Adhikarana atha shirorogavij~jAnIyo nAma saptaviMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातः शिरोरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
ऊर्ध्वाङ्गे शिरसि केशान्ते ये रोगास्तेषां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana SirorogANAM sAmAnyo hetuH (2) · Śloka 2
धूमातपतुषाराम्बुक्रीडातिस्वपनजागरैः|
उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः|
अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैः|
उपधानमृजाभ्यङ्गद्वेषाधः प्रततेक्षणैः|
असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः|
जनयन्त्यामयान् दोषाः........................||२||
धूमातपेत्यादि| शिरोरोगाणां सामान्यहेतुभिर्धूमातपादिभिः शिरसि गता दोषाः वातादयः आमयान् जनयन्तीति सम्बन्धः| तुषारो हिमम्| अम्बुक्रीडा जलक्रीडा| अतिशब्दः स्वप्नजागराभ्यां सम्बध्यते| उत्स्वेद ऊर्ध्वस्वेदः| वातशब्दः अधिपुरोभ्यां सम्बध्यते| अधिवातोऽधिकवातः| बाष्पनिग्रहोऽश्रुवेगविधारणम्| रोदनमत्यर्थेनेत्यर्थात्| अतिशब्दोऽम्बुमद्याभ्याम्| द्वेषशब्दः उपधानादिभिः| उपधानं शिरोविश्रमणं शय्यायाम्| मृजा शुद्धिरुभयतः| अधः प्रततं सन्ततं कृत्वेक्षणम्| अदिग्रहणेनान्येषां स्रोतोलेपनवातक्षोभणादीनां ग्रहणम्||२||
Adhikarana vAtajaH shirastApaH (3) · Śloka 3
.........................तत्र मारुतकोपतः|
निस्तुद्यते भृशं शङ्खौ घाटा सम्भिद्यते तथा|
भ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम्|
बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणी|
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते|
स्फुरत्यति सिराजालं कन्धराहनुसङ्ग्रहः|
प्रकाशासहता घ्राणस्रावोऽकस्माद्व्यथाश्रमौ|
मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते|
शिरस्तापोऽयम्...............................||३||
तत्रेत्यादिना रोगविशेषा उच्यन्ते| वातद्धेतोः शिरसि शङ्घनिस्तोदादिकं भवति| शङ्खो भ्रूकर्णमध्यम्| निस्तोदो व्यथानम्| घाटा शङ्खस्योपरि| स्वनतः शब्दाच्छ्रोत्रे बाध्येते| कन्धराया ग्रीवाया हन्वोश्च सङ्ग्रहः स्तब्धत्वम्| अकस्मादकारणेनैव व्यथा च शमश्च| अस्य शङ्खनिस्तोदादिकस्य मर्दनादिभिर्मार्दवं जायते| अयमेवंरूपो रोगो नाम्ना शिरस्तापः||३||
Adhikarana arddhAvaBedakaH (4) · Śloka 4
........अर्धे तु मूर्ध्नः सोऽर्धावभेदकः|
पक्षात् कुप्यति मासाद्वा स्वयमेवोपशाम्यति|
अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत्||४||
एष एवार्धे भवन्नार्धावभेदक उच्यते| उभयरूपोऽपि च स्वयमेव शाम्यति| पक्षाद्वा मासाद्वा पुनः पुनः कुप्यति| यदा त्वतिवृद्धो भवति तदा नयनं वा श्रवणं वा विनाशयेत् ||४||
Adhikarana pittajaH Siro~aBitApaH (5) · Śloka 5
शिरोऽभितापे पित्तोत्थे शिरोधूमायनं ज्वरः|
स्वेदोऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम्||५||
पित्तहेतुके शिरोऽभितापाख्ये रोगे शिरोधूमायनादिकं लिङ्गम्| धूमायनं धूमस्येवानुभवः| अत्र च व्यथाया निशि मार्दवं शीतैश्चान्यदपि||५||
Adhikarana kaPajaH Siro~aBitApaH (6) · Śloka 6
अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतता|
सिराऽनिष्पन्दतालस्यं रुड्मन्दाह्न्यधिका निशि|
तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः||६||
अरुच्यादिकं कफजे शिरोऽभितापे लिङ्गम्| मूर्ध्नः शिरसो गुरुता स्तिमितता शीतता च| अह्नि मन्दा रुग्भवति निशि चाधिकं भवति| अक्षिकूटमक्षिशिविरम्||६||
Adhikarana raktajaH Siro~aBitApaH (7) · Śloka 7
रक्तात् पित्ताधिकरुजः...................||७||
रक्तात्तु शिरोऽभितापः पित्तशिरोऽभितापाधिकरुजो भवति||७||
Adhikarana sarvajaH Siro~aBitApaH (8) · Śloka 8
...............सर्वैः स्यात् सर्वलक्षणः||८||
सर्वैः सन्निपातेन सर्वलक्षणो वातादिसर्वलक्षणयुक्तः शिरस्तापः स्यात्||८||
Adhikarana krimijaH Siro~aBitApaH (9) · Śloka 9
सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषे|
कोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः|
शिरसस्ते पिबन्तोऽस्रं घोराः कुर्वन्ति वेदनाः|
चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः|
रौक्ष्यशोफव्यथच्छेददाहस्फुरणपूतिताः|
कपाले तालुशिरसोः कण्डूः शोफः प्रमीलकः|
ताम्राच्छसिङ्घाणकतो कर्णनादश्च जन्तुजे||९||
सङ्कीर्णैरित्यादि| जन्तुजे कृमिजे शिरोऽभिताप इति विज्ञेयम्| सङ्खीर्णैर्नानारूपैर्मिश्रैर्भोजनैर्मूर्ध्नि शिरसि रुधिर आमिषे च क्लेदिते तत्रैव च सन्निपाते कोपितेऽस्मिन् मूर्ध्नि जन्तवः कृमयो जायन्ते| ते च जन्तवः शिरसोऽस्रं पिबन्तो घोरा वेदना रुजः कुर्वन्ति| किम्भूता वेदना आह-चित्तस्य विभ्रंशजनजीः| अत्र च ज्वरादिकं भवति कपाले रौक्ष्यादिकं कण्ड्वादिकं तालुशिरसोः| प्रमीलकः स्तैमित्यम्||९||
Adhikarana shiraHkampaH (10) · Śloka 10
वातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः||१०||
मलास्त्रये वातादयो वातोल्बणाः शिरःकम्पं कुर्वते तत्संज्ञं नाम्ना शिरःकम्पः||१०||
Adhikarana sha~gkhakaH (11) · Śloka 11
पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः|
तीव्रदाहरुजारागप्रलापज्वरतृड्भ्रमाः|
तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः|
त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः||११||
वाताद्यैस्त्रिभिः सरक्तैः पित्तप्रधानैश्च तीव्रदाहादिरूपः शङ्खे शोफो भवति| क्षिप्रकारी शीघ्रमुपद्रवकृत्| स शोफो नाम्ना शङ्खकः त्रिरात्रेण मारयत्याशु च त्रिरात्रस्य पुरतः साधितः सिध्यत्यपि न तु मारयत्येव||११||
Adhikarana sUryAvartaH (12) · Śloka 12
पित्तानुबन्धः शङ्खाक्षिभ्रूललाटेषु मारुतः|
रुजां सस्पन्दनां कुर्यादनुसूर्योदयोदयाम्|
आमध्याह्नं विवर्धिष्णुः क्षुद्वतः सा विशेषतः|
अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः परम्|
सूर्यावर्तः स..............................||१२||
प्रधानो वातः पित्तेन गृहीतानुबन्धः शङ्खादिषु स्पन्दनेन सह रुजां कुर्यात्| सूर्योदयस्य पश्चादुदयो यस्या रुजायास्ताम्| एषा च रुगामध्याह्नकाले विवर्धिष्णुः क्रमेण वृद्धिशीला भवति| क्षुद्वतस्तु विशेषेण भवति| अतो मध्याह्नात् परमव्यवस्थितशीतोश्णसुखा सती रुक् शाम्यति| अव्यंवस्थितमनियतं शीतेनोष्णेन च सुखं यस्याः सा तथोक्ता| कदाचिदत्र शीतेनापि सुखं कदाचिदुष्णेनापि| अयमेवंरूपो रोगो नाम्ना सूर्यावर्तः||१२||
Adhikarana shirorogasa~gkhyAnam (13) · Śloka 13
............इत्युक्ता दश रोगाः शिरोगताः||१३||
इति दश रोगा वातशिरोभिताप-अर्द्धावभेदक-पित्तशिरोभिताप-कफशिरोभिताप-रक्तशिरोभिताप-सर्वशिरोभिताप-कृमिशिरोभिताप-शिरःकम्प-शङ्खक-सूर्यावर्ताख्याः शिरस्युक्ता भवन्ति व्यापका इत्यर्थात्||१३||
Adhikarana shiraHkapAlavyAdhInAM sa~gkhyA (14) · Śloka 14
शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव||१४||
अनन्तरं शिरस्येव च कपाले नव व्याधयो वक्ष्यन्ते||१४||
Adhikarana upashIrShakam (15) · Śloka 15
कपाले पवने दुष्टे गर्भस्थस्यापि जायते|
सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम्||१५||
कपाले पवने दुष्टे सति सवर्णो देहसमानवर्णो रुजा रहितश्च शोफः स्यात् गर्भस्थस्यापि शब्दाज्जातस्यापि| तं रोगमुपशीर्षकं नाम्ना विद्यात्||१५||
Adhikarana kapAle piTakAdikam (16) · Śloka 16
यथादोषोदयं ब्रूयात् पिटकार्बुदविद्रधीन्||१६||
कपाले च पिटका अर्बुदं विद्रधिं च दोषोदयानतिक्रमेण लिङ्गैर्ब्रूयात्| पिटकादीनां प्रसिद्धत्वाद्य एवोदितास्तेषामेव लिङ्गानि भवन्तीत्यर्थः||१६||
Adhikarana arUMShikAH (17) · Śloka 17
कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः|
कङ्गुसिद्धार्थकनिभाः पिटकाः स्युररूंषिकाः||१७||
पित्तादिभिर्हेतुभिः कपाले क्लेदबहुलत्वादिगुणाः पिटकाः स्युः ता नाम्नाऽरूंषिकाः|| १७||
Adhikarana dAraNakam (18) · Śloka 18
कण्डूकेशच्युतिस्वापरौक्ष्यकृत् स्फुटनं त्वचः|
सुसूक्ष्मं कफवाताभ्यां विद्याद्दारणकं तु तत्||१८||
कफवाताभ्यां हेतुभ्यां कण्ड्वादिकृद्यत्त्वचः स्फुटनं तन्नाम्ना दारणकं विद्यात्| सुसुक्ष्ममतिसूक्ष्मं स्फुटनं छेदनम्| स्वापः त्वचः सुप्तता प्रकरणाच्छिरसि||१८||
Adhikarana indraluptam (19) · Śloka 19
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्|
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः|
रोमकूपान् रुणद्ध्यस्य तेनान्येषामसम्भवः|
तदिन्द्रलुप्तं रुज्जा च प्राहुश्चाचेति चापरे||१९||
रोमकूपानुगे रोमकूपेष्वनुगतं पित्तं कर्तृ वातेन सह मूर्च्छितं मिश्रीभूतं तत्र स्थितानि रोमाणि प्रच्यावयति| ततः कारणविशेषवशात् सशोणितः श्लेष्माऽस्यातुरस्य रोमकूपान् रुणद्धि तेन हेतुनाऽन्येषां रोम्णामसम्भवः| तदिन्द्रलुप्तं नाम्ना भवति| अपर आचार्या इन्द्रलुप्तोक्तहेतुका रुज्जेति चाचेति च नाम्नाऽऽहुः ||१९||
Adhikarana khalatiH (20) · Śloka 20
खलतेरपि जन्मैवं शातनं तत्र तु क्रमात्||२०||
खलत्याख्यस्य च रोगस्यैवमिन्द्रलुप्तप्रकारेणैव जन्म| तत्र तु खलतौ क्रमाच्छातनं रोम्णामिति प्रकरणात्||२०||
Adhikarana khalaterbhedAnusAraM lakShaNAni (21) · Śloka 21
सा वातादग्निदग्धाभा पित्तात् स्वेदसिरावृता|
कफात् घनत्वग्वर्णांश्च यथास्वं निर्दिशेत्त्वचि|
दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा|
दग्धाग्निनेव निर्लोमा सदाहा या च जायते||२१||
सा च खलतिर्वातादाग्निदग्धसमा| पित्तात् सस्वेदा सिरावृता च| कफात् घनत्वग्भवति| अस्यां च खलतौ तातादिविशेषैस्त्वचि वर्णान्यथास्वं निर्दिशेत्| तेन वातेन श्यावो वारुणो वा| पित्तात् पाण्डुरारुणवर्जितोऽनेकः| श्लेष्मणि श्वेतः| एषा च खलतिः| सर्वदोषैः सन्निपातलक्षणा भवति| नखप्रभत्वादियुक्ता या खलति-र्जायते साऽसाध्या||२१||
Adhikarana palitam (22) · Śloka 22
शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः|
केशान् सदोषः पचति पलितं सम्भवत्यतः|
तद्वातात्स्फुटितं श्यावं खरं रूक्षं ज्वलत्प्रभम्|
पित्तात्सदाहं पीताभं कफात्स्निग्धं विवृद्धिमत्|
स्थूलं सुशुक्लं सर्वैस्तु विद्याद्व्यामिश्रलक्षणम्|
शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम्||२२||
शोकादिजनितः शरीरोष्मा सदोषः सन् शिरोगतः केशान् पचत्यतो हेतोरकाले पलितं सम्भवति| तच्च पलितं वातात् स्फुटितत्वादिरूपम्| पित्तात् सदाहादिगुणम्| कफात् स्निग्धं विवृद्धिमत् स्थूलं सुश्क्लं च भवति| सर्वैर्दोषैः पलितं तु व्यामिश्रलक्षणं सङ्कीर्णलक्षणं विद्यात्| शिरोरुजोद्भवमन्यच्च पलितं भवति तद्विवर्णं स्पर्शनासहश्च| इति नव कपाले व्याधयः| उपशीर्षक-पिटकाऽर्बुद-विद्रध्यरूंषिका-दारणकेन्द्रलुप्त-खलतिपलिताख्या उक्ताः||२२||
Adhikarana asAdhyatAnirdeSaH (23-27) · Śloka 27
असाध्या सन्निपातेन खलतिः पलितानि च|
शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम्||२३||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे शिरोरोगविज्ञानीयो नाम सप्तविंशोऽध्यायः||२७||
एभ्यश्च सन्निपातेन खलतिरसाध्या| पलितानि च सन्निपातोत्थान्यसाध्यानि| यानि तु पालितानि शरीरपरिणामे वार्द्धके उत्थितानि तानि रसायनमपेक्षन्ते रसायनेन विना न शाम्यन्तीत्यर्थः|| २३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे सप्तविंशोऽध्यायः||