Adhikarana atha vAjIkaraNavidhirnAma pa~jcAsho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातो वाजीकरणविधिं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
उभयलोकहितत्वादेकान्तस्वस्थोपयोगित्वान्मङ्गलत्वाच्च तन्त्रे वाजीकरणाख्यस्याष्टमस्याङ्गस्य निर्देशः| तत्प्रयोगदर्शनार्थमध्याय आरभ्यते| वाजीकरणमित्यादिना भङ्ग्या प्रयोजनमुच्यते|| १||
Adhikarana vAjIkaraNAdhikArI Pala~jca (2) · Śloka 2
वाजीकरणमन्विच्छेत्सततं विषयी पुमान्|
तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम्|
अपत्यसन्तानकरं यत्सद्यः सम्प्रहर्षणम्||२||
यः पुमान् विषयी विषयेशु शब्दादिषु देहचित्तोपयोगिषु हेतेषु सक्तः स वाजीकरणलक्षणमुपायमन्विच्छेत्| तत्र हि वाजीकरणे पुष्ट्यादिकं संश्रितम्| (वाजीकरणमित्यादि| वाजीवाश्वसधर्मा येन क्रियते तं अन्विच्छेत् कुतोऽनुरसायनात्| तस्य हि समुप-चितधातोः प्रधानधातुपरिक्षयो मा भूदिति| पुरुषग्रहणं बाला-त्यन्तवृद्धनिरासार्थं न पुनः स्त्रीषण्डव्युदासार्थं तेषां वाजीकर-णाप्राप्तेः| सततग्रहणं सदा सेवनं ज्ञापयति| यथा रसायनं प्रयुक्तं सर्वधातूनां पुष्टिमादधाति नैवं वाजीकरणं तद्धि सततमुपयुज्यमानमाहारवच्छुक्रधातुवृद्धिमादधातीति| प्रवर्त्तकञ्च धर्मं स्वर्गप्राप्तिलक्षणमाश्रित्यैतदुच्यते| यन्निवृत्तिकृते हि स उपदेशः| कोशकारो यथा ह्यंशूनुपादत्ते वधप्रदान्| तथाऽग्निकल्पानर्थान् ज्ञो ज्ञात्वा तेभ्यो निवर्त्तत इति| नैःश्रेयसिकं धर्ममाश्रित्य ब्रह्मचर्योपदेशः| अयञ्चाभ्युदयिकमिति न परस्परविरोधाशङ्केति जेज्जटः)|| २||
Adhikarana vAjIkaraNaniruktiH (3) · Śloka 3
वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः|
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते|
तद्वाजीकरणं तद्धि देहस्यौजस्करं परम्||३||
वाजीकरणं किमुच्यत इत्याह-येन हेतुभूतेन पुरुषो वाजीवाश्व इवाप्रतिहतोऽङ्गना याति| येन च स्त्रीणामतिप्रियो भवति येन च धातुरुपयचं प्राप्नोति, तद्वस्तु वाजीकरणमित्युच्यते| तद्धि परं देहस्यौजस्करम्|| ३||
Adhikarana guNavatstrIprashaMsA (4) · Śloka 4
सारो हि जीवलोकस्य स्त्री स्त्रीगुणसमन्विता|
स्त्रियः साध्व्यः प्रसुवते नरान् गुणमयानिव|
गोत्रवृद्धिकरा ह्येता गृहिण्यो गृहदेवताः|
गृहं हि हीनमेताभिर्न श्रीमदपि शोभते||४||
सारो हीत्यादिना स्त्रियाः प्रियत्वं प्रयोजनवतीत्युच्यते तस्मादप्रिये भर्त्तरि कुलजाऽपि स्त्री कदाच्छीलं कलङ्कयति| जीव लोकस्यैष सारो यत् स्त्री स्त्रीगुणसमन्विता भवतीत| साध्व्यः स्त्रियो गुणैरिव कृतान् नरान् प्रसुवते| एता इति साध्व्यः स्त्रियः| गृहिण्यो भार्याः|| ४||
Adhikarana puMyogaprashaMsA (5) · Śloka 5
न तु ता अपि शोभन्ते जरसाऽनुगता इव|
पुंयोगेन विना स्त्रीणां स हि संवननं परम्||५||
ता अपि स्त्रियः पुंयोगेन विना तु तथा न शोभन्ते यथा जरसाऽनुगताः| स हि पुंयोगः स्त्रीणां परं संवननं वशीकरणम् ( पुरुषरहिताः स्त्रियः स्वतन्त्रत्वान्न इत्यर्थः)|| ५||
Adhikarana vAjIkaraNaprashaMsA (6) · Śloka 6
वाजीकरणनित्यस्य कामं कामं सिषेविषोः|
न शरीरमवाप्नोति न वा रतिरतिः क्षयम्|
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः|
यथैकश्चैकशाखश्च निरपत्यस्तथा नरः|
अदृष्टपुत्रपौत्रस्य कुलतन्त्वन्तवर्त्तिनः|
संसारसुखबाह्यस्य कीदृशं नाम जीवितम्|
असम्बन्धो ह्यपुत्रस्य नित्यमेव परः परः|
सीदत्यस्यावसाने च गृहं सुस्थेऽप्यनायकम्|
अतो वाजीकरा योगाः निषेव्याः शुक्रवर्द्धनाः|
कल्यस्योदग्रवयसो वाजीकरणसेविनः|
सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते||६||
यः पुरुषो वाजीकरणनित्यस्तस्य काममिच्छया कामं स्त्रीसङ्गमं सिषेविषोरपि शरीरं क्षयं न प्राप्नोति| रतिरतिश्च क्षयं न नावाप्नोति| द्रुमो यथा अच्छायत्वादियुक्तः परिहार्यो निरुपकारश्च भवति तथैव निरपत्यो नरः| अथवा येन पुत्रपौत्रमदृष्टं वः कुलतन्तोरन्ते वर्त्तते अत एव च सम्सारसुखाद् बहिर्भूतस्येदृशस्य कीदृशं नाम जीवितम्| तज्जीवितमेव न भवतीत्यर्थः| अपुत्रस्य हि परोऽन्यो विशिष्टेन सम्बन्धेन रहितो नित्यमेव परः न तद्वित्तस्याश्रयोऽसाधारणसम्बन्धाभावादित्यर्थः| अस्य चापुत्रस्यावसाने वयोऽन्ते सुस्थेऽपि| धनादिसद्भावेऽप्यनायकं गृहमवसीदति| यत एवमतः शुक्रस्य वर्द्धना वाजीकरा योगा निषेव्याः| कल्यस्य नीरोगस्य प्रत्यग्रवयसो वाजीकरणसेविनश्च पुंसः सर्वेषु ऋतुषु षट्स्वपि अहरहर्दिने दिने व्यवायो मैथुनं न निवार्यते न निषिध्यते|| ६||
Adhikarana shukrakShayahetavaH (7) · Śloka 7
चिन्ताजराभ्यां शुक्रं तु व्याधिभिः कर्मकर्शनात्|
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्|
शुक्रक्षयात् भयाच्छोकादविस्रम्भादसेवनात्|
अतिहर्षादतिस्थौल्यान्मलोपचयतः श्रमात्|
स्त्रीणामकौशलाद्दोषदर्शनादभिचारतः|
मेढ्रामयात्सुमहतः क्रोधतोऽर्धर्मकीर्तनात्|
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते||७||
चिन्तादिभिः शुक्रं क्षयं याति सञ्चितमप्यपचीयते| कर्मकर्शनाद्वमनादिकर्मकृतेन कर्शनेन| शुक्रक्षयाद्धातुस्त्रोतस्थितस्य शुक्रस्य क्षयात् शुक्राशयस्थितं शुक्रमुपक्षीयते| असेवा स्त्रीणाम्| स्त्रीणामकौशलं रहस्यव्युत्पत्तिः| दोषप्रदर्शनं स्त्रीणामेव| अक्षीणेऽपि शुक्रे तृप्तस्यापि पुंसः स्त्रिय़ो गन्तुं शक्तिन्नोपजायते|| ७||
Adhikarana strIgamanashaktivaividhyam (8) · Śloka 8
न हि जातबलाः सर्वे नराश्चापत्यभागिनः|
बृहच्छरीरा बलिनः केचिन्नारीषु दुर्बलाः|
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः|
नराश्चटकवत्केचिद् व्रजन्ति बहुशः स्त्रियः|
गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः|
केचित्प्रयत्नैर्वाह्यन्ते वृषाः केचित्स्वभावतः||८||
न हीत्यादिना स्त्रीगमनशक्तेरनियमं दर्शयति| सुबोधम्| प्रयत्नेन रतिर्वाजीकरणादिभिः| (सबला एवापत्यभागिनो जातबला अपि नापत्यभागिनः, अजातबला अप्यपत्यभागिन इति प्रतिपादयन् सर्वान् बलविशेषानाह-नहि जातबला इत्यादि| बृहच्छरीरा ये मेदस्विनस्तेऽप्यल्पव्यवायाः| अल्पाश्रया अपि ये शुक्रसारा बलवन्तो बहुप्रजाः| केचित्प्रयत्नैर्वाह्यन्ते औपनिषदादिकोक्तैः| वृषाः केचित् स्वभावतः प्रकृत्यैवेत्यर्थः इति जेज्जटः)|| ८||
Adhikarana vAjIkaraNaprastAvaH (9) · Śloka 9
तस्मात्पयोगान् वक्ष्यामि दुर्बलानां बलप्रदान्|
सुखोपभोगान् बलिनां भूयश्च बलवर्द्धनान्||९||
तस्माद्ये दुर्बलास्तेषां बलप्रदादिगुणान् प्रयोगान् वक्ष्यामि| बलिनां च भूयो बलवर्द्धनान् सुखोपभोगांश्च| (इदमत्र चिन्त्यते- श्लेष्म-प्रकृतेर्गुरुस्निग्धमधुरशीतानि सामान्यात् कफवृद्धिमादधति कथं तेषां सुखोपभोगतेति| अत्र विधास्यत्यत्रैव| स्रोतस्सु शुद्धेष्वित्यादि यावत् क्लिष्टे यथा वाससि रागयोगा इति| एतदुक्तं भवति-कृतसंशोधनस्यापहृतकफपित्तस्यैधिताग्ने दोषाय वाजीकरणयोगा इति| उक्तं च-'क्षीणदोषस्य चापथ्यं नावश्यं दोषकृद्भवेदि'ति| अतिमन्दाग्नेस्त्वनिर्वाहितदोषस्यापरिणतानि दोषं प्रकृति नान्यथा| योऽपि तत्र सामान्यात् कफलवः सोऽपि व्यवायादपचीयते| यथोक्तादधिकं निस्सृतं व्याधये सम्पद्यत एव-इति जेज्जटः)|| ९||
Adhikarana vAjIkarAsevanAtpUrvamanuShTheyam (10) · Śloka 10
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान्|
घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्|
योगविद्योजयेत् पूर्वं क्षीरमांसरसाशिनाम्|
ततो वाजीकरान् योगान् शुक्रापत्यबलप्रदान्||१०||
अथेत्यादि| प्रयोगात्पूर्वमेव स्निग्धस्यानन्तरं वमनविरेचनाभ्यां शुद्धस्य निरूहाननुवासनयुक्तान् घृतादियुक्तांश्च क्षीरमांसरसाशिनां योजयेत् ततोऽनन्तरं शुक्रादिप्रदान् वाजीकरान् योगान्| (अथ स्निग्धविशुद्धानामित्यादिनैतदुक्तं भवति-शुद्धानामेधिताग्नीनां यथाबलं प्रयुक्तं वाजीकरणं यथावत् सिद्ध्यत्यन्यथाऽनर्थाय| बस्तयो घृतादिसहिताः क्षीरमांसरसाशिनां विधेयाः-इति जेज्जटः)|| १०||
Adhikarana sharekShvAdighRutam (11) · Śloka 11
शरेक्षुकुशकाशानं विदार्या वीरणस्य च|
मूलानि कण्टकार्याश्च जीवकर्शभकौ बलाम्|
मेदे द्वे द्वे च काकोल्यौ सूप्यपर्णी शतावरीम्|
अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम्|
वीरां पयस्यां जीवन्तीं ऋद्धिं रास्नां त्रिकण्टकम्|
मधुकं शालिपर्णी च भागांस्त्रिपलिकान् पृथक्|
माषाणामाढकं चैतद् द्विद्रोणे साधयेदापाम्|
रसेनाढकशेषेण पचेत्तेन घृताढकम्|
रसेनाढकशेषेण पचेत्तेन घृताढकम्|
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्|
वीरां स्वगुप्ताङ्काकोल्यौ यष्टीं फल्गुं द्विपिप्पलीम्|
द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम्|
तत्सिद्धपूतं चूर्णस्य पृथक्प्रस्थेन योजयेत्|
शर्करायस्तुगायाश्च पिप्पल्याः कुडवेन च|
मरिचस्य प्रकुञ्चेन पृथगर्द्धपलोन्मितैः|
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्रद्विकुडवेन च|
पलमाट्रं ततः खादेत् प्रत्यहं रसदुग्धभुक्|
तेनारोहति वाजीव कुलिङ्ग इव हृष्यति||११||
शरादीनां कण्टकार्यन्तानां मूलानि| व्याख्यासमम्| शरः काण्डेक्षुः, वीरणमुशीरम्| वीरा क्षीरविदारी| पयस्या क्षीरिका| त्रिकण्टको गोक्षुरकः| फल्गु काकोदुम्बरिकाफलम्| क्षौद्रस्य द्विकुडव षोडशपलानि| कुलिङ्गश्चटकः|| ११||
Adhikarana mAShAdighRutam (12) · Śloka 12
माषात्मगुप्ताबीजानामाढकं प्रसृतोन्मितम्|
मेदाश्वगन्धर्द्धिवरी वीरा यष्टी द्विजीवकम्|
शूर्पेऽपां विपचेत्तेन पादशेषेण पाचयेत्|
विदारीक्षुरसप्रस्थद्वयेन सदृशेन च|
सर्वैः क्षीरेण हविषो नवात्प्रस्थं शृतेऽत्र च|
सिता क्षौद्रसिताख्यानां पृथग्दद्याच्चतुष्पलम्|
पलं कणात् पुरो भक्तं लिहंस्तत्पलपूर्वकम्|
तरुणीष्ववतृप्तासु प्रसभं रासभायते||१२||
माषात्मगुप्ताबीजानां मिश्रीकृतानामाढकम्| मन्दादिकं प्रसृतोन्मितमिति| सर्वैरिति क्वाथविदारीक्षुरसैः सदृशेन समेन क्षीरेण| सुबोधम्| अस्य योगस्य भक्तात्पूर्वं प्रयोगः| पलपूर्वकं लिहंस्तद् घृतं पुरुषो याः पुरुषे अतृप्तास्तरुण्यस्तासु रासभायते रासभ इवाचरति|| १२||
Adhikarana medAdibAShkayaNaM payaH (13) · Śloka 13
मेदादिभिश्च कर्षांशैः शृतं बाष्कयणं पयः|
सशर्कराक्षौद्रघृतं शुक्रवृद्धिकरं परम्||१३||
मेदादिभिः पूर्वक्वाथनिर्दिष्टैर्जीवकान्तैः कर्षाशैर्वाष्कयणं पयः शृतं शर्करादियुक्तं परं शुक्रवृद्धिकरम्|| १३||
Adhikarana mAShAdipAyasaH (14) · Śloka 14
पयसा पायसस्तेन माषकण्डूकरीफलैः|
वृष्यो वेगकरः सिद्धः सघृतक्षौद्रशर्करः||१४||
तेन च मेदादिसिद्धेन पयसा माषैः कपिकच्छूफलैश्च पायसः सिद्धो घृतादियुक्तो वृष्यो वेगकरश्च|| १४||
Adhikarana shvadaMShTrAdipAyasaH (15) · Śloka 15
श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे|
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः||१५||
क्षीरचतुर्गुणे श्वदंष्ट्रादिरसे घृताढ्यः साधितो माषषष्टिकपायसो वृष्यः शुक्रपुष्टिकरः|| १५||
Adhikarana madhUlikAdicUrNam (16) · Śloka 16
मधूलिका माषपर्णी सिता शृङ्गाटकं यवाः|
स्वगुप्तामूलयष्ट्याह्वविदारीक्षुरकाः समाः|
सप्रियाला कृतं चूर्णं पृथङ्मध्वाज्यषड्गुणम्|
पादाभ्यामस्पृशन् भूमिं लिहन् काल्यमतः पिचुम्|
लभते बलमुत्साहं स्त्रींश्च याति कुलिङ्गवत्||१६||
मधूलिकादयः प्रियालान्ताः समस्तैश्चूर्णं पृथगिति मधुना षड्गुणेनाज्येनापि षड्गुणेन युक्तमतः परं पिचुं कर्षं काल्यं प्रभाते लिहन् पादाभ्यां भूमिमस्पृशन् पुरुषो बलमुत्साहं च लभते| कुलिङ्गश्चटकः|| १६||
Adhikarana svaguptAdicUrNam (17) · Śloka 17
स्वगुप्ता क्षीरकाकोली विदारी जीवकद्वयम्|
तिलाः सुलुञ्चिताः भृष्टाः शर्कराज्यमधुप्लुतम्|
तच्चूर्णं प्रसृतं लीढ्वा गच्छति प्रमदाशतम्||१७||
स्वगुप्तादिकं सुलुञ्चितास्त्याजितत्वचो भृष्टस्तिलाश्चेत्यन्तमेतच्छर्कराद्याप्लुतञ्चूर्णन्तस्य प्रसृतं पलद्वयं प्रमदाशतं गच्छति||१७||
Adhikarana mAShacUrNalehaH (18) · Śloka 18
प्रसृतं माषचूर्णस्य धात्रीस्वरसभावितम्|
विदारीरजसो वापि लिहन् मधुघृतद्गुतम्|
क्षीरानुपश्चटकवद्दशकृत्वो व्रजेत् स्त्रियः||१८||
माषचूर्णस्य व विदारीचूर्णस्य वा प्रसृतं धात्रीरसेन भावितं मधुघृताभ्यां लिहन् क्षीरानुपः सन् दशकृत्वो दशवारान् चटकवत् स्त्रियो व्रजेत्|| १८||
Adhikarana vidArIcUrNalehaH (19) · Śloka 19
चूर्णं विदार्या बहुशः स्वरसेनैव भावितम्|
क्षौद्रसर्पिर्युतं लीढ्वा प्रमदा दश गच्छति||१९||
विदारीचूर्णलेहः सुबोधः| बहुशो अनेकशः| स्वरसेन विदारी स्वरसेन|| १९||
Adhikarana kRuShNAdicUrNalehaH (20) · Śloka 20
कृष्णा धात्रीफलरजः स्वरसेनैव भावितम्|
शर्करामधुसर्पिर्भिर्लीढ्वा योऽनु पयः पिबेत्|
स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति||२०||
कृष्णाफलानां धात्रीफलानाञ्च चूर्णं स्वरसेन कृष्णाधात्रीफलरसेन सुभावितं सत् शर्करादिभिर्लीढ्वा यः पयोऽनुपिबेत् सोऽशीतिवर्षोऽपि युवेव परं हर्षं प्राप्नोति|| २०||
Adhikarana madhuyaShTIkarShaprayogaH (21) · Śloka 21
कर्षं मधुकचूर्णय्स् घृतक्षौद्रसमन्वितम्|
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्||२१||
मधुयष्टी कर्षप्रयोगः सुबोधः| ना पुरुषः| नित्यवेगः सदा वेगवान्|| २१||
Adhikarana kulIrashRu~ggIkalkaH (22) · Śloka 22
कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत्|
सिताघृतपयोऽन्नाशी स नारीषु वृषायते||२२||
कर्कटाशृङ्ग्याः कल्कस्य पयसा प्रयोगे यः सितादिभिरन्नमश्नाति स नारीषु वृष इवाचरति|| २२||
Adhikarana dhAnyamASharasAdiprayogaH (23) · Śloka 23
धान्यमाषरसः क्षीरं क्षौद्रमिक्षुरसो घृतम्|
द्विमेदा जीवकयुगक्वाथश्चैकत्र योजितः|
पीतः करोति पुरुषं प्रमदाशतगामिनम्||२३||
धान्यमाषयोरेको रसः तत्समानि प्रत्येकं पञ्च क्षीरादीनि| एकत्र योजितो मिश्रीकृतः पीतः पुरुषं प्रमदाशतगामिनं करोति|| २३||
Adhikarana BallAtakashRutakShIram (24) · Śloka 24
भलातकैश्चतुर्भिस्तु दुग्धस्यार्द्धाढकं पचेत्|
पीतं करोति वृषतां सुजीर्णस्यापि देहिनः||२४||
भल्लातकषृतक्षीरं सुबोधम्| दुग्धस्यार्द्धाढकंचतुःषष्टिपलानि| सुजीर्णस्य सुवृद्धस्यापि (भल्लातकस्यारुष्करस्य मज्जा)|| २४||
Adhikarana svaya~gguptekShurakAdicUrNayogAH (25) · Śloka 25
स्वयङ्गुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्|
धारोष्णेन नरः पीत्वा पयसा रासभायते|
उच्चटाचूर्णमप्येनं शतावर्याश्च योजयेत्||२५||
स्वयङ्गुप्तेक्षुरकयोरध्यण्डकोकिलाक्षकयोर्बीजस्य चूर्णं शर्करा सहितं धारोष्णेन पयसा पीत्वा नरो रासभायते रासभ इवाचरति| सुबोधम्| उच्चटा प्रसिद्धा (महामुस्ता)|| २५||
Adhikarana sUpyaparNyAdikShIrayogau (26) · Śloka 26
सूप्यपर्णी द्विकाकोली जीवकर्षभकैः शृतम्|
लघुना पञ्चमूलेन द्विकाकोलीयुतेन वा|
पयोऽतिवृष्यमभ्यस्य वृद्धोऽपि तरुणायते||२६||
सूप्यपर्ण्यादिभिः ऋषभकान्तैः शृतं पय एकः प्रयोगः| ह्रस्वपञ्चमूलेन काकोलीद्वययुतेन द्वितीयः|| २६||
Adhikarana kShIriNyAdipuMsavanayogAH (27) · Śloka 27
क्षीरिणी च श्वदंष्ट्रा च फाणितं शर्करा मधु|
गृष्टिक्षीरं नवं सर्पिरेतत् पुंसवनं परम्||२७||
क्षीरिण्यादिकं पुरुषेणोपयुक्तं परं पुंसवनम्| क्षीरिणी पयस्या||२७||
Adhikarana ashvatyaPalAdivRuShyayogaH (28) · Śloka 28
अश्वत्थफलमूलत्वक्शृङ्गसिद्धं पयो नरः|
पीत्वा सशर्करं शीतं कुलिङ्ग इव हृष्यति||२८||
अश्वत्थफलादिचतुष्टयेन सिद्धं पयः पीत्वा कुलिङ्गवद्धृष्यति|| २८||
Adhikarana payasyAsiddhaM payaH (29) · Śloka 29
पयः पयस्यया सिद्धं शुक्रकृत्साज्यमाक्षिकम्||२९||
पयस्यया सिद्धपयः प्रयोगो व्याख्यास्यामः|| २९||
Adhikarana shatAvarIghRutayogau (30) · Śloka 30
शतावरीकल्करसे पयो दशगुणं घृतम्|
शृतं सपिप्पलीक्षौद्रशर्करं वृष्यमुत्तमम्|
शतावरीरसप्रस्थं क्षीरप्रस्थचतुष्टयम्|
प्रस्थं घृतस्य शुक्त्यंशं द्राक्षामांसीपरूषकम्|
जीवकर्षभयष्ट्याह्वबलामेदाकशेरुकम्|
प्रियालबीजं काकोलीयुग्मं चैकत्र पाचयेत्|
पक्वपूते क्षिपेच्चास्मिन् कुडवांशां सितोपलाम्|
गृष्टिक्शीरानुपः प्राश्य तन्नारीषु वृषायते|
विजयेत च वातास्रं पित्तास्रोरः क्षतक्षयान्||३०||
शतावरीघृते घृताद्दशगुणं पयः पिप्पल्यादिकं सिद्धे देयम्| द्वितीये शतावरीरसप्रस्थाद्ये द्राक्षादिकं शुक्त्यंशमर्द्धपलं चैकस्मिन् भाजने कृत्वा पाचयेदेतच्च घृतं वातास्रादिकञ्च जयेत्|| ३०||
Adhikarana jIvAkAdighRutam (31) · Śloka 31
जीवकक्षीरकाकोलीस्थिराहंसपदीघनैः|
षटीक्षुगण्डिकायष्टीमृणालैः कार्षिकैः पचेत्|
घृतप्रस्थं दशगुणे क्षीरे तद् बलपुष्टिकृत्|
वन्ध्यानां पुत्रजननं शुक्रवर्द्धनशोधनम्||३१||
जीवकादिघृतं सुबोधम्| हंसपदी बिसग्रन्थ्याख्या, कार्षिकं कर्षप्रमाणम्, घृताद्दशगुणं क्षीरम्, वन्ध्यानामप्रजानाम्| शुक्रवर्द्धनं शुक्रशोधनं च|| ३१||
Adhikarana svaya~gguptAdimodakaH (32) · Śloka 32
जलाढके स्वयङ्गुप्तामूलात् पञ्चपलं पचेत्|
पादशेषे च स्ञ्चूर्ण्य कुडवांशाः पृथक्षिपेत्|
स्वगुप्तामूलगोधूममाषेक्षुरकपिप्पलिः|
सप्रियालफलक्षौद्राः प्रस्थार्द्धं नवसर्पिषः|
सितोपलातुलापादं कुर्यात्तान् मोदकांस्ततः|
मोदकं भक्षयित्वैकं षष्टिं व्रजति योषिताम्||३२||
आत्मगुप्तामूलात् पञ्चपलं जलस्याढके अष्टाविंशत्यधिके पलशते पचेत्| तमिन् पादशेषे स्वगुप्तादिकं कुडवांशं पृथविक्षपेत्| स्वगुप्तादीनां कुडवश्चत्वारि पलानि| क्षौद्रस्य कुडवोऽष्टौ पलानि| नवसर्पिषः प्रस्थार्द्धं षोडशपलानि| सितोपलायास्तुलापादः पञ्चविंशतिपलानि| प्रत्यहमेकस्य मोदकस्य भक्षणम्||३२||
Adhikarana bRuhatyAdistilashaShkulikA (33) · Śloka 33
पलांशान् बृहतीव्याघ्रीपृश्निपर्णीत्रिकण्टकान्|
द्वयाढकेनाम्भसा पक्त्वा पादशेषे रसे स्थिते|
पलानि क्षीरकाकोल्याः पञ्च मागधिकापलम्|
स्वगुप्ताफलमूलानां माषाणामिक्षुररस्य च|
विदार्या मधुनश्चात्र कुडवं कुडवं क्षिपेत्|
पृथग्द्वौ मुद्गतिलयोर्घृते शष्कुलिकास्ततः|
पचेदेकां ततः प्राश्य शतं व्रजति योषिताम्||३३||
पलांशानिति| बृहत्यादिभिस्तिलशष्कुलिका सुबोधा| क्षीरकाकोल्याः पञ्च पलानि| स्वगुप्तामूलादीनां प्रत्येकं कुडवः| मधुनः कुडवो विदार्याद् द्विगुणः| मुद्गस्य द्वौ कुडवौ तिलस्य द्वाविति पृथगर्यः|| ३३||
Adhikarana svaguptAmUlakRutabhakShyAH (34) · Śloka 34
स्वगुप्तामूलचूर्णेन द्रुतेन पयसा कृताः|
घृते सशर्कराक्षौद्रा भक्ष्या वेगशतप्रदाः||३४||
पयसा द्रुतेन स्वगुप्तामूलचूर्णेन घृते संस्कृताः सशर्कराक्षौद्रा भक्ष्या वेगशतप्रदाः|| ३४||
Adhikarana mAShAtmaguptAdipUpalikAH (35) · Śloka 35
माषात्मगुप्ता गोधूमशालिषष्टिकपैष्टीकान्|
शर्कराया विदार्याश्च चूर्णानीक्षुरकस्य च|
संयोज्य क्षीरसर्पिर्भ्यां घृते पूपलिकाः पचेत्|
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां परम्||३५||
माषात्मगुप्ता गोधूमादिपैष्टिकान् शर्करादिचूर्णानि च क्षीरघृताभ्यामालोड्य घृते वटकवत् पूपलिकाः पचेत्| सुबोधम्|| ३५||
Adhikarana mAShatilAdishaShkulikAH (36) · Śloka 36
चूर्णं माषात्तिलाच्छालोर्विदार्याश्च ससैन्धवम्|
रसेन पुण्ड्रकस्येक्षोः प्लुतं वाराहमेदसि|
पक्त्वा शुष्कुलिकाः खादन्नारोहेत् षष्टिमङ्गनाः||३६||
माषादीनां चूर्णं लवणेन युक्तं पुण्ड्रेक्षुरसेनालोड्य सूकरमेदसि शष्कुलिकाः कार्याः| सुबोधम्|| ३६||
Adhikarana madhuraphalapUpalikAH (37) · Śloka 37
मुखप्रियाणां स्निग्धानां फलानां मधुरात्मनाम्|
फलानामात्मगुप्तायाः शालेर्माषात्तिलाद् घृतात्|
मुद्गाद्गोधूमतश्चापि कुडवं कुडवं पृथक्|
चूर्णितैर्न्निस्तुषैस्तैस्तु क्षीरेणालोड्य मर्दितैः|
पक्वां पूपलिकां खादन् स्त्रीषु हृष्यति वाजिवत्||३७||
मुखप्रियालादिगुणानां द्राक्षादीनां फलानामात्मगुप्ताफलानां शाल्यादीनाञ्च प्रत्येकं कुडवः| एभिर्न्निस्तुषैश्चूर्णीकृतैः क्षीरेणालोड्य मर्द्दितैः पूपलिकाः कार्या|| ३७||
Adhikarana rasAnupAnotkArikAprayogaH (38) · Śloka 38
शर्करामाषगोधूमतुगाक्षीरीपयोघृतैः|
पक्वामुत्कारिकां खादेत्कृकवाकुरसानुपः|
मायूरं तैत्तिरं हांसमेवमेव रसं पिबेत्|
अनेनाश्व इवोदीर्णे बली लिङ्गं समर्पयेत्||३८||
शर्करादिभिः पक्वामुत्कारिकां कृकवाकुरसानुपः खादेत्| कृकवाकुरसः कुक्कुटरसः मयूररसाद्यन्यतमं वा पिबेत्| लिङ्गं मेढ्रम्|| ३८||
Adhikarana varAhamAMsAdigulikA (39) · Śloka 39
पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे|
कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्त्तयेत्|
वर्त्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे|
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके|
यथा न भिन्द्याद्गुलिकास्तथा तं साधयेद्रसम्|
तं पिबन्भक्षयंस्ताश्च बली बालेयवद् व्रजेत्|
मांसानि बलयुक्तानि तथाऽन्यान्यपि कल्पयेत्||३९||
पिष्ट्वेत्यादि| सूकरमांसेन पिष्टेन मरिचसैन्धवयुक्तेन कृता गुलिकास्तप्ते घृते वर्तयेत् मनागग्निसन्तापं नयेत्| तस्तेन वर्त्तनेन स्तम्भिता गृहीतकाठिन्याः कौक्कुटे रसे प्रक्षेप्याः| ततस्ता रक्षयन् साधयेत्| घृताढ्य इत्यादि रसविशेषणम्| बालेयो रासभः| कुक्कुटवच्चान्यान्यपि बलयुक्तानि मांसानि कल्पयेत्| (तप्ते सर्पिषि भर्जयेत्| 'भर्जनस्तम्भितास्ताश्च' इति चरकपाठः| व्याख्या-तप्ते सर्पिषि भर्ज्जयेत्| भर्ज्जनस्तम्भिताश्च प्रक्षेप्याःकौक्कुटे रसे इत्यस्यायमभिप्रायः| सर्पिषा तप्तेन नवनीतावस्थामतिक्रान्तेन| नवनीतावस्थायां हि सावशेषकालशेयावयवत्वादम्लानुगतं प्रयोगे नेष्यते| ननु सर्पिषीत्युक्ते तदेव गम्यते कथं पुनर्नवनीताशङ्केति| उच्यते-आचार्या नवनीतं घृतं जातमित्यस्ति नवनीते घृतव्यपदेशः| तस्मात्तदपनयनार्थमिति व्याख्यानयन्ति| तेन च तप्तेन ताः संहतिमासादयन्ति| तथा न भिद्यन्ते द्रवे क्षिप्ताः| दधिदाडिमसारिक इति सारिके सान्द्रीभूत इत्यर्थः| दधि दाडिमाम्लमिष्यते नान्यच्छुक्तादि तस्य शुक्रक्षयहेतुत्वेनाम्नानात्| अम्लोऽम्लं पच्यते अम्लश्च पाकः शुक्रनाशनः-इति जेज्जटः)|| ३९||
Adhikarana mAShA~gkurasiddho mAhiSharasaH (40) · Śloka 40
माषानङ्कुरितान् शुद्धान् निस्तुषान् साजहाफलान्|
घृताढ्ये माहिरसे दधिदाडिमसारिके|
प्रक्षिप्य साधयेद्युक्त्या धान्यजीरकनागरैः|
पीतो भुक्तश्च स रसः कुरुते शुक्रमक्षयम्||४०||
अङ्कुरितत्वादियुक्तान् माषानजहाफलसंयुक्तान् माहिषमांसरसे घृतभूयिष्ठे दधिदाडिमप्रधाने प्रक्षिप्य साधयेत्| स सिद्धो रसः पीतो भुक्तश्चाक्षयं शुक्रं कुरुते| अजहा आत्मगुप्ता| (कुरुते, शुक्रमक्षयमिति सन्तानप्रवृत्त्या अक्षयमित्युपचर्यते- इति जेज्जटः)|| ४०||
Adhikarana haMsAdInAmaNDaprayogaH (41) · Śloka 41
हंसबर्हिणदक्षाण्डान् भृष्टांस्तप्तेन सर्पिषा|
सुरानुपानान् यः खादेत्स तृप्तस्तर्पयेत्स्त्रियः||४१||
हंसादीनां प्रयेकस्याण्डान् तप्तेन सर्पिषा भृष्टान् सुरानुपानान् खादेत्|| ४१||
Adhikarana ArdramatsyamAMsAdiprayogaH (42) · Śloka 42
आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः|
तप्ते सर्पिषि यः खादेत्स गच्छेत्स्त्रीषु न क्षयम्||४२||
आर्द्राणां मत्स्यमांसानां शफरीमांसानां च घृतभृष्टानां प्रयोगः सुबोधः| शफरी रोहितः| (मत्स्यशब्दस्य सामान्यवाचित्वेऽपि रोहितस्य ग्रहणं प्रधानकल्पनाश्रयणात् रोहितो मत्स्यानामिति| इति जेज्जटः)|| ४२||
Adhikarana chAgarasasiddho rohitamatsyaprayogaH (43) · Śloka 43
घृतभृष्टान् रसे छागे रोहितान् फलसारिके|
अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत्||४३||
रोहितान् दाडिमादिफलप्रधाने छागे रसे सिद्धान् घृतभृष्टान् रसानुपानयुक्तानपत्यार्थी प्रयोजयेत्|| ४३||
Adhikarana mAShabastANDAdiprayogAH (44) · Śloka 44
घृतं माषान् सबस्ताण्डान् फलाम्ले माहिषे रसे|
स्वादौ वा साधयेत् पूतं तद्रसं भर्जयेद् घृते|
ईषल्लवणितं युक्तं धान्यजीरकनागरैः|
पीतः स वृष्यो बल्यश्च बृंहणश्च परं रसः||४४||
घृतं माषान् बस्तानामण्डांश्च माहिषे दाडिमादिफलाम्ले वा रसे स्वादावेव वा न त्वम्ले साधयेत्| तं तथाविधं रसं पूतमीषल्लवणं धान्याम्लादिभिर्युक्तं घृते भर्जयेत्| पीतः स रसः परं वृष्यादिगुणः|| ४४||
Adhikarana caTakAdirasaprayogAH (45) · Śloka 45
चटकांस्तैत्तिरे तद्वत्तित्तिरीन् कौक्कुटे रसे|
कल्प्येच्छिखिनो हंसे हंसान् वा शिखिजे रसे|
तृप्तिं चटकमांसानां गत्वा योऽनु पयः पिबेत्|
प्रभूतकालसंरुद्धाः सन्तर्पयति योषितः||४५||
तैत्तिरे रसे चटकांस्तद्वदिति माहिषरसविधानेन कल्पयेत्| तद्वदेवेति तित्तिरीणां प्रयोगः कौक्कुटे रसे| व्याख्यासमम्| प्रभूत कालसंरुद्धाः बहुकालं पुरुषसंसर्गेण विनाभूताः|| ४५||
Adhikarana shUlyakukkuTaprayogaH (46) · Śloka 46
घृटाढ्यं कुक्कुटं शूल्यं शीतं खादेत् समाक्षिकम्|
पिबेच्चानन्तरं क्षीरं य इच्छेच्छुक्रमक्षयम्||४६||
शूले कुक्कुटं बहुना घृतेन संस्कृत्य शीतीकृत्य क्षौद्रेण युक्तं खादेत्| अनन्तरञ्च क्षीरं पिबेत्| स एवं कुर्याद्यः शुक्रमक्षयमिच्छेत्|| ४६||
Adhikarana pipalyAdinA bastANDaprayogAH (47) · Śloka 47
पिप्पलीलवणैर्युक्तो बस्ताण्डौ क्षीरसर्पिषा|
साधितौ भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम्|
बस्ताण्डसिद्धे गोदुग्धे भावितानसकृत्तिलान्|
यः खादेत्ससितान् गच्छेत् स स्त्रीशतमपूर्ववत्||४७||
पिप्पल्यादिना छगलाण्डविधानं सुबोधम्| तथैव छगलाण्डसिद्धगोक्षीरभावितानां तिलानां प्रयोगः|| ४७||
Adhikarana mAShasUpena ShaShTikaudanaprayogaH (48) · Śloka 48
भुक्त्वा यो माषसूपेन घृताढ्यं षष्टिकौदनम्|
पयः पिबति जागर्त्ति कृत्स्नां रात्रिं स वेगवान्||४८||
भुक्त्वेत्यादि| यो घृताढ्यं घृतभूयिष्ठं षष्टिकान्नं माषसूपेन सह भुक्त्वा पयः पिबति स वेगवान् सकलां रात्रिं जागर्त्ति||४८||
Adhikarana AtmaguptAdibhiH kShIrapAkaH (49) · Śloka 49
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्|
शृङ्गाटकानि मृद्वीकां पचेत्तत् प्रसृतोन्मितम्|
क्षीरप्रस्थं जलप्रस्थमेतत् क्षीरावशेषितम्|
शुचिना वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः|
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च|
तत्पिबेत्क्षौद्रसंयुक्तं भुञ्जानः षष्टिकौदनम्|
तथा जरापरीतोऽपि पुत्रैः स परिवार्यते||४९||
आत्मगुप्ताफलादिभिः क्षीरविधानं सुबोधम्| शर्करादादीनां प्रत्येकं त्रयः प्रसृताः|| ४९||
Adhikarana drAkShAdikShIrapAkaH (50) · Śloka 50
द्राक्षाखर्जूरखर्जूरीमस्तकान्यजहाफलम्|
पयस्याभीरुमाषांश्च मधुकानि च साधयेत्|
तोयाढके पलांशानि पादशेषेण तेन च|
क्षीरप्रस्थं पचेत्क्षीरशेषेणाद्याद् घृतान्वितम्|
षष्टिकान्नं सिताज्येन योगोऽयं शुक्रकृत्परम्||५०||
द्राक्षादीनां क्वाथेन क्षीरप्रस्थं पचेत्| क्षीरशेषम्| सिताज्यसहितेन तेन क्षीरेण षष्टिकान्नमद्यात्| अजहा आत्मगुप्ता||५०||
Adhikarana jIvakAdighRutam (51) · Śloka 51
जीवकर्षभकौ मेदा जीवन्ती श्रावणीद्वयम्|
खार्जूरं मधुकं द्राक्षां विदारीं विश्वभेषजम्|
शृङ्गाटकानि चपला नवं सर्पिः पयोजलम्|
घृतावशेषितं सिद्धं शर्करामाक्षिकान्वितम्|
षष्टिकौदनसंयुक्तमुपयोज्यं यथाबलम्|
तद्दृष्यं बलकृद्वर्ण्यं कण्ड्यं देहस्य बृंहणम्||५१||
जीवकादिसिद्धं घृतं शर्करामाक्षिकसहितं यथाबलं षष्टिकान्नमुपयोज्यं वृष्यादिगुणम्|| ५१||
Adhikarana gRuShTyAdikShIram (52) · Śloka 52
गृष्टिर्बष्कयणी नीरुगूर्ध्वशृङ्गी चतुस्तनी|
सान्द्रस्वादुबहुक्षीरा रूपशीलसमन्विता|
इक्षुभिर्माषपर्णेन या सुपुष्टार्जुनेन वा|
तत्क्षीरं ससिताक्षौद्रघृतं पुत्र्यं रतिप्रदम्||५२||
गुष्टित्वादिगुणयुक्ताया इक्ष्वादिना सुपुष्टायाः गोः क्षीरं सितादिसहितं पीतं पुत्रीयं रतिप्रदं च| गृष्टिः प्रथमप्रसवा| बष्कयण्यनवप्रसूता| (गृष्टिरेकवारप्रसूता तस्या उपचितधातुत्वात् पयोऽपि कारणानुविधानात् तद्वदेव भवति| पुष्टघ्णं चैतत् ज्ञापयति| सात्म्येनोपचितायाः क्षीरमपि ज्यायस्तामावहति| चतुस्तन्यादिभिर्विशेषणैः क्षीरमपि त्रिस्तनत्वविशालत्वविशङ्कटत्वादयो गवां दोषा इति| एवंविधा मङ्गल्या चतुस्तन्यादियुक्तेति| एवंविधायाः पयःप्रभावाद् वृष्यतामासादयति| माषपर्णेनेत्यत्र पर्णग्रहणेनैतज्ज्ञापयति| शुष्काः स्तम्बवन्तो न फलानीति| तान्यसात्म्यानि प्रायशो गवां तृणपर्णोचितत्वात्| तस्मात् माषपर्णेनेत्युच्यते| अन्यतृणपर्णपुष्टाया अपि क्षीरं वृष्यमुच्यते| माषापर्णादिभिर्वृष्यैः पुष्टाया नितरां वृषत्वमापादयति| अन्ये त्वन्यथा क्षीरत्रयमिति वर्णयन्ति| इक्ष्वादाया माषपर्णादाया अर्जुनादायाश्चेति-इति जेज्जटः)|| ५२||
Adhikarana gRuShTyAdikShIraprayogaH prathamaH prayogaH (53) · Śloka 53
शुक्रलैर्जीवनीयाख्यैर्बृहणैर्बलवर्द्धनः|
वयसः स्थापनैश्चैतत्पयःसिद्धं पृथक्पृथक्|
युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्|
पर्यायेणोपयोक्तव्यमिच्छता शुक्रमक्षयम्||५३||
गोर्ग्गृष्ट्यादिगुणयुक्तायाश्चैतत् पयः शुक्रलैः शुक्रवर्द्धनैर्महाकषायसंग्रहाध्यायपठितैर्मेदाकाकोलीद्वयादिभिः जीवनीयाख्यैर्जीवन्तीकाकोल्यादिभिः| बृंहणैर्वाट्याबलादिभिः| वयसः स्थापनैस्मृतापथ्यादिभिश्च पृथक्पृथक्सिद्धमनन्तरञ्च गोधूमचूर्णेन घृतादिभिश्च युक्तं पर्यायेणेति क्रमेणोपयोक्तव्यमक्षयं शुक्रमिच्छता पुंसा||५३||
Adhikarana dvitIyaH prayogaH (54) · Śloka 54
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्|
माषान् श्वदंष्ट्रां क्षीरिकां गोधूमान् शालिषष्टिकान्|
तत्क्षीरेऽर्द्धोदके सिद्धान् कार्षिकानाढकोन्मिते|
विसर्जयेत्पयश्शेषं तत्पूतं क्षौद्रसर्पिषा|
सितया च युतं पीत्वा वृद्धोऽपि तरुणायते||५४||
तत्क्षीरे तस्या गृष्ट्यादिगुणयुक्ताया गोः क्षीरे आढकोन्मिते अर्द्धोदके उदकस्यार्द्धेन युक्ते मेदादीन् कर्षाशान् दत्वा सिद्धान् पयश्शेषं कृत्वा तान् विसर्जयेत्| ततः पूतं तत्क्षीरं क्षौद्रादियुक्तं पीत्वा वृद्धोऽतीतसप्ततिवर्षोऽपि तरुणायते तरुण इवाचरति||५४||
Adhikarana tRutIyaH prayogaH (55) · Śloka 55
मण्डलैर्जातरूपस्य सुतप्तैस्तत्पयः शृतम्|
सिद्धं पुंसवनं वृष्यं ससिताघृतमाक्षिकम्|
रूप्यायस्ताम्रसीसानामयमेव पृथग्विधिः||५५||
तत्पयस्तस्या गृष्ट्यादिगुणयुक्ताया गोः पयः सुतप्तैः सुवर्णस्य पत्रैः शृतम्| सिद्धमित्यादि सुबोधम्| सुवर्णवद्रूप्यानानामपि चतुर्णामन्यतमस्य विधिः| (जातरूपस्य सुवर्णस्य शुद्धस्येत्यर्थः| मण्डलैः पत्रैः शृतस्य पयसो विशिष्टशक्त्युत्पादः| तत्पयस्तस्या एवेक्ष्वादिपुष्टायाः-इति जेज्जटः)|| ५५||
Adhikarana pippalIprayogaH (56) · Śloka 56
चूर्णिताः पिप्पलीस्त्रिंशत् प्रकुञ्चे तैलसर्पिषोः|
भृष्टाः सशर्कराक्षौद्राः क्षीरेणालोडिताः पिबेत्|
अश्नंश्च षष्टिकं क्षीरसर्पिभ्यां वाजिवद्भवेत्||५६||
तैलघृतयोः प्रकुञ्चे भृष्टास्य त्रिंशत् पिप्पलीचूर्णस्य शर्कराक्षौद्रसहितस्य क्षीरेण पानं षष्टिकान्नस्य च क्षीरसर्पिर्भ्यामशनं वाजीकरणम्|| ५६||
Adhikarana payasA ShaShTikaudanaprayogaH (57) · Śloka 57
चन्द्रांशुशुभ्रम् पयसा घृताढ्यं षष्टिकौदनम्|
शर्करामधुसंयुक्तं भुञ्जानो ना वृषायते||५७||
चन्द्रांशुवच्छुभ्रं षष्टिकस्यौदनं घृतभूयिष्ठं शर्करामधुयुक्तं क्षीरेण भुञ्जानो वृषायते| ना पुरुषः| ('चन्द्रांशुकलपमि'ति चरकपाठः) षष्टिकौदनस्य चन्द्रांशुकल्पत्वं तस्याप्यपेतकणमलस्याखण्डितधौतस्य ज्ञापनार्थम्| अन्ये तु गौरषष्टिकस्य प्रवरत्वात्तद्विशेषणार्थं चन्द्रांशुकलपमिति सादृश्यान्न कल्पनेनेति-इति जेज्जटः)|| ५७||
Adhikarana dadhnaH sareNa ShaShTikaudanaprayogaH (58) · Śloka 58
दध्नः सरेण सघृतो भक्षितः षष्टिकौदनः|
सैलातुगोषणक्षौद्रः शर्कराढ्येन शुक्रकृत्||५८||
शर्कराभूयिष्ठेन दध्नः सरेणैलादियुक्तः षष्टिकौदनो भक्षितः शुक्रकृद्भवति| ऊषणं मरिचम्| दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्| शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान्|| युक्त्या युक्तं सुसूक्ष्मैलं नावे कुम्भे शुचौ पटे| मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदनं|| पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम्| वर्णस्वरबलोपेतः पुमांस्तेन वृषायते|| इति चरके| दध्नः सरमित्यादि| षष्टिकौदनं भुक्त्वा रसालाया मात्रां पिबेत्| रसालानाम दधिशर्करया सह पटमृदितं च चतुर्जातककर्पूरमात्रया युक्तं लोके रसालेत्युच्यते-इति जेज्जटः|| ५८||
Adhikarana vRuShyau pAdalepau (59) · Śloka 59
अध्यण्डामार्षभीं चैव स्वयङ्गुप्ताफलानि च|
पादलेपं नरः कृत्वा निशि वेगैर्न हीयते|
वर्षाभूमूलमृद्वीकास्वयङ्गुप्ताफलानि च|
सिद्धश्चरणलेपोऽयं भुवं पद्भ्यां तु न स्पृशेत्||५९||
अध्यण्डादिभिः पादलेपो वाजीकरणः| (नि) अध्यण्डेक्षुरकस्तैलकण्टकः कोकिलाक्षकः| आर्षभी ऋषभकाख्या| स्वयङ्गुप्ता आत्मगुप्ता| सैव कपिकच्छूः| वर्षाभ्वादिभिश्चरणलेपः सिद्धोऽप्रतिहतः| अस्मिन् कृते पद्भयां भुवं न स्पृशेत्|| ५९||
Adhikarana nityavRuShyANi (60) · Śloka 60
घृतक्षीराशनो नित्यं निर्व्याधिर्नित्यगो युवा|
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||६०||
घृतक्षीराशन इति| नित्यं घृतक्षीराशनत्वादियुक्तो नरः स्त्रीषु नित्यं वृषायते| नित्यगो यः सदैव स्त्रियं याति| (सङ्कल्पप्रवणः कालानुध्यानाभिमुखः सङ्कल्पप्रवणस्तन्नित्यः| नरग्रहणं किं स्त्रीषु वृषायत इत्युक्ते गम्यत एव| तथा स्त्रीग्रहणञ्च तत्रैव वृषायते नान्यत्रेति स्त्रीग्रहणमपि व्यर्थम्| उच्यते नरग्रहणं नपुंसकमित्येतज्ज्ञापयति| स्त्रीग्रहणञ्च सामान्येनैव स्त्रीति प्रवर्तते-इति जेज्जटः)|| ६०||
Adhikarana vRuShyANi BakShyapeyAdIni (61) · Śloka 61
आत्मगुप्ताफलंमाषा गोधूमः शालिषष्टिकम्|
इक्षुरिक्षुरकः क्षीरं क्षौद्रं द्राक्षा सितोपला|
उच्चटा शरमूलानि विदारी सशतावरी|
जीवनीयानि खर्जूरं मोचचोचफलानि च|
एभिर्भक्ष्याणि पेयानि लेह्यानि च घृतानि च|
नित्यमासेवमानस्य स्त्रीषु हर्षो विवर्द्धते||६१||
आत्मगुप्ताफलादिभिः कृतानि भक्ष्यादीनि सदा सेवमानस्य स्त्रीषु विषये हर्षो विवर्द्धते| इक्षुरकः कोकिलाक्षकः, उच्चटा प्रसिद्धा महामुस्ता, श्वेतदुर्वारिका स्वल्पविटपः 'प्रायशो नदीतीरे दृष्यते' इति सुश्रुतटीका| 'चूडाला चक्रलोच्चटा' इत्यमरः||६१||
Adhikarana kShipravRuShyAH bastayaH (62) · Śloka 62
जीवनीयघृतक्षीरमधुतैलसितारसैः|
रसक्षीराशिनः क्षिप्रं वृषं कुर्वन्ति बस्तयः||६२||
जीवनीयादिभिः कृता बस्तयो रसक्षीराशिनं नरं क्षिप्रं वृषं कुर्वन्ति|| ६२||
Adhikarana putrIyAH bastayaH (63) · Śloka 63
सिद्धबस्तिविकल्पोक्तान् बलशुक्लसुतप्रदान्|
युञ्जीत बस्तीन् पुत्रार्थी पुत्रकामोदितं च यत्||६३||
यस्तु पुत्रार्थी स सिद्धबस्तिकल्पाध्यायोक्तान् बलादिप्रदान् बस्तीन् युञ्जीत| तथा यदपि किञ्चित् पुत्रकामीये शारीर उक्तं तदपि युञ्जीत|| ६३||
Adhikarana uktAnuktavAjIkaraNasaMgrahaH (64) · Śloka 64
यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्द्धनम्|
मनसो हर्षणं यच्च तत्सर्वं वृष्यमुच्यते|
द्रव्यैरेवZंविधैस्तस्माद् भावितः प्रमदां व्रजेत्|
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||६४||
इदानीमुक्तानुक्तवाजीकरणसंग्रहायाह-यदित्यादि| यच्च किञ्चिन्माधुर्यादिगुणं वस्तु यच्च मनसो हर्षणं तत्सर्वं वृष्यमुच्यते| (ननु दध्यादीन्यम्लत्वेऽपि शुक्रजननानि मध्वादीनि रूक्षाण्यपि| अतो यत्किञ्चिन्मधुराद्येतद्विरोधीति| उच्यते-प्रभावात्| दधिमध्वादीन्यिम्लरूक्षाण्यपि वाजीकरणानि| न केवलं गुणप्रभावादेव द्रव्याणि कारणानि, किन्तु प्रभावादपि| द्रव्यप्रभावश्चानित्यः शास्त्रैकसमधिगम्य एवेति न कश्चिद्विरोध इति-जेज्जटः)| तस्मादेवंविधैर्मधुरादिगुणैर्द्रव्यैर्भावित उत्पन्नसंस्कारः सन्नात्मवेगेन च पुरुषसद्भावकृतेनोदीर्ण उत्सिक्तः स्त्रीगुणैश्च रूपचेष्टादिभिः प्रहर्षितः प्रमदां व्रजेत्| (द्रव्यैरित्यादि| अत्र भावितग्रहणेनैतत् ज्ञापयति यावत् सर्वात्मनान्वितं देहे द्रव्यं स्यात्तावत् गन्तव्यं न प्रयोगान्तरमेवेति| ननु चात्मवेगेन चोदीर्ण इति व्यर्थः| न हि परवेगेनोदीर्णता सम्भवति| उच्यते| अयमभिप्रायः यावदिच्छयोद्भूतवेगः परां हर्षकाष्ठामारुढस्तावत् प्रमदां व्रजेत्| उक्तं च नानुद्भूतवेग इति| स्त्रीगुणैश्च प्रहर्षितो हावभावसंवाहनादिभिरित्यर्थः-इति जेज्जटः)|| ६४||
Adhikarana striyAH vRuShyatvam (65) · Śloka 65
इष्टा ह्येकैकशोऽप्यर्था हर्षप्रीतिकराः परम्|
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||६५||
अर्थाः शब्दादयो विषया य इष्टास्ते नियतमेकैकशः पृथग्भावेनापि स्थिताः परं हर्षप्रीतिकरा भवन्ति| किं पुनर्ये स्त्रीशरीरे सङ्घातेन युगपत्पत्प्रतिष्ठिताः| (सर्ववाजीकरणेभ्योऽपि स्त्र्यैव वाजीकरणमुत्कृष्टामानन्दहेतुत्वादित्याह-इष्टा ह्येकैकश इत्यादि| एकैकशोऽप्यर्था विषयाः शब्दादय इष्टाः, परं हर्षप्रीतिकरा भवन्ति| एवमर्थानां प्रत्येकं हर्षप्रीतिकरणे सामर्थ्यं किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः| ननु स्त्रीग्रहणेन पर्याप्तत्वात् शरीरग्रहणं किम् ? उच्यते| एकदेशानामात्ममनसाञ्च व्यावर्त्तनार्थम्| आत्मन्यपि केचिद्व्ययवस्थिता मनस्यपि केचित्| तस्माच्छरीरे ये प्रतिष्ठिता इत्यर्थः| किञ्च गुणगुणिनोरन्यत्वं चानेन प्रकाशितं भवति-इति जेज्जटः)|| ६५||
Adhikarana guNotkarShe hetuBedaH (66) · Śloka 66
रुचिभेदेन लोकस्य दैवयोगाच्च योषिताम्|
तं तं प्राप्य विवर्द्धन्ते नरं रूपादयो गुणाः||६६||
रुचिभेदेनेत्यादि| तथा रूपादयो योषितां ये गुणास्ते तं तं विशिष्टं नरं प्राप्य विवर्द्धन्ते| य एवैकस्य न किञ्चिदप्यनुरूपास्त एवापरस्यापरिमेया इति भवन्ति| अस्य च रागविरागस्य हेतुर्लोकानां रुचिभेदेन भिन्नरुचित्वम्| तच्च स्वभावात्| तथा दैवयोगतः यस्य तथाविधमदृष्टं भवत्येतदाहितमनोभिः सुतरां विचार्यम्| न किञ्चित् कल्पितं तदिति किञ्चिदपि प्रतिभाति|| ६६||
Adhikarana vRuShyatamA strI (67) · Śloka 67
तस्माद्या यस्य हृदयं विशतीव वराङ्गना|
तुल्यस्वभावा या हारिमृजारूपगुणान्विता|
पाशभूतैर्वहन्त्यङ्गैर्लावण्यमिव मुर्तिमत्|
आलपन्त्यमृतेनेव या गात्राणि निषिञ्चति|
पिबन्तीव च पश्यन्ती स्पृशन्ती लिम्पतीव या|
नित्यमुत्सवभूता या या समानमनःशया|
नयत्युत्सुकतां चेतो नित्यं सन्निहितापि या|
यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्|
प्रगल्भा रतिसंग्रामे स्वस्था लज्जामयी च या|
बहुशोऽपि च यां गत्वा तत्पूर्वमिव गच्छति|
चरितैर्निर्विकाराया विकारैरिव निर्मिता|
कान्तानुवृत्ति परमा सा स्त्री वृष्यतमा मता||६७||
यत एवं तस्माद्या वराङ्गना यस्य हृदयं स्वशरीरान्तःप्रियतया विशतीव सा वृष्यतमा मतेति सम्बन्धः| तुल्यस्वभावेत्यादेरेष एव सम्बन्धः| या तुल्यस्वभावा हारिमृजाद्यन्विता च हारिमृजा मनोहरा स्नानादिभिः| पाशभूतैस्सर्वाकर्षणयोग्यैरङ्गैर्युक्ता मूर्तिमदिवलावण्यं वहन्ती| या चालपन्ती गात्राण्यमृतेन निषिञ्चतीव| या च पश्यन्ती पिबन्तीव स्पृशन्ती लिम्पन्तीव| या च नित्यमुत्सवभूता सदा हृदयानन्दकरी| या समानमनःशया तुल्यकालोद्भवसुरतावसाना (सदैव तुल्यकामा-इति जेज्जटः)| या नित्यं सन्निहिता समीपस्थितापि चेत उत्सुकतां नयति| उत्सुकता सोत्कण्ठत्वम्| यया वियुक्तो विप्रयुक्तोऽरतिः सन् सर्वं जग्गन्निस्त्रीकमेव मन्यते| या रतिसंग्रामे प्रगल्भा समर्था| स्वस्था निवृत्तरतिसंग्रामा लज्जामयीव| यां च बहुशोऽपि गत्वा पुरुषोऽतृप्तः सन् प्रथममिव गच्छति| या च चरितैर्व्यवहारचेष्टादिभिर्निर्विकारा| शृङ्गारचेष्स्टासु पुनर्विकारैरिव निर्मिता| कान्तस्यचिन्तानुवृत्तिप्रधाना| सैवम्भूता वृष्यतमा मताभिप्रेता| (या यस्य हृदयमित्यादौ बहुशो यायेति बहुत्वम्| उच्यते-पृथगपि वृष्या, द्वित्रादिभिर्वृष्यतरा, सर्वैर्वृष्यतमेत्यस्यार्थस्य प्रापणार्थं यायेति बहुत्वम्| सौरुप्यमेकमेव पर्याप्तो गुणः प्रथमं यौवनमत्र द्वितीयश्च परिगृह्यते| लक्षणैर्बाह्यैरान्तरैर्विद्याविनयादिभिश्च यान्विता सा मताभिप्रेता वृष्यतमेति| इति जेज्जटः)|| ६७||
Adhikarana apare vRuShyaBAvAH (68) · Śloka 68
अभ्यञ्जनोद्वर्तनसेकगन्ध स्रक्चित्रवस्त्राभरणप्रकाराः|
सुगन्धिपुष्पोत्कररेणुकीर्णा मृदुर्मनोज्ञा विपुला च शय्या|
प्राज्ञा कलाज्ञावशगा विनीताः प्रियंवदाः प्रीतिकरा वयस्याः|
विस्रम्भसत्त्वप्रकृतिक्रियैक्या च्छरीरमात्रेण पृथक्त्वभूताः|
कान्तावनान्ताः परपुष्टघुष्टा रम्याः स्रवन्त्यः सततं स्रवन्त्यः|
मद्यं मदामोदकरं विशेषा द्धृद्या प्रसन्ना सुरभिः प्रसन्ना|
शकाङ्गनागण्डतलाभिपाण्डु ताम्बूलपत्रं परिवारशोभि|
प्रसाधनं स्त्रीमुखपङ्कजानां यदायुधं मूर्त्तिमिवात्मजस्य|
हिमाचलोद्धूनितदुग्धसिन्धु समुद्भवत् फेनचयावदातम्|
सौधं सुधा शुभ्रतरा कराश्च चन्द्रस्य कुर्वन्ति परं वृषत्वम्||६८||
अपरे अमी भावाः परं वृषत्वं कुर्वन्तीत्याह-अभ्यञ्जनेत्यादि| अभ्यञ्जनादयो नानाविधाः प्रकाराः| तथा मृद्वादिगुणा शय्या, किम्भूता शोभनस्य पुष्पप्रकरस्य रेणुभिः कीर्णा| तथा वयस्याः| प्राज्ञत्वादिगुणाः| कलाश्चतुःषष्टिः कामतन्त्रप्रसिद्धाः तज्ज्ञाः विस्रम्भादीनामैक्याच्छारीरमात्रेण पृथग्भूताः| तथा वनान्ताः कान्ता मनोरमाः| तथा स्रवन्त्यो नद्यः सततमविच्छेदेन स्रवन्त्यो वहन्त्यः| तथा तन्मद्यं यन्मदं करोत्यामोदञ्च| आमोदः सौरभम्| मद्येभ्यश्च विशेषात् प्रसन्ना सुरा| किम्भूता हृद्या हृदयप्रीतिदायिनी| सुरभिः सौरभ्ययुक्ता प्रसन्ना स्वच्छा च| तथा ताम्बूलपत्रम्| किंभूतम्| शकाङ्गनानां यद्गण्डतलं गण्डप्रदेशं तद्वदभिपाण्डु तथा यत्ताम्बूलपत्रं परिवारेण पूगक्षारकर्पूरादिना शोभते| अन्यच्च किम्भूतं स्त्रीणां यानि मुखपङ्कजानि तेषां प्रसाधनं मण्डनं यत्परिवारशोभि तदात्मजस्य कामस्य मूर्त्तिमदिवायुधं विजयहेतुत्वात्| तथा सौधं हर्म्यपृष्ठमपि वृषत्वं करोति| किम्भूतमाह-हिमाचलेन तुषारगिरिणा उद्भूनितः शोधितो यो दुग्धसिन्धुस्तत उद्भूतो यः फेनानां चयो निचयस्तद्वदवदातं शुक्लम्| तथा सुधातः शुभ्रतरा अत्यन्तशुक्ला ये चन्द्रस्य करास्ते च परं वृषत्वं कुर्वन्ति|| ६८||
Adhikarana ratAvAsanAntaram (69) · Śloka 69
बन्धेन पूर्वोपहितेन पुंसः खिन्नस्य वृत्तिः करणान्तरेण|
संवाहनं स्पर्शसुखैः करैश्च करोत्यपूर्वामिव मन्मथेच्छाम्||६९||
तथा बन्धेन रतौ संवेशनप्रकारेणैकेन खिन्नस्य पुंसोऽन्येन करणेन वृत्तिर्या साऽपूर्वामिव मन्मथेच्छां करोति| तस्यैव बन्धखिन्नस्य स्पर्शसुखैः कान्ताकरैः संवाहनमपूर्वां मन्मथेच्छां करोति|| ६९||
Adhikarana raticeShTAj~jAnamahattvam (70) · Śloka 70
प्रायोगिकाधिकरणोदितचित्रचेष्टा संशीलनोद्भवदनल्परसार्द्रचित्तः|
वृष्योपयोगपरिबृंहितदेहधातु र्नारीमनांसि वशमानयति प्रसह्य|
तस्मान्नित्यं स्त्रीषु वाञ्छन् प्रियत्वं वृष्यैर्योगैर्जातकामोऽपि कामी|
सत्त्वं सात्म्यं देशकालौ च बुध्वा चातुष्षष्टे चेष्टिते व्याप्रियेत||७०||
तथा एवम्भूतः पुरुषो नारीमनांसि स्त्रीचित्तानि प्रसह्याऽऽक्रम्य वशमानयति| किम्भूत आह-प्रायोगिकाख्येऽधिकरणे कामशास्त्रे या विचित्राश्चेष्टास्तासां शीलनात् भवेद्योऽनल्पो रसः सुखाख्यस्तेनार्द्रं चित्तं यस्य स तथोक्तः| तथा वृष्याणामाहारादीनामुपयोगेन परिबृंहिता देहधातवो यस्येति| तस्माद्यत एवं ततः कामी वृष्यैर्योगैर्जातकामोऽपि स्त्रीषु प्रियत्वं वाञ्छन् सत्त्वादिकं बुध्वा वात्स्यायनोक्तायाः साम्प्रयोगिकायाः नखरदनादिभेदेन चातुष्षष्टे चेष्टिते व्याप्रियेत|| ७०||
Adhikarana ratAtishayaprashaMsA (71) · Śloka 71
वलयस्वनसङ्कुलमुष्टिरव द्विगुणीकृतमेखलिकानिनदः|
चलनूपुरशब्दयुतोऽपि मुहुः शममावहते न रतातिशयः||७१||
वलयस्वनादियुक्तो रतातिशयो मुहुरपि सेव्यमानो न शममावहते|| ७१||
Adhikarana kAmavardhanAni (72) · Śloka 72
सर्वार्थसिद्धिः प्रथमोऽनुरागः शृङ्गारगान्धर्वकथाविशेषाः|
सीत्कारगर्भम् हसितं सहावं छिन्नाक्षरम् विभ्रमवच्च गीतम्|
सव्याजसन्दर्शितचारुगात्रं वृत्तं प्रियाणामवलोकितञ्च|
चूताङ्कुरं पुष्पफलं यथर्तुविद्युत्वदुद्योतितगर्जितानि|
विहङ्गभृङ्गस्तनितानुयातं स्त्रीकूजितं भूषणशिञ्जितानि|
काले यथास्वं वपुषश्च शुद्धिः सङ्कल्पयोनेर्धुरमुद्वहन्ति||७२||
सर्वार्थसिद्ध्यादीनि सङ्कल्पयोनेः कामस्य धुरमुद्वहन्ति| सर्वेषामर्थानामिष्टानां सिद्धिः सीत्कारगर्भं हसितमित्यदेः प्रियाणामिति सम्बध्यते| तथा सहावं हावेन युक्तं अनुरागभावसूचको दृष्ट्यादिविकारो हावः| तथा गीतं छिन्नाक्षरं ध्वनिप्रयोगबाहुल्यात्| तथा विभ्रमवत् विभ्रमोऽत्र विलास एव तस्य लक्षणम्-स्थानासनशयनानां हस्तभ्रूनेत्रकर्मणां चैव| उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यादिति| तथा तासामेव वृत्तम्| किम्भूतमाह-सव्याजं कृत्वा सन्दर्शितं चारुगात्रं यस्मिन्| तथा तासामेवावलोकितम्| यथर्तु चूताङ्कुरादीन्| विद्युत्वान् बलाहकः तदुद्योतितानि गर्जितानि| स्त्रीणां रतिसमये कूजितं पारावतादिविहङ्गमस्तनितेन भ्रमरस्तनितेन चानुगतम्| यथास्वम् काल इति श्रावण इत्यादिना सूत्रोक्तप्रकारेण| वपुषो वमनादिना शुद्धिश्च|| ७२||
Adhikarana shodhanapUrvameva vRuShyayogopayogaH (73) · Śloka 73
स्रोतस्सु शुद्धेष्वमले शरीरे वृष्यं यदाद्यं मितमत्ति काले|
वृषायते तेन परं मनुष्य स्तद् बृंहणं देहबलप्रदं च|
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न च वृष्ययोगाः|
सिध्यन्ति देहे कलुषे प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः||७३||
स्रोतस्सु वमनादिकर्मणा शुद्धेषु सत्सु शरीरे च निर्मले काले चाहारयोग्ये मनुष्यो यदाद्यं भोज्यं वृष्यं मितं परिमितं चात्ति भुङ्क्ते तेनाद्येन स परं वृषायते| तदाद्यं बृंहणं देहबलप्रदं चेति निर्व्यूढस्तन्त्रकर्तुरभिमतोऽर्थः| तस्मादित्यादि| यस्मादेवं तस्मात्पुरा पूर्वं बलानुरूपं शोधनमेव कार्यम्| क्लिष्टे वाससि यथा रागयोगा न सिध्यन्ति तथा कलुषे देहे वृष्ययोगाः|| ७३||
Adhikarana AgamAnusArameva varttitavyam (74) · Śloka 74
उपदिष्टे विचित्रेऽस्मिन् वक्तव्यार्थानुरोधतः|
कर्त्तव्यमेव कर्त्तव्यं प्राणाबाधेऽपि नेतरत्||७४||
उपदिष्टे इत्यादिना तन्त्रार्थो निराकाराकाङ्क्षी क्रियते अस्मिन् विषये नानारूपे स्त्रीसंयोगवशीकरणवधोपायादिके वक्तव्यार्थानुरोधादुपदिष्टे सति यदागमादिभिः कर्त्तव्यं करणीयमित्याभाति तदेव कर्त्तव्यं कार्यं|| ७४||
Adhikarana shAstropadeshavyavasthA (75) · Śloka 75
एतत्स्वरूपं शास्त्रस्य यद्व्यापित्वेन वर्ण्यते|
स्पृशति न्यूनतादोषो महानव्यापिनि ध्रुवम्|
वीर्यहीनैरसम्पूर्णैः प्रयोगैरपि भूषितम्|
अर्थानतन्त्रयत्तन्त्रं तन्त्रतामाप्नुयात्कथम्|
हंसबर्हिणदक्षाण्डा यद्यप्यत्यर्थशुक्रलाः|
मुनयः सदया ब्रूयुस्तान्योगेष्वन्यथा कथम्|
कथं वा सर्व एवैते योगा रागाग्निदीपनाः|
क्लिष्टसङ्कल्पजननाः प्रोक्ताः संसारवर्द्धनाः|
त्रिकालदर्शिभिर्दिर्व्यैः सत्त्वदोषविवर्जितैः|
पूर्वाचार्यैः कृतं वर्त्म को लङ्घयितुमर्हति|
प्रकान्ते सर्वथा सर्वमुक्तं भवति सूदितम्|
न हि लेशाभिधानेन लभ्यः सर्वार्थसंग्रहः|
तथा च गर्द्दभीक्षीरं मांसमश्वश्वहस्तिनाम्|
महासागरतोयं च प्रोक्तं निरुपयोग्यपि||७५||
अकर्त्तव्यस्योपदेशे वक्तव्यार्थानुरोधो यो हेतुरुक्तः स एवैतत् स्वरूपमित्यादिना व्यवस्थाप्यते| शास्त्रस्य ह्येतत् स्वरूपं यच्छास्रं व्यापित्वेन वर्ण्यते| अव्यापिनि तु शास्त्रे धृवमवश्यं न्यूनतादोषो महान् स्पृशति| वीर्यहीनैरसम्पूर्णैश्च प्रयोगैरर्थात्तन्त्रविभूषणे हेतुभूतैर्विभूषितैरपि तन्त्रमर्थानयत्तन्त्रतामाप्नुयात्| एषा हि तन्त्रस्य तन्त्रता या तन्त्रितानामर्थानामनन्यापेक्षिता| अन्यथेति यद्यपि कश्चित्र्यूनतादोषः परिहार्यो न स्यात्ततः सदयाः सुदूरं त्यक्तप्राणिहिंसाः कथमिव हंसाद्यण्डान् प्रयोगेषु ब्रूयुः| यदि च न्यूनतादोषः परिहार्यो न स्यात्ततः कथं वैते योगा रागाग्नेर्दीपना उत्तेजनाननिर्वापणः सर्व एव कामस्योद्दीपनाः प्रयोजिताः क्लिष्टस्य च सङ्कल्पस्य जननाः यत्नजेयस्य च संसारस्य वर्द्धनाः प्रोक्ताः| एतच्च वर्त्म त्रिकालदर्शिभिः पूर्वाचार्यैः कृतं कोऽस्मादिर्लङ्घयितुमतिक्रमितुमर्हति| दर्शनं दर्शः त्रिकाले भूतभविष्यद्वर्त्तमानाख्ये काले दर्शो येषां तैः| दिवि भवा दिव्यैस्तैः| यथा सत्त्वदोषा रागद्वेषादयः तद्विर्जितैराचार्यैः| सर्वथा प्रक्रान्ते सर्वप्रकारं वक्तुमारब्धे सति सर्वमेवोक्तं सूदितं भवति| न तु लेशोक्तम्| एतदेवोच्यते-न हीत्यादिना| लेशाभिधानेन स्तोकोक्त्या सर्वेषामर्थानां संग्रहो न लभ्यो भवति| तथा च गर्द्दभीक्षीरादिकं निरुपयोग्यपि प्रयोक्तव्यमेव|| ७५||
Adhikarana shAstrasya nirdoShatApratipAdanam tatra vyApitvam (76) · Śloka 76
अद्यत्वेऽपि विशेषेण भूरितन्त्रार्थसंग्रहात्|
संग्रहाद्यन्न बुध्येत तज्ज्ञानमतिदुर्लभम्|
यथा प्रतिज्ञातमितिक्रमेण वेदोऽयमष्टाङ्गनिधेर्न्निबद्धः|
अभ्यस्यतो मार्गमिवार्यसत्यं सञ्जायते स्वर्थपरार्थसिद्धिः||७६||
तस्मात् न्यूनतादोषं परिहृत्यास्य तन्त्रस्य व्यापित्वमुच्यते-अद्यत्वे साम्प्रतिकत्वेऽपि संग्रहादस्मात्तन्त्राद्यन्न बुध्येत तज्ज्ञानमतिदुर्लभम्| एवंविधस्यान्यस्योपायस्याभावात्| किम्भूतात् संग्रहादित्याह-भूरितन्त्रार्थसंग्रहात्| प्रभूतानां तन्त्राणां सम्बन्धिनोऽर्थस्य संग्रहादेकत्रावस्थापनात्| यथेति| पूर्वं यथा प्रतिज्ञातं तथा क्रमेणाष्टाङ्गनिधेर्वेदोऽयमिति निबद्धः| यं निबन्धमभ्यस्यतः पुंसस्तथा स्वार्थपरार्थयोः सिद्धिः सञ्जायते यथा मार्गाख्यमार्यसत्यमभ्यस्यतश्चत्वार्यपत्यानि दुःखं समुदायो निरोधो मार्गश्चेति सौगतप्रसिद्धलक्षणानि| एवञ्च पूर्वं प्रतिज्ञातम् सर्वतन्त्राण्यतः प्रायः संहृत्याष्टाङ्गसंग्रहः| अस्थानविस्तराक्षेप पुनरुक्तादिवर्जितः|| हेतुलिङ्गौषधस्कन्धत्रयमात्रनिबन्धनः| विनिगूढार्थतत्त्वानां प्रदेशानां प्रकाशकः|| स्वान्यतन्त्रविरोधानां भूयिष्ठं विनिवर्त्तकः| युगानुरूपसन्दर्भो विभागेन करिष्यते|| इति|| ७६||
Adhikarana vividhaguNavattvam (77) · Śloka 77
पितामहमुखोद्गीर्णमित्यायुर्वेदवाङ्मयम्|
जीवितारोग्यधर्मार्थसुखगौरवकीर्तिकृत्|
अलंकृतं युक्तिपदैः सद्रत्नैरिव काञ्चनम्|
षट्त्रिंशतार्थदुर्गेषु भिषजां संक्रमैरिव||७७||
पितामह इत्यादि| इत्यनेन प्रकारेणायुर्वेदवाङ्मयं पितामहस्य ब्रह्मणो मुखादुद्गीर्णं जीवितादिकृत्स्वरूपं षट्त्रिंशता युक्तिपदैर्युक्तिस्थानैरलंकृतं तथा यथा सद्रत्नैः काञ्चनं सुवर्णमलंक्रियते| षट्त्रिंशता युक्तिपदैरिति संख्यासंख्येययोरव्यतिरेकापेक्षया निर्देशः| किम्भूतैर्युक्तिपदैरित्याह-भिषजामर्थदुर्गेषु संक्रमैरिव स्थितैः| यथा हि दुर्गा गजादिगुप्ताः परैरधिगन्तुमशक्याः संक्रमैः सेतुभिः शक्या भवन्ति तद्वद्येऽर्था भिषजामगम्यास्ते युक्तिपदैर्ज्ञातैर्गम्या भवन्ति|| ७७||
Adhikarana tantrayuktayaH (78) · Śloka 78
तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च|
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्|
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः|
प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः|
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः|
निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्|
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः||७८||
तत्रेत्यादिना युक्तयः उच्यन्ते| वाक्यार्थानां योजनं युक्तिः याभिर्योजनाभिर्विना तन्त्रमसम्बद्धं भवति| का युक्तयः ? तत्र तेष्वधिकरणं नाम अधिकरणं प्रस्तावः सामान्येनोक्तमप्यर्थजातं यद्बलाद्विशेषेऽवास्थाप्यते तदधिकरणम्| यथा सप्ताहादौषधं केचिदाहुरन्ये दशाहत इति वाक्यार्थः सामान्येन प्रवृत्तोऽधिकरणवशाज्ज्वराख्ये विशेषेऽवस्थाप्यते|| १|| योगो नाम योगः सम्बन्धः| स च पदार्थयोर्वाक्यार्थयोर्वा| तत्र पदार्थयोः साध्यसाधनभावेन| यथा रागादिरोगा इत्यादौ समूला इत्यस्यापास्ता इत्यनेन| वाक्यार्थयोर्यथा 'जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेदि'त्यस्य 'तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिरि'त्यनेन|| २|| हेत्वर्थो नाम यदेकत्रोच्यमानमन्यत्रापि तथैवोपयुज्यते| यथा तत्रैकैकत्र शाखायामित्याद्यवेध्योक्त्याशेषा वेध्या इति गम्यते| पदार्थो नाम पदेनार्थोऽवगम्यते| यथा गुर्वादयो गुणशब्दादवगम्यन्ते|| ४|| प्रदेशो नाम यत्रैकदेशस्योच्यमानस्यार्थस्य प्रसादादनुच्यमानोऽपि तच्छेष आपद्यते सः प्रदेशः| यथा कुकूलादिपाकक्रमेण लाघवातिशयोऽपूपानामुच्यमानानां प्रसादाननुच्यमानान्यपि कृतान्नानि तथावगम्यन्ते|| ५|| उद्देशो नाम यत्रार्थनां शब्दमात्रेणैव कीर्तनमुद्देशः| ह्रस्वदीर्घा इत्यादयोऽष्टौ नेत्रदोषा इति शब्दमात्रेणाष्टौ कीर्तिताः|| ६|| निर्देशो नाम यच्छब्दमात्रेण निर्दिष्टानां स्वरूपविशेषप्रदर्शनाय पुनः कीर्तनं निर्देशः| यथा बस्तिव्यापदि द्रुतोत्क्षिप्त इत्यादिकमुद्दिश्य तेषु दोषं प्रदर्शयितुमनुच्छ्वास्य तु बद्ध इत्युच्यते|| ७|| वाक्यशेषो नाम यस्मिन् वाक्ये एकदेशः शिष्यते व्याख्याकाले त्वनुच्यमानोऽप्यापतति स वाक्यशेषः| यथा रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता इत्यत्र उच्यत इति वाक्यशेषः|| ८|| प्रयोजनं नाम यत्सम्पादयितुं क्रिया ह्यारभते तत्प्रयोजनम्| यथा सदोषेषु दोषशेषपाचनमग्निसन्धुक्षणं च सम्पादयितुमौषधपानमारभ्यते|| ९|| उपदेशो नाम शुद्धस्याप्तवचनस्य कीर्त्तनमुपदेशः| यथा गर्भस्तु मातुः पृष्ठाभिमुखो ललाटे कृताञ्जलिः सङ्कुचिताङ्ग इत्येवमादिः|| अपदेशो नाम प्रतिज्ञानस्य साधनहेतुरपदेशः| यथा अहितायोत्तरोत्तरं दुष्टा वातादय इत्यस्यां प्रतिज्ञायां दुष्परिहरत्वादिति हेतुः|| अतिदेशो नाम अन्यसम्बन्धिनां धर्माणामन्यत्रावस्थापनमतिदेशः| यथा पालक्यासम्बन्धिनां धर्माणां चुच्चावस्थापनम्|| १२|| अर्थापत्तिर्नाम यदेकस्मिन्नर्थं उच्यमाने अनुक्तस्याप्यर्थस्य बलादागमनं सार्थापत्तिः| यथा पक्वे जले जीर्णेऽप्यामं न पेयमित्युच्यमाने आभोजनादित्यनुच्यमानस्यापि सामर्थ्यादागमनम्| निर्णयो नाम उद्दिष्टानामर्थानामनुद्दिष्टेन निराकाङ्क्षत्वापादनं निर्णयः| यथा वर्त्मरोगविज्ञानीयोक्तानां रोगाणां वर्त्मरोगप्रतिषेधनिराकात्वापादनम्|| १४|| प्रसङ्गो नाम यदप्राकरिणकस्यापि वस्तुनः किञ्चित् सम्बन्धेन यत्कीर्तनं स हि प्रसङ्गः| यथा वमनप्रस्तावे धूमान्तैः प्रायः सर्वैरित्यादेरप्राकरणिकस्य कीर्त्तनम्|| १५|| एकान्तो नाम यत्पक्षान्तरव्यावर्त्तकं तदेकान्तः| यथा दोषहेतुजत्वोक्तेर्निजत्वं न कदाचिदपि बाह्यहेतुजं व्याप्नोति|| १६|| नैकान्तो नाम यदुच्यमानमप्यवश्यम्भावित्वेनानियतं स नैकान्तः| यथा ज्वरस्तु जातः षड्रात्रादश्विनीषु निवर्त्तत इत्येतदुक्तमप्यवश्यम्भावित्वेनानियतम्|| १७|| अपवर्गो नाम सामान्योक्त्यनुप्रविष्टस्य विशेषेणाकर्षणं सोऽपवर्गः| यथा मधुरं श्लेष्मलमित्युक्तावनुप्रविष्टेषु जीर्णशाल्यादिषु शब्देनाकर्षणम्|| १८|| विपर्ययो नाम उक्तस्यान्यथाभावो विपर्ययः| यथा निदानोक्तानामनुपशयो भवति तद्विपरीतानां चोपशयः|| १९|| पूर्वपक्षो नाम परप्रतिज्ञातानुपपत्तिप्रदर्शनपरो वाक्यसमुदायः पूर्वपक्षः यथा षड्रसवादिनं प्रत्यनेकरसप्रतिपादकानि वाक्यानि|| विधानं नाम तन्त्रस्य कर्त्रा विशिष्टा या पदादिरचना कृता तद्विधानम्| यथा सर्वविरोधपरिज्ञानाद्व्यवहारोच्छित्तिर्मा भूदित्यभिप्रायेणोक्तं न च तद्विज्ञानमेकान्तभद्रकमिति|| २१|| अनुमतं नाम परपक्षस्य भिन्नस्याप्यङ्गीकरणमनुमतम्| यथा बस्तिविधाने कल्पनाया मतेषु दोषौषधादि बलतः सर्वमेतत्प्रमाणयेदित्यङ्गीकरणम्|| २२|| व्याख्यानं नाम सङ्क्षेपेणोक्तस्या विस्तरेणाख्यानं व्याख्यानम्| यथा सर्वरोगनिदाने तस्योपलब्धिर्निदानादिभिरिति सङ्क्षेपेणोक्तस्य तस्येत्यादिना विस्तरेणाख्यानम्| अथवा स्फुटैः शब्दैरनभिहितं गुरुपारम्पर्यक्रमागतम्|| २३|| संशयो नाम विरुद्धानां पक्षाणामनिश्चयः संशयः| यथा विषवेगसम्भवपक्षेषु|| २४|| अतीतापेक्षा नाम यत्रातीतं पदमपेक्ष्य सम्बन्धार्थता भवति साऽतीतापेक्षा| यथा स्वेद्यादयः स्नेह्या इत्युक्तेन त्वतिमन्दाग्निरित्यादेः स्नेह्या इत्यपेक्षते| यथा च ज्वरे लङ्घनं कुर्वीतेति सूत्रोक्तं लङ्घनमपेक्षते|| २५|| अनागतापेक्षा नाम यत्रानागतेनाऽर्थेन सम्बन्धिता भवति सानागतापेक्षा| यथा ततो नावनगण्डूषेत्यादिना दिनचर्यायां नस्यादि विधयोऽपेक्ष्यन्ते|| २६|| स्वसंज्ञा नाम या स्वतन्त्रे एवमन्यस्मिञ्छास्त्रे न श्रूयते सा स्वसंज्ञा| यथा 'आपानो' 'जेन्ताक' इत्येवमादि|| २७|| ऊह्यं नाम यद् भिषजा स्वप्रज्ञया शब्देनानुक्तमपि व्यवथाप्यते तध्यम्| यथा द्रव्यं जह्यादयौगिकमिति यन्न यौगिकं तच्छब्देन नोक्तमपि प्रज्ञया व्यवस्थाप्यते|| २८|| समुच्चयो नाम एकस्मिन् विहिते तदविरोधेन तत्रैव द्वितीयस्य विधानं समुच्चयः| यथा वातस्योपक्रमः स्नेहः स्वेद इत्यादि| निदर्शनं नाम साध्यस्यैकदेशो दृष्टान्तो निदर्शनम्| यथा आमदोषेषु त्रिविधेषु लङ्घनपाचनशोधनानि द्रुष्टान्तः| (एवमन्यानपि व्याधीन् स्वनिदनविपर्ययात् चिकित्सेदित्यादिः)|| ३०|| निर्वचनं नाम संज्ञयोक्तस्य तदर्थेन योजनं निर्वचनम्| यथा सूचीभिरिव गात्राणि भिद्यतीति विसूचिका|| ३१|| नियोगो नाम क्रियाणां व्यापाराणां नियोगः| यथा भवता स्वेदमूर्च्छापरीतेनापि नैषा पिण्डिका विमोक्तव्येति|| ३२|| विकल्पो नाम क्रमेण यौगपद्येन वा सम्भविनां पक्षाणां कीर्त्तनम्| यथा कुर्वीत लङ्घनं प्राग्रूपेषु ज्वरादौ वा||३३|| प्रत्युत्सारो नाम यत्रोपपत्तिं दर्शयन्तः परस्परमतानि निवारयन्ति| यथा गर्भिणी अष्टमे मासि क्षीरयवागूं सर्पिष्मतीं पिबेत्| नेति खण्डकाप्यः गर्भस्य पैङ्गल्याबाधभयात्| अस्तु पैङ्गल्याबाधस्तथाप्येवं कुर्वती नीरुजं बलवर्णायुपेतमपत्यं जनयतीति भगवानात्रेयः||३४|| उद्धारो नाम यच्छास्त्रे चोद्यस्य समाधानम्| यथा चित्रकर्मगुणकृत् गुरुणोक्तो बस्तिरित्यादि यावत् सर्वतः कथमपोहति दोषानिति चोद्यस्य स्तिमितमारुतवश्यमेतदित्यादि समाधानम्|| ३५|| सम्भवो नाम किमप्यन्यत्रादर्शनाद्येन नियमेन स्थाप्यते स सम्भवः| यथा सर्वरोगेषु हेतुलिङ्गौषधादीनां सामान्येनोक्तौ वातादिविशेषेणावस्थापनं सम्भवप्रसादाल्लभ्यम्|| ३६|| एवं तन्त्रयुक्तयः| यद्यपि भट्टारकप्रस्थानेन च परिप्रश्नव्याकरणव्युक्रान्ताभिधानहेत्वाख्याश्चतस्रोऽवशिष्यन्ते तथापि आचार्येण तन्त्रेणानिबद्धा इत्यत्र नोच्यन्ते| अथवा उक्तास्वेवान्तर्भाव्याः| अथवा तन्त्रयुक्तितत्वमेव तासां नाङ्गीक्रियते| तत्र चाग्न्यतियोगोक्तौ वातादिविशेषेणावस्थापनं सम्भवप्रसादाल्लभ्यमेवमाद्युक्तम्|| ७८||
Adhikarana tantrayuktimahattvam (79) · Śloka 79
सरसः सुप्तपद्मस्य रविदीधितयो यथा|
यथा गृहस्य दीपाभास्तथा तन्त्रस्य युक्तयः|
अधीयानोऽपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः|
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा|
वाक्यार्थयोजनादेता युक्तयस्त्विष्टसिद्धिदाः|
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधकाः|
लीनव्यत्यासलेशोक्तिगदितानां प्रकाशकाः|
वाक्यन्यायोदधेः सारं गृहीत्वैवं व्यवस्थिताः||७९||
सरस इत्यादि सुबोधम्| तन्त्रयुक्त्यविचक्षणः एतासु षट्त्रिंशत्तन्त्रयुक्तिष्वसमर्थस्तन्त्रार्थं नाधिगच्छति न प्राप्नोति यथा भाग्यक्षये धनम्| एता युक्तयो वाक्यार्थयोजनाद्धेतोः स्वेष्टसिद्धिं ददति| यानि चासद्वादिनामर्थासम्बन्धप्रदर्शपराणि वाक्यानि तेषां प्रतिषेधकाः| लीनगदितानां व्यत्यासगदितानां लेशगदितानामुक्तिगदितानाञ्च प्रकाशकाः| लीनं तद्यत्स्फुटं वक्तुं न पार्यते| व्यत्यासः परस्परविवर्त्तनम्| लेशोऽशेन स्पर्शः| उक्तिर्वचनभङ्गिः| एताश्च युक्तयो वाक्यन्यायोदधेरसंख़्यप्रकारसम्भविनो गेयस्येव जातयः सारं गृहीत्वा एवं व्यवस्थिताः| पदार्थयोजनास्तु व्युत्पन्नानां प्रसिद्धा एवेत्यत आचार्येण नोक्ताः| तासु च तत्र भवतो हरेः श्लोकौ- संसर्गो विप्रयोगश्च साहचर्यं विरोधिता| अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः|| सामर्थ्यमौचितिः देशः कालो व्यक्तिः स्वरादयः| शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः|| इति| अनयोरर्थः येषां पक्षे अनेको गोशब्दो वागादिविषयस्तेषां विशेषावच्छेदे संसर्गादीनि हेतवः| येषामप्येक एव गोशब्दो वागाद्यनेकविषयाभिधानोऽनेकशक्तियुक्तस्तेषामपि शक्यनवच्छेदे विशेषस्मृतिहेतवः| तत्र संसर्गो यथा-धेनुरानीयतामित्यत्र सर्वत्र प्रत्यग्रप्रसवाभिधायित्वाद्धात्वार्थसन्देहे संवत्सतरेत्यादिनोक्तः किशोरतराद्यन्यतमसंसर्गः सन्देहविच्छेदे हेतुः| क्वचिद्विप्रयोगः, यथा करभरहिता धेनुरानीयतामित्युक्ते यैव निर्जातकरसम्बन्धा धेनुः सैव करभरहिताऽनीयते अन्यस्यास्तु करभरहितत्वाव्यभिचाराद्विशेषणं नोपपद्यते| क्वचित्साहचर्यम्, यथा शिला आनीयतां गन्धद्रव्याणि चेत्यत्र पेषणशिलैवानीयते| यथा रामलक्ष्मणावित्यत्र रामो दाशरथिरेवोच्यते| क्वचिद्विरोधः, यथा रामार्जुनावित्यत्रार्जुनः कार्तवीर्य एव| क्वचिदर्थम्, यथा गोपालकमानयेत्यध्यापयेत्यत्रार्थाद्यस्याध्यापनं सम्भवति स नाम्ना गोपालक आनीयते न गवां पाता| क्वचित्प्रकरणम्, यथा भोज्याङ्गेष्वम्लादिशब्दकेषूपसंह्निमाणेष्वेतावदुच्येद् सैन्धवमानयेति उक्ते च प्रदीयते लवणं न चाश्वादिकम्| क्वचिल्लिङ्गम् यथा अक्ताः शर्करा उपनयेत्यस्मिन् वाक्ये कस्याप्यञ्जनद्रव्यस्य सम्भवे तेजो वै ग़ृतमित्यस्मिन् वाक्यान्तरे दृष्टात् लिङ्गात् ग़ृतसाधितत्वं शर्कराद्युटिकाया अजिक्रियया निर्द्धार्यते| क्वचिच्छब्दान्तरसन्निधिः; यथाऽर्जुनः कार्तवीर्यः रामो जामदग्न्य इति| क्वचित् सामर्थ्यम्, यथा अनुदरा कन्येत्युदरविशेषप्रतिषेधो गम्यते| अभिरूपाय कन्या दीयतामित्यत्र चाभिरूपतमायेति गम्यते| क्वचिदौचिती; तथा च केषाञ्चित् प्रयोक्तृणामौचित्याच्छब्दस्य निन्दाप्रशंसाद्यभिधायित्वं गम्यते| यथा भद्रमुख़ेति दस्युराक्षसादौ| यथा वणिजो वाराणसीजित्वरा इति च वदन्ति| क्वचिद्देशः, यस्यैव शब्दस्य क्वचिद्देशे निन्दितवाचित्वं तस्यैवान्यत्र प्रशंसावाचित्वं प्रसिद्ध्यैवं रूपम्| क्वचित् कालः; यथा पूर्वाह्णे पच्यतामित्युक्ते विशिष्टसाधनैश्च विक्लित्तिर्गम्यते सा च विशिष्टसाधनादिवाचमगृहीत्वा पचनविशेषवगतिः| रात्रौ तु निद्राक्षयो गम्यते| क्वचिद्व्यक्तिः; यथा पु~ंलिङ्गो धर्मशब्द आत्मगुणं वक्ति नपुंसकस्तु यज्ञम्| क्वचित् स्वरादयः; यथा अस्थण्डिलेष्वित्यत्र पूर्वपदप्रकृतिसाधारणतत्पुरुषावगतिरस्थण्डिलेष्वित्यत्र चान्तोदात्तेन बहुव्रीहिः| आदिग्रहणात् क्वचिद्विभक्तिः; यथा अर्द्धमर्द्धः अर्द्धमिति द्वितीयया कर्म प्रतीयते| अर्द्ध इति प्रातिपदिकार्थमात्रम्| क्वचित्तद्धितः;, यथा दात्तः कूप इत्यत्र तद्धिते न विपाशात उत्तरकूलभवत्वम्| दक्षिणकूलभवत्वं न कूपस्येति स्पष्टम्| क्वचिद्व्यञ्जनम्, यथा सुसिक्तमित्यत्र षत्वस्य भावाभावाभ्यां सुशब्दस्योपसर्गत्वं कर्मप्रवचनीयत्वं च गम्यते| एवमनेकमप्यूह्यमिति श्लोकार्थः|| ७९||
Adhikarana mantravatprayogaH (80) · Śloka 80
एतदागमसिद्धत्वात् प्रत्यक्षफलदर्शनात्|
प्रयोज्यं मन्त्रवत्तन्त्रं तन्त्रज्ञानविशारदैः||८०||
एतदिति| एतच्च तन्त्रं तन्त्रज्ञानविशारदैर्मन्त्रवत् सम्प्रयोक्तव्यं नात्र फलाभावशङ्का कार्येत्यर्थः| कुत इत्याह-आगमसिद्धत्वात्| आगम एवास्मिन् प्रमाणम्| प्रत्यक्षफलदर्शनमधिकं प्रमाणम्|| ८०||
Adhikarana aupamyena shreyaskaratvanirdeshaH (81) · Śloka 81
पितामहेन लोकस्य स्मृत्वा तदिदमव्ययम्|
अकालमृत्युरक्षार्थमलौहं वर्म निर्मितम्|
सुज्ञातमेतदमृतं स्वस्थास्वस्थसुखास्पदम्|
यथेप्सितफलाशेषपुरुषार्थप्रसाधनम्|
इदं शास्त्रमदृष्टीनामेवमालोककार्यपि|
मण्डलं भास्करस्येव न प्रकाशाय जायते||८१||
पितामहेनेत्यादि| व्याख्यासमम्| पितामहेन ब्रह्मणा अलौहं वर्म निर्मितं शस्त्रेण विना कारितम्| सुज्ञातं साकल्येन ज्ञातमेतत्तन्त्रमृतं स्वस्थानामस्वस्थानां च सुखस्यास्पदं स्थानम्| ईप्सितफलावाप्तिक्रमेणाशेषस्य पुरुषार्थस्य प्रसाधनम्| इदञ्च शास्त्रमेवमालोककार्यपि अदृष्टीनामबुद्धिमतां प्रकाशाय न जायते| यथा अदृष्टीनामचक्षुषां भास्करस्यादित्यमण्दलम्||८१||
Adhikarana prAj~jAj~jayoH shastrAdivadubhayathA kAryakaratvam (82) · Śloka 82
ध्रुवं वैद्येषु कल्याणमायुर्वेदानुसारिषु|
इतरेष्वितरच्छात्रविषज्वलनकर्मसु||८२||
आयुर्वेदानुसारिषु वैद्येषु ध्रुवमवश्यं कल्याणमुभयलोकश्रेयः| इतरेष्वित्यायुर्वेदाननुसारिषु इतरदित्यवश्यमकल्याणम्| किम्भूतेष्वित्याह-शस्त्रविषज्वलनकर्मसु शास्त्रविषाग्निरूपं मारणात्मकत्वात् कर्म येषामिति|| ८२||
Adhikarana aj~jasya shastrAdito~api ghAtakatvam (83) · Śloka 83
कुर्यात् प्रयुक्तं शस्त्रादि सशेषमपि रोगिणम्|
न त्वेवं भेषजं मोहादनालोचितयोजितम्||८३||
कुर्यादित्यादि| शस्त्रादि शत्रुणा प्रयुक्तकं सशेषमपि रोगिणं कुर्यात्| यत् पुनर्भेषजमनालोचितयोजितमनालोचितमेव मोहाद्योजितं तन्न त्वेवं सशेषं कुर्यात्|| ८३||
Adhikarana dauShauShadhAdInAmavekShaNaM kAryam (84) · Śloka 84
सदा दोषौषधादीनि वीक्ष्य द्वादशतत्त्वतः|
कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलैः||८४||
तस्माद् द्वादश दोषौषधादीनि दोषदूष्यबलकालानलप्रकृतिवयःसत्त्वसात्म्याहारावस्थौषधानि तत्त्वतः परीक्ष्य प्राज्ञश्चिकित्सितं कुर्यात्| न तु केवलैरेव योगैः|| ८४||
Adhikarana kevalayogaprayoge doShaH (85) · Śloka 85
मात्रादिसम्यगज्ञात्वा यदृच्छाप्रतिपादितः|
हिनस्ति व्याधितं योगो घृतमाक्षिकयोरिव||८५||
मात्रेत्यादि| योगश्च मात्राकालसंयोगसंस्कारादिकं सम्यगज्ञात्वा यदृच्छयैव प्रतिपादितो व्याधितं हिनस्ति| यथा घृतमाक्षिकयोः समयोगः|| ८५||
Adhikarana shAstratattvaj~jAnamevAvashyakam (86) · Śloka 86
दृष्ट्वा विषेऽप्यमृततां घृतादौ मारणात्मताम्|
शास्त्रतत्त्वं न विज्ञाय स दुरात्मा चिकित्सति||८६||
यश्च दुरात्मा भवति सोऽवश्यं शास्त्रतत्त्वं विज्ञाय न चिकित्सति| विषे मारणात्मकेऽपि संयोगादिवशादमृततां दृष्ट्वा घृतादौ च रसायने मारणात्मकतां दृष्ट्वा|| ८६||
Adhikarana aj~javaidyanindA (87) · Śloka 87
सुगीतश्चैष कस्यापि महाश्लोको महात्मनः|
वैद्याश्चाश्रुतशास्त्रार्थां मूर्ख़ाश्च प्रभविष्णवः|
अकालमृत्यवो ह्येते विचरन्ति महीतले|
लोभयन्त्यातुरं मूढा ये चित्रैः कर्मकौशलैः|
तेभ्यो रक्षेत्सदात्मानमात्मा यस्मात् सुदुर्लभः|
ते ग़ुणाक्षरवत्कञ्चिदुत्तार्य नियतायुषम्|
ग़्नन्ति वैद्याभिमानेन शतान्यनियतायुषाम्|
रोगार्त्तस्य विषण्णस्य यत्नलभ्यसुख़ायुषः|
अवैद्यो निर्ग़ृणः क्रूरो यः करोति भिषग्जितम्|
पापस्य मृत्युदूतस्य दुर्मतेस्त्यक्तधर्मणः|
नरो नरकपाती स्यात्तस्य सम्भाषणादपि|
अतन्त्रीकृततन्त्रार्थाः शास्त्रमात्रोपजीविनः|
राज्ञां प्रमादाद्राष्ट्राणि चरन्ति व्याधवृत्तयः|
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्|
सेवेत शमविज्ञानज्ञानपूर्णान् भिषक्तमान्||८७||
सुगीत इत्यादि| व्याख़्यासमम्| ये मूढा नानाविधैः कर्मकौशलैरातुरं लोभयन्ति तेभ्य आत्मानं सदा रक्षेत् यस्मादात्मा सुदुर्लभः| ते मूढाः कञ्चिन्नियतायुषं ग़ुणाक्षरवत्काकतालीयदुत्तार्य भिषजमात्मानं मन्यमाना अनियतायुषां शतानि ग़्नन्ति हिंसन्ति| ग़ुणैः कृमिभिर्भक्षिते काष्ठे यान्यक्षराणि दृश्यन्ते तानि तैर्बुद्धिपूर्वं न क्रियन्ते| विषण्णत्वादियुक्तस्य रोगार्त्तस्य अवैद्य यो निर्ग़ुणः क्रूरत्वात् भेषजं करोति तस्य पापादिरूपस्य सम्भाषणादपि नरो नरकपाती स्यात्| यैस्तन्त्रार्थो न तन्त्रीकृतः सम्यक् तन्त्रयित्वा बुद्धौ न निवेशितः ते व्याधवृत्तयो मृगमारका राज्ञां प्रामादाद्राष्ट्राणि चरन्ति| यदि पुना राजनः प्रमत्ता न भवन्ति ततः कथमिव चरितुं लभन्ते| तान् कालपाशसदृशत्वादियुक्तान् वर्जयेत् प्राज्ञः| शमादिपूर्णांश्च भिषक्तमान् सेवेत|| ८७||
Adhikarana prANAcAryaM pUjayet (88) · Śloka 88
अन्नपानानि पथ्यानि व्याधिनिर्घातमौषधम्|
रसायनानि वृष्य़ाणि प्राप्यन्ते वैद्यसंश्रयात्|
अराजका यथा देशा भर्त्तृहीना यथा गृहाः|
आतुराद्यास्तथा पादाः शोच्या वैद्यानधिष्ठिताः|
प्राणाचार्यं बुधस्तस्माद्दयालुं विजितेन्द्रियम्|
अश्विनाविव देवेन्द्रः पूजयेदादृतः सदा||८८||
पथ्यान्यन्नपानादीनि साधुवैद्यसंश्रयात् प्राप्यन्ते| अराजका इत्यादि व्याख्यासमम्| यत एवं तस्मात् बुधः प्राज्ञो दयालुत्वादियुक्तं प्राणाचार्यमादृतः सन् सदा पूजयेद्यथा देवेन्द्र अश्विनौ पूजयतीति|| ८८||
Adhikarana ashvinoH praBAvakIrtanam (89) · Śloka 89
यज्ञस्य हि शिरस्छिन्नमश्विभ्यां सन्धितं पुनः|
पातिता दशनाः पूष्णो भगस्य च विलोचने|
राजयक्ष्मार्द्दितश्चन्द्रस्ताभ्यामेव चिकित्सितः|
सोमान्निपतितो वज्री भुजस्तम्भे च दारुणे|
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः|
वीर्यवर्णबलोपेतः कृतस्ताभ्यां पुनर्युवा|
एभिश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ|
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम्|
अश्विभ्यां सहितः सोमं प्रातः पिबति वासवः|
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते|
अश्विनोः कल्प्यते भागो यज्ञेषु ब्राह्मणैरपि|
अश्विनावग्निरिन्द्रश्च वेदेषु सुतरां स्तुताः|
वैद्यावित्यश्विनौ तस्मात् पूज्येते विबुधैरपि|
अजरैरमरैर्नित्यं सुखितैरेवमादृतैः|
व्याधिमृत्युजराग्रस्तैर्दुःखप्रायैः सुखार्थिभिः|
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||८९||
यज्ञस्येत्यादिनेतिहासेनाश्विनोः प्रभावकीर्तनम्| व्याख्यासमम्| भिषगुत्तमावश्विनौ महात्मानाविन्द्रादीनां भृशं पूज्यौ बभूवतुः| तस्माद्विबुधैर्द्दैवैरप्यश्विनौ वैद्यविति पूज्येते| किम्भूतैविबुधैरित्याह अजरैरित्यादि एवङ्गुणैरपि| किं पुनर्मत्यैर्मानुषैस्तत्रापि व्याध्यादिग्रस्तैर्भिषजो यथाशक्तितो न पूज्याः स्युः| (यज्ञस्येत्यादि| यज्ञो ब्रह्मा| इन्द्रः सोमान्निपतितः सोममतीव पीत्वाऽतिविरेचित इत्यर्थः| एतैरन्यैश्च कर्मभिर्भिषगुत्तमावश्विनौ महात्मनाविन्द्रादीनां भृशं पूज्यौ बभूवतुः| प्रातः प्रातस्सवने शक्र अश्विभ्यां सहितः सोमं पिबति| सौत्रामण्यां च सहाश्विभ्यां शक्रो मोदते| देवैरप्यश्वैनौ पूज्येते भिषगुत्तमाविति| किं पुनर्मत्त्यैर्व्याध्यादिग्रस्तैर्भिषजो नातिशक्तितः पूज्याः स्युर्यथाशक्तिपूज्याः-इति जेज्जटः)||८९||
Adhikarana prANAcAryanirvacanam (90) · Śloka 90
शीलवान् मतिमान् युक्तो द्विजातिर्वेदपारगः|
प्राणिभिः पितृवत्पूज्यः प्राणाचार्यः स हि स्मृतः||९०||
शीलवत्वादिमान् वैद्यः प्राणिभिः पितृवत् पूज्यः, स हि प्राणाचार्यः स्मृतो नान्यः| (स च भिषक् शीलवत्वादियुक्तो वेदपारङ्गतो गुरुवत्प्राणिभिः पूज्यः प्राणाचार्यो यतोऽसाविति-इति जेज्जटः)|| ९०||
Adhikarana vidyayA eva vaidyattvam (91) · Śloka 91
विद्यासमाप्तौ भिषजां द्वितीया जातिरुच्यते|
न वैद्यो वैद्यशब्दं हि लभते पूर्वजन्मना|
विद्यासमाप्तावार्षम् वा ब्राह्मं वा भिषजां ध्रुवम्|
सत्त्वमाविशति ज्ञानात्तेन वैद्यो द्विजः स्मृतः||९१||
विद्यासमप्तावित्यदि व्याख्यासमम्| आर्षं वा ब्राह्मं वा सत्त्वं कर्त्तृ विद्यासमाप्तौ भिषजं कर्मभूतमाविशति| (इदं चापरमपचितिकारणम्| विद्यासमाप्तावित्यादि| एतदुक्तं भवति| वैद्यो न द्विजः; अपि तु विद्यासमाप्तौ वैद्यशब्दाVभिनिष्पत्तिः| तस्यां च सत्यां ज्ञानोदयः| ततो ब्राह्मं सत्त्वमार्षं वा ध्रुवमवश्यं ज्ञानादाविशति| तस्माद्वैद्यो द्वितीय इव जातो भवति वैद्यशब्दलाभात्| उक्तञ्च-यस्यां यस्यामवस्थायां वर्त्तते तस्यां तस्यां जात इत्युपचर्यते| तेन द्विजातीय वैद्यजातिर्भवतीति| ननु च विद्यासमाप्तावित्यनेनैव च पर्याप्तत्वात् ज्ञानग्रहणं किम्? उच्यते| य एव विद्यासमाप्तौ ज्ञानवान् न पुस्तकस्थानीयः तं ब्राह्मसत्त्वमार्षं वा विशति| ननु च ब्राह्मं वार्षं वेति कस्माद्विकल्पः एकस्यैव कस्मात्र नियमः कृतः ? उच्यते| ब्राह्मणस्य वेदार्थपरिज्ञानादायुर्वेदार्थपरिज्ञानात् ब्रह्मसत्त्वानुप्रवेशसांसिद्धिकत्वाच्च ब्रह्मसत्त्वमाविशति वैश्यमार्षमिति यथासङ्ख्येन प्रत्येतव्यमिति| मनुनाऽप्युक्तम्- 'वैद्यस्तु वैश्यो वा ब्राह्मणोऽपि वा उच्यतेऽस्याप्यन्यसत्त्व प्रापणार्थमथापि वा' इति-इति जेज्जटः)|| ९१||
Adhikarana prANAcAryaM prati lokakarttavyam (92) · Śloka 92
नावध्यायेन्न चाक्रोशेदहितं न समाचरेत्|
प्राणाचार्यं बुधः कश्चिदिच्छेन्नायुरनश्वरम्||९२||
तं च बुधः आयुरनश्वरमिच्छन् नावध्यायेत्| अवध्यानमहितकल्पनम्| न चाक्रोशेत् प्राणाचार्यम्| (अभिध्यानमहितचिन्तनमिति जेज्जटः)|| ९२||
Adhikarana vaidyasya AturAn prati karttavyam (93) · Śloka 93
भिषगप्यातुरान्सर्वान् स्वसुतानिव यत्नवान् आबाधेभ्योऽभिसंरक्षेत् ज्ञानं धर्ममनुस्मरन्|
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|
ते हित्वा काञ्चनं राशिं पांसुराशिमुपासते|
रोगाख्यान्दारुणान्पाशानन्तकान्तिककर्षिणः|
यश्छित्वा यच्छति प्राणान्दाता नास्त्येव तत्समः|
न जीवितप्रदानाद्धि दानमन्यद्विशिष्यते|
तस्मादुपाचरेत् स्वेन स्वेन निःस्वतपस्विनः||९३||
भिषजापि सर्व आतुराः स्वसुता इव पाल्याः| ये मनुष्या वृत्यर्थं चिकित्सापण्यस्य विक्रयं कुर्वते ते स्वर्णराशिं त्यक्त्वा पांसुराशिमुपासते सेवन्ते| किञ्च, वैद्येन समो दाता नास्ति| यो रोगाख्यान् दारुणान् पाशान् छित्त्वा प्राणान् यच्छति ददाति| किम्भूतान् पाशान् ? अन्तकस्य मृत्योरन्तिकं निकटं ये कर्षन्ति तान्| न जीवितप्रदानादित्यादि व्याख्यासमम्| जीवितप्रदानादन्यद्दानं न विशिष्टम्| यस्मादेवं तस्मान्निःस्वान् तपस्विनश्च स्वेन स्वकीयेन स्वेन धनेन वैद्य उपाचरेत्| परो भूतदया धर्म इति मत्त्वा चिकित्सिते| वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते|| इति चरकः| भूतदया च परो धर्म एवं ज्ञात्वा चिकित्सिते यो वर्तते सिद्धार्थः सोऽत्यन्तं सुखमश्नुते-इति जेज्जटः|| ९३||
Adhikarana cikitsitasAphalyam (94) · Śloka 94
सत्त्वार्थमीहमानस्य वैद्यस्यैवं महामतेः|
वर्त्तते सन्निधानेन नियतं सिद्धिदेवताः|
क्वचिद्धर्मः क्वचिन्मित्रं क्वचिदर्थः क्वचिद्यशः|
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला|
नित्यमादरवान् वैद्यस्तस्मादार्त्तानुपाचरेत्|
प्राणान् सहात्मनः कीर्त्त्या निहन्त्येषामनादरात्||९४||
एवं सत्त्वार्थं न त्वात्मार्थमीहमानस्य चेष्टमानस्य महामतेर्वैद्यस्य सिद्ध्याख्या देवताः नियतं सन्निधानेन वर्त्तन्ते| क्वचिद्धर्म इत्यादि व्याख्यासमम्| एषामर्त्तानां प्राणान् निहन्तीति सम्बन्धः|| ९४||
Adhikarana vaidyavRuttiH (95) · Śloka 95
सर्वत्र मैत्री करुणातुरेषु निरामदेहेषु नृषु प्रमोदः|
मनस्युपेक्षापकृतिं व्रजत्सु वैद्यस्य सद्दृत्तमलं तनोति|९५|
सर्वत्र मैत्र्यादिकं वैद्यस्य साधुवृत्तं पर्याप्तं विस्तारयति| आतुरविषये करुणा| निरामदेहेषु स्वस्थेषु प्रमोदः|| ९५||
Adhikarana karuNAmUrttervaidyasya nirupamattvam (96) · Śloka 95
सामिषेणापि चित्तेन जीवितोच्छेदकारिणः|
यो निहन्त्यामयान् वैद्यः सोऽपि केनोपमीयताम्|
किमुत निरामिषेण मनसा करुणामृदुना कृपणविशिष्टयोः सदृशमादरमुद्वहता|
अतिगुरुबोधिसत्त्वचरितं सततं विदध च्छमयति रोगजालमपि योऽतिविरोधमिथः||९५||
यो वैद्यः सामिषेण सलोभेनापि चित्तेन जीवितस्योच्छेदकारिण आमयान् निहन्ति सोऽपि केनोपमीयताम् ? यो वैद्यः करुणामृदुत्वादिगुणेन मनसा मिथः परस्परमतिविरोधि रोगजालं शमयति सः किमुत? आमिषं भोग्यवस्तु, कृपणः क्षुद्रः, विशिष्टः कृपणादन्यः| तयोरुभयोरपि सममादरमुद्वहता| किम्भूतो वैद्यः? यः सदैवातिगुरुबोधिसत्त्वानां चरितं विदधत्|| ९६||
Adhikarana ativirodharogajAlanidarshanam (97) · Śloka 97
दाहः शूलं तृडाध्मानं क्षुत्क्षामत्वमरोचकम्|
कः प्राकृतो जयेद्रोगान् नित्यमन्योऽन्यरोधिनः||९७||
अतिविरोध रोगजालमित्येतदेव दाहः शूलमित्यादिना प्रदर्श्यते-दाहेतिशीता क्रिया शूले सा स्वल्पापि महाविकारकरी| एवं तॄडादिष्वपि यथायथं विरोधो वाच्यः|| ९७||
Adhikarana sadRushalakShaNe bhinnakramanidarshanam (98) · Śloka 98
मारुतामग्रहोन्मादमदान् सुसदृशाकृतीन्|
को जानीयाच्चिकित्सेद्वा दूरभिन्नक्रियाक्रमान्||९८||
मारुतादींश्च सुसदृशलक्षणान् सुदूरविभिन्नक्रियाक्रमांश्च को वालिशो यथावस्तु जानीयात्| ज्ञात्वा वा कश्चिकित्सितुं शक्नुयात्|| ९८||
Adhikarana ataH prANAcAryaM pUjayet (99) · Śloka 99
प्राणाचार्यं वेदपारं प्रयातं बुद्ध्या युक्तं पूजयेन्नित्यमस्मात्|
यस्मिन्यस्य प्राणयात्रानिबद्धा तस्मै यच्छन् को धनानां धनायेत्||९९||
प्राणाचार्यमिति| अस्मात् कारणादायुर्वेदपारङ्गतं बुध्या युक्तं च प्राणाचार्यं नित्यमेव धनदानादिना पूजयेत्| यस्य धनिनो प्राणाचार्ये सर्वा प्राणयात्रा निबद्धा स्थिता तस्मिन्यच्छन् धनानि को मूढो धनानां धनायेद् धनाशां कुर्यात्| धनायेदित्यशनायादिसूत्रे निपात्यते|| ९९||
Adhikarana AyurvedatantraracanetihAsaH (100) · Śloka 100
आयुर्वेदं श्लोकलक्षेण पूर्वं ब्रह्माऽऽम्नासीदग्निवेशादयस्तु|
कृत्स्नज्ञेयप्राप्तसाराः स्वतन्त्रा स्तस्यैकैकं नैकधाऽङ्गं वितेनुः||१००||
पूर्वं ब्रह्मा श्लोकानां लक्षेणायुर्वेदमाऽऽम्नासीत्| तस्मादग्निवेशादयः कृत्स्नज्ञेयप्राप्तसाराः स्वतन्त्राश्च सन्तस्तस्यायुर्वेदस्य कायबालाद्यङ्गमेकैकमनेकधा वितेनुरिति स्थितम्|| १००||
Adhikarana svetihAsanidarshanam (101) · Śloka 101
भिषग्वरो वाग्भट इत्यभून्मे पितामहो नामधरोऽस्मि यस्य|
सुतोऽभवत्तस्य च सिंहगुप्त स्तस्याप्यहं सिन्धुषु लब्धजन्मा||१०१||
भिषग्वर इति| मे तन्त्रकर्त्तुर्वाग्भटनामा पितामहो भिषजां ज्येष्ठोऽभूत्| यस्याहमस्मि नामधरः| तस्य वाग्भटस्य सिंहगुप्तनामा सुतोऽभवत्| तस्यापि सिंहगुप्तस्याहं सुतः सिन्धुदेशे लब्धजन्मा|| १०१||
Adhikarana svanirmitatantrasvarUpanidarshanam (102) · Śloka 102
समधिगम्य गुरोरवलोकितात् गुरुतराच्च पितुः प्रतिभां मया|
सुबहुभेषजशास्त्रविलोचनात् सुविहितऽङ्गविभागविनिर्णयः|
पूर्वोक्तमेव वदता किमिवोदितं स्या च्छ्रद्धालुतुष्टिजननं न भवत्यपूर्वम्|
सङ्क्षिप्तसंशयितविस्तृतविप्रकीर्णः कृत्स्नोऽर्थराशिरिति साधु स एव दृष्टः|
आयुर्वेदोदधेः पारमपारस्य प्रयाति कः|
विश्वव्याध्यौषधिज्ञानसारस्त्वेष समुच्चितः||१०२||
समधिगम्य इति| मया च अग्निवेशादिकृतायुर्वेदाङ्गविभागविनिश्चयो रचितः| कथमित्यत्राह-अवलोकिताख्यादादिगुरोः प्रतिभां बुद्धिविकासं समधिगम्य| न केवलं तस्मादेव गुरोर्यावत् गुरुतराच्च पितुः| किम्भूतात् पितुराह-सुबहुभेषजं यच्छास्त्रं तदेवाशोषार्थपरिज्ञानहेतुत्वाद्विलोचनं यस्य| मया च स एवाग्निवेशादिप्रणीतोऽर्थराशिः कृत्स्नः सर्वः साधु कृत्वा च दृष्टो निबद्धः| यतः पूर्वोदितमविशिष्टमेव वदता न किञ्चिदुदितं भवति| अत्यन्तापूर्वं चोच्यमानं श्रद्धालूनां तुष्टिजननं न भवत्यतः स एव साधु दृष्टः| यतस्तेषामग्निवेशादीनामर्थराशिः सङ्क्षिप्तसंशयितत्वादिदोषयुक्तः अतथाभूतोऽपि प्रतिभात्यतः स एव मया साधु दृष्टः| एष चास्मत्तन्त्रो विश्वस्य जगतो व्याधीनामौषधानां च सार उत्कृष्टो भागः समुच्चितः| कृत्नस्य त्वायुर्वेदसागरस्यापारस्यानन्तस्य कः पारं प्रयाति|| १०२||
Adhikarana AtmatantropAdeyatAnidarshanam (103) · Śloka 103
स्मृत्वेदमुदितं पूर्वं श्रुत्वेदानीं द्वयोः पुनः|
स्मर्त्तुः श्रोतुश्च सुतरां श्रद्धातुं कस्य युज्यते|
अथवा श्रुतमप्येतत् स्मर्त्तुरेव क्रमागतम्|
अभिधातृविशेषेण किं तथापि प्रयोजनम्|
ऊर्ध्वमेति मदनं त्रिवृताधो- वस्तुमात्रक इति प्रतिपाद्ये|
मद्विधो यदि वदेदथवाऽत्रिः कथ्यतां क इव कर्माणि भेदः|
साध्वसाध्विति विवेकवियुक्तो लोकपङ्क्तिकृतभक्तिविशेषः|
बालिशो भवति नो खलु विद्वान् सूक्त एव रमते मतिरस्य||१०३||
स्मृत्वेत्यादिना आत्मतन्त्रस्योपादेयतामाचष्टे| इदं चार्थजातमेकेन ब्रह्मादिना स्मृत्वोदितं पूर्वकाले चोदितम्| अन्येन त्वस्मदादिना श्रुत्वोदितमुक्तं सम्प्रति चोक्तम्| एतयोरुभयोः कस्य श्रद्धातुं युज्यते| असाक्षात्करत्वे समे एकस्योपरि कः पक्षपातः| अथवा उभयोः श्रद्धातुं कस्य युज्यत इति काक्वा येन श्रुत्वेदानीं चोक्तं तस्यैव युक्तं न त्वितरस्य| यस्माद्यथानुभवावस्थास्मृतिर्द्दुरुपपादा| कस्यापि कालातिक्रमात् संस्कारभ्रंश इति| कण्ठोक्त्या तु सम-मेवानौद्धत्येन श्रुतं भविष्यतीत्यूर्ध्वमेतीत्यादिना प्रदर्श्यते| अथैव कश्चिदाह यदद्यतनस्य श्रुतं तत् स्मर्तुरेव सम्बन्धिनः क्रमादायातम्| तत् स्मर्तुर्दोषाभावसूचनान्मया कृतेऽपि भ्रमादिविनाशख्यापनमेव| एवमात्मन एव परमसाधुत्वं वर्णितं भवतीति| एवमपि भवता कृतेऽस्मिन्नश्लीलादिदोषाशङ्का स्यादित्यत आह अभिधत्रिति| अभिधातृविशेषण किं प्रयोजनं भवति? प्रामाणिकेन ह्यर्थक्रियाबिनिवेष्टव्या| अत्र चोर्ध्वमेति मदनमित्यादौ वस्तुमात्रे प्रतिपाद्ये यदि मद्विधो वदेदथवाऽत्रिर्वदेत् कथ्यतां कर्मणि को विशेषः? साध्वसाध्विति विवेकरहितो लोकपङ्क्त्यैवैकत्र कृतभक्तिविशेषो बालिश एवैवं भवति, न तु विद्वान्| अस्य तु विदुषः पक्षपातेन विना सूक्त एव मती रमते|| १०३||
Adhikarana samAptisUcakaM ma~ggalam (104-50) · Śloka 50
इति मुनिवचनानां जीवितोपाश्रयाणा मभीलषितसमृद्धौ कल्पवृक्षोपमानाम्|
यदुदितमिह पुण्यं कुर्वतो मेऽनुवादं भवतु विगतरोगो निर्वृतस्तेन लोकः||१०४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे वाजीकरण विधिर्नाम पञ्चाशोऽध्यायः||५०||
इत्येतेन निश्शेषतन्त्रोक्तप्रकारेण मुनिवचानानामनुवचनं कुर्वतो मम यत् पुण्यमुदितं सञ्जातं तेन पुण्येन लोको विगतरोगो निर्वृतश्च भवतु| किम्भूतानां मुनिवचनानामाह-जीवितस्यावाष्टम्भकानां तथा कल्पवृक्षसदृशानामनभिलषितसमृद्धाविति|| १०४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे पञ्चाशोऽध्यायः इत्यष्टमं वाजीकरणमङ्गं सम्पूर्णम्