कान् उष्णपयोऽनुपानांश्च| आनूपपिशितादिना शिरोवेष्टनायोत्कारिका स्विन्नपिण्डी| वेष्टयेदिति वस्त्रेण| तत इति द्वितीयदिनप्रत्यूषे| तत्सिद्धैरिति दशमूलसिद्धपयसा सिद्धैः पायसैरन्नैः| कूर्मादिवसा सैन्धवयुक्ता नस्यं शिरःपूरणं कर्णपूरणञ्च| शिरःपूरणं शिरोबस्तिः| पञ्चमूलादिक्वाथे मधुकादिगर्भं तैलं सर्पिश्च मिश्रीकृत्य विपक्वं तथैवेति नस्यं शिरःपूरणं कर्णपूरणञ्च| कार्पासमज्जाद्युष्णाम्बुपिष्टं नावनं सर्वशिरोरुजाघ्नम् त्वगादीनि तद्वदुष्णाम्बुपिष्टानि नावनम्| चन्दनादिभिर्लेपस्तथा| तथेति समुच्चये| देवदार्वादिभिश्च सघृतैर्लेप इति सम्बन्धः| वातज एव यदि रक्तपित्ताभ्यामनुबन्धो भवति| ततः कुङ्कुमशर्कराभ्यां संस्कृतमाज्यं मर्शो दशाष्टषड्बिन्दुः कर्तव्यः| अत्र च वातशिरोभितापे रक्तपित्तानुबन्धेऽपि रक्तं नावसेचयेत्| कुत इत्याह-वातोद्रेकभयात्| स्नैहिकं धूमं सूत्र उक्तम्| शिरोबस्तिं च शीलयेदित्यनेन शिरोबस्तेः पुनः पुनर्योजनमुक्तं सिद्धम्| एवमित्यनन्तरोक्तक्रिययाऽसिद्धौ वातजे शिरोभितापे यथोक्तो दाह इति सूत्रनिर्दिष्टस्त्वग्दाहः| श्लेष्मजे चेति लाघवार्थं प्रकरणे||२||

Adhikarana ardhAvaBedakacikitsA (3) · Śloka 3

अर्धावभेदकेऽप्ययमेव विधिः| निर्गुण्डीपत्ररसश्च सघृतसैन्धवो नस्यम्| शिरीषमूलफलानि वा| सारिवोत्पलकुष्ठवचामधुकपिप्पलीभिः सतैलाम्लो लेपः| अशाम्यति दोषानुबन्धमवेक्ष्य प्रतिकुर्वीत||३||

🔊 Audio coming soon

प्रतिकुर्वीतेत्येवमन्तमर्द्ध्वावभेदके| अयमेवेति वातशिरस्तापोक्तः| अत्र तु निर्गुण्ड्याः पत्ररसस्सघृतसैन्धवो नस्यं हितम्| शिरीषमूलफलानि वा नस्यमिति सम्बद्ध्यते| सारिवादिभिस्तैलेनाम्लेन काञ्जिकादिना युक्तैर्लेपः| अशाम्यति त्वर्धावभेदके कस्य दोषस्यानुबन्ध इति समीक्ष्य तदपेक्षया प्रतीकारं कुर्यात्||३||

Adhikarana sUryAvartacikitsA (4) · Śloka 4

सूर्यावर्ते त्वयमेव विधिः विशेषतस्तु शिरामोक्षः||४||

🔊 Audio coming soon

अयमेव चानान्तरोक्तद्वयविधिः सूर्यावर्ते| लाघवार्थं क्रमभङ्गः| सिरामोक्षस्तु विशेषतः सूर्यावर्ते|| ४||

Adhikarana pitta-rakta-SirastApayoScikitsA (5) · Śloka 5

पित्तजे रक्तजे च शिरोभितापे स्निग्धस्य सिरां विद्ध्येत्| कायं च विरेचयेत्| सुशीतैः शतधौतघृतान्वितैः शिरोवक्त्रं सिञ्चेत् प्रदिह्याच्च| चन्दनसारिवामधुकदूर्वोत्पलप्रपौण्डरीकमञ्जिष्ठाविदारीभिः सक्षीरं सर्पिर्विपाचितं नावनं शिरोबस्तिश्च| जीवनीयविपक्वात् पयसो अवनीतमुद्धृत्य जीवनीयक्वाथकल्काभ्यां पाचितं पानभोजननस्याभ्यङ्गवस्तिषु प्रणीतं पित्तरक्तजान् सर्वान् विकारान् साधयति| जीवनीयगर्भषोडशगुणे पयसि सिद्धमाज्यं वा| क्षीरेक्षुजाङ्गलरसखर्जूरद्राक्षाकशेरूकमृणालसिद्धः सर्पिर्मण्डोऽनुवासनम्| अञ्जनादिवर्गश्रृतं क्षीरमास्थापनम्||५||

🔊 Audio coming soon

क्षीरमास्थापनमित्येवमन्तं रक्तपित्ताभितापयोः| पित्तजे शिरोभितापे रक्तजे च घृतपानादिना स्निग्धशरीरस्य सतः सिरां विद्ध्येत्| लालाट्यामित्यर्थाद् गम्यते| कायं शरीरं विरेचयेत् शोधयेच्च| सुशीतैरतिशीतैर्द्रव्यैः शतधौतघृतयुक्तैः शिरो वक्त्रं सिञ्चेत् प्रदिह्याच्चेति यथासङ्ख्यं सम्बन्धः| चन्दनादिभिर्घृतं समानक्षीरं विपक्वं नावने शिरोबस्तौ च योज्यम्| जीवनीयविपक्वादित्यादि व्याख्यासमम्| क्षीरादिभिः सिद्धः संस्कृतः सर्पिषो घृतस्य मण्डोच्छ अनुवासने योज्यः| अञ्जनादिगणो विविधगणसङ्ग्रहोक्तस्तेन श्रृतं क्षीरमास्थापनम्||५||

Adhikarana sha~gkhakacikitsA (6) · Śloka 6

शङ्खकं प्रत्याख्यायैवमेवोपचरेत्| विसर्पवच्च| विशेषतस्तु कृष्णतिलशतावरीनीलोत्पलमूर्वापुनर्नवैर्लेपः||६||

🔊 Audio coming soon

शङ्खकाख्यं रोगं प्रत्याख्याय न सेत्स्यतीत्युक्त्वा एवमेवेति पित्तरक्ताभितापप्रकारेण चिकित्सितोक्तपित्तरक्तविसर्पवच्चोपचरेत् चिकित्सेत्| शङ्खके तु कृष्णतिलादिभिः विशेषेण लेपः कार्यः||६||

Adhikarana kaPajaSiroBitApacikitsA (7) · Śloka 7

कफजे शिरोभितापे लङ्घयेत्| पुराणसर्पिस्निग्धं वा वामयेत्| स्वेदः पिण्डेन रूक्षेण| शिग्रुनिम्बैरण्डक्वाथेन वा नाडीस्वेदः| देवकाष्ठकुष्ठशार्ङ्गेष्टासरलरोहिषैः सलवणैः सुखोष्णौरालेपः| यवचूर्णमधुकचन्दनहरिद्राकुष्ठप्रियङ्गुशतपुष्पासुरदारुभिस्तैलाजक्षीरयुक्तैः ससैन्धवैरुपनाहः| विडङ्गतैलं नस्यं सार्षपं वा तदेव वा व्योषसिद्धम्| मधूकसारकल्को वा मधुयुतस्त्वग्वा मेष श्रृङ्ग्या इङ्गुदस्य वा| एभिरेव च धूमवर्त्तिः| शिरोविरेचनद्रव्यैर्वा सूत्रस्थानोक्तैः प्रधमनम्| तैरेव च पक्वं तैलं मर्शः प्रतिमर्शो वा| शिरोविरेचनान्ते कर्णनादोक्तं स्नेहनस्यम्| तीक्ष्णाः कवलाः मनश्शिलानलदतुत्थकासीसचूर्णः ससर्पिष्को धूमः| नलदचूर्णस्य च मुहुर्मुहुराघ्राणनम्||७||

🔊 Audio coming soon

मुहुर्मुहुराघ्राणनमित्येवमनन्तं कफजे शिरोभितापे| सूत्रोक्तप्रकारेण रूक्षेण पिण्डेन स्वेदो हितः| अथवा शिग्र्वादिक्वाथेन नाडीस्वेदः कार्यः| सलवणैर्लवणयुक्तैः सुखोष्णैर्देवकाष्ठादिभिरालेपो हितः| सुरकाष्ठं देवदारु| तैलेनाजक्षीरेण च युक्तैः सैन्धवेन माणिमन्थेन सहितैर्यवचूर्णादिभिरुपनाहः पिण्डबन्धः| विडङ्गजं विडङ्गसाधितं वा तैलं विडङ्गतैलं वा नस्यं योज्यम्| तदेव वेति विडङ्गतैलं वा व्योशेण त्रिकटुकेन सिद्धं पक्वम्| मधूकसारकल्कादिना मधुयुक्तेन नस्यमिति सम्बन्धः| मेषश्रृङ्ग्या इङ्गुदस्य च त्वक्| एभिरेवेत्यनन्तरोक्तैर्नस्यौषधैः| शिरोविरेचनद्रव्यैः सूत्रस्थाने शोधनादिगणसंग्रहोक्तैः प्रधमनं नासायां हितम्| प्रधमनं सूत्रोक्तलक्षणम्| तैरेव चेति शिरोविरेचनद्रव्यैः| मर्शप्रतिमर्शौ सूत्रोक्तलक्षणौ| एषां च शिरोविरेचनानामन्ते प्रयोगान्ते कर्णनादोक्तं तिलान् नवप्रलूनानित्यादिना पठितं स्नेहनस्यं योजयेत्| तीक्ष्णाः कवलास्तीक्ष्णद्रव्यैर्मरिचशुण्ठ्यादिभिः कृताः| सुबोधम्||७||

Adhikarana sannipAtashirobhitApacikitsA (8) · Śloka 8

सन्निपाते व्यामिश्रो विधिः||८||

🔊 Audio coming soon

सन्निपाताभितापे पृथग्दोषोक्तो विधिर्मिश्रीकृत्य दोषबलाद्यपेक्षया योज्यः||८||

Adhikarana kRumijashirobhitApacikitsA (9) · Śloka 9

कृमिजे दुरालभासुरदारुरोहिहपूतीकत्रिफलाकट्फलवचात्रिकटुकैरजामूत्रयुक्तं सर्पिः पक्वं पानम्| उपस्निग्धस्विन्नस्य देवदारुपूतीककटभीसर्षपविडङ्गतिलकण्टकविपक्वेन तैलेन शिरः कर्णौ चाभ्यज्य स्वेदयेत्| ततः कृमिमूर्च्छनार्थमसृङ्नस्तोवसेचयेत्| ततो रुधिरगन्धमदेन प्रविसृताः सप्तच्छदस्य त्क्ग्रसेन पुष्परसेन वानन्तरनिषिक्तेन कृमयः पतन्ति| सरलदेवदारुकट्फलसर्षपापामार्गक्षवककटुकाऽलाबुसुरसबीजपिप्पलीतण्डुलचूर्णस्तत्पक्वं वा तैलं सद्यः कृमीन् निरस्यति| विडङ्गतण्डुला वाजिमूत्रपिष्टाः शिरीषबीजानि वा छागमूत्रपिष्टानि| पुष्करमध्यबीजानि वा| गोमांसेन छागमांसेन वा वसापिष्टेन यवागूं कृत्वा शिरो विलेपयेत्| ततो निम्बार्कवंशसुरसकुटजकरञ्जकरवीरपत्रक्वाथेन सेचयेत् अजामूत्रेण वा कवोष्णेन| पूतिमत्स्ययुताश्च धूमाः| एवं कृमिष्वपगतेषु तेजोवतीपूतीकविम्बीसुरसनक्तमालाविडङ्गहरीतकीसर्षपार्ककरवीरमूलमालतीदेवदारुक्षवकमुस्तफणिज्जकपिप्पलीशतपुष्पामधूकशणनिम्बसारकल्कैरजामूत्रयुतैः सार्षपं तैलमैङ्गुदं पैलुकं वा विपक्वं युक्त्या नावनम्| न तु जातु रुधिरमवसेचयेत्| जन्तुभिः पीतशोणिते हि शिरसि पुनरस्रावसेकादकाण्डे मृत्युः स्यात्| कृमिचिकित्सितं चेक्षेत||९||

🔊 Audio coming soon

कृमिचिकित्सितं चेक्षेतेत्यन्तं कृमिजे शिरोभितापे| दुरालभादिभिर्द्रव्यैरजामूत्रयुक्तं पक्वं सर्पिः पानाय| अनेनोपस्निग्धस्य स्विन्नस्य च देवदार्व्यादिविपक्वेन तैलेन शिरः कर्णौ चाब्यज्य पुनः स्वेदयेत्| कण्टको गोकण्टकः| ततः स्वेदानन्तरं कृमीणां मूर्च्छनार्थं येन कृमयस्त्यक्तबन्धना मत्ता इव सर्वतोऽन्तः सरन्ति तदर्थमसृग्रक्तं नस्तोऽवसेचयेत्| अनन्तरनिषिक्तेन रक्तनिषेचनस्य पश्चात् सिक्तेन| पुष्परसः सप्तच्छदपुष्पाणां रसस्तेन| पतन्ति नासिकातो बहिर्निस्सरन्ति| सरलादीनां चूर्णस्तत्पक्वं तैलं वा नस्यप्रयोगात्सद्यः कृमीन् बहिर्निरस्यति| क्षवको राजक्षवकः| अथवा वाजिमूत्रपिष्टा विडङ्गतण्डुला विडङ्गफलानि कृमीन् निरस्यन्ति अथवा छागमूत्रपिष्टानि शिरीषबीजानि| अथवा पिष्करबीजानां त्वक्परिहारेण प्रयोगो दर्शितः| गोंआंसेनेत्यादिना शिरोलेपः सुबोधः| तत इति यवागूलेपानन्तरं निम्बादिक्वाथेनाजामूत्रेण वा कोष्णेन सेकः| पूतिमत्स्यः क्लिन्नमत्स्यः| एवमित्यनन्तरोक्तक्रियया क्रिमिष्वपगतेषु तेजोवत्यादिः कल्कैरजामूत्रयुतैः सार्षपाद्यन्यतमं तैलं विपक्वं युक्त्या बलाद्यपेक्षया मात्रादिकृतया नावनं कुर्यात्| जन्त्वभितापे तु कदाचिदपि रक्तं नावसेचयेत्| कुत इत्याह-जन्तुभिरित्यादि| अकाण्डे अकाले| कृमिचिकित्सिते च यदुक्तं तं विधिं प्रयोगायेक्षेत||९||

Adhikarana shiraHkampacikitsA (10) · Śloka 10

शिरःकम्पमक्षीणस्यान्नव्याध्यनुपद्रुतस्य दाहवर्ज्यं मारुतविधानेनोपक्रमेत||१०||

🔊 Audio coming soon

शिरःकम्पाख्यमक्षीणत्वादियुक्तस्य पुंसो वाताभितापवदुपक्रमेत| वाताभितापे चाग्निना दाह उक्तः| अत्र तु दाहवर्ज्यमिति विशेषः||१०||

Adhikarana upashIrShakacikitsA (11) · Śloka 11

उपशीर्षके जन्मोत्तरकालजाते नवोत्थिते वातव्याधिविहितान् स्नेहान् पाननावनाभ्यञ्जनेषु योजयेत्| अभ्यक्तञ्च स्वेदयित्वोपनाहयेद्यथा विदाहो न भवति| विदाहे विद्रधिवत् कर्म||११||

🔊 Audio coming soon

विद्रधिवत् कर्मेत्येवमन्तमुपशीर्षके| जन्मोत्तरकालजात इत्यनेन सहजस्याचिकित्स्यत्वमुक्तम्| विदाहः पाकावस्था ||११||

Adhikarana piTakArbudavidradhicikitsA (12) · Śloka 12

पिटकार्बुदविद्रधिषु यथास्वमाचरेत्| व्रणीभूतासु पिटकासु निम्बनिशामधुकधात्रीफलैर्विपक्वं तैलं शोधनरोपणम्| मूर्वाचन्दनसारिवाधातकीकान्तालोध्रमधुकसमङ्गापद्मकेसरशतपर्वकमूलैर्विद्रधिषु| एभिरेव च सिद्धं सर्पिर्नस्यम्| रूढे तु विद्रधौ यसि त्वक् सुप्तेव भवति ततो वामयेत्| उअपस्निग्धं च विरेचयेत्||१२||

🔊 Audio coming soon

पिटकादिषु यथास्वमिति दोषाद्यपेक्षया चिकित्सितादि निर्दिष्टमाचरेत्| व्रणीभूतास्विति पाकात्| सुबोधम्| मूर्वादिभिर्विपक्वं तैलं विद्रधिषु व्रणीभूतासु शोधनं रोपणं च| एभिरिति मूर्वादिभिः| उपस्निग्धं किञ्चित् स्निग्धम्|| १२||

Adhikarana arUMShikAcikitsA (13) · Śloka 13

अरूंषिकासु जलौकोपहृतशोणितं शिरः क्षुरामृष्टं वा निम्बोदकेन परिषिच्याश्ववशकृद्रसेन लवणप्रगाढेन लेपयेत्| किञ्ह्चित् कालं स्थितं चोष्णोदकाम्लकाञ्जिकान्यतरधौतं विडङ्गव्योषलाक्षागारधूममनोह्वालवचारसाञ्जनहरिद्राद्वयैरालिम्पेत्| तिलमष्या वा स्नुहीक्षीरयुक्तया| मधुकोत्पलतिलैरण्डमार्कवपत्रैर्वा| शिग्रुमूलकसर्षपबीजैर्वा गोमूत्रपिष्टैः| बालकामलकनागरमूलकसर्षपबीजैर्वा क्षीरपिष्टैः| शिरीषत्वग्यष्टीमधुकाभ्यां वा| पुराणपिण्याककुक्कुटपुरीषाभ्यां वा| कपालभृष्टकुष्ठचूर्णं तैलयुक्तं कण्डूक्लेददाहस्वेदवेदनाघ्नम्| तथा चाचोक्तं चित्रकादितैलमभ्यञ्जनम्| दन्तीपाठाकोशातकीचित्रकातीविषामहालाङ्गलकीसिद्धं तैलं व्रणाभ्यङ्गः| मनश्शिलैलाहरितालपिप्पलीकुष्ठकासीसहरिद्राकरञ्जमुस्तातगरविडङ्गं चित्रकासिद्धार्थककरवीरमूलचूर्णगर्भं तैलमादित्यपाकं व्रणरोपणम्| एवमनुपशमे वमनधूमकायशिरोविरेकान् कुर्यात्||१३||

🔊 Audio coming soon

शिरःकायविरेकान् कुर्यादित्येवमन्तमरूंषिकासु| किञ्चित्कालस्थितमित्यश्वशकृद्रसलिप्तमिति विज्ञेयम्| धौतं च विडङ्गादिभिरालिम्पेत्| तिलमष्या वा स्नुहीक्षीरयुक्तया लिम्पेदिति सम्बन्धः| मधुकादिपत्रैर्वा केवलैरालिम्पेत्| शिग्र्वादिबीजैर्वा गोमूत्रपिष्टैः| बालकादिभिर्वा क्षीरपिष्टैः| शेषयोः क्षीरमेव| सुबोधम्| कपाले मृन्मयेऽग्निना भृष्टस्य कुष्ठस्य चूर्णं तैलयुक्तं प्रकरणाल्लेपात् कण्ड्वाघ्नम्| चाचा इन्द्रलुप्त इत्येकार्थः| सुबोधम्| मनश्शिलादिकल्कं तैलमादित्यपाकं यदातपेनैव पच्यते| एवमिति पूर्वोक्तेनानुपशमे वमनादीन् कुर्यात्|| १३||

Adhikarana dAraNakacikitsA (14) · Śloka 14

दारणके ललाटे सिरां विध्येत्| अभ्यङ्गस्नाननावनानि च शीलयेत् प्रियालबीजमधुककुष्ठमाषसर्षपैः सक्षौद्रैर्लेपः| कोद्रवतृणक्षाराम्भः प्रक्षालनम्||१४||

🔊 Audio coming soon

क्षाराम्भः प्रक्षालनमित्येवमन्तं दारणके| अभ्यङ्गादीनि दोषाद्यपेक्षम्| कोद्रवतृणक्षारस्रुतमम्भस्तथोक्तम्||१४||

Adhikarana indraluptacikitsA (15) · Śloka 15

इन्द्रलुप्ते यथासन्नं सिरां विद्ध्वा तुत्थकासीसमनश्शिलामरिचैर्लेपयेत्| भद्रदारुकुटन्नटाभ्यां वा चित्रककरवीरनक्तमालमालतीसिद्धेन वा तैलेनाभ्यज्यात्| अवगाढपदं वा सूचीकूर्चकेन प्रच्छाय भूयो भूयः प्रदिह्यत कपोतपङ्कामूलेन लाङ्गलिकामूलेन वा महिषीक्षीरपिष्टेन| घृष्टलिप्तमेरण्डपत्रावच्छादितं रात्रिमुषितं माहिषनवनीतेन लिम्पेत्| मार्कवपत्रसहचरपुष्पपक्वं वा| वार्ताकफलैस्तैलं पक्वं क्षौद्राञ्जनयुक्तमालेपः| सक्षौद्रो वा क्षुद्रवार्ताकरसः| जलशूको वा पलाशक्षारसान्द्रः| गोशकृता वा घृष्टमिन्द्रलुप्तमरुष्कररसेनावलिप्यान्तर्धूमदग्धकूर्ममश्यावचूर्णयेत्| कूर्मकपालभस्मना वा सुरसारसाक्तेन प्रदिह्यात्| हस्तिदन्तमष्या वा तैलान्वितया| पूतिकरञ्जपत्राणि वा ससैन्धवानि लेपः| पिप्पल्यञ्जनरसाञ्जनबाकुचिकाफललोहरजांसि वा गोमूत्रपिष्टानि| खलतिविहितानि चाचरेत्| सलिलसेकमारोमोद्गमात् परिहरेत्||१५||

🔊 Audio coming soon

आरोमोद्गमात् परिहरेदित्येवमन्तमिन्द्रलुप्ते| यथासन्निमिति शीर्षरोमनैकट्येन सिराव्यधः| तुत्थादिभिर्लेपः शीर्णरोमस्थाने| भद्रदारुकुटन्नटाभ्यां निर्वापणाय लेपयेदिति सम्बन्धः| भद्रदारुर्देवदारुः अथवा चित्रकादिसिद्धेन तैलेनाभ्यज्यात्| अवगाढपदं बहुप्रविष्टशस्त्रपदं कृत्वा सूचीकूर्चकेन प्रच्छानम्| कपोतपङ्का सुवर्चला तस्या मूलेन लाङ्गलिकामलेन वा महिषीक्षीरपिष्टेन पुनः पुनः प्रदेहः| घृष्टलिप्तं चैरण्डपत्रावच्छादितं सद्रात्रिमुषितं प्रातर्माहिषेण नवनीतेन लिम्पेत्| सुबोधम्| गोशकृता वा घृष्टमिन्द्रलुप्तमरुष्करस्य भल्लातकस्य रसेनावलिप्यान्तर्धूमं गग्धया कूर्ममष्यावचूर्णयेत्| सुरसारसाक्तेन कूर्मकपालभस्मनाऽन्तर्धूमदग्धेन प्रदिह्याद्वा| सुरसा मूर्वा| कूर्मकपालः कूर्मपृष्ठम्| सुबोधम्| खुलतिविहितानीत्यौषधादीनि||१५||

Adhikarana khalaticikitsA (16) · Śloka 16

खलताविन्द्रलुप्तोक्तः क्रमो यथादोषं च सुशुद्धिः| त्रिफलार्जुनसैर्यकत्वक्पुष्पकृष्णपिण्डीतकफलमूलनीलोत्पललोहचूर्णकासीसजम्बूमार्कवमञ्जिष्ठामेषश्रृङ्गीखदिररजः सकर्दममर्दितोक्ताणुतैलयुक्तमसनसारसमुद्गके न्यस्तं कर्दमे मासं निखातं स्थितमुद्धृतं सूचीकूर्चप्रच्छितायाः खलतेर्लेपः परं रोमसञ्जननः| रक्ताग्निमन्थपुष्पकिंशुकनलदमूलम्धुकिंहस्तिदन्तभस्मान्यविक्षीरपिष्टानि लेपः| जम्बूद्वयत्वक्पत्रमधुकभृङ्गरजस्त्रिफलाश्लेष्मातकमञ्जिष्ठाफ्णिज्जकबलाद्राक्षाजश्रृङ्गीचपलातिविषाकट्फलकल्केन क्षीरिवृक्षक्वाथेन च तिलतैलमक्षतैलं चैकध्यं साधयेत् तन्नस्येऽभ्यङ्गे च नियुञ्ज्यात्| एवमेव मधुरवर्गकल्केन||१६||

🔊 Audio coming soon

मधुरवर्गकल्केनेत्येवमन्तं खलतौ| यथादोषं संशुद्धिः कफेऽधिके वमनं पित्तेऽधिकं विरेचनमित्येवमादिर्यथादोषार्थः| त्रिफलादिरजः कर्दमेनार्दितोक्ताणुतैलेन च युक्तमसनसारसमुद्गके बीजकसारसम्पुटके न्यास्तं निसृष्टं कर्दमे मासं निखातं स्थितमुद्धृतं प्रच्छितखलतौ लेपः| कृष्णमदनस्य फलम्| रक्ताग्निमन्थपुष्पादीनां भस्मान्यविक्षीरेणाजक्षीरेण पिष्टानि लेपः| रक्तो लोहितोऽग्निमन्थस्तस्य पुष्पम्| जम्बूत्वगादिकल्केन क्षीरिवृक्षक्वाथेन च तिलतैलमक्षतैलं च मिश्रीकृत्य साधितं नस्येऽभ्यङ्गे च युञ्ज्यात्| मधुरवर्गकल्केनैवमेवेति क्षीरिवृक्षक्वाथे मधुरवर्गं कल्कं दत्वा तिलतैलमक्षतैलं चैकध्यं साधयेन्नस्येऽभ्यङ्गे च|| १६||

Adhikarana palitacikitsA (17) · Śloka 17

खलतिपलितयोश्च प्रयोगान् परस्परं विदध्यात्||१७||

🔊 Audio coming soon

खलतिप्रयोगान् पलिते पलितप्रयोगान् खलतौ च विदध्यादिति परस्परस्यार्थः||१७||

Adhikarana akAlapalitacikitsA (18) · Śloka 18

अकालपलितेषु वातादीनवेक्ष्य स्नेहस्वेदसंशोधनास्रविस्रावणानि कुर्यात्| ततोऽस्यार्दितप्रोक्तमणुतैलं नस्यमभ्यञ्जनं च| मधुकामलकमाक्षिकैः केशमूलानि लिम्पेत्| तिलामलकक्षौद्रतैलैर्वा| तत्थकाभ्रकम्ब्वस्थिकासीसकिट्टशर्कराभिर्वा| सैर्यकपुष्पनीलिनीत्रिफलाभृङ्गरजोभिर्वा कृष्णाजमूत्रपिष्टैः| असनपुष्पपत्रमये पात्रे बहिरामलकीकल्कप्रदिग्धे निहितमक्षतैलं षण्मासं व्रीहिपल्ले स्थितमभ्यङ्गान्नावनात् च पलितं जयति| अयमेव कल्पः सैरीयकेऽपि| कपिकच्छूफलमूलगर्भमक्षतैलं सिद्धमयःपात्रे पूर्ववत् स्थितं समानं पूर्वेण| रामतरणीमूलपलद्वयं यष्टीमधुकपलं सारिवार्धपलमेकत्रजर्जरीकृतमक्षतैलपलैर्दशभिराप्लुतं लोहभाजने दशाहं दिवसकरकरप्रतप्तं नावनात् पलितघ्नं सर्वेन्द्रियदार्ढ्यावहं च| कृष्णतिलतिलपर्णीत्रिफलामधुककासीसपद्मककर्दममांसीमार्कवमसनपत्रस्वरसपिष्टं त्रिरात्रमयःपात्रे स्थापयेत्| ततः पूर्वोक्तरसद्रुतेन पद्मिनीकर्दमप्रलिप्तधौतान् केशान् कपालं च लेपयेत्| ततः पद्मिनीकर्दमैः प्रच्छाद्य कौशेयेन वेष्टयेत्| तृतीये चाह्नि प्रक्षाल्यैवमेव कुर्यात्| एवमलिकुलनीलाः केशाः शिरो विभूषयन्ति||१८||

🔊 Audio coming soon

अकालपलितेष्विति परिणामपलिते रसायनोक्तेरकाल इति विशेषणम्| वातादीनवेक्ष्येति तद्योग्यतया| सुबोधम्| केशमूलानि केशस्थानानि मधुकादिभिर्लिम्पेत्| तिलादिभिर्वा तुत्थकादिभिर्वा कासीसकिट्टं कासीसत्वक्| सैर्यकपुष्पादिभिर्वा कृष्णाजस्य मूत्रेण पिष्टैः| असनस्य पुष्पैः पत्रैश्च वर्धिकाकृतिपात्रं कर्तव्यमेतच्च बहिरामलकल्केन तथा प्रदेह्यं यथा तैलाधिकरणतां याति| ततः तस्मिन् पात्रे बिभीतकतैलं निधेयम्| ततस्तत् षण्मासं व्रीहिराशौ स्थाप्यम्| तत्तैलमभ्यङ्गान्नावनाच्च पलितं जयति| अयमेवासनपुष्पपत्रविधिः सैरीयकोपे| सैरीयकं सहचरमाम्लयनं च| कपिकच्छ्वाः फलानि मूलानि च गर्भं दत्वाऽक्षतैलं सिद्धमयःपात्रे पूर्ववदिति षण्मासं व्रीहिपल्ले स्थितं पूर्वेणासनपात्रस्थिततैलेन गुणैः समानम्| रामतरण्यादिकं जर्जरीकृत्य दशभिरक्षतैलपलैराप्लुतं लोहपात्रे दशाहमादित्यकिरणैः प्रतप्तं सन्नावनात् पलितघ्नत्वादिगुणम्| रामतरणी सर्यकः| कृष्णतिलादिकमसनपत्ररसपिष्टमयःपात्रे त्रिरात्रं स्थापयेत्| ततोऽनन्तरमसनपत्ररसद्रुतेन पद्मिनीकर्दमेन प्रलिप्तान् पुनर्धौतान् केशान् पद्मपत्रैः प्रच्छाद्य कौशेयपट्टेन वेष्टयेत्| ततस्तृतीयेऽहनि प्रक्षाल्य पुनरेवमेव लेपादिकं कुर्यात्| एवमित्यनया क्रियया अलिकुलवद् भ्रमरसंहतिवन्नीलाः कचाः शिरो विभूषयन्ति||१८||

Adhikarana khalatyAdau nasyAdikramaH (19) · Śloka 19

भवति चात्र- खलतौ पलिते वल्यां हरिल्लोम्नि च शोधितम्| नस्यवक्त्रशिरोभ्यङ्गप्रदेहैः समुपाचरेत्||१९||

🔊 Audio coming soon

खलत्यादिके वमनादिशोधितं पुरुषं योग्यैर्नस्यादिभिरुपाचरेत्| हरिल्लोमा कपिलकेशः ||१९||

Adhikarana bRuhatyAdinAvanam (20) · Śloka 20

सिद्धं तैलं बृहत्याद्यैर्जीवनीयैश्च नावनम्||२०||

🔊 Audio coming soon

बृहत्याद्यैर्ह्रस्वपञ्चमूलद्रव्यैर्जीवनीयैर्जीवन्तीकाकोल्यादिभिश्च सिद्धं तैलं खलत्यादौ नावनं हितम्||२०||

Adhikarana sahacarAditailAni nAvanArthe (21) · Śloka 21

क्षीरात् साहचरात् भृङ्गरजसः सौरसाद्रसात्| प्रस्थस्तैलस्य कुडवो यष्टीमधुपलान्वितः| सिद्धश्शैलासने भाण्डे श्रृङ्गे मेषस्य वा स्थितः| नस्यं स्यात्......................................||२१||

🔊 Audio coming soon

क्षीरादीनां प्रत्येकस्य प्रस्थेन मधुयष्टीपलान्वितः सिद्धस्तैलस्य कुडवः शैलाद्यन्यतमे भाण्डे स्थितः खलत्यादिषु नस्यं स्यात्||२१||

Adhikarana dugdhikAdilepaH (22) · Śloka 22

........क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ| उत्पाट्य पलितं देयावाशये पलितापहौ||२२||

🔊 Audio coming soon

अथवा दुग्धिकाकरवीरकौ क्षीरेण श्लक्ष्णपिष्टौ पलितमुत्पाट्याशये पलितमूले देयौ||२२||

Adhikarana mahAnIlatailam (23) · Śloka 23

आदित्यवल्ल्या मूलानि कृष्णसैरेयकस्य च| फलं कृष्णशणात्पत्रं सुरसाद्यष्टिमार्कवम्| सुराह्वं काकमाची च पृथग्दशपलांशिकम्| प्रपौण्डरीकमञ्जिष्ठालोध्रकृष्णागरुत्पलम्| आम्रास्थिकर्दमः कृष्णो मृणाली रक्तचन्दनम्| नीलीभल्लातकास्थीनि कासीसं मदयन्तिका| सोमराज्यसनं शस्त्रं कृष्णं पिण्डीतचित्रकौ| पुष्पाण्यर्जुनकाश्मर्या आमजम्बूफलाञ्जनम्| प्रत्येकं पञ्चपलिकं पिष्टं सत्रिफलाकणम्| अक्षतैलाढकं तेन पचेद्धात्रीरसार्मणे| कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः| लोहपात्रे ततः पूतं महानीलं प्रयोजितम्| तत्पाने नावनेऽभ्यङ्गे शुद्धस्य नियतात्मनः| सर्वजत्रूर्ध्वरोगघ्नं पलितघ्नं विशेषतः| एभिरेव च भैषज्यैः शिरोवक्त्रञ्च लेपयेत्||२३||

🔊 Audio coming soon

आइत्यवल्ल्या इत्यादिना महानीलाख्यो योगः| आदित्यवल्यर्कवल्ली तस्या मूलानि| कृष्णसैरेयकः कालसहचरः तस्यापि मूलानि| कृष्णशणस्य फलम्| यष्टिमार्कवं नलिका भृङ्गरजः| आदित्यवल्लीमूलादिकाकमाच्यन्तं पृथग्दशपलभागिकम्| प्रपौण्डरीकादिकं प्रत्येकं पञ्चपलप्रमाणम्| कृष्णमिति शस्त्रविशेषणम्| पिण्डीतको मदनः| आममपक्वं जम्बूफलम्| एतत्सर्वं पिष्टं कृत्वा तेन धात्रीरसस्यामलकरसस्यार्मणो द्रोणः द्वादशाधिकानि पञ्चपलशतानि| तस्मिन्नक्षतैलस्य विभीतकतैलस्याढकमष्टाविंशत्यधिकं पलशतं लोहभाजने मन्दं पचेद्यावद्रसः शुष्को भवेत्तावदादित्यपाकं वा कुर्यात्| ततः पूतं महानीलसंज्ञं तत्तैलं पञ्चकर्मशुद्धस्य नियतात्मनो जितेन्द्रियस्य पानादिषु प्रयोजितं सर्वान् जत्रूर्ध्वरोगान् हन्तीति सर्वजत्रूर्ध्वरोगघ्नं विशेषतः पलितघ्नं भवति| एभिरित्यादित्यवल्ल्यादिभिः| सुबोधम् ||२३||

Adhikarana pralepanAni (24) · Śloka 24

क्षीरंप्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः| कृष्णाः प्रलेपो वक्त्रस्य हरिल्लोमवलीहितः| तिलाः सामलकाः पद्मकिञ्जल्को मधुकं मधु| बृंहयेद्रञ्जयेच्चैतत् केशान् मूर्ध्नः प्रलेपनात्| पचेत् सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम्| तेनालिप्तं शिरःशुद्धमस्निग्धमुषितं निशाम्| तत्प्रातस्त्रिफलाधौतं स्यात्कृष्णस्निग्धमूर्द्धजम्||२४||

🔊 Audio coming soon

क्षीरादिभिः कृष्णतिलान्तैर्वक्त्रस्य प्रलेपो हरिल्लोमसु वलीषु च हितः| वलयस्त्वक्सङ्कोचाः| तिलादिकं मूर्ध्नः प्रलेपनात् केशान् बृंहयेच्च रञ्जयेच्च| पचेदित्यादि सुबोधम्| समतण्डुलमयसः कृष्णलोहस्य चूर्णं सैन्धवजलम्| अम्लोऽपि तक्राद्यन्यतमः| ततो रेचनस्येन शुद्धमस्निग्धमनभ्यक्तं शिरस्तेन लेपनद्रव्येणासमन्तात् लिप्तं निशामुषितं प्रातः त्रिफलाक्वाथेन धौतं तत् शिरः कृष्णस्निग्धमूर्द्धजं कृष्णाः स्निग्धाश्च मूर्द्धजा यस्मिंस्तत् स्यात्|| २४||

Adhikarana keSarAgaH (25) · Śloka 25

अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः||२५||

🔊 Audio coming soon

अयश्चूर्णोऽम्लेन मद्यादिना पिष्टस्त्रिफलायुक्तो वरः श्रेष्ठो रागः केशरागः||२५||

Adhikarana aBya~jjanayogaH (26) · Śloka 26

कन्यायास्तिलनिम्बबीजम्धुकश्रेष्ठावचामार्कवात्| चूर्णं छागलगव्यमाहिषपलस्नेहेन सम्प्लावितम्| पात्रे स्थापितमायसे क्षितितले मासं निधायोद्धृतम्| पालित्यं खलतिञ्च दर्पणनिभां हन्त्येतदभ्यञ्जनात्||२६||

🔊 Audio coming soon

कन्यायाश्चूर्णं छागलादिमांसं विपाच्य जातेन स्नेहेन सम्प्लावितमालोडितम्| सुबोधम्| कन्यास्थूलैला||२६||

Adhikarana nAvanABya~ggayostailam (27) · Śloka 27

बीजैः श्लेष्मातकस्य व्यपगमिततुषैःकाञ्जिकश्लक्ष्णपिष्टैर्यल्लिप्ताल्लोहदण्डाद्दिनकरकिरणैस्तापितात् प्रच्यतेव| तत्तैलं केशकार्ष्ण्यं जनयति परमं नावनाभ्यञ्जनाभ्यां मूर्द्धघ्राणाक्षिदन्तश्रवणगलरुजं हन्ति निश्शेषतश्च||२७||

🔊 Audio coming soon

लोहदण्डश्शस्त्रमययष्टिस्तस्मादम्लकाञ्जिकपिष्टश्लेष्मातकबीजलिप्तादातपस्थिताद्यत्तैलं च्यवते तन्नावनेनाभ्यञ्जनेन च केशकार्ष्ण्यं जनयति निश्शेषतश्च मूर्द्धादिरुजं हरति||२७||

Adhikarana balAditailam (28) · Śloka 28

बलामधूकमधुकविदारीचन्दनोत्पलैः| जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः| प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे| नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्||२८||

🔊 Audio coming soon

जाङ्गलमांसस्यार्धतुला तुलार्धं तस्य रसे कषाये कल्कितैर्बलादिभिः समक्षीरस्तैलस्य प्रस्थः साधितः तेन नस्यं सर्वानूर्ध्वजत्रूत्थानामयानपहन्ति|| २८||

Adhikarana mayUraghRutam (29) · Śloka 29

मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्| दशमूलबलारास्नामधुकैस्त्रिफलैर्युतम्| जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्| कल्कितैर्मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगजित्| तदभ्यासीकृतं पानबस्त्यभ्यञ्जननावनैः||२९||

🔊 Audio coming soon

पक्षादिरहितं मयूरं त्रिफलैस्त्रिपलप्रमाणैर्द्दशमूलादिभिर्युतं जले षोडशगुणे पक्त्वा पादावशेषिते तस्मिन् क्वाथे कल्कितैर्मधुरस्कन्धद्रव्यैः क्षीरसमं घृतस्य प्रस्थं द्वात्रिंशत्पलानि पचेत्तद् घृतं पानादिभिरभ्यासीकृतं शीलितं सर्वान् जत्रूर्ध्वरोगान् जयति||२९||

Adhikarana mahAmAyUraghRutam (30) · Śloka 30

एतेनैव कषायेण घृतप्रस्थं विपाचयेत्| चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः| जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरुषकैः| समङ्गाचविकाभार्ङ्गीकाश्मरीकर्कटाह्वयैः| आत्मगुप्तामहामेदातालखर्जूरमस्तकैः| मृणालबिसखर्जूरयष्टीमधुकजीवकैः| शतावरीविदारीक्षुबृहतीसारिवायुगैः| मूर्वाश्वदंष्ट्रर्षभकश्रृङ्गाटककशेरुकैः| रास्नास्थितातामलकीसूक्ष्मैलाशठिपौष्करैः| पुनर्नवातवक्षीरीकाकोलीधन्वयासकैः| मधुकाक्षोडवाताममुञ्जाताभिषुकैरपि| महामायूरमित्येतन्मायूरादधिकं गुणैः| धात्विन्द्रियस्वरभ्रंशश्वासकासार्दितापहम्| योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्||३०||

🔊 Audio coming soon

एतेनैव पक्षादिरहितमयूरदशमूलादिकषायेण घृतप्रस्थं चतुर्गुणेन क्षीरेण सह पचेत्| एभिश्च कार्षिकैः कल्कैः कैरित्याह जीवन्त्यादिभिः| मृद्वीका द्राक्षा| समङ्गा मञ्जिष्ठा| तालस्य खर्जूरस्य च मस्तकं शाखापुच्छः| बिसखर्जूरत्यत्र पद्मनालस्य खर्जूरफलानाञ्च ग्रहणम्| सारिवायुगं द्वे सारिवे| स्थिरा सालपर्णी| वातामं फलवेशेषः| एतन्महामायूरं नाम घृतं मायूरात् घृतात् गुणैरधिकम्| धात्विन्द्रियस्वरभ्रंशादीनपहन्तीति तदुक्तम्| योन्यादिदोषेषु शस्तम्| वन्ध्याया दोषोपघातात्सुतप्रदम्| मायूरवच्छेषम् ||३०||

Adhikarana atideshena AkhvAdighRutAni (31) · Śloka 31

आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत्||३१||

🔊 Audio coming soon

इत्येनेनैव विधानेनाख्वादिभिः पृथग्घृतं कल्पयेत् पूर्वक एव विषये|| ३१||

Adhikarana jatrUrdhvarogopasaMhAraH (32-28) · Śloka 28

जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम्| परस्परमद्सङ्कीर्णं विस्तरेण प्रकाशितम्| ऊर्ध्वमूलमधः शाखमृषयः पुरुषं विदुः| मूलप्रहारिणस्तस्माद्रोगान् शीघ्रतरं जयेत्| सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः| तेन तस्योत्तमाङ्गस्य रक्षायामादृतो भवेत्||३२|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे शिरोरोगप्रतिषेधो नामाष्टविंशोऽध्यायः||२८||

🔊 Audio coming soon

ऊर्ध्वाङ्गचिकित्सामुपसञिहीर्षुरिदमाह-जत्रूर्ध्वजानामित्यादि| शतद्वयमेकत्रिंशदधिकं परस्परमसङ्कीर्णमूर्ध्वजत्रुगदानां विस्तरेण प्रकाशितम्| तद्यथा-चतुर्नवतिर्नेत्ररोगाः, पञ्चविंशतिः कर्णरोगाः, कोपूर्वैरेकीकृत्यैकोनविंशत्यधिकं शतम् भवति| नासारोगा अष्टादश पूर्वैरेकीकृत्य सप्तत्रिंशदधिकं शत भवति| मुखरोगाः पञ्चसप्ततिः| पूर्वैरेकीकृत्य शतद्वयं द्वादशाधिकं भवति| शिरोरोगा एकोनविंशतिः| पूर्वैरेकीकृत्य तदैकत्रिंशदधिकं शतद्वयं भवति| यस्मादृषयः पुरुषमूर्ध्वमूलमधः शाखं विदुस्तस्मान्मूलप्रहारिणो रोगानतिशीघ्रं जयेत्| येनास्मिन्नुत्तमाङ्गे सर्वेन्द्रियाणि संश्रितानि येन चास्मिन् प्राणाः संश्रिताः तेनोत्तमाङ्गरक्षायामादृतो भवेदिति|| ३२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे अष्टविंशोऽध्यायः