Adhikarana atha rasAyanavidhirnAmaikonapa~jcAsho~adhyAyaH , adhyAyapratij~jA (1) · Śloka 1
अथतो रसायनविधिं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
इति निजागन्तूनां रोगाणां निराकाङ्क्षं चिकित्सितमुक्त्वा स्वरूपातिशयप्राप्त्यर्थं रसायनानामवसरो ततस्तद्विज्ञानार्थमध्याय आरभ्यते|| १||
Adhikarana rasAyanaprayojanam (2) · Śloka 2
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः|
प्रभा वर्णस्वरौदार्यं देहेन्द्रियबलोदयम्|
वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्|
लाभोपायो हि शस्तानां रसादीनां रसायनम्||२||
दीर्घमायुरित्यादिना रसायनानां प्रयोजनमुच्यते| यस्माच्छस्तानां प्रशस्तानां रसादीनामात्मनो यो लाभोपायस्तद्रसायनमिति निर्वचनम्||२||
Adhikarana rasAyanAdhikAriNaH (3) · Śloka 3
पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः|
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा||३||
एतच्च रसायनं भिषजा जितात्मनः जितेन्द्रियस्य पुंसः वयसि मध्ये वा स्निग्धस्य स्रुतरक्तस्य सर्वेण च प्रकारेण विशुद्धस्य निहतदोषस्य प्रयोज्यम्|| ३||
Adhikarana avishuddhasya rasAyanaM vyartham (4) · Śloka 4
अविशुद्धे शरीरे हि युक्तो रासायनो विधिः|
न भाति मलसंसृष्टे वस्त्रे राग इवार्पितः|
युक्तं संस्कारहीनस्य सम्यगप्यप्रमादिनः|
यथैव पौरुषं तद्वन्न सिध्यति रसायनम्||४||
अविशुद्ध इति| यस्मादविशुद्धे शरीरे युक्तः प्रयोजितो रासायनो विधिर्मलसंसृष्टे वस्त्रे अर्पितो राग इव न भाति| स्नेहादिसंस्कारहीनस्य सम्यगपि प्रयुक्तम् अप्रमादिनोऽपि प्रयुक्तं रसायनं न सिध्यति| यथा संस्कारहीनस्य प्रयुक्तमप्रमादिनोऽपि पौरुषं वीर्यं न सिध्यति|| ४||
Adhikarana grAmyAhArAdInAM sarvadoShaprakopatvam (5) · Śloka 5
सर्वे च दोषा भवन्ति ग्राम्यादाहारादम्ललवणकटुकक्षार विरुद्धासात्म्यरूक्षाभिष्यन्दिक्लिन्नगुरुपूतिपर्युषितनवधान्य शुष्कशाकाऽममांसतिलकुलत्थदधिशुक्तकाञ्जिकपिष्टा न्नविरूढकनिषेविणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमा तिमात्रव्यायामायामसङ्क्षोभिरवपुषां क्रोधलोभभयशो कायासबहुलानां पापकर्मणामसमञ्जसाहारविहारनिर्हार निरतानाम्|
अतो निमित्तं ह्यविशुद्धः सञ्जायते रसो विदह्यते रक्तं शिथिलीभवन्ति मांसानि विष्यन्दते मेदो दूष्यन्ते दोषा विमुच्यन्ते सन्धयो न सन्धीयन्तेऽस्थिषु मज्जानो नाप्या यते शुक्रं नौजो न बलं न वीर्यम्|
ततः स एवम्भूतो ग्लायति सीदति निद्रातन्द्रालस्य समन्वितः खिद्यते निर्विद्यते निरुत्साहोऽसमर्थः शारीर मानसानां विशिष्टानां चेष्टानां भ्रष्टच्छायो नष्टस्मृतिरल्प बुद्धिरसम्पाद्यमानाभिलषितार्थोऽहर्निशमनिशमनिशं निः श्वश्वसन्नधिष्ठानभूतो रोगाणां नोपात्तमपि सर्वमायुर वाप्नोति||५||
न केवलं चैतदेव यावद् ग्राम्यादशास्त्रदृष्टादाहारात्| सर्वे च दोषा भवन्ति| केषामित्याहाम्ललवणप्रभृतिनिषेविणामित्यादीनाम्| विरुद्धासात्म्ये सूत्रस्थान उक्ते| विरूढकमङ्कुरितं सस्यम्| विषमेणानेकरूपेण व्यायामेन सङ्क्षोभितं वपुर्येषां ते तथोक्तास्तेषाम्| असमञ्जसमनियतरूपं यदाहारादिकं तस्मिन् रता ये तेषाम्| अतो निमित्तमस्मात् कारणादविशुद्धो रसः सञ्जायते| विदह्यत इत्यादि व्याख्यासमम्| ततोऽनन्तरं सदुष्टाहारादिकं एवम्भूत इति दुष्टरसादिधातुः ग्लायति हर्षक्षयमासादयति सीदति गात्राणि विनामयति| व्याख्यासमम्| तथाविध उपात्तमप्यन्यजन्मसञ्चितमप्यायुर्न प्राप्नोति किमुताधिकं प्राप्स्यति|| ५||
Adhikarana rasAyanasevanakAle doShAn pariharet (6) · Śloka 6
तस्माद् बुद्धिमानपास्य यथोक्तानाहारादिदोषान् निर्वाह्य च पूर्वोपचितान् रसायनं विधिविहितमुपसेवेत||६||
तस्मादिति| यत एवं तस्मात् बुद्धिमान् नरो यथोक्तान् ग्राम्याहारादिदोषानपास्य त्यक्त्वा पूर्वोपचितान् पूर्वसञ्चितान् दोषान् स्नेहादिना निर्वाह्य निस्सार्य च विधिविहितं रसायनमुपसेवेत||६||
Adhikarana rasAyanadvaividhyam (7) · Śloka 7
तत्तु द्विविधं कुटीप्रावेशिकं वातातपिकं च|
तत्र वीर्य प्रभावप्रयोगपरिहारगुरुत्वात् कुटीप्रावेशिकं महाफल तरम्||७||
तदिति रसायनविषेवणं द्विविधं द्विप्रकारम्| कथम्? कुटीप्रावेशिकं वातातपिकं चेति| तत्र तयोर्मध्ये कुटीप्रावेशिकं वीर्यादिगुरुत्वान्महाफलतरं भवति|| ७||
Adhikarana kuTIprAveshikavidhiH kuTInirmANam (8) · Śloka 8
तस्य विधिः क्षेमसुभिक्षधार्मिकश्रद्दधानजननृपवैद्यविप्रे सुलभमहौषधिघृतक्षीरपथ्यभोजनोपकरणे ग्रामे नगरे वा पूर्वोत्तरस्यां दिशि प्रागुदक्प्रवणे सुविभक्तविहारोद्देशे देशे दृढघनसुमृष्टभित्तिमुत्सेधविस्तारसम्पन्नां सूक्ष्मलोचनां त्रि गर्भामृतुसुखां निर्वातां प्रवातैकदेशां प्राग्द्वारामुदग्द्वारां वा शमीबिल्वक्षीरिवृक्षपरिगृहीतामनिष्टेन्द्रियार्थवातातपरजो धूमस्वेदक्लेददंशमशकसरीसृपव्यालबालस्त्रीदासान्ता वसायिनामगम्यां सन्निहितसद्वैद्यपरिचारकोपकरणां कुटीं कारयेत्||८||
तस्येति कुटीप्रवेशस्य विधिर्भवति| प्रथममेव क्षेमसुभिक्षादिगुणे ग्रामे नगरे वा दृढभित्त्यादिगुणां कुटीं कारयेत्| धार्मिकाः श्रद्दधाना जना नृपादयश्च यस्मिन्| तथा सुलभा महौषध्यादयो यत्र| प्राच्यामुदीच्यां वा दिशि| प्रागुदक्प्रवणे अभिमुखे (प्रवणः क्रमनिम्नः) सुविभक्तो विहारोद्देशः परिसर्याप्रदेशो यत्र देशे उत्सेध औन्नत्यम्| सूक्ष्मणि लोचनानि गवाक्षाणि यस्याम्| शाम्यादिवृक्षैः परिगृहीतामाश्रिताम्| अनिष्टेन्द्रियार्थादीनामगम्याम्| अनिष्टा इन्द्रियार्था द्विष्टाः शब्दादयो विषयाः| सरीसृपाः सर्पादयः| व्यालाः सिंहव्याघ्रादयः अन्तावसायिनश्चण्डालादयः| तथा सन्निहितं सद्वै-द्यादिकं यस्याम्|| ८||
Adhikarana tatra praveshaH (9) · Śloka 9
तस्यां रसायनार्थी शरदि वसन्ते वा शुक्लपक्षे प्रशस्ते अहनि पूजयित्वा यथार्हं देवगुरुविप्रान् प्रणम्य ब्रह्मदक्षा श्विप्रभृतीन् परिमृश्य सुवर्णघृतमधुसिद्धार्थकप्रियङ्गुरो चनाः प्रदक्षिणीकृत्य गोब्राह्मणानुप्रविशेत्||९||
तस्यामिति कुट्यां रसायनार्थी पुरुषः प्रशस्तेऽहनि सद्वासरे यथार्हं देवपूजादिकं कृत्वाऽनुप्रविशेत्|| ९||
Adhikarana prAkkRutyaM niyamapAlana~jca (10) · Śloka 10
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः|
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः|
दानशीलदयासत्यव्रतधर्मपरायणः|
देवतानु स्मृतौ युक्तो युक्तस्वप्नप्रजागरः|
प्रियौषधः पेशलवागारभेत रसायनम्||१०||
तत्र कुट्यं संशोधनैर्वमनादिभिः शुद्धसुखित्वादियुक्तश्च रसायनमारभेत| पुनरिति शोधने कृते| धृतिर्धैर्यम्| श्रद्दधानः श्रद्धावान्| दानादिपरायणो दानादिप्रवणः| युक्तं प्राप्तं स्वप्नादि च यस्य| प्रियौषधः न त्वौषधे द्वेष्यस्वभावः| पेशलवाक् प्रियंवदः||१०||
Adhikarana shodhanArthaM yogaH (11) · Śloka 11
हरीतकीमामलकं सैन्धवं नागरं वचाम्|
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्|
स्निग्धस्विन्नो नरः पूर्वं तेन साधु विरिच्यते||११||
पूर्वं स्निग्धः पश्चात् स्निग्धश्च नरो हरीतक्यादिनोष्णाम्बुपीतेन साधु विरिच्यते|| ११||
Adhikarana tato yAvakam (12) · Śloka 12
ततः शुद्धशरीराय कृतसंसर्जनाय च|
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्|
दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा||१२||
ततोऽनन्तरं शुद्धशरीराय विहितपेयादिक्रमाय च त्रिरात्रं वा पञ्चरात्रं वा सप्ताहं वा यावकं यवान्नं घृतान्वितं दद्यात्| अथवा पुराणशकृतः शुद्धिर्यावत्तावद्यवान्नं दद्यात्|| १२||
Adhikarana yaugikarasAyanasevanam (13) · Śloka 13
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्|
यस्य यद्यौगिकं पश्येत्सर्वमालोच्य सात्म्यवित्||१३||
इत्थमनेन प्रकारेण संस्कृतकोष्ठवतो रसायनमुपाहरेत् ढौकयेत्| किमित्याह-सात्म्यविद्वैद्यः सर्वं दोषादिकमालोच्य यस्य पुंसो यद्रसायनं यौगिकं पश्येत्|| १३||
Adhikarana harItakyAdi saMj~jAnirvacanam (14) · Śloka 14
हरणात् सर्वरोगाणां यासावुक्ता हरीतकी|
पथ्यत्वात् सर्वधातूनां पथ्या शिवतया शिवा|
यस्माद्विजयते व्याधीन् समग्रान् विजया ततः|
अभयं सर्वरोगेभ्यो भवत्यायुश्च शाश्वतम्|
यतः शीलयतामेनां तेनेयमभया स्मृता||१४||
Adhikarana harItakIguNAH anupAnAni ca (15) · Śloka 15
नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या|
सालस्य सा प्रयोक्तव्या नवनीतसमन्विता|
वाते ससर्पिर्लवणा पित्ते सगुडशर्करा|
कफे सपिप्पली क्षौद्रा सर्वदा सा प्रशस्यते||१५||
या नवत्यादिगुणा सा श्रेष्ठेत्यध्याहार्यम्| सा च बालस्य यदा प्रयोक्तव्या तदा नवनीतयुक्ता| वातादिषु सा च सर्वदा पातुं शस्यते|| १५||
Adhikarana harItakIrasAyanam (16) · Śloka 16
अथ हरीतकीनां हिमवच्छैलसम्भवानां कालजातानामा पूर्णरसवीर्याणामनामयानां द्विशस्त्रिशो वा शकलिता नामनस्थ्नामाढकं चतुर्गुणेन पयसा संस्वेद्य मृदुभूत मवतार्य शीतं सर्पिर्मध्वाढकाभ्यां संसृज्य सुगुप्तं स्था पयेत्|
ततस्त्रिरात्रादूर्ध्वमहारानुपरोधिनीं मात्रां प्रत्यह मुपयोजयेत्|
जीर्णे शालिषष्टिकं पयसा भुञ्जीत|
प्रयो गान्ते च तावन्तमेव कालम्|
अस्य प्रयोगाद्वर्षशतमजरो निर्वलीखलतिपलितामयः श्रुतिस्मृतिसम्पन्नः समिद्धान लश्च पुरुषो भवति|
बृहच्छरीरं गिरिसारसारं स्वरो घनौघस्तनितानुकारी|
भवत्यपत्यं विपुलं स्थिरञ्च समश्नतो योगमिमं प्रयत्नात्||१६||
अथेत्यादिना महारसायनानि| व्याख्यासमम्| आपूर्णं सम्पूर्णम्| द्विशस्त्रिशो वा शकलितानां द्विधा त्रिधा वा पाटितानाम्| चतुर्गुणं पयःपरिमाणेन न तवाढकमानेन| अत्र चोक्ता युक्तिः| मात्रास्य या वा प्रकृतमाहारं नोपरुणद्धि| जीर्णे च पयसा शालिषष्टिकं भुञ्जीत| प्रयोगान्त इत्युपयुक्तेऽस्मिन् प्रयोगे तावन्तमेवेत्युपयोगसममेव कालम्| अस्य रसायनस्य प्रयोगादजरत्वादियुक्तः पुरुषो वर्षशतं जीवति| इमं योगं प्रयत्नात् समश्नतः पुंसः शरीरं बृहत् गिरिसारसारं च भवति| गिरिवत् साराणि दृढानि पूर्वोक्तान्यष्टौ साराणि यस्य तत्तथोक्तम्| स्वरश्च घनगर्जितानुकारि भवति| सुबोधम्|| १६||
Adhikarana brAhmaM rasAyanam (17) · Śloka 17
पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम्|
पञ्चानां पञ्चमूलानां सार्द्धं पलशतद्वयम्|
जले दशगुणे पक्त्वा दशभागस्थिते रसे|
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा|
विनीय तस्मिन्निर्यूहे योजयेत् कुडवांशकम्|
त्वगेलामुस्तरजनीपिप्पल्यगरुचन्दनम्|
मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्|
यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाधिकम्|
सितोपलार्द्धभारं च पात्राणि त्रीणि सर्पिषः|
द्वे च तैलात्पचेत्सर्वं तदग्नौ लेहतां गतम्|
अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः|
ततः खजेन मथितं विदध्याद् घृतभाजने|
एतद्रसायनं ब्राह्मं समं पूर्वेण सर्वथा|
वैखानसा बालखिल्याः प्राश्य प्राप्ता नवं वयः|
आरोग्यममितं चायुर्वीततन्द्राश्रमक्लमाः||१७||
पथ्या सहस्रमित्यादिना ब्राह्मं रसायनं व्याख्यासमम्| त्रिगुणान्यामलकानि पथ्यासहस्रात्| पञ्च पञ्चमूलानि प्रथमादीनि| सर्वतश्चैकध्याद्दशगुणं पलमानेनैव न तु कुडवादिमानेनेति स्मर्त्तव्यम्| आपोथ्य जर्जरीकृत्य| विजयानामामलकानाञ्च स्विन्नानामस्थ्याकृष्य ततस्तानि तस्मिन् कषाये विनीय निक्षिप्य| मण्डूकपर्णी ब्रह्मसुवर्चला| कनकं नागकेसरं सुवर्णं च| शङ्खपुष्पी चिरिण्टी| प्लवं परिपेलवम्| तुलयाधिकमर्द्धभारः एकादशपलशतानि सितोपलानाम्| द्रवस्य पात्रोऽष्टाविंशत्यधिकं पलशतम्| द्वे चेति पात्रे| घृतभाजनं यत्र पूर्वं घृतमासीत्| सर्वथेति सर्वेण प्रकारेण| एतच्च ब्रह्मविहितं रसायनं प्राश्य वैखानासा नाम महर्षयो बालखिल्याश्चामितातीतं नवं वयः प्राप्ताः तथा आरोग्यादि च|| १७||
Adhikarana abhayAmalakAdi ghRutam (18) · Śloka 18
अभयामलकविभीतकपञ्चात्मकपञ्चमूलनिर्यूहे|
वल्लीपलाशकरसे द्विगुणे क्षीरेऽष्टगुणे च विपचेत्|
घृतस्य कुम्भं मधुकं मधूकं काकोलियुग्मञ्च बलां स्वगुप्ताम्|
सक्षीरशुक्लामृषभं सजीवं सुखाम्बुपस्तच्च पिबेद्गुणाढ्यम्||१८||
अभयादीनां क्वाथे अर्थात् स्नेहाद्विगुणे| वल्लीपलाशकस्य क्षीरविदार्या रसे द्विगुण एव| क्षीरे च स्नेहादष्टगुणे घृतस्य कुम्भं द्वादशाधिकपञ्चपलशतानि| मधुकादिकं च कल्कपरिभाषया दत्वा विपाचेत्| तच्च घृतं गुणाढ्यं बहुगुणमुष्णाम्बुपः सन् पिबेत्||१८||
Adhikarana AmalakarasAyanam (19) · Śloka 19
आमलकसहस्रं पिष्टस्वेदनविधानेन क्षीरोष्मणा सुस्विन्न मनातपशुष्कमनस्थि चूर्णयेत्|
तदामलकसहस्रस्वरस परिपीतं स्थिराजीवन्तीपुनर्नवनागबलामण्डूकपर्णीब्रह्म सुवर्चलाभीरुशङ्खपुष्पीवचापिप्पलीविडङ्गस्वगुप्तामृताग रुचन्दनमधुकमधूकपुष्पपद्मोत्पलनवमालिकायुवतियूथि काचूर्णाष्टभागसंपृक्तं पुनर्नागबलापलसहस्रस्वरसप रिपीतं छायोपशोषितं द्विगुणितसर्पिषा क्षौद्रेण क्षुद्रगुडा कृतिं कृत्वा घृतभाजनस्थं भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षमथर्ववेदविदाकृतरक्षं पक्षात्यये चोद्धृत्य कनक रजतताम्रप्रवालकालायश्चूर्णाष्टभागसंयुक्तमर्द्धकर्षाभि वृद्ध्या यथाग्नि प्रातः प्रातः प्रयोजयेदिति समानं पूर्वेण||१९||
सहस्रमामलकानमधोज्वलत् क्षीरपूर्णोखामुखयोजितच्छिद्रकुम्भस्थितं स्वेदयेत्| ततश्छायाशुष्कं चूर्णयेत्| तच्चूर्णमामलकसहस्ररसेन भावयेत्| परिपीतञ्च तत्स्थिरादिचूर्णस्याष्टभागेन योजयेत्| ततश्छायायामुपशोष्य द्विगुणकृतघृतेन क्षौद्रेण क्षुद्रगुडाकृतितनुलेहप्रायं कृत्वा घृतभाजनस्थितमन्तर्भूमेर्भस्मराशेरधः स्थापयेत् पक्षम्| सुबोधम्| प्रतिदिनमुपयोज्यस्यौषधस्य कनकादिपञ्चकचूर्णाष्टमभागो योज्यः| कालायः शस्त्रम्|| १९||
Adhikarana AmalakarasAyanamaparam (20) · Śloka 20
आमलकसहस्रमार्द्रपलाशद्रोण्यां सापिधानायां वाष्पमनु द्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्|
तानि सुस्वि न्नशीतान्युद्धृत्य निष्कुलीकृतान्यापोथ्य पिप्पलीविडङ्ग तण्डुलानां पृथगाढकेनाध्यर्द्धेन शर्करायाः षड्भिर्मधुघृत तैलानां संयोज्य घृतकुम्भे स्थापयेद्विंशतिरात्रं परं चोप योजयेदिति समानं पूर्वेण||२०||
आमलकसहस्रमित्यादि सुबोधम्| आर्द्रपलाशद्रोणीस्थापितस्वेदितान्यामलकानि आपोथ्य जर्जरीकृत्य निष्कुलीकृतानि त्याजितास्थीनि| पृथगिति पिप्पलीतण्डुलानामाढकेन विडङ्गतण्डुलानां चाढकेन संयोज्य शर्कराया अध्यर्द्धेनाढकेन घृतादीनां प्रत्येकमाढकद्वयेन च| शुष्काद् द्विगुणरूपमित्यस्य स्मर्त्तव्यम्||२०||
Adhikarana abhayAmalakAdi rasAyanam (21) · Śloka 21
अभयामलकसहस्रं पिप्पलीसहस्रयुक्तं तरुणपलाशक्षा रोदकेनाप्लाव्य शुचौ भाण्डे स्थापयेत्|
ततोऽनुगतक्षार मनातपशुष्कमस्थिरहितं चूर्णयित्वा सितोपलापादेन चतुर्गुणाभ्यां च मधुघृताभ्यां संयोज्य घृतभाजने षण्मा सानन्तर्भूमेः स्थापयित्वा परतो यथाग्निबलमुपयुञ्जीतेति समानं पूर्वेण||२१||
तरुणपलाशक्षारोदकेनाप्लाव्य स्थापितपिप्पलीसहस्रयुक्ताभयामलकसहस्रप्रयोगः सुबोधः| अनुगतक्षारं परिगतक्षारोदकम्| सितोपला अभयामलकादिचूर्णात् पादेन बोद्ध्व्या| तथा चतुर्गुणे मधुघृते|| २१||
Adhikarana AmalakacUrNarasAyanam (22) · Śloka 22
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसभावितं मधुघृताढकाभ्यां पिप्पलीचूर्णाष्ट भागेन शर्कराचतुर्भागेन च संसृष्टं घृतभाजनस्थं प्रावृषि भस्माराशौ निदध्यात्|
तच्छरदि चोपयोजयेदिति समानं पूर्वेण||२२||
आमलकस्वरसभावितानामामलकचूर्णानां प्रयोगो व्याख्यासमः| अष्टभागचतुर्भागौ भावितादामलकचूर्णात्|| २२||
Adhikarana viDa~ggataNDularasAyanam (23) · Śloka 23
विडङ्गतण्डुलानामाढकमाढकं पिप्पलीतण्डुलानामाध्यर्द्दं सितोपलानां मधुघृतैलाढकैः षड्भिरेकीकृतं घृतभाज नस्थं प्रावृषि भस्मराशाविति समानं पूर्वेण||२३||
विडङ्गतण्डुलानां प्रयोगः सुबोधः| सितोपलानामध्यर्द्धमाढकम्| मध्वादीनां प्रत्येकमाढकद्वयम्| भस्मराशौ निदध्यादिति शेषः|| २३||
Adhikarana anargalatriphalAprayogaH (24) · Śloka 24
अभयामलकविभीतकानां द्विशस्त्रिशो वा संयोजितानां पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानां निरस्थिकृतानां पलसहस्रमुलूखले सङ्क्षुद्य दधिमधुघृत तैलपललशर्करासम्पृक्तं भक्षयेदनन्नभुग्यथोक्तेन वि धिना|
प्रयोगान्ते ततो द्विगुणं कालं यवागूयूषक्षीरघृत षष्टिकान्नमाहारोऽभ्यञ्जनं सर्पिरुद्वर्तनं यवचूर्णमिति समानं पूर्वेणाभ्यधिकफलं वा||२४||
अनर्गलत्रिफलाप्रयोगः सुबोधः| द्विश इत्यभयामलकानिवाऽभ-याविभीतकानि वाऽमलकविभीतकानि वा| त्रिश इति समस्तानि वर्तन्ते| केचित्तु त्रिफलानां संयोजनं लिप्सयेच्छन्ति| सङ्क्षुद्य जर्जरीकृत्य| प्रयोगान्त इति निष्पन्न उपयोगे| तत इत्युपयोगकालाद् द्विगुणं कालं यवाग्वाद्याहारोऽभ्यञ्जनादिना|| २४||
Adhikarana cyavanaprAshaH (25) · Śloka 25
दशमूलबलामुस्तजीवकर्षभकोत्पलम्|
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः|
जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी|
पुनर्नवा द्विकाकोली काकनासामृताद्वयम्|
विदारी वृषमूलं च तदैकध्यं पलोन्मितम्|
जलद्रोणे पचेत् पञ्चधात्रीफलशतानि च|
पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च|
गृहीत्वा भर्जयेत्तैलघृताद्वादशभिः पलैः|
मत्स्यण्डिकातुलार्द्धेन युक्तं तल्लेहवत्पचेत्|
स्नेहार्द्धं मधुनः शीते तुगाक्षीर्याश्चतुःपलम्|
पिप्पल्या द्वे पले दद्याच्चतुर्जातं कणार्द्धिकम्|
अतोऽवलेहयेन्मात्रां कुटीस्थं पथ्यभोजिनम्|
इत्येषश्च्यवनप्राशो यं प्राश्य च्यवनो मुनिः|
जराजर्जरितोऽप्यासीन्नारीनयननन्दनः|
कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम्|
मूत्रशुक्राशयान् दोषान् वैस्वर्यं च व्यपोहति|
बालवृद्धक्षतक्षीणकृशानामङ्गवर्द्धनः|
मेधां स्मृतिं कान्तिमनामयत्व मायुः प्रकर्षं पवनाऽनुलोभ्यम्|
स्त्रीषु प्रहर्षं बलमिन्द्रियाणा मग्नेश्च कुर्याद्विधिनोपयुक्तः||२५||
दशमूलेत्यादिना च्यवनप्राशाख्यः| पर्णिन्यौ मुद्गपर्णी माषपर्णी| तामलकी ताली पितुन्निका च| त्रुटिः सूक्ष्मैला, जोङ्गकमगरु, काकनासा प्रसिद्धा (काकतुण्डफला), अमृताद्वयं गुदूची हरीतकी च| एतत्सर्वं पलोन्मितं कृत्वैकध्यं क्रियते| एवं षट्त्रिंशत् पलान्यौषधानाम्| धात्रीफलानां पञ्चशतानीत्येतत् जलद्रोणे पचेत्| तस्मात् पच्यमानात् पादशेषो रसः| विगतास्थीनि चामलकानि तैलघृतादेकीभूता द्वादशभिः पलैर्भर्जयेत्| भर्जितानामामलकानं रसेनसह पचनं सामर्थ्यलब्धम्| मत्स्यण्डिकाऽधिकेन गुडपाकेन कृता शर्करा| स्नेहार्द्धं मधुनः षट्पलम्| शेषं व्याख्यासमम्| अतो लेहात्| मात्रां स्तोकं कुटीस्थं पथ्यं भोजनं च पुरुषमवलेहयेत्| यं च्यवनप्राशम्| स्त्रीष्विति स्त्रीविषये|| २५||
Adhikarana triphalAprayogAH (26) · Śloka 26
मधुकेन तवक्षीर्या पिप्पल्या सिन्धुजन्मना|
पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा|
सितया वा समायुक्ता समायुक्ता रसायनम्|
त्रिफला सर्वरोगघ्नी मेधायुः स्मृतिबुद्धिदा|
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवम्|
तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्|
प्रभूतस्नेहशमनं जीर्णे तत्र प्रशस्यते|
जीवत्यरुग्ज्वरस्तस्य समाभ्यासात्समाः शतम्|
वर्षं खादेत्प्राणदां प्रातरेका मश्नन्नन्नात् पूर्वमक्षद्वयं च|
साज्यक्षौद्रं भोजनान्ते चतुष्कं धात्रीकानां तद्वयस्थापनेलम्||२६||
त्रिफलामधुकादिना लोहादिना वा पृथक् समायुक्ता संयुक्तां समां संवत्सरं युक्ता प्रयुक्ता रसायनं सर्वरोगघ्नी मेधादिदा च भवति| मधुसर्पिर्भ्यामेकीभूताभ्यां त्रिफला युज्यते| त्रैफलेन त्रिफलाकल्केन प्रातर्नवां लोहपात्रीं लिप्त्वा द्वितीयेऽहनि तं लेपं प्रातर्माक्षिकोदकेन पिबेत्| तस्मिंश्च जीर्णे प्रभूतस्नेहशमनं प्रशस्यते| एवं संवत्सराभ्यासात् संवत्सरशतं रुजया जरसा च रहितः पुरुषो जीवति| वर्षमित्यादिना कालविभागेन फलस्य प्रयोगः सुबोधः|| २६||
Adhikarana ayorasAyanam (27) · Śloka 27
अथायसानि चतुरङ्गलदीर्घविस्तृतानि तिलोत्सेधानि पत्रा णि कारयेत्|
तान्यग्निवर्णानि कृत्वाऽमलकस्वरसे निर्वापयेदेकविंशतिकृत्वः|
तेषां तादृशानां पलशतमा यस्यां स्थाल्यां प्रक्षिप्यामलकस्वरसोत्तरं कृत्वा सुपिहितं भस्मराशौ निखनेत्|
मासि मासि चोद्धृत्यायसेन दण्डेन घट्टयेत्|
शुष्यत्यामलकस्वरसं पूर्ववदावपेत्|
एवं तानि लोहपत्राणि संवत्सराद् द्रवीभवन्ति|
ततश्चोत्तरकालं कृत्वा वमनविरेचनं स्निग्धतनुरेव केवलं समन्ततोऽ ङ्गुष्ठपर्वमात्रमुखेनायसेन स्रुवेणायस एव भाजने तस्मात् कल्कीकृतात् स्रुवमेकं गृहीत्वा मधुघृताभ्यां पृथक् स्रुवेण संयोज्य प्राश्नीयात्|
जीर्णे क्षीररसयूषाणामन्य तमेन सर्पिर्मिश्रं नवं षष्टिकौदनमश्नीयात्|
अनेन विधिना वर्षमुपयुज्य वर्षमेव चान्यदप्युद्विष्टाहारो यन्त्रितात्मा कुटीं समधिवसेत्|
ततः सर्वोपतापान् जित्वा व्याधिजराम मरणशस्त्राग्नितोयविषाणामगम्यः सर्वभावेष्वतीन्द्रियो वर्षसहस्रद्वयं जीवति|
वाजिवेगो गजप्राणो भवेच्च स्मृतिबुद्धिमान्|
वाग्मी वृषः श्रुतधरो महाभोगो महाधनः||२७||
अथेत्यादि| तिलधनानि चतुरङ्गलायतविस्तृतानि शस्त्रपत्राणि एकविंशतिवारमग्निवर्णतप्तान्यामलकरसे निर्वापयेत्| ततस्तादृशानां निर्वापणेन तनुभूतानां तेषां शस्त्रपत्राणां पलशतमायस्यां स्थाल्यां प्रक्षिप्य तेनैवामलकरसेनोत्तरमधिक्षिप्तं कृत्वा सुपिहितञ्च भस्मराशौ निखनेत्| शेषं व्याख्यासमम्| समन्ततः सर्वतोदिक्कमायामविस्तराभ्यामङ्गुष्ठपर्वमात्रं मुखं निम्नप्रदेशो यस्य स्रुवस्य| अनेनौषधविधिनैव| सर्वभावेषु बाह्यात्मकेषु अन्यपुरुषानिन्द्रियेणातिकान्तोऽतीन्द्रियः|| २७||
Adhikarana atideshena tAmrAdiprayogAH (28) · Śloka 28
ताम्ररूप्यसुवर्णानामयमेव पृथग्विधिः|
द्विगुणं तद्गुणोत्कर्षं जानीयादुत्तरोत्तरम्||२८||
शस्त्रवत्ताम्रादीनामप्ययं विधिः पृथग्द्विगुणं कृत्वा द्रव्यमासनिर्वापणादिभिर्यथोत्तरं जानीयात्| तेन ताम्रस्य शस्त्रात् द्विगुणो विधिर्द्विगुण एव च गुणोत्कर्षः| ताम्राद् द्विगुणो रूप्यस्य| ततोऽपि द्विगुणः सुवर्णस्येति|| २८||
Adhikarana suvarNasyAnye prayogAH (29) · Śloka 29
हेमधात्रीफलक्षौद्रं गायत्रीपरिमन्त्रितम्|
लिहन्ननुपिबन् क्षीरं दृष्टरिष्टोऽपि जीवति||२९||
हेमादिकं गायत्र्या परिमन्त्रितं लिहन् पुरुषोऽनु पश्चाच्च क्षीरं पिबन् दृष्टिरिष्टोऽपि जीवति|| २९||
Adhikarana suvarNasyAnye prayogAH (30) · Śloka 30
सुवर्णं पद्मबीजानि मधुलाजाः प्रियङ्गवः|
क्षीरेण पीतं परममलक्ष्मविनिवारणम्||३०||
सुवर्णादिकं क्षीरेण पीतं परममलक्ष्मीनिवारणं भवति|| ३०||
Adhikarana suvarNasyAnye prayogAH (31) · Śloka 31
सपद्मबीजामलकाभयाक्षं सर्पिर्मधुभ्यां कनकं लिहन्तः|
दीर्घायुषो मन्दजरोपतायाः सरीसृपाणां च भवन्त्यगम्याः||३१||
पद्मबीजादिसंयुक्तं सुवर्णं लिहन् पुरुषो दीर्घायुष्ट्वादियुक्तो भवति|| ३१||
Adhikarana suvarNasyAnye prayogAH (32) · Śloka 32
मधुमागधिकाविडङ्गसार त्रिफलाहेमघृतं सितां च खादन्|
जरसा नवलीढदेहकान्तिः समधातुश्च समाः शतं च जीवेत्|
हेमबिल्ववचासर्पिरैकध्यमुपयोजितम्|
मेध्यमायुष्यमारोग्यकान्तिसौभाग्यपुष्टिदम्||३२||
मध्वादिकं खादन् पुरुषो जरया नवलीढा अनशिता देहस्य कान्तिर्यस्य स तथाविधः समसर्वधातुश्च सम्भवति शतं समा जीवेच्च| हेमादिकमैकध्यमुपयोजितं मेध्यं मेधायै हितमायुष्यमारोग्यादिप्रदं च|| ३२||
Adhikarana suvarNasyAnye prayogAH (33) · Śloka 33
शतावरीघृतं लीढं ससुवर्णं समाक्षिकम्|
करोति चिरजीवित्वं राजानं च वशानुगम्||३३||
शतावरीघृतं गुह्यरोगप्रतिषेधोक्तं सुवर्णमाक्षिकाभ्यं युक्तं लीढं पुरुषस्य चिरजीवित्वादियुक्तं करोति|| ३३||
Adhikarana suvarNasyAnye prayogAH (34) · Śloka 34
आयुष्कामः शङ्खपुष्प्या समेतं मेधाकामः काञ्चनं सोग्रगन्धम्|
लक्ष्मीकामः पद्मकिञ्जल्कयुक्तं युक्तं खादेत् कामकामो विदार्या||३४||
आयुष्काम इत्यादिना चत्वारः सुवर्णप्रयोगाः व्याख्यासमः||३४||
Adhikarana maNDUkaparNyAdi pa~jca rasAyanAni (35) · Śloka 35
मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम्|
रसं गुडूच्याः सह मूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः|
आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी||३५||
मण्डूकपर्णी स्वरसादिकं पृथग्यथाग्न्यग्न्यनुवृत्त्या मात्रया प्रयुञ्जीत| एतानि पञ्च रसायनान्यायुष्प्रदत्वादिगुणयुक्तानि| मण्डूकपर्णी ब्रह्मसुवर्चला| मधुयष्टीचूर्णमेव क्षीरेण| सहमूलपुष्प्या गुडूच्या रसमेव| शङ्खपुष्प्याः सुपुष्प्याः कल्कम्| तेभ्यश्च रसायनेभ्यः शङ्खपुष्पी तु विशेषेण मेध्या मेधायै हिता|| ३५||
Adhikarana sha~gkhapuShpIghRutam (36) · Śloka 36
नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः|
त्रिफलाकटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः|
त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम्|
उपयुज्य भवेज्जडोऽपि वाग्मी शृतधारी प्रतिभानवानरोगः||३६||
नलदादिभिः सुपिष्टैः स्नेहात् त्रिगुणेन शङ्खपुष्पीरसेन सक्षीरं विपक्वं घृतस्य नल्वणं द्रोणमुपयुज्य जडोऽपि वाग्मीत्यादिगुणो भवेत्| उग्रगन्धा वचा| लवणं सैन्धवम्|| ३६||
Adhikarana pa~jcAravindaghRutam (37) · Śloka 37
पेष्यैर्मृणालबिसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः|
पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम्||३७||
मृणालादिभिः पेष्यैः क्षीरेण च ससुवर्णशकलं सिद्धं सर्पिर्नाम्ना पञ्चारविन्दमिति पृथिव्यां प्रथितम्| तच्च प्रभ्रष्टपौरुषबलादिभिर्निषेव्यम्| मृणालं बिसाङ्कुरम्| बिसं बिसमूलम्| केसरं तत्पुष्पस्य| पत्रं तस्यैव बीजं च|| ३७||
Adhikarana catuShkuvalayaM sarpiH (38) · Śloka 38
यन्नालकन्ददलकेसरवद्विपक्वं नीलोत्पलस्य तदपि प्रथितं पृथिव्याम्|
सर्पिश्चतुष्कुवलयं सहिरण्यपत्रं मेध्यं गवामपि भवेत्किमु मानुषाणाम्||३८||
यत्सर्पिर्नीलोत्पलस्य नालादिचतुष्टयेन सहिरण्यपत्रं विपक्वं तदपि द्वितीयं प्रभ्रष्टपौरुषबलादिभिर्निषेव्यम्| नाम्ना चतुष्कुवलयमिति प्रथितम्| एतच्च गवामपि मेध्यं भवति| किमुत मानुषाणां स्वभावमेधावतां न भवेत्|| ३८||
Adhikarana brAhmIrasAyanam (39) · Śloka 39
ब्राह्मीवचासैन्धवशङ्खपुष्पी मत्स्याक्षकब्रह्मसुवर्चलैन्ध्रः|
वैदेहिका च त्रियवाः पृथक्स्यु र्यवौ सुवर्णस्य तिलो विषस्य|
सर्पिषश्च पलमेकत एतद्योजयेत् परिणते च घृताढ्यम्|
भोजनं समधुवत्सरमेवं शीलयन्नधिकधीस्मृतिमेधाः|
अतिक्रान्तजराव्याधितन्द्राऽऽलस्यश्रमक्लमः|
जीवत्यब्दशतं पूर्णं श्रीतेजः कान्तिदीप्तिमान्|
विशेषतः कुष्ठकिलासगुल्म विषज्वरोन्मादगरोदराणी|
अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः||३९||
ब्राह्मयादिकं यथोक्तमानमेकीकृत्य प्रतिदिनं योजयेत्| तस्मिंश्च परिणते घृताढ्यं समाक्षिकं भोजनं योजयेत्| एवं संवत्सरं शीलयन्नधिकाभिर्धीप्रभृतिभिर्युक्तोऽतिक्रान्तजरादिमांश्च पूर्णमब्दशतं जीवति| श्र्यादियुक्तः सन्| अनेन शीलितेन कुष्ठादयो विशेषतः शाम्यन्ति| ब्रह्मसुवर्चला मण्डूकपर्णी|| ३९||
Adhikarana nAgabalArasAyanam (40) · Śloka 40
यथोक्तगुणायां भूमौ जातामबालामजीर्णां शीर्णपुराण पर्णामसञ्जातान्यपर्णां तपे तपस्ये वा मासे यथोक्तेन विधिना पुष्ययुक्ते चन्द्रमसि सुमुर्हूर्त्ते नागबलां समूला मुद्धरेत्|
तस्य मूलानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमवचूर्णितं वा पयसा पिबेन्मधुघृताभ्यां वा लिह्यात्|
जीर्णे क्षीरवृत्तिरेव स्यात्|
क्षीरेणैव वा सस र्पिष्कं शालिषष्टिकमश्नीयात्|
एवं संवत्सरप्रयोगा द्वर्षशतमजर इत्यादि समानं पूर्वेण||४०||
यथोक्तगुणायामित्यादिना नागबलाप्रयोगो व्याख्यासमः| यथोक्तगुणायां भेषजकल्पोक्तगुणायां भूमौ जाताम्| तपो माघः, तपस्यः फाल्गुनः| शोभने मुहूर्त्ते|| ४०||
Adhikarana atideshena balAdirasAyanAni (41) · Śloka 41
बलातिबलाचन्दनागरुधवतिनिशखदिरकदरशाकशिंश पासनसुरसापुनर्नवानन्ताश्च वयस्थापनोक्त दशौषधयः सविदारीश्वदंष्ट्राश्वगन्धावाराहीशतावर्यो नागबलया व्या ख्याताः||४१||
अनेन च नागबलाविधानेन बलादयः पृथग्व्याख्याताः| बलादिकमपि प्रत्येकं प्रयोगादेवङ्गुणमित्यर्थः| वयस्थापना दशौषधयो महाकषायसंग्रहोक्ताः|| ४१||
Adhikarana sAravRukShANAM svarasagrahaNe vidhiH (42) · Śloka 42
तत्र सारवृक्षाणां सर्वेषां स्वरसार्थी कुष्ठचिकित्सिते खदिरकल्पमीक्षेत|
आर्द्रवृक्षासम्भवे तु सारशकलानि द्व्यङ्गुलत्र्यङ्गुलानि तनूनि चतुर्गुणेऽम्भस्याप्लाव्यातपे त्रि रात्रं स्थापयेत|
ततस्तान्युद्धृत्यान्यानि तत्र क्षिपेत्|
त्रिरा त्राच्च पुनरन्यान्येवं नवरात्रेण त्रिःप्रक्षेपणोद्भारेण च स्वरसः परिकल्पितो भवति||४२||
ननु सारवृक्षाणां स्वरसग्रहणे को विधिरित्याह-तत्रेत्यादि| कुष्ठचिकित्सिते य एव खदिरकल्प उक्तः स एव सर्वेषां सारवृक्षाणां बोद्धव्यः| यदा तु स्वरसेन प्रयोजनं न चार्द्रवृक्षस सम्भवस्तदा नवरात्रेण स्वरसविधानं सुबोधम्| इति सारवृक्षाणां स्वरसालाभे प्रतिनिधिः|| ४२||
Adhikarana phalAdInAM svarasagrahaNe vidhiH (43) · Śloka 43
फलानां पुनर्वीरुदौषधीनाञ्च यन्त्रेणोलूखलेन वा सङ्क्षुद्य निष्पीड्य स्वरसं गृह्णीयात्||४३||
फलानां वीरुधामोषधीनां च स्वरसस्यालाभे यन्त्रेणेत्यादिना स्वरसविधिः सुबोधः|| ४३||
Adhikarana parishuShkANAM svarasagrahaNe vidhiH (44) · Śloka 44
परिशुष्काणां तु चूर्णीकृतानामाढकमुदकस्याहोरात्रस्थितं विमृदितपूतं स्वरसवत् प्रयोज्यम्|
तुवरकभल्लातका दीनां पुनः पृथगेवोपदेशः||४४||
परिशुष्काणां तु योग्यानां फलानां चूर्णीकृतानामित्यादिना प्रतिनिधिः| उदकस्याढकं शुष्काद् द्विगुणं भवति| तुवरकभल्लात कादीनां स्वरसे तु पृथगेवोपदेशः क्रियते|| ४४||
Adhikarana tuvarakakalpaH (tuvarakatailam) (45) · Śloka 45
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः|
वीचीतरङ्गविक्षोभमारुतोद्भूतपल्लवाः|
तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे|
मज्ज्ञः फलेभ्यश्चादाय शोषयित्वावचूर्ण्य च|
तिलवत्पीडयेद्द्रोण्यां क्वाथयेद्वा कुसुम्भवत्|
तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात्|
अवतार्य करीषे च पक्षमात्रं निधापयेत्|
स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य यत्नवान्|
चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्|
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे|
'मज्जासार महावीर्य सर्वान् धातून् विशोधय|
शङ्खचक्रगदापाणीस्त्वामाज्ञापयतेऽच्युतः|
' तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः|
सायमस्नेहलवणां यवागूं शीतलां पिबेत्|
पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यानि वर्जयेत्|
पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते||४५||
वृक्ष इत्यादिना तुवरककल्पो व्याख्यासमः| तेभ्य इति तुवरकवृक्षेभ्यः| अम्बुदागमः प्रावृट्| आसलिलक्षयात् सलिलस्य क्षयो यावत्तावत्| कुसुम्भवत् क्वाथितेन तैलेन सहायातं यदुदकं तस्य क्षयपर्यन्तमित्यर्थः| करीषं शुष्कगोमयम्| चतुर्थभक्तान्तरति इति| चतुर्थेन भक्तेनान्तरितो यो मनुष्यः स पिबेत्| तेनैवम्| यस्मिन्नहनि प्रातस्तैलमुपयुञ्जीत तस्मिन् सायं भुक्तं द्वितीयेऽयुभयकालमेवं त्रयो भक्तास्तृतीयेऽह्नि पुनः प्रातस्तैलमेवं चतुर्थो भक्त अन्तरितः| पुनः सायं भोजनं पुनर्द्वितीयेऽहन्युभयकालं भोजनमनेन प्रकारेण पञ्चहानि तैलं पिबेत्| वर्ज्यानि च वर्जयेत्| 'मज्जासार' इत्यादिस्तैलस्य पानाय मन्त्रः| तैलपानदिवसे तु स्नेहलवणवियुक्तां यवागूं पिबेत्|| ४५||
Adhikarana khadireNa tuvarakatailopayogaH (46) · Śloka 46
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्|
निहितं पूर्ववत् पक्षं पिबेन्मासं सुयन्त्रितः|
तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्|
भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभिक्षितम्|
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम्||४६||
तदेवेति तुवरकतैलम्| पूर्ववदिति करीषे पक्षमात्रं निधापयेत्| पक्षादुद्धत्य मासं पिबेत्| चतुर्थभक्तान्तरित उक्तः| अनेन प्रयोगेण भिन्नस्वरत्वादिगुणान् कुष्ठानाशुतरं साधयेच्चिकित्सेत्||४६||
Adhikarana tasyaiva sarpirmadhubhyAM prayogaH (47) · Śloka 47
सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना|
पक्षं मांसरसाहारं करोति द्विशतायुषम्|
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्|
वलीपलितनिर्भुक्तस्थिरस्मृतिकचद्विजम्|
वपुष्यन्तं श्रुतधरं करोति त्रिशतायुषम्||४७||
तदेव तैलं खदिरसंयोगाद्विना सर्पिर्मधुभ्यां पीतं द्विशतायुषं करोति| अस्यैव नस्योपयोगः सुबोधः|| ४७||
Adhikarana tuvarakamajj~jopayogaH (48) · Śloka 48
अन्तर्धूमं तस्य मज्जा सुदग्धः क्षिप्तस्तैले सैन्धवं चाग्निवर्णम्|
तुल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन||४८||
तस्य तुवरस्यान्तर्धूमं दग्धो मज्जा सैन्धवं चाग्निवर्णं तप्तं तैलं तुल्यं क्षिप्तमञ्जनेनार्मादीन् हन्यात्|| ४८||
Adhikarana ekAntarastuvarakatailaprayogaH (49) · Śloka 49
एकान्तरं तौवरकं च तैलं पिबेद्धिताशी नियमेन मासम्|
प्रभिन्नकोष्ठो गलिताङ्गदेश स्त्वचं त्यजेत्सर्प इवाशु जीर्णाम्||४९||
एकदिनान्तरेण तौवरकतैलस्य मासमुपयोगः सुबोधः|| ४९||
Adhikarana tuvarakaprayogAntaram (50) · Śloka 50
साधयेत् षोडशगुणे सलिले तुवराढकम्|
अष्टांशशेषे विस्राव्य सङ्क्षुद्योलूखले ततः|
शुष्कारग्वधवल्कपादरजसा व्यामिश्रितं कल्कितं तस्य क्वाथजलैरुदुम्बरसमान् छायाविशुष्कान् गुडान्|
कुर्यादेकतमञ्च सार्द्धमथवा गोवारिणालोडितं कुष्ठी तद्दिवसस्थितो निरशनः सूर्ये गतेऽस्तं पिबेत्|
तावदेव च तथैव च भूयः पाययेत्तमरुणोदयकाले|
अप्यजीर्णमविचिन्त्यवमिं वा भेषजं पुरुषदोषबलज्ञः|
मध्याह्नेद्याद्भूरि निष्पावतैलं कङ्गूकूरं शिग्रुकन्दोपदंशम्|
दध्नायुक्तं स्वल्पसिन्धूत्थचूर्णं गव्येनानुस्तोकतक्राम्बुपायी|
तैलाक्तगात्रो दिवसान्तरं च कङ्ग्विष्टिकाचूर्णकृतप्रघर्षः|
स्नायात् सुखाम्भोऽभिरमद्यमांस स्त्रीसङ्गतिः स्यात्त्रिगुणं च योगात्|
उपयुज्य योगमखिलं प्रतिदिनमेव द्विकालमभियुक्तः|
कुष्ठी कुष्ठमपोहति विशीर्णकर्णौष्ठनासमपि||५०||
साधयेदित्यादि सुबोधम्| शुष्कारग्वधस्य वल्कस्त्वक् तस्य तु पादो मूलं, तयोः रजश्चूर्णम्| उदुम्बरस्य फलेन समान् गुडान् पिण्डान्| गोवारि गोमूत्रम्| अजीर्णमित्यौषधमचिन्त्यवमिं वा| कङ्गूकूरं प्रियङ्ग्वोदनम्| (नि) ओदनाङ्कूरयोः कूरम्| तच्च प्रभूतनिष्पावतैलमेवं शिग्रुकन्दोपदंशं च (शिग्रुकन्दावुपदंशौ यस्य तत् शिग्रुकन्दोपदंशम्)| गव्येनेति दध्नो विशेषेण| कङ्गु पिष्टमयी, इष्टिका कंग्विष्टिका, प्रयोगाच्च त्रिगुणं कालं मद्यादिरहितः स्यात्| सुबोधम्| इति तुवरककल्पः| 'कंग्विष्टिका कल्ककृतप्रघर्षः' इति च पाठः|| ५०||
Adhikarana bhallAtakakalpaH sahasrabhallAtakaprayogaH (51) · Śloka 51
अथ भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवी र्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्ले वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत्|
तानि चतुर्मासस्थि तानि सहे सहस्ये वा मासे प्रयोक्तुमारभेत|
शीतस्निग्ध मधुरोपस्कृतशरीरः पूर्वं दश भल्लातकान्यापोथ्याष्ट गुणेनाम्भसा साधु साधयेत्|
तेषां रसमष्टभागावशिष्ट मनुष्णं सपयस्कं सर्पिर्गण्डूषाभ्यक्तौष्ठतालुजिह्वः प्रातः पिबेत्|
एवमेतानि दशभल्लातकान्येकैकोत्कर्षापकर्षे णात्रिंशत्प्रयोज्यानि|
विधिनानेन सहस्रप्रयोगस्त्रिगुणश्च कालो घृतक्षीराभ्यां शालिषष्टिकमशनमेवं विशेषा द्विगतकुष्ठदुर्न्नामकृमिप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण||५१||
अथेत्यादिना भल्लातककल्पः| आमयोऽत्र दोषः, आपूर्णं सम्पूर्णम्, शुचिर्ज्येष्ठो मासः, शुक्लः आषाढः, वल्लो राशिः, सहो मार्गशीर्षः, सहस्यः पौषः| प्रारम्भे दश, उपरि त्वेकैकस्योत्कर्षः| एवं त्रिंशन्निष्पत्तिः| अपकर्षस्य त्रिंशदारम्भे| दशनिष्पत्तौ च| एवं प्रथमेऽह्नि दश भल्लातकानि| द्वितीये एकादश| तृतीये द्वादशैवं प्रत्यहमेकैकवृद्ध्या यावद्विंशमहः| विंशेऽह्नि एकोनत्रिंशत् भल्लातकानि भवन्ति| एतावता ह्योकीकृत्य गणनया नवत्यधिकं शतत्रयं भल्लातकानामुपयुक्तं भवति| तत एकविंशेऽह्नि त्रिंशत्| पूर्वैरेकीकृत्य विंशत्यधिकं शतचतुष्टयं भवति| ततः सहस्रयोगसामर्थ्यात् त्रिंशतश्चोत्कर्षप्रतिषेधात् द्वाविंशाहः प्रभृति यावत् षड्विंशमहस्तावच्च प्रत्यहं त्रिंशस्त्रिंशत्| ततः सप्तविंशाहः प्रभृति एकैकेनोत्कर्षस्यापकर्षः कार्यः| एकादशभिश्चोत्कर्षस्यारब्धत्वादपकर्षस्तावद्भिरेव साध्यते| तेन त्रिंशत्सप्तविंशे| एकोनत्रिंशदष्टाविंशे| अष्टाविंशतिरेकोनत्रिंशे| सप्तविंशतिस्त्रिंशे| एवं क्रमेण प्रत्यहमेकैकस्यापकर्षेण सप्तचत्वारिंशे ह्येकादश| एवमपि सहस्रस्य दशावशिष्यते तानि त्वष्टचत्वारिंशे| तैश्च सहस्रं पूर्यते| प्रयोगाच्च त्रिगुणः कालो घृताद्यशनम्| विगताः कुष्ठादयो यस्य स तथोक्तः| अपरे त्वेकैकस्योत्कर्षेण त्रिंशत्प्राप्त्या अपकर्षेण पुनर्दश प्राप्त्या उत्कर्षापकर्षाभ्यां सहस्रं पूर्यत इति|| ५१||
Adhikarana vidhyantaram (52) · Śloka 52
पूर्वमेकैकभल्लातकक्वाथं सपयस्कं पिबेदेकैकं च भल्लातकमभिवर्द्धयेद्यावत् पञ्च|
ततः पञ्च पञ्च वर्द्धये द्यावत् सप्ततिः|
प्राप्य च सप्ततिमपकर्षयेत्|
भूयः पञ्च पञ्च यावत् पञ्च|
पञ्चभ्यश्चैकैकं यावदेकम्|
विधि नानेन सहस्रं प्रयोग इत्यादि समानं पूर्वेण||५२||
द्वितीयसहस्रप्रयोगे तु पूर्वमेव प्रथममेव एकभल्लातकस्यक्वाथं पिबेत्| ततः क्रमेण प्रत्यहमेकैकं वर्द्धयेद्यावत्पञ्च भल्लातकानि| एवं प्रथममेकं द्वितीये द्वे| एवं त्र्यादिष्वेकVवृद्धया पञ्चमे पञ्च| एवं पञ्चाभिरहोभिः पञ्चदश भल्लातकान्युपयुक्तानि भवन्ति| ततः षष्ठेप्रभृतिषु पञ्च पञ्चभिर्वर्द्धयेद्यावत् सप्ततिः| तेन षष्ठे दश| सप्तमे पञ्चदश| अष्टमे विंशतिरनेन क्रमेणाष्टादशे सप्ततिर्भवति| एतावता पूर्वैरेकीकृत्य पञ्चशतानि पञ्चत्रिंशदधिकानि भवन्ति| ततः क्रमेण पञ्च पञ्चभिरपकर्षेद्यावत् पञ्च| तेनैकोनविंशे पञ्चषष्टिरित्येवमादिना पञ्चापकर्षक्रमेणैकत्रिंशे पञ्च भवन्ति| एवमेतानि पञ्चपञ्चाशदधिकानि चत्वारि शतानि पूर्वैरेकीकृत्य नवशतानि नवत्यधिकान्युपयुक्तानि भवन्ति| तत एकैकमपकर्षेद्यावदेकम्| अनेन द्वात्रिंशेऽह्नि चत्वारि भवन्ति| त्रयस्त्रिंशे त्रीणि| चतुस्त्रिंशे द्वे| पञ्च त्रिंशे एकमिति दश| पूर्वैरेकीकृत्य सहस्रं भवति| प्रयोग इत्यादि पूर्वेण कल्पेन समानम्|| ५२||
Adhikarana dvisahasrabhallAtakaprayogaH (53) · Śloka 53
सप्ततिवच्च शतमुपयुञ्जीत|
तथा च सहस्रद्वयम्|
प्रयोग इत्यादि समानं पूर्वेण द्विगुणस्त्वायुषः कालः||५३||
सप्ततिवच्च पञ्चपञ्चवृद्ध्या शतमपि यावत् प्रयोगः कर्त्तव्यः| तेनास्मिन् पूर्ववत् स्थितेऽष्टादशेऽह्नि सप्तत्याः प्रयोगे एकोनविंशे पञ्चसप्ततिः| त्रिंशे अशीतिः| एकविंशे पञ्चाशीतिः| द्वाविंशे नवतिः| त्रयोविंशे पञ्चनवतिः| चतुर्विंशे शतम्| पञ्चविंशे पञ्चनवतिः| षड्विंशे नवतिः| एवं पञ्चापकर्षक्रमेण द्वे सहस्रे पूरयितव्ये| आयुर्द्विगुणः कालः पूर्वस्मात्|| ५३||
Adhikarana bhallAtakatailaprayogaH (54) · Śloka 54
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमा वाकण्ठनिखातस्य स्नेहभवितस्य दृढस्योपरि कुम्भ स्यारोप्योडुपेनापिधाय कृष्णमृदावलिप्तं गोमयाग्निनो पस्वेदयेत्|
तेषां यः स्वरसः कुम्भं प्रपद्यते तमष्टभाग मधुसंयुक्तं द्विगुणितघृतमद्यात्|
त्रिगुणश्च कालो घृत क्षीराभ्यामित्यादि समानं पूर्वेण||५४||
भल्लातकानामित्यादि| भूमावामुखं निखातस्य स्नेहभावितस्य दृढस्य कुम्भस्योपरि जर्जरीकृतभल्लातकपूर्णं पिष्टस्वेदनमारोप्य छिद्रमुडुपेनापिधाय कृष्णमृदा सर्वतो लिप्तं सत् स्वेदयेत्| ततः स्विद्यमानाद्रसो भूमिनिखाते कुम्भ आगच्छति| उडुपः तॄणमूटकः| शेषं व्याख्यासमम्|| ५४||
Adhikarana vidhyatideshaH (55) · Śloka 55
अनेनैव विधिना भल्लातकस्य रसं गृहीत्वा केवलमेव मासमेकं प्रयुञ्जीत|
त्रिगुणश्च काल इत्यादि समानं पूर्वेण|
मासि मासि वर्षशतमायुषोऽभिवृद्धिः|
एवं दश मासानुपयुज्य वर्षसहस्रमायुर्भवति||५५||
अनेनेत्यादेर्मधुघृताभ्यां विना केवलस्वरसप्रयोगः सुबोधः||५५||
Adhikarana shatapAkaM bhallAtakatailam (56) · Śloka 56
भल्लातकतैलपात्रं सपयस्कं मधुकाक्षमात्रेण शतपाक मुपयुञ्जीत|
त्रिगुणञ्च काल इत्यादि समानं पूर्वेण||५६||
भल्लातकतैलस्य पात्रं क्षीरेण सह शतं वारान् पक्त्व मधुयष्टीकर्षमात्रेण संयोज्योपयुञ्जीत पूर्वतुल्यगुणम्|| ५६||
Adhikarana bhallAtakatailapAkaH (57) · Śloka 57
भल्लातकतैलं कृष्णतिलतैलं सर्पिरामलकरसोऽस नादिसारकषाय इत्येषां द्रोणं द्रोणं त्रिफलात्रिकटुक विडङ्गसारचित्रकहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमधुकवि षातिविषारसाञ्जनप्रियङ्गूनां पालिकाभागास्तदैकध्यं स्नेह पाकविधिना विपाच्यावतार्य परिपूय चानुगुप्तं निदध्यात्|
तत उपस्कृतशरीरः प्रातः प्रातः पाणिशुक्तिमात्रक्षौद्रेण प्रतिसंसृज्योपयुञ्जीत|
जीर्णे मुद्गामलकयूषेणालवणेन सर्पिष्मता खदिरोदकसिद्धं मृदुमोदनमश्नीयात्|
खदि रोदकेनोदककार्याणीत्येवमतो द्रोणमुपयुज्य विगतकु ष्ठदुर्नामेत्यादि समानं पूर्वेण||५७||
भल्लातकतैलादीनां द्रोणं द्रोणमिति प्रत्येकं द्रोणः| पञ्चानाञ्च| त्रिफलादीनां पालिका भागा इत्यादि व्याख्यासमम्| परिपूय परिस्राव्य| उपस्कृतदेशे यथोक्तेन शीतस्निग्धादिना कृतसंस्कारः| पाणिशुक्तिर्हस्तपुटं न तु मानसङ्ख्योक्ता शुक्तिः| उदककार्याणि स्नानपानादीनि| अतो रसायनाद् द्रोणमवश्यमुपयोक्तव्यम्||५७||
Adhikarana bhallAtakaghRutaprAshaH (58) · Śloka 58
पुष्टानि पाकेन परिच्युतानि भल्लातकान्याढकसम्मितानि|
घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन|
जर्जराणि विपचेज्जलकुम्भे पादशेषघृतगालितशीतम्|
तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे|
सर्पिः पक्वं तेन तुल्यप्रमाणं युञ्ज्यात् स्वेच्छं शर्कराया रजोभिः|
एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम्|
तममृतरसपाकं यः प्रगे प्राशमश्न न्ननुपिबति यथेष्टं वादि दुग्धं रसं वा|
स्मृतिमतिबलमेधासत्त्वसारैरुपेतः कनकनिकषगौरः सोऽश्नुते दीर्घमायुः||५८||
पुष्टानीत्यादिना भल्लातकघृतप्राशो व्याख्यासमः| संशोष्य च मारुतेनेत्यातपपरिहाराय| तेनेति क्षीरेण तुल्यं सर्पिः शर्कराया रजोभिश्चूर्णेन यथेच्छं प्रकृत्यनुसारेण| प्राशो लेहः| (भल्लातकानां द्विधा भिन्नानां इष्टिकाचूर्णकणैर्घर्षणं कार्यमित्यपरे)|| ५८||
Adhikarana siddhatailam (58) · Śloka 50
द्रोणेऽम्भसो व्रणकृतां त्रिशताद्विपक्वात् क्वाथाढके पलसमैस्तिलतैलपात्रम्|
तिक्ताविषाद्वयवरागिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिषूदनाय||५०||
द्रोणेऽम्भसा इत्यादि सुबोधम्| व्रणकृतो भल्लातकानि| तिलतैलयोर्मिश्रितयोः पात्रमाढकमष्टाविंशत्यधिकं पलशतम्| तिक्ता कटुकरोहिणी, विषाद्वयं विषातिविषा च| गिरिजन्म शिलाजतु, तार्क्ष्यं वट्टमाक्षिकम्|| ५८||
Adhikarana AmalakAdiBiH prayogaH (59) · Śloka 59
सहामलकशुक्तिभिर्दधिसरेण तैलेन वा गुडेन पयसा घृतेन यवसक्तुभिर्वा सह|
तिलेन सह माक्षिकेण पललेन सूपेन वा वपुष्करमरुष्करं परममेध्यमायुष्करम्||५९||
आमलकशुक्त्यादिभिः पृथग्युतमरुष्करं भल्लातकं मेध्यं परममायुष्करं च| आमलकशुक्तय आमलकदलानि|| ५९||
Adhikarana bhallAtakakalpaprashaMsA (60) · Śloka 60
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च|
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि|
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|
यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम्|
वातातपविधानेऽपि विशेषेण विवर्जयेत्|
कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम्||६०||
भल्लातकानीत्यादयो ये भल्लातकनिषेविणस्तेषामपायरक्षा विधेयेति प्रदर्शयते-एकादशभल्लातकप्रयोगाणि वातातपविधानेऽप्येवङ्गुणानि किमु प्रकृते कुटीप्रयोगे| एषामुपयोगे विशेषेण कुलत्थादिकं वर्जयेत्| इति भल्लातककल्पः|| ६०||
Adhikarana pippalIrasAyanam prathamaH prayogaH (61) · Śloka 61
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||६१||
अथ पिप्पल्यः-यो नरो रसायनगुणान दीर्घायुस्मृतिमेधादीन् अन्विष्यति स संवत्सरमेकं पञ्च पञ्च वा अष्टावष्टौ वा सप्त सप्त वा दश दश वा पिप्पलीर्माक्षिकसर्पिषा युक्ताः प्रयोजयेदित्येकः पिप्पलीनां प्रयोगः| (इदमत्र चिन्त्यते-पञ्चाष्टौ सप्तदश वा इति किं क्रमभेदतः सप्रयोजनं आहोस्वित् श्लोकबन्धानुरोधत इति| अस्ति चेत् प्रयोजनं तद्वाच्यम्, उच्यते| यद्येवमप्यत्र पञ्च सप्ताष्टौ दश वेति नियत एव क्रमः स्यात्तथापि क्रमं तु भिन्दन्नेतत् ज्ञापयति त्रिचतुरा अप्युपयोक्तव्याः| षड् वा नव वा दशकात् परं नाप्युपयोज्या दोषादीनपेक्ष्योल्लेख्याऽप्यभिहितमुत्कर्षापकर्षौ विधेयौ दोषानुमानायत्तत्वात् क्रियायाः| न हयमानज्ञो भिषक् दोषा दीनां व्याधिप्रतिक्रियायां कं विदध्यादिति| इत्येकः प्रयोगः| इति जेज्जटः)|| ६१||
Adhikarana dvitIyaprayogaH (62) · Śloka 62
तिस्रस्तिस्रस्तु पूर्वाह्ने भुक्त्वाऽग्रे भोजनस्य च|
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः|
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा||६२||
द्वितीयस्तु रसायनगुणैषिणा पुरुषेण पलाशक्षारोदकभाविताः पिप्पल्यः तिस्रः पूर्वाह्णे तिस्रो भोजनारम्भे तिस्रश्च भोजनान्ते मधुना सह प्रयोज्या इति द्वितीयः प्रयोगः| (तिस्रस्तिस्रस्तु पूर्वाह्ण इत्यत्र न ह्येकस्य प्रयोक्तुरयं क्रमः किं तर्हि प्रयोक्तॄन् भिन्नानपेक्ष्य दोषादिवशात्केनचित्पूर्वाह्णे केनचिद्भुक्त्वा केनचिद्भोजनस्याग्र इति| अत्र कफप्रकृतिना पूर्वाह्णे उत्कृष्टदोषादिषु व्याधिषु मध्येष्वग्रे भोजनस्य| अल्पेषु भक्त्वेति जेज्जटः)|| ६२||
Adhikarana sahasrapippalIprayogaH (63) · Śloka 63
क्रमवृश्या दशाहानि दशपैप्पलिकं दिनम्|
वर्द्धयेत् पयसा सार्द्ध तथैवापनयेत् पुनः|
जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा|
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्|
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः|
शीतीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||६३||
तृतीयस्तु प्रथमेऽह्नि दश पिप्पल्यो यथोचितेन क्षीरेणं सह| द्वितीयेऽह्नि विंशतिर्द्विगुणञ्च क्षीरम्| तृतीये त्रिंशत् त्रिगुणं क्षीरमेवं क्षीरेण सह दशाभिवृद्ध्या दशमेऽह्नि शतं पिप्पलीनां दशगुणं च क्षीरमेतावता सार्द्धानि पञ्चशतानि पिप्पलीनामुपयुक्तं भवन्ति| तत्रैकादशे नवतिर्नवगुणं क्षीरमिति| पुनर्दशापकर्षक्रमेणैकोनविंशहोभिः सहस्रं पूर्यते| यदा च पिप्पल्यः प्रयुज्यन्ते तदा पिष्टाः ता इत्यादि क्रमेण प्रयोज्याः| व्याख्यासमम्| इति तृतीयः प्रयोगः| (वर्द्धयेत्पयसा सार्द्धमित्यस्यायमभिप्रायः| यावता क्षीरेण शतमालोड्यते तावता यावता च दश तावता क्षीरेणेति क्षीरस्यापि वृद्धिहानिं वर्द्धयेत् पयसा सार्द्धमित्यत एवाह| शीतीकृताहीनबलैः शीतकषायकल्पनयेत्यर्थः| इति जेज्जटः)|| ६३||
Adhikarana dvisahasrapippalIprayogaH (64) · Śloka 64
तद्वच्च छागदुग्धेन द्वे सहस्रे प्रयोजयेत्||६४||
तद्वदिति| छागस्य दुग्धेन क्षीरेण दशाभिवृद्धयपकर्षाभ्याम्| तेनात्र पञ्चदशभिरहोभिः सपञ्चाशत्सहस्रं भवति| पुनश्चतुर्दशभिरेवं क्षीरेण सह दशापकर्षक्रमेण द्वितीयं सहस्रं भवति| इति चतुर्थः प्रयोगः|| ६४||
Adhikarana pippalIrasAyanaphalam (65) · Śloka 65
एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान्|
यक्ष्ममेहग्रहण्यर्शः पाण्डुत्वविषमज्वरान्|
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम्||६५||
एभिरिति चतुर्भिः प्रयोगैः पिप्पल्यः कासादीन् घ्नन्ति| इति पिप्पलीकल्पः|| ६५||
Adhikarana viDa~ggarasAyanam (66) · Śloka 66
विडङ्गचूर्णं यष्टीमधुकचूर्णयुक्तं शीततोयेन समांशमुप युञ्जीत|
जीर्णं मुद्गयूषेणालवणेन सघृतमोदनमश्नीयात्|
तेन विशेषाद्विगतकृमिदुर्नामकुष्ठप्रमेहमेदोदोषो वर्षशत मजर इत्यादि समानं पूर्वेण|
विडङ्गचुर्णं क्षौद्रभल्ला तकक्वाथाभ्यां मध्वामलकरसाभ्यां गुडूचीक्वाथेन च|
एतांश्चतुरो योगान् मासमुपयुञ्जीतेति समानं पूर्वेण|
सर्वेषु च मासि मासि वर्षशतमायुषोऽभिवृद्धिः||६६||
इतो विडङ्गानि| विडङ्गानां मधुयष्टिशीततोयाभ्यामेको योगः| द्वितीयः क्षौद्रभल्लातकक्वाथाभ्याम्| तृतीयो माक्षिकामलकरसाभ्याम्| चतुर्थो गुडूचीक्वाथेन| एषामन्यतमः प्रयोगो यत्सङ्ख्यान् मासानुपयुज्यते तत्सङ्ख्यानि वर्षशतान्यायुरभिवर्द्धयति| इति विडङ्गकल्पः|| ६६||
Adhikarana alambusAkalpaH (67) · Śloka 67
अलम्बसां स्वेन रसेन भावितां पृथग्घृतक्षीरमधूष्णवारिभिः|
पिबेत्तथा काञ्जिकतक्रमस्तुभि र्भगन्दरोरुग्रहगुल्मकासवान्|
उष्णा विपाके कटुका कषायमधुरा रसे|
अत्यन्तदीपनी मेध्या वातश्लेष्महरा च सा|
वर्षोपयोगात् कुरुते नरं वर्षशतायुषम्|
दृढेन्द्रियानलबलं निर्वलीपलितामयम्||६७||
अलम्बुसायाः स्वरसभाविताया घृतादिभिः सप्त प्रयोगाः| सा चालम्बुसोष्णादिगुणा| वर्षमुपयुक्ता वर्षशतायुषं नरं कुरुते| दृढेन्द्रियं दृढानलं वल्यादित्रयरहितञ्च| इत्यलम्बुसाकल्पः||६७||
Adhikarana somarAjIkalpaH prathamaH prayogaH (68) · Śloka 68
श्वेतावल्गुजफलान्यातपशुष्काणि चूर्णयित्वा तत्तुल्यगुडेन सङ्क्षुद्य घृतकुम्भे धान्यराशौ सप्तरात्रं निदध्यात्|
ततोऽ नुदिते भास्वति यथाबलं मात्रां सुखोदकानुपानामुपयोज येत्|
जीर्णे सुखाम्बुपरिषिक्ताः शालिषष्टिकौदनं सश र्करेण पयसाऽश्नीयात्|
तस्य मासप्रयोगाद्विशेषेण विग तकुष्ठो ग्रहणधारणवान् वर्षशतमजर इत्यादि समानं पूर्वेण|
प्रयोगश्चोर्ध्वं द्विगुणं परिहारः||६८||
श्वेतावल्गुजफलानीत्यादि सुबोधम्| सङ्ह्क्षुद्येति गुडेनालोड्य| अनुदिते भास्वतीत्यतिप्रभाते| वाकुचिका सोमराज्यवल्गुज इति पर्यायाः|| ६८||
Adhikarana dvitIyaH prayogaH (69) · Śloka 69
वाकुचिका कर्षचूर्णं सुखाम्बुना पिबेत्|
पीत्वा चातपे निर्वातोष्णे वा गर्भगृहे तिष्ठेदपराह्णे तद्वदेव स्नानमशनं च|
यूषरसाभ्यां वा|
तस्य त्रिसप्तरात्रप्रयोगाद्विगतकुष्ठ इत्यादि समानं पूर्वेण|
त्वग्रोमकेशदशनान् नखांश्च मुक्त्वा पुनर्नवान् लभते|
स्वरवर्णबलोत्साहं नवं वयो नष्टपलितं च||६९||
वाकुचीचूर्णं प्रातः पीत्वा स्नानं तथैव स्नानमशनं च| यूषरसाभ्यां वाशनमुपयुञ्जीत| एवं त्रिसप्तरात्रमस्याः प्रयोगः| अनेन च पूर्वस्थितान् त्वगादींस्त्यक्त्वा नवान् लभते स्वरादिकञ्च नष्टपलितं नवं वयश्च लभते|| ६९||
Adhikarana tRutIyaH prayogaH (70) · Śloka 70
पलानि दश बाकुच्या दशैव च फलत्रयात्|
सप्त क्रिमिघ्नादयसस्त्रीणि द्वे गिरिसम्भवात्|
पुरुपुष्करमूलाभ्यामाहरेत पलं पलम्|
सूक्ष्मैलार्द्धपलं व्योषघनकेसरकुङ्कुमम्|
लोध्रत्वक्पत्रयष्ट्याह्वचित्रकं कार्षिकं पृथक्|
शतं भल्लातकानां च सर्वं खण्डसमांशकम्|
चूर्णयेदथ तन्मात्रां भक्षयेत् पालिकीं पराम्|
यथेष्टचेष्टो लभते वर्षाद्रासायनान् गुणान्|
सर्वरोगान् विजयते त्वग्विकारान् विशेषतः|
अर्शोभगन्दरश्वासकासपाण्ड्वामयक्रिमीन्|
गुल्मप्लीहाश्मरीवर्ध्मप्रमेहारुचिपीनसान्|
मन्दानलत्वं कृशतां शोफग्रन्थ्यर्बुदानपि||७०||
पलानीत्यादिना खण्डसमः सुबोधः| अस्य मात्रा पालिकी परा उत्कृष्टा| पलादूर्ध्वं नैवोपयोज्या| अथवा त्रिदोषाद्यपेक्षम्| यथेष्टचेष्टो निर्यन्त्रणः| रसायनगुणाः दीर्घायुस्मृत्यादय इहैवोक्ताः| ग्रन्थ्यर्बुदान्तान् विजयत इति सम्बन्धः|| ७०||
Adhikarana caturthaH prayogaH (71) · Śloka 71
वाकुचिकाफलानि गोमूत्रे सप्तरात्रं वासयेत्|
ततो निस्तु षीकृत्य छायायां विशोषयित्वा सुसूक्ष्मं च सञ्चूर्ण्य त्र्यहं त्र्यहं क्रमशो भावयेत् त्रिफलाक्वाथेन कारवल्लीवासा गुडूचीभृङ्गराजस्वरसैः पृथक् पृथक् खदिरासनराजवृक्ष पिचुमन्दक्वाथैः|
तस्य पीतः प्रतिदिनं धात्रीफलरसाप्लुतः|
कर्षः सर्वामयान् हन्ति त्वग्विकारान्विशेषतः||७१||
वाकुच्या गोमूत्राध्युषितायाश्चूर्णं त्र्यहं त्रिफलाक्वाथेन भावयेत्| ततः कारवेल्लादीनां पञ्चानां स्वरसैः क्रमेण त्र्यहं त्र्यहम्| ततः खदिरादीनां चतुर्णां पृथक्क्वाथैस्त्र्यहम्| तस्यैवं भावितस्य वाकुचीचूर्णस्य कर्षो धात्रीरसेनाप्लुतः सन् पीतः सर्वामयान् हन्ति विशेषतस्त्वग्विकारान्|| ७१||
Adhikarana pa~jcamaH prayogaH (72) · Śloka 72
असनखदिरयूषैर्भावितां सोमराजीं मधुघृतशिखिपथ्यालोहचूर्णैरुपेताम्|
शरदमवलिहानः पारिणामान् विकारां स्त्यजति मितहिताशी तद्वदाहारजातान्||७२||
असनेत्यादि| यूषशब्दो निर्यूहवाचकोऽसनखदिराभ्यां सम्बध्यते| तैर्भावितामनन्तरञ्च मध्वादिरुपेतां सोमरजीं शरदं संवत्सरं लिहानः परिणामे वार्द्धके भवान् विकारांस्त्यजति तथैव चाहारजातान्| तेन परिणामानाहारजातानभयानपि त्यजतीत्यर्थः| शिखीचित्रकः|| ७२||
Adhikarana ShaShThaH prayogaH (73) · Śloka 73
तीव्रेण कुष्ठेन परीतमूर्ति र्यः सोमराजीं नियमेन खादेत्|
संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषाऽतिशेते||७३||
तीव्रेणेत्यादिना कृष्णतिलैः सह सोमराज्याः प्रयोगः सुबोधः| य एवं सोमराजीं खादेत्स सोमराजीं वपुषा कान्त्याऽतिशेते|| ७३||
Adhikarana saptamaH prayogaH (74) · Śloka 74
ये सोमराज्या वितुषीकृताया श्चूर्णैरुपेतात् पयसः सुजातात्|
उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते|
ते कुष्ठिनः पक्ष्मदरिद्रनेत्रा विशीर्णकर्णाङ्गलिनासिका वा|
विहाय वैरूप्यमपास्य रूपं पुनः प्ररूढा इव भान्ति वृक्षाः||७४||
ये सोमराज्या इत्यादिना सोमराजीचूर्णयुक्तसुजातक्षीरोद्भवस्य नवनीतस्य तत्तक्रानुपानस्य प्रयोगः सुबोधः|| ७४||
Adhikarana aShTamaH prayogaH (75) · Śloka 75
खदिराम्भसा पिबेद्वा रविसेवी तां तया यवागूं वा|
गायत्रीजलसिद्धां कुष्ठी तत्तोयकार्यकरः||७५||
अथवा तां सोमराजीं खदिरोदकेन कुष्ठी पिबेत्| रविसेवी सूर्यतापसेवी| अथवा गायत्रीजलसिद्धां खदिरक्वाथसिद्धां यवागूं तयेति सोमराज्य सह पिबेत् कुष्ठी तत्तोयकार्यकरः खदिरोदकक्रियः सन्|| ७५||
Adhikarana navamaH prayogaH (76) · Śloka 76
गजलिण्डक्षारयुता तत्क्षारपायिनो विलेपि भुजः|
श्वित्राणि सोमराजी प्रसह्य हन्यात प्रलेपाच्च||७६||
गजपुरीषक्षारेण युता सोमराजी तत्क्षारपायिनो हस्तिपुरीषक्षारोदकपानशीलस्य पुंसो विलेपिकाभुजश्च श्वित्राणी प्रसह्याक्रम्य हन्यात्| न केवलमेवं मुखेन प्रयोगाद्यावत्प्रलेपाच्च|| ७६||
Adhikarana dashamaH prayogaH (77) · Śloka 77
गोमूत्रे सप्तरात्रं शशिशकलफलं वासितं लोडयित्वा कुर्याच्छायाविशुष्कं पृथगिति च फलं प्रपुन्नाटञ्च शुष्कम्|
अंशस्ताभ्यां तथांशः क्रिमिरिपुदहनस्फोटकृद्भयः सचूर्णौ गोमूत्रेणोपयुक्तः प्रमितहितभुजः श्वित्रमाश्वेव हन्ति||७७||
शशिशकलस्य सोमराज्याः फलं सप्तरात्रं गोमूत्रे भावितं लोडयित्वा निष्कुलीकृत्य छायाशुष्कं कुर्यात्| अनेनैव च विधानेन गोमूत्रे सप्तरात्रं वासितं प्रपुन्नाटफलं कुर्यादेतदुभयं सममेकोंऽश एष चूर्णो गोमूत्रेणोपयुक्तो यः प्रमितं हितं च भुङ्क्ते तस्याश्वेव श्वित्रं हन्ति| प्रपुन्नाट एडगजः| कृमिरिपुर्विडङ्गम्| दहनश्चित्रकः| स्फोटहेतुर्भल्लातकः|| ७७||
Adhikarana ashmaryAM prayogaH (78) · Śloka 78
इक्षुरगोक्षुरसिंही व्याघ्रीपञ्चाङ्गुलाम्बुना पीता|
उपलमघनं घनं वा रसाशिनां हन्ति बाकुचिका||७८||
इक्षुराद्यम्बुना सोमराजी पीता उपलमश्मर्याख्यं घनं कठिनमघनं वा शर्करारूपं मांसरसाशिनो हन्ति| इक्षुरः काण्डेक्षुरकः| सिंही बृहती| व्याघ्री कण्टकारिका|| ७८||
Adhikarana gulme prayogaH (79) · Śloka 79
उष्णोदकेन पिष्टा पीता च घृतान्विता जयेद्गुल्मम्|
लघुपञ्चमूलसिद्धां पेयामुपयोजयेज्जीर्णे||७९||
उष्णोदकेन पिष्टा वाकुची घृतान्विता सती पीता गुल्मञ्जयेत्| अस्मिंश्च प्रयोगे जीर्णे लघुपञ्चमूलसिद्धां पेयामुपयोजयेत्|| ७९||
Adhikarana arshobhagandarameheShu prayogaH (80) · Śloka 80
कट्वङ्गकुटजयूषैरर्शासि भगन्दरञ्च नाशयति|
मेहान् मद्यैर्निगदैर्निषेविता बाकुची प्रबलान्||८०||
अर्शोभगन्दरयोः कट्वङ्गकुटजकषायैः सेविता वाकुची तौ नाशयति| कट्वङ्गः स्योनाकः| कुटजो वृक्षकः| मद्यैर्निगदैर्निर्दोषैर्निषेविता वाकुची प्रबलान् मेहान् जयेत्|| ८०||
Adhikarana apatantrakAyAmayoH prayogaH (81) · Śloka 81
विष्किररसेन पीता दशमूलरसेन वा गुडूच्या वा|
अपतन्त्रकं निहन्यादायामं वा रसान्नभुजः||८१||
विष्किररसादीनां त्रयाणामन्यतमेन पीता वाकुचीरसान्नभुजः पुंसोऽपतन्त्रकमायामञ्च निहन्यात्|| ८१||
Adhikarana udarashophapANDurogeShu prayogaH (82) · Śloka 82
जठरेषु पिबेन्मूत्रैर्जलोदरे त्रैवृतेन यूषेण|
शोफे पाण्डुव्याधाववल्गुजं सीध्वरिष्टाभ्याम्||८२||
मूत्रैरुदरे त्रिवृता क्वाथेन जलोदरे श्वयथौ पाण्डुरोगे च सीध्वरिष्टाभ्यां युक्तमवल्गुजं पिबेत्|| ८२||
Adhikarana vardhmAdiShu prayogaH (83) · Śloka 83
इक्षुकादिक्वाथैर्वर्ध्मनि मूत्रेण वा गवां शस्तः|
धारोष्णेन तु पयसा युक्तः शोफज्वरौ हन्ति|
उष्णाम्बुना प्रयोज्यो लूताकीटाखुसर्पदष्टेषु|
कृमिहरचतुरङ्गुलयोः क्वाथः कोष्णैः क्रिमिणकोष्ठेषु||८३||
अनन्तरोक्तैरिक्षुरकादिक्वाथैः गोमूत्रेण वाऽवल्गुजो वर्ध्मनि शस्तः| व्याख्यासमम्| कृमिण इति मत्वर्थीयो नः|| ८३||
Adhikarana putradaH prayogaH (84) · Śloka 84
लेखामिन्दो सघृतां सुखाम्बुना पुत्रिणी भवति पीत्वा|
पुष्पोदयेऽश्वगन्धा शृतेन पयसा च भुञ्जाना||८४||
इन्दोर्लेखां सोमराजीं पुष्पोदये ऋतुकाले सुखाम्बुना पीत्वा योषित् सामर्थ्यात् पूर्वमपुत्रा पुत्रिणी भवत्यश्वगन्धाशृतक्षीरेण भोजनं कुर्वाणा|| ८४||
Adhikarana putradaprayogaprashaMsA (85) · Śloka 85
वन्ध्यापि सप्ताहमिमं प्रयोगं करोति या हर्षवती सुगन्धिः|
प्रियंवदा सद्व्रतशौचयुक्ता सूते सुतान् सा नियमात् गुणढ्यान्||८५||
या स्त्री हर्षवत्वादियुक्ता सती प्रयोगमिमं करोति सा वन्ध्यापि सती नियमादवश्यं बहुगुणान् सुतान् सूते|| ८५||
Adhikarana doShAnusAraM prayogaH (86) · Śloka 86
स्निग्धैरुष्णैर्मधुरैर्हरति गदान् वातजान् युता पैत्तान्|
तिक्तकमधुरकषायैः कफजास्त्रिफलारसमधुभ्याञ्च||८६||
स्निग्धादिभिर्युता सोमराजी वातजान् गदान् हरति| तिक्तकादिभिर्युता पैत्तान् गदान् त्रिफलारसमधुभ्यां युक्तान् कफजान् गदान्|| ८६||
Adhikarana somarAjIkalpaprashaMsA (87) · Śloka 87
इति शमनी धन्येयं विषगरभूतोपसर्गपाप्मघ्नी|
गेहे स्थितापि रेखा चान्द्रमसी किमुत कोष्ठस्था|
मनुष्यमप्यागतमृत्युशासनं प्रणष्टबुद्धीन्द्रियमल्पचेतसम्|
अवल्गुजो मोक्षयते महाभया च्छ्रियञ्च मेधाञ्च ददाति पुष्कलाम्||८७||
चन्द्रमसी रेखा सोमराजी गेहे भवने स्थितापि इति शमनीत्यादिगुणा किमुच्यते कोष्ठस्था न स्यादित्युपसृष्टिः| मनुष्यमपि शब्दाद्योषितमप्यागतमृत्युशासनत्वादिगुणं महाभयादवल्गुजो मोक्षयते| सुबोधम्| इति सोमराजीकल्पः|| ८७||
Adhikarana vacAkalpaH haimavatIvacAkalpaH (88) · Śloka 88
हैमवत्या वचायाः पिण्डमामलकमात्रं पयसाऽऽलोड्य पिबेज्जीर्णे पयस्सर्पिरोदन इत्याहारः|
एवं सप्तरात्रेण मेधावी भवति|
सप्तभिः सप्तरात्रैः श्रुतधरो वर्षशतमजर इत्यादि समानं पुर्वेण||८८||
इतो वचा हैमवत्या इत्यादि| हैमवतीति श्वेतवचाया नाम| शेषं व्याख्यासमम|| ८८||
Adhikarana kRuShNavacAkalpaH (89) · Śloka 89
इतरस्या अपि वचाया द्विपलक्वाथं पिबेत्|
जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण|
तच्चूर्णं वा क्षौद्रसर्पिर्भ्यां यथाबलमवलिह्यात्|
जीर्णे पयःसर्पिरित्यादि समानं पूर्वेण||८९||
इतरस्या इति कृष्णायाः| पयस्सर्पिरित्यादि शब्देनैव सप्तरात्रेत्यादि गृहीतम्|| ८९||
Adhikarana vacAshatapAkaghRutam (90) · Śloka 90
वचा कल्कशतपाकं घृतद्रोणमुपयुज्य विशेषात् ग्रहोन्मा दापस्मारगलगण्डमालाश्लीपदस्वरभेदविमुक्तः सर्वार्थेषु सिद्धिमान् वर्षशतायुर्भवति||९०||
घृतद्रोणपाके कल्कपरिभाषया वचा योज्या यावच्छतं पाकानाम्| इति वचाकल्पः|| ९०||
Adhikarana lashunakalpaH tatrAdhikAritvam (91) · Śloka 91
शीतवातहिमदग्धतनूनां स्तब्धभग्नकुटिलव्यथितास्थ्नाम्|
भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य||९१||
इतो लशुनम्| शीतेत्यादि| अतोऽनन्तरं शीतादिदग्धतनूनां स्तब्धास्थ्यादीनाञ्च पुंसां भेषजस्य लशुनस्य विधिर्वक्ष्यते|| ९१||
Adhikarana prashastAprashastatve hetunirdeshaH (92) · Śloka 92
राहोरमृतचौर्येण लूनाद्ये पतिता गलात्|
अमृतस्य कणा भूमौ ते रसोनत्वमागताः|
द्विजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम्|
साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम्||९२||
राहोर्गलादमृतचौर्येण हेतुना लूनात् भगवता विष्णुना छिन्नात् अमृतस्य कणा ये भूमौ पतितास्ते रसोनत्वं प्राप्ताः| अत एव हेतोस्तं लशुनं दैत्यदेहसमुद्भवं द्विजा नाश्नन्ति| स च लशुनः साक्षादमृतसम्बन्धाद्धेतर्ग्रामणीः श्रेष्ठः रसायनम्|| ९२||
Adhikarana doShAnusAraM sevanakAlaH (93) · Śloka 93
शीलयेल्लशुनं शीते वसन्ते च कफोल्बणः|
घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया|
रक्तपित्तभवा रोगा जायन्ते रक्तपित्तिनः||९३||
व्याख्यासमम्| ग्रीष्मलीला ऋतुचर्योक्तः शीतोपचारः|| ९३||
Adhikarana rasAyanaprayogakAlamaryAdA (94) · Śloka 94
मासः परोऽस्य रसकल्कनिषेवणाय स्वच्छन्दमप्युपदिशन्ति विमर्दकैस्तु|
षण्मासमन्यविधिना न तु शस्तमाहुः पक्षप्रयोगमपि हीनतरं रसोने||९४||
अस्य लशुनस्य रसस्य वा कल्कस्य वा निषेवणाय पर उत्कर्षो मास इति वदन्ति| मासादूर्ध्वं रसो वा कल्को वा न योज्य इत्यर्थः| अपरे तु दोषाद्यपेक्षं स्वच्छन्दं यथेच्छं विमर्दकैः सह षण्मासमप्युपदिशन्ति| अतोऽन्येन विधानेन नैव लशुनं शस्तमित्याहुराचार्याः| रसोने पक्षप्रयोगं हीनतरमाहुः| पक्ष एव हीनतरः प्रयोगः| पक्षादवरस्त्वकिञ्चित्करः|| ९४||
Adhikarana lashunaprayogastaduttarakRutya~jca (96) · Śloka 95
स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः|
तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः|
तस्य कन्दान्वसन्तान्ते हिमवच्छकदेशजान्|
अपनीतत्वचो रात्रौ निमयेन्मदिराभिः|
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्|
मदिरायाः सुरूढायास्त्रिभागेन समन्वितम्|
मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा|
तत्काल एव वा युक्त युक्तयालोच्य मात्रया|
तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्|
क्वाथेन वा यथाव्याधि रसं केवलमेव वा|
पिबेद् गण्डूषमात्रं प्राक्कण्ठनाडीविशुद्धये|
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते|
शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे|
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि|
विदाहपरिहाराय परं शीतानुलेपनः|
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः|
सहिमसलिलगर्भाश्चन्द्रशुभ्रामृणालीः कुवलयदलमालाहारयष्टीश्च लोलाः स्तनतटविनिविष्टाश्चारुगात्र्यो दधाना स्तनुसरसविलिप्ता गाढमेनं स्वजेरन्|
नलिनीदलतालवृन्तवातैः प्रगलद्वारिलवैर्जलार्द्रया च|
दयिताकरपल्लवैश्च शीतै र्लशुनस्वेदकृतं क्लमं हरेयुः|९५|
स्निग्ध इत्यादि स्निग्धादिगुणः सन्निदमिदं कुर्यात्| शीतादिभिरुपस्कृताशयः संस्कृतकोष्ठः| तस्य लशुनस्योत्तंसैः शेखरैरवतंसैः कर्णपूरैश्चर्चिताः कल्पिता मण्डिता अनुचरा अजिरञ्च यस्य प्रयोक्तुः स तथोक्तः| तस्य लशुनस्य हिमवद् देशजान् शक्रदेशजांश्च वसन्तगृहीतान् कन्दानपनीतत्वचः कृत्वा मदिरादिभिस्तिमयेदभिषुणुयात्| सुबोधम्| सुरूढा सुजाता| अन्यस्येति मदिराशिष्टस्य| त्रिभगेनेति सम्बध्यते| तत्काल एव वा युक्तं न तु रात्रौ तिमितम्| युक्तया मात्रया आलोच्य तैलादिभिः पृथग्युक्तम्| केवलमेव वा रसं स्वरसम्| गण्डूषमात्रं सूत्रोक्तलक्षणम्| शेषमिति पृथक्स्थापितान्| विदाहरक्षार्थं च शीताऽनुलेपनः सन् मुक्ताकर्पूतमालिकाः साम्बुकणिका अम्बुकणिकाभियुक्ता धारयेत्| एनं च लशुनोपयोगिनं चारुगात्र्यो मनोहराङ्गलतिका स्त्रियो गाढं निविडं परिष्वजेरन्| किम्भूता इत्याह-मृणालीर्दधानाः| किम्भूता मृणालीः ? सहिमं तुषारयुक्तं यत् सलिलं तत् गर्भे यासां तास्तथोक्ताः| अन्यच्च चन्द्रवत् शुभ्राः शशिधवलाः एवम्भूता मृणालीर्दधत्यः कुवलयमालाश्च दधत्यः लोलाश्चञ्चला हारयष्टीर्मुक्तालतास्तनतटनिविष्टा दधत्यः| दयिताः कान्ता नलिनीदलवातादिना लशुनस्वेदकृतं क्लमं हरेयुः| जलार्द्रा सजलपटः|| ९६||
Adhikarana lashunaprayogastaduttarakRutya~jca (96) · Śloka 95
स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः|
तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः|
तस्य कन्दान्वसन्तान्ते हिमवच्छकदेशजान्|
अपनीतत्वचो रात्रौ निमयेन्मदिराभिः|
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्|
मदिरायाः सुरूढायास्त्रिभागेन समन्वितम्|
मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा|
तत्काल एव वा युक्त युक्तयालोच्य मात्रया|
तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्|
क्वाथेन वा यथाव्याधि रसं केवलमेव वा|
पिबेद् गण्डूषमात्रं प्राक्कण्ठनाडीविशुद्धये|
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते|
शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे|
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि|
विदाहपरिहाराय परं शीतानुलेपनः|
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः|
सहिमसलिलगर्भाश्चन्द्रशुभ्रामृणालीः कुवलयदलमालाहारयष्टीश्च लोलाः स्तनतटविनिविष्टाश्चारुगात्र्यो दधाना स्तनुसरसविलिप्ता गाढमेनं स्वजेरन्|
नलिनीदलतालवृन्तवातैः प्रगलद्वारिलवैर्जलार्द्रया च|
दयिताकरपल्लवैश्च शीतै र्लशुनस्वेदकृतं क्लमं हरेयुः||९५||
स्निग्ध इत्यादि स्निग्धादिगुणः सन्निदमिदं कुर्यात्| शीतादिभिरुपस्कृताशयः संस्कृतकोष्ठः| तस्य लशुनस्योत्तंसैः शेखरैरवतंसैः कर्णपूरैश्चर्चिताः कल्पिता मण्डिता अनुचरा अजिरञ्च यस्य प्रयोक्तुः स तथोक्तः| तस्य लशुनस्य हिमवद् देशजान् शक्रदेशजांश्च वसन्तगृहीतान् कन्दानपनीतत्वचः कृत्वा मदिरादिभिस्तिमयेदभिषुणुयात्| सुबोधम्| सुरूढा सुजाता| अन्यस्येति मदिराशिष्टस्य| त्रिभगेनेति सम्बध्यते| तत्काल एव वा युक्तं न तु रात्रौ तिमितम्| युक्तया मात्रया आलोच्य तैलादिभिः पृथग्युक्तम्| केवलमेव वा रसं स्वरसम्| गण्डूषमात्रं सूत्रोक्तलक्षणम्| शेषमिति पृथक्स्थापितान्| विदाहरक्षार्थं च शीताऽनुलेपनः सन् मुक्ताकर्पूतमालिकाः साम्बुकणिका अम्बुकणिकाभियुक्ता धारयेत्| एनं च लशुनोपयोगिनं चारुगात्र्यो मनोहराङ्गलतिका स्त्रियो गाढं निविडं परिष्वजेरन्| किम्भूता इत्याह-मृणालीर्दधानाः| किम्भूता मृणालीः ? सहिमं तुषारयुक्तं यत् सलिलं तत् गर्भे यासां तास्तथोक्ताः| अन्यच्च चन्द्रवत् शुभ्राः शशिधवलाः एवम्भूता मृणालीर्दधत्यः कुवलयमालाश्च दधत्यः लोलाश्चञ्चला हारयष्टीर्मुक्तालतास्तनतटनिविष्टा दधत्यः| दयिताः कान्ता नलिनीदलवातादिना लशुनस्वेदकृतं क्लमं हरेयुः| जलार्द्रा सजलपटः|| ९६||
Adhikarana lashunaprayogastaduttarakRutya~jca (98) · Śloka 98
रसोऽग्निकल्पो मृदुनौजसा हि संयुज्यमानः सहसैव तस्य|
दाहातिसारारतिचित्तनाशान् कुर्यादतस्तं त्वरितो न युञ्ज्यात्||९८||
अतस्तं रसं त्वरितो न युञ्ज्याद्यतस्तस्य लशुनस्य रसोऽग्निकल्पस्तीक्ष्णः मृदुना चौजसा सहसैव युज्यमानस्तद्गुणानुपमर्दयन् दाहादीन् कुर्यात्|| ९८||
Adhikarana jIrNe bhojanam (99) · Śloka 99
जीर्णशाल्योदनं जीर्णे शङ्खकुन्देन्दुपाण्डुरम्|
भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम्|
दीप्ताग्निर्मण्डकान् खादेत् सर्पिर्मण्डोपसेचनान्|
अखण्डमण्डलेन्द्वाभानिण्डरीखण्डमण्डितान्|
राजिकाशुक्तसम्पर्कविनिवर्तितगौरवैः|
पिष्टकाचूर्णधवलैर्वध्रैः सौकरकैर्युतान्||९९||
तस्मिंश्च जीर्णे पुराणशाल्योदनं शङ्खादिवच्छूक्लं यूषादीनामन्यतमेन भुञ्जीत| धन्वचारिणो जाङ्गलाः| यश्च दीप्ताग्निः सर्पिर्मण्डोपसेचनादिगुणान् मण्डकान् खादेत् उपसेचनं शुष्कत्वनाशनम्| अखण्डमण्डलः परिपूर्णो योऽसाविन्दुस्तदाभांस्तत्सदृशान् इण्डरीणां खण्डैश्शकलैर्मण्डितान् भूषितान् तथा सौकरकैर्वर्ध्रैर्युतान्| किम्भूतैर्वध्रैरित्याह-कण्डनीकृतेन पिष्टकाचूर्णेन धवलैः राजिकादिसम्पर्केण विनिवर्त्तितगौरवैश्च|| ९९||
Adhikarana jIrNe pAnam (100) · Śloka 100
मद्यमेकं पिबेत्तत्तु तृट्प्रबन्धे जलान्वितम्|
गन्धमत्तक्वणदलिप्रियावक्त्रेन्दुबोधितम्|
अमद्यपो यस्तु फलामबुतक्र मवन्तिसोमं च सुगन्धि शीतम्|
सौवीरकं जाङ्गलजं रसं वा तुषोदकं वा परिसिक्थिकां वा||१००||
अत्र चैकमेव मद्यं पिबेन्नानेकम्| तत्तु मद्यं तृट्प्रबन्धे सति जलान्वितं पिबेत्| किम्भूतं मद्यमित्याह-गन्धेन सौरभेणमत्ता, रणन्तो लयो यस्मिंस्तत्तथोक्तम्, प्रियावक्त्रेन्दुना च प्रतिबिम्बितेन बोधितं परिपूरितशक्ति| यस्त्वमद्यपः स एवङ्गुणमेव फलाम्ब्वादिकं पिबेत्| परिसिक्थिका तनु पेया|| १००||
Adhikarana lashunaprayogAntarANi prathama prayogaH (101) · Śloka 101
तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्|
स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम्||१०१||
तत्कल्कमित्यादि सुबोधम्| तद्वत् घृतवत् वसया समं वाऽश्नीयात्| 'तद्वद्वा पयसा समम्'-इति च पाठः|| १०१||
Adhikarana dvitIyaprayogaH (102) · Śloka 102
सद्यः पिष्टं सर्पिषा संयुतं वा निर्यासेन स्वेन युक्तं च कामम्|
युञ्जीतैनं पूर्वकैरेव पानैः कोष्णाम्भोभिर्वैषकल्पोऽतीवीर्यः||१०२||
अथवैनं लशुनं सद्यः पिष्टं सर्पिषा स्वेन रसेन वा संयुतं पूर्वकैरेव मद्यादिभिः पानैर्युक्तं कोष्णाभिर्वाद्भिर्यथेच्छं युञ्जीत| एष लशुनकल्पोऽतिवीर्यो भवति|| १०२||
Adhikarana tRutIyaprayogaH (103) · Śloka 103
रसोनकल्कः सदृशाऽजसर्पिः षण्मासमुर्व्यामुषितो निहन्ति|
अभ्यङ्गपानाञ्जननस्ययुक्तो मनोविकारान् विषमज्वरं च||१०३||
रसेनकल्कः सदृशेनाजेन सर्पिषा सह षण्मासमुर्व्यां भूमौ निखातस्ततोऽभ्यङ्गादिषु योजितो मनोविकारं विषमज्वरञ्च निहन्ति|| १०३||
Adhikarana caturthaH prayogaH (104) · Śloka 104
समतैलं सशुक्तं वा यवाराशौ समा स्थितम्|
वातरोगान् जयेत् खादन् घृतमांसोत्तराशनः||१०४||
अथवा समतैलं सशुक्तं शुक्तेन युतं वा लशुनं संवत्सरं यवाराशौ स्थितं खादन् पुरुषो घृतमांसोत्तराशनः सन् वातरोगान् जयेत्|| १०४||
Adhikarana pa~jcamaH prayogaH (105) · Śloka 105
तैलसर्पिर्गुडसिताः पृथक्कुर्यात्तुलोन्मिताः|
द्वे तुले लशुनाच्छुद्धात्त्र्यूषणात् कुडवत्रयम्|
पलं त्वचश्च तच्छालक्ष्णं निहितं घृतभाजने|
द्वे समे यवमध्यस्थं पूर्वस्मादधिकं गुणैः||१०५||
तैलादिकं घृतभाजने निहितं द्वे समे संवत्सरौ यवमध्ये स्थितं गुणैः पूर्वस्माद्रसायनादिधिकम्|| १०५||
Adhikarana ShaShThaH prayogaH (106) · Śloka 106
क्षुण्णां क्षिपेत् कन्दतुलां तक्रस्य पलविंशतौ|
गते च सप्तरात्रे तु तुलार्द्धमसितात्तिलात्|
धौतक्षुण्णात्पृथक्क्षौद्रघृतशुण्डी चतुष्पलम्|
अजाजीचव्यधान्याग्निद्विकृष्णाग्रन्थिदीप्यकान्|
पलोन्मितांश्चतुर्जातात् पलमेकं सुचूर्णितम्|
पृथक्पलाष्टकं तैलाद्धृतात्क्षुण्णाच्च सर्षपात्|
पटूनि पञ्च क्षारौ द्वौ दद्यात्तत्राक्षमानतः|
एकादशाहं तद्धान्ये स्थितमश्नन् प्रगे प्रगे|
गुणान् रासायनान्सर्वान्स प्राप्नोति निरामयः||१०६||
क्षुण्णमित्यादि सुबोधम्| कन्दो लशुनकन्दस्तस्य तुलां पलशतं ताम्| धौतक्षुण्णादिति तिलविशेषणम्| प्रगे प्रगे प्रातः प्रातः| रासायना गुणा दीर्घायुष्ट्वादयः|| १०६||
Adhikarana saptamaH prayogaH (107) · Śloka 107
द्विपञ्चमूलनिष्क्वाथे नल्वणे लशुनाढकम्|
पिष्टं पर्युषितं वर्षं हन्ति वातकफामयान्||१०७||
द्विपञ्चमूलेत्यादि व्याख्यासमम्| द्विपञ्चमूलं महद् ह्रस्वञ्च तस्य निष्क्वाथे नल्वणे द्रोणे पिष्टं वर्षं पर्युषितं लशूनाढकं वातकफामयान् हन्ति|| १०७||
Adhikarana aShTamaH prayogaH (108) · Śloka 108
तत्कन्दकल्कस्वरसे घृततैलं पृथक्पचेत्|
शीलयेच्च यथासात्म्यं दारुणानिलपीडितः||१०८||
तत्कन्देत्यादि लशुनकन्दस्य रसे तत्कल्कं घृतं तैलं वा पचेत् तच्च यथासात्म्यं दारुणेन् बलवताऽनिलेन पीडितो नरः शीलयेत्|| १०८||
Adhikarana navamaH prayogaH (109) · Śloka 109
नवनीतसमांशं वा खादेत्तत्कल्कमर्दिती||१०९||
अथवा नवनीतसमांशं नवनीततुल्यं तत्कल्कं लशुनकल्कमर्द्दिती खादेत्|| १०९||
Adhikarana dashamaH prayogaH (110) · Śloka 110
विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान्|
निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघुतुच्छमश्नन्|
कुस्तुम्बरी जीरकभृष्टमुद्ग- सौवर्चलश्लक्ष्णरजोऽवकीर्णैः|
रसोनकन्दाङ्कुरपत्रचित्रैः सव्यञ्जनैर्नैकरसानुयातैः|
तत्कन्दसिद्धान् क्रमशो यूषक्षीररसान् पिबेत्|
कफपित्तानिलाशङ्की यथास्वौषधसंस्कृतान्||११०||
विकञ्चुक इति| अथवा स अर्दिती द्रव्यतो लघुमात्रया तुच्छमन्नमश्नन् निमर्दकान् प्रकाममद्यात्| किम्भूतानाह-विकञ्चुकं त्यक्तत्वक्प्राज्यं प्रभूतं रसोनं गर्भे येषां तान्| सह शूल्येन मांसेन ये वर्तन्ते तथाविधा नानाप्रकारा उपदंशा वटकबीजपूरादयो येषां तान्| तथा घृतेन च शुक्तेन च युक्तान्| केनाद्यादित्याह-व्यञ्जनैः| किम्भूतैरित्याह-कुस्तुम्बर्यादीनां श्लक्ष्णेन रजसाऽवकीर्णैः| तथा रसोनस्य कन्दादिभिश्चित्रैः| तथा नैकेन मधुरादिना रसेनानुयातैर्युक्तैः| तत्कन्द इत्यादि| कफाद्याशङ्की तत्कन्दसिद्धान् तस्य लशुनस्य कन्देन सिद्धान् यूषादीन् क्रमशः पिबेत्| यूषं कफे, क्षीरं पित्ते, रसं वात-इति क्रमार्थः| तांश्चयूषादीन् कफादिषु यथास्वैरौषधैः साधितान्|| ११०||
Adhikarana lashunasya vividhAmayaghnatvam (111) · Śloka 111
कृशोऽश्वगन्धोद्भवचूर्णकीर्ण सन्नस्वरो यष्टिमधूपधानम्|
तैलेन गुल्मी खदिरेण कुष्ठी खादेत् कृमिघ्नैः कृमिमान् रसोनम्|
मांसादमांसैर्यक्ष्माणमर्शांसि कुटजत्वचा|
हन्ति सः श्रेष्ठया मेहकासश्वासविलम्बिकः|
अन्नस्वरूपविज्ञानात् स्वरूपमुपलभ्य च|
यथायथं प्रयोगोऽस्य कार्यस्तं तं गदं प्रति||१११||
कृशादिष्वश्वगन्धादीनां चूर्णादिना रसोनं लशुनं खादेत्| व्याख्यासमम्| मांसादमांसैरित्यादि| मांसादानां सिंहव्याघ्रादीनां मांसैः सहोपयुक्तं रसोनं यक्ष्माणं हन्ति| एवमग्रेऽपि हन्तीति सर्वैः रोगैः सम्बध्यते| अन्नस्वरूपविज्ञानाल्लशुनस्य गुणानुपलभ्य ततो यथायथं तं तं गदं किलासादिकं प्रति प्रयोगोऽस्य लशुनस्य कार्यः|| १११||
Adhikarana lashunasurA (112) · Śloka 112
लशुनस्वरसात् प्रस्थान् द्वात्रिंशत्तिलतैलतः|
द्वावपेत मलात्किण्वादष्टौ पिष्टाच्च षड्यवात्|
मेषशृङ्गीभवात् क्वाथाद्द्रोणं पूताच्च शीतलात्|
स्नेहपात्रे तदैकध्यं निदध्याच्च शुचौ दृढे|
क्रमात्तत्र पुनर्दद्यात् पिष्टं प्रस्थचतुष्टयम्|
पक्षात्परमियं पेया सुरा वातविकारिभिः||११२||
लशुन इति| लशुनस्वरसात् द्वात्रिंशत्| तिलतैलात् द्वौ किण्वादष्टौ| पिष्टाद्यवात् षट् प्रस्थान्| मेषशृङ्गीभवात् सर्पदंष्ट्रीसम्भूतात् क्वाथात् पूताच्च शीताच्च द्रोणं चैकध्यं कृत्वा शुद्धे दृढे च स्नेहपात्रे निक्षिपेत्| पक्षात् परतः क्रमेण शालिपिष्टप्रस्थचतुष्टयं दद्यात्| सुबोधम्|| ११२||
Adhikarana sevanArthaM prAshastyApAdanaprakAraH (113) · Śloka 113
त्रिरात्रमुषितं धेनुं लशुनं खादयेत्ततः|
क्षीरदध्याज्यमथितं ब्राह्मणास्यापि शस्यते||११३||
त्रीणि लङ्घनानि धेनुं गां कारयित्वा नित्यं लशुनं खादयेत्| ततस्तस्याः क्षीरादिगं ब्राह्मणस्यापि शस्यत इत्याचार्यस्य देशसिद्धाः काश्मीरकाः| वयमेतन्न विद्मः| लशुनं खादयेद्यस्तु स्वधर्मनिरतान् द्विजान्| वैद्यः पापस्य तस्याशु बिल्वाग्रं खादयेन्नृप|| ११३||
Adhikarana lashunasya visheShAdhikAraH (114) · Śloka 114
पित्तरक्तविनिर्मुक्तसमस्तावरणावृते|
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम्||११४||
पित्तावृतं रक्तावृतं च वातं वर्जयित्वाऽन्यस्मिन्नावृते वायौ शुद्धे वा वायौ लशुनात्परं द्रव्यं न विद्यते|| ११४||
Adhikarana lashunAsavasya visheShAdhikAraH (115) · Śloka 115
सुखात्मनां विशेषेण प्रयोज्यो लशुनासवः|
नारदेनोद्धवस्यैष वातमग्नस्य कल्पितः||११५||
सुखात्मनामित्यादि व्याख्यासमम्| उद्धवोनाम वृष्णीनां वंशजः|
Adhikarana lashunaprayoge apathyam (116) · Śloka 116
आमाम्बुपानेक्षुविकारमत्स्य यानाध्ववातातपभाष्यचिन्तः|
स्वप्नं दिवा जागरणं निशासु पिष्टं व्यवायं दधि चात्र नेच्छेत्||११६||
अत्र च लशुनप्रयोगे आमम्बुपानादि नेच्छेत्|| ११६||
Adhikarana lashunasya snehasahitopayukttA (117) · Śloka 117
स्नेहकल्पविधानेन स्नेहयुक्तं प्रयोजयेत्|
लशुनण् स्नेहसंयोगाद्गरीयान् जायते हि सः||११७||
स्नेहकल्पः स्नेहप्रयोगः| स्नेहसंयोगादित्यादि स्नेहयुक्तप्रयोगे हेतुः| स इति लशुनः|| ११७||
Adhikarana prayogAnte mRuduvirecanam (118) · Śloka 118
पित्तकोपभयादन्ते युञ्यान्मृदुविरेचनम्|
रसायनगुणानेवं परिपूर्णान् समश्नुते||११८||
पित्त इत्यादि| अन्ते लशुनप्रयोगस्यावसाने| एवमिति विरेचनान्तेनानन्तरोक्तेन|| ११८||
Adhikarana prayogavyApadi hetavaH (119) · Śloka 119
प्रियाम्बुगुडदग्धस्य मांसमद्याम्लविद्विषः|
अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम्||११९||
अम्ब्वादिप्रियस्य मांसादिविद्विषश्चाजीर्णं चातितिक्षोस्त्यक्तुमनिच्छतः पुंसो रसोनो ध्रुवं व्यापदे भवति|| ११९||
Adhikarana lashunaprayogasya varjanIyatvam (120) · Śloka 120
पाण्डूदरोरःक्षतशोफतृष्णा पानात्ययच्छर्दिविषव्रणेषु|
पैत्ते विकारेऽक्षिगदेऽतिसारे क्षामे शरीरे च स वर्जनीयः||१२०||
स लशुनः सर्वथा पाण्ड्वादिषु वर्जनीयः|| १२०||
Adhikarana lashunakalpaprashaMsA (121) · Śloka 121
शीलित एष करोति दुरापं वह्निशरीरबलं सममेव|
वाङ्गतिरूपगुणाढ्यसुतेप्सो स्त्रीपुरुषस्य च बीजविशुद्धिम्|
अमृतकणसमुत्थं यो रसोनं रसोनं विधियुतमिति खादेच्छीतकाले सदैव|
स नयति शतजीवी स्त्रीसहायो जरान्तं कनकरुचिरवर्णो नीरुजस्तुष्टिजुष्टः||१२१||
एषः रसोनः शीलितः सन् सममेवैककालमेव वह्नेः शरीरस्य च दुरापं बलं करोति| यश्च स्त्री वा पुरुषो वा वागाद्याढ्यं सुतं प्राप्तुमिच्छति तस्य बीजविशुद्धिं करोति| यः पुरुषो रसोनं लशुनं अमृतकणसमुत्थत्वादिस्वभावं रसोनं विलणपञ्चरसमनन्तरोक्तेन प्रकारेण विधिना युतं शीतकाले सदैव खादेत् स वर्षशतजीवित्वादियुक्तो जरान्तं नयति| स्त्रीसहाय शब्देन वृषत्वमुक्तम्| इति लशुनकल्पः|| १२१||
Adhikarana palANDukalpaH kalpaprashaMsA (122) · Śloka 122
रसोनान्तरं वायोः पलाण्डुः परमौषधम्|
साक्षादिव स्थितं यत्र शकाधिपतिजीवितम्|
यस्योपयोगेन शकाङ्गनानां लावण्यसारादिविनिर्मितानाम्|
कपोलकान्त्या विजितः शशङ्को रसातलं गच्छति निर्विदेव||१२२||
इतः पलाण्डुः-रसोनान्तरमिति| वायोः पलाण्डुः परमौषधं रसोनानन्तरंलशुनसमम्| यत्र पलाण्डौ शकाधिपतेः शकनायकस्य जीवितं साक्षादिव स्थितम्| यस्य पलाण्डोरुपयोगेन हेतुना शकाङ्गनानां कपोलकान्त्या विजितः शशाङ्को निर्विदेव प्रतिदिनं रसातलं गच्छति| किम्भूतानामाह-लावण्यसारादि विनिर्मितम्|| १२२||
Adhikarana palANDukalpaguNAH (123) · Śloka 123
स्निग्धाङ्गत्वं गौरता कान्तिमत्ता वह्नेर्दीप्तिर्वर्ष्मपुष्टिर्वृषत्वम्|
सम्प्राप्य्न्ते यन्त्रणोद्वेगमुक्तै र्यस्याभ्यासाद्धारि दीर्घं सुखं च||१२३||
यस्य च पलाण्डोरभ्यासाद्यन्त्रणा हेतुनोद्वेगेन मुक्तैः पुरुषैः स्निग्धाङ्गत्वादि यथाप्यते तथा धारीत्यायुदीर्घमायुः सुखं चाप्यते||१२३||
Adhikarana AhAre dIrghakAlamupayogaphalam (124) · Śloka 124
अप्याहारे शीलितो दीर्घरात्रं बल्यश्चक्षुष्यस्तर्पणः स्थैर्यकारी|
तैस्तैर्योगैर्योजितोऽयं पलाण्डु स्तांस्तानातङ्कान् मेहिनामुच्छिनत्ति||१२४||
न केवलं च पृथक्प्रयोगेन यावदाहारेऽप्ययं पलाण्डुदीर्घरात्रं चिरकालं सेवितो बल्यत्वादिगुणो भवति| स च मेहिनां तैस्तैश्चिकित्सितोक्तैर्योगैर्योजितः संस्तांस्तान् मेहसहजानातङ्कान् रोगानुच्छिनत्ति नाशयति|| १२४||
Adhikarana palANDurasaprayogaH (125) · Śloka 125
रसं रसोनवत्तस्य पीत्वाश्नीयात्तथैव च|
स बीजपूरस्वरसमदिरामधुसीधुपः||१२५||
पलाण्डुरसस्य तु प्रयोगे च भोजनस्य च विधानं लशुनवत्| एतदुच्यते-बीजपूरस्वरसाद्यनुपः सन् रसं रसोनवदिति||१२५||
Adhikarana bhojane prayogavidhiH (126) · Śloka 126
मरकतमणिनीलं नालमत्स्यातिबाल परिणतशशिगौरं यच्च बीजं सुपिष्टम्|
ससुरससुमुखाभ्यां प्रज्यमांसं सशुक्तं मृदुधवलसुवृत्तैर्मण्डकैरात्तमूर्तिम्|
बहुशः शोभितं शुभ्रैः शशाङ्कशकलोपमैः|
घारिकेण्डरिकावल्लैः क्षीरोदावयवैरिव|
यवमुद्गमाषगोधूमबहुविधविकारविकल्पितान् भक्ष्यान्|
काम्बलिकारागषाडवसट्टकखलकान् सफलसारान्|
पटुसुरभिमधुरगन्धान् धवलाक्षकधवलबहुलरसान्|
खर्जूरदाडिमसिताद्राक्षापानानुपोऽभ्यस्येत्||१२६||
अस्य च पलाण्डोर्नालं च बीजं च मण्डकैरात्तमूर्त्तिं गृहीतशरीर मश्नीयादिति सम्बध्यते| यवादीनां च बहुविधैर्विकारैः कल्पितान् भक्ष्यान् काम्बलिकादींश्च भोजनोपयोगिनः खर्जूराद्यन्यतमकृत पानानुपः सन्नभ्यसेत्| मरकतमणिनीलमिति नालविशेषणम्| परिणतशशिगौरमिति सुपिष्टबीजविशेषणम्| सुरससुमुखौ हरितकविशेषौ| प्राज्यमांसमिति सशुक्तमिति चोभयविशेषणम्| मृद्वादिकं मण्डकविशेषणम्| अन्यच्च किम्भूतं नालं बीजं चेत्याह-बहुशोऽनेकवारं शुभ्रैः शुक्लैश्चन्द्रखण्डोपमैः घारिकादिभिः शोभितम्| ते च घारिकादयः शुक्लत्वात् क्षीरोदस्य दुग्धसिन्धोरवयवा इवेति प्रतिभासन्ते| घारिका माषादिभिर्दधिमिश्रैः कृताः सच्छिद्रा वटकाः वल्लाः शिम्बीजयवादीनां बहुविधैविकारैर्ये कल्पिता भक्ष्यास्ताः| काम्बलिकादयः सूत्रोक्तलक्षणाः| फलसारो दधित्थः| पट्वादिगुणगन्धानित्यादि काम्बलिकादिविशेषणम्| धवलाक्षकेन पलाण्डुना धवलः शुक्लो बहुलश्च रसो येषाम्| खर्जूरादिभिः कृताः, पानास्तथोक्ताः|| १२६||
Adhikarana rasapAne guNAH (127) · Śloka 127
लभते बलवर्णौजो वीर्यस्वरसौमनस्यतेजांसि|
क्षीणशकृद्रुधिरोऽपि च रसोनवत्तद्रसं पीत्वा||१२७||
तस्य च पलाण्डो रसं रसोनवत् रसोनरसमिव पीत्वा क्षीणशकृद्रुधिरऽपि सन्नमलरक्तधातुरपि बलादीनि लभते| इति पलाण्डुकल्पः|| १२७||
Adhikarana kukkuTIkalpaH prAgutpattirlakShaNaM guNAshca (128) · Śloka 128
सुरासुरैः क्षीरसमुद्रमन्थे गतास्तटान् येऽमृतविप्रुषः पुरा|
बभूव तेभ्यः किल कुक्कुटी यया व्रजन्ति देवत्वमिवाद्यमानुषाः|
कुक्कुटाण्डनिभैः कन्दैः किञ्चित्कटुपिच्छिलैः|
स्निग्धैर्मरकतच्छायैः द्धर्जूरसदृशैच्छदैः|
निखिलरोगहरापि विशेषतो जयति दारुणमप्यनिलमयम्|
गुदजगुल्मतमो विषनाशिनी जनयति स्थिरतां वपुषः पराम्||१२८||
इतः कुक्कुटी-पुरा कस्मिंश्चित्कालांशे सुरासुरैः क्षीरसमुद्रस्यमन्थने येऽमृतस्य विप्रुषस्तटान् गतास्तेभ्यः कुक्कुटी बभूव किलेत्यागमदर्शनाय| यथा कुक्कुट्योपयुक्तयाद्य कलौ मानुषा देवत्वं व्रजन्तीवेति| अस्या लक्ष्णं कुक्कुटाण्डनिभैः कन्दैरित्यादिनाह-कटुकपिच्छिलैरिति कन्दविशेषणम्| स्निग्धैरित्यादि तच्छदानां विशेषणम्| कटुकः क्षारः| सा च कुक्कुटी सकलरोगहरापि सती विशेषतोऽनिलमयं जयति| न कञ्चिदेवापि दारुणमपि| न च केवलं गुदजादिनाशिनी अपि तु वपुषः परामुत्कृष्टां स्थिरतां जनयति|| १२८||
Adhikarana prathamaH prayogaH (129) · Śloka 129
कुटीं प्रविश्य तत्कन्दान् भक्षयेद् घृतभर्जितान्|
पयोऽनुपानं धारोष्णं तत्रेष्टमसनाम्बु वा|
तन्मात्रवृत्तिस्तु भवेद्दशाहं विंशत्यहं स्वादुभुगप्रमादी जत्रूर्ध्वकोष्ठत्रिकसन्धिवात पाण्ड्वामायार्शस्तिमिराणि जित्वा|
वलीपलितनिर्मुक्तः स्थिरेकेशद्विजश्रुतिः|
मेधामतिस्मृतियुतो जीवेद्वर्षशतद्वयम्||१२९||
कुटीं प्रविश्येति वातातपनिषेधः| शेषं व्याख्यासमम्| तत्र च धोरष्णं पयोऽनुपानमिष्टमथवासनोदकम्| दशाहं तु तन्मात्रवृत्तिर्भवेदस्याः कन्दान्येव भुञ्जीत न त्वन्नादिकमिति| ततोऽनन्तरं विंशत्यहं स्वाद्वन्नभुगप्रमादी च स्यात्| प्रतिषिद्धानां सेवाप्रमादः| अनेन जत्रूर्ध्ववातादीन् जित्वा वलीपलितनिर्मुक्तत्वादियुक्तो वर्षशतद्वयं जीवेत्|| १२९||
Adhikarana vardhamAnakukkuTIprayogaH (130) · Śloka 130
आपूर्यमाणचन्द्रप्रतिपदमारभ्य वर्द्धयेत्कन्दम्|
एकैकं घृतभृष्टं प्राग्भक्तं पथ्यभुक्खादेत् भुञ्जीताल्पतरं दिनार्दितमृषिः पक्षक्षये भक्षयन्|
क्षीरं बीजकवारितक्रमथवा पीत्वा स्थितिं कल्पयेत्|
मासं प्राश्य तथा नखद्विजकचैः शीर्णोत्थितैः कान्तिमान्|
जीवत्यब्दशतत्रयं धृतिमतिस्मृत्यादिभिर्भूषितः||१३०||
आपूर्यमाणचन्द्रायां प्रतिपदि कुक्कुट्या एकं कन्दं घृतभृष्टं प्राग्भक्तं भोजनप्रारम्भे भक्षयेत्| ततः प्रत्यहमेकैकं कन्दं वर्द्धयेत् अन्नञ्च प्रत्यहमेव ह्नासयेत्| एतस्यानन्तरं भुञ्जीत ऋषिर्मुनिवृत्तिः सन्निति पक्षं चन्द्रवद्द्ऱिः| पक्षक्षये च कन्दं भक्षयन्| क्षीरादीनामन्यतमं पीत्वा स्थितिं कल्पयेत् नान्नं भुञ्जीतेत्यर्थः| एवं मासं प्राश्य नखादिभिः पूर्व शीर्णैः पश्चादुत्थितैर्युक्तः कान्तिमान् धृत्यादिभूषितऽब्दशत्रयं जीवति|| १३०||
Adhikarana kandacUrNaprayogaH (131) · Śloka 131
क्षीरेण कन्दचूर्णं पिबन्यवागूञ्च परिणते मासम्|
लवणस्नेहविहीनां दृढदृग्जीवेच्छरद् द्विशतम्|
तिमिरं क्षौद्रघृताभ्यां पथ्यभुजस्तद्रजो जयेन्मासात्|
कन्दत्रयं च भृष्टं घृतेऽश्नतो भक्षितं वातान्|
तत्कन्दसूक्ष्मरजसा त्रिभागगोधूमचूर्णमिश्रेण|
पयसा पक्त्वा खादेत् घृतपूरानान्त्रवृद्धिहरान्|
त्रीन् कन्दकांश्च निशि भक्षयताज्यभृष्टान् धात्रीफलाम्बुससितं छगलीपयो वा|
पेयं दृगामयजयाय विषेवितव्या कामञ्च रोगशममात्र फलार्थिभिः सा||१३१||
कुक्कुटीकन्दचूर्णं क्षिरेण पिबंस्तस्य च परिणतौ लवणस्नेहविहीनां यवागूं पिबेत्| एवं च मासं कुर्वन् पुरुषो दृढया दृष्ट्या युक्तः शरद् द्विशतं जीवेत्| तद्रजः कुक्कुटीकन्दाद्रजः क्षौद्रघृताभ्यां युक्तं मासप्रयोगात् पथ्यभुजः पुरुषस्य तिमिरं जयेत्| कुक्कुटीकन्दत्रयं घृते भृष्टं भर्जितं भक्षितं सदश्नतः| पूर्णं भोजनं कुर्वतश्च शब्दान् मासप्रयोगाद्वातान् जयेत्| कुक्कुटीकन्दसूक्ष्मचूर्णेन गोधूमचूर्णत्रिभागेन क्षीरेण च कृतान् घृतपूरानान्त्रवृद्धिहरान् खादेत्| त्रीन् कुक्कुटीकन्दकान् घृतभृष्टान् निशि भक्षयता पुरुषेणधात्रीफलाम्बुसहितं छगलीपयो वा पेयम्| किमर्थमित्याह-दृगामयजयाय| न केवलं चैष एवास्य रसायनप्रयोगो यावत् सा कुक्कुटीरोगोपशममात्रफलार्थिभिः पुरुषैः काममिच्छया निषेवितव्या| इति कुक्कुटीकल्पः|| १३१||
Adhikarana ka~jcukIkalpaH lakShaNam (132) · Śloka 132
क्षीन्वितामूलकतुल्यकन्दा सप्ताष्टपत्रासितरक्तकाण्डा|
बिभर्त्ति या पल्लवमब्दशब्दान् सा कञ्चुकी श्वेतपुर्वरेण्या||१३२||
इतः कञ्चुकी| क्षीरान्वितेत्यादिलक्षणा या ओषधिः सा कञ्चुकीति बोद्धव्या| सप्त वा अष्टौ वा पत्राणि यस्याः सा तथोक्ता अब्दशब्दान्मेघस्तनितान् पल्लवान् बिभर्त्ति वरेण्या श्रेष्ठा||१३२||
Adhikarana kuTIpraveshaprayogaH (133) · Śloka 133
आषाढे कार्त्तिके वाऽतं तत्कन्दं शीतले स्थितम्|
अङ्गुष्ठपर्वद्वयसम्पिष्टं क्षीरपलाष्टके|
कुटीप्रवेशस्तं पीत्वा क्षीरमेव पिबेदनु|
क्षीरमेव च जीर्णोऽपि पेयां वा स्नेहभर्जितान्|
किञ्चिदुष्णामलवणां स्पृशेदुष्णाम्बुनो हिमम्|
एकेन सप्तरात्रेण कुष्ठान्येवं नियच्छति|
सर्वव्याधीन् द्वितीयेन तृतीयेन तु सर्पवत्|
त्यक्त्वा त्वचं ततो जीर्णां केशदन्तनखानपि|
धीमेधारूपवान् जीवेत् पञ्चवर्षशतानि च||१३३||
आषाढ इति शीतलप्रदेशे स्थितमङ्गुष्ठपर्वद्वयसं अङ्गुष्ठपर्वप्रमाणं यस्य सोऽङ्गुष्ठपर्वद्वयसः तम्| प्रमाणे द्वयसच्प्रत्ययः| तत् कन्दं कञ्चुकीकन्दं आषाढे कार्त्तिके वा मास्यात्तं गृहीतं क्षीरपलाष्टकेष्टपलिके क्षीरे पिष्टं ततस्तं च कन्दं कुटीप्रवेशः पीत्वाऽनु क्षीरमेव पिबेत्| अस्मिंश्च जीर्णेऽपि क्षीरं पिबेत् पेयां वा घृतभर्जितत्वादियुक्ताम्| हिमं जलं न स्पृशेत्| एकेनेत्यादिना सप्तरात्रेषु क्रमेण गुणातिशयो व्याख्यास्यामः|| १३३||
Adhikarana prayogAntarANi prathamaH prayogaH (134) · Śloka 134
कञ्चुकीकन्दचूर्णं वा स्वेन क्षीरेण भावितम्|
गोक्षीरकुडवे न्यस्तं कर्षं खण्डपलान्वितम्|
पीतं सर्वामयान् हन्ति नखकेशस्थितानपि||१३४||
कञ्चुकीकन्दचुर्णस्य स्वरसभावितस्य कर्षं खण्डपलञ्चेति गोक्षीराष्टपलेन पीतं नखकेशस्थितानपि सर्वामयान् हन्ति|| १३४||
Adhikarana dvitIyaH prayogaH (135) · Śloka 135
पीतं तत्स्वरसं चूर्णं तस्या मधुघृतान्वितम्|
खादन् हिताशी सप्ताहं त्वग्दोषांस्तिमिरञ्जयेत्||१३५||
तस्या कञ्चुक्याश्चूर्णं भावनया पीतकञ्चुकीस्वरसं मधुघृताभ्यामन्वितं हिताशी पुरुषः सप्ताहं खादन् त्वग्दोषांस्तिमिरञ्च जयेत्|| १३५||
Adhikarana saptAmRutaH (136) · Śloka 136
विडङ्गताप्यत्रिफला लोहकञ्चुकिजं रजः|
सप्तरात्रत्रयं लिह्यान्मधुना संयोतेन्द्रियः|
क्षीरेण भोजनं जीर्णे शालेर्लावरसेन वा|
तथास्य काचतिमिरे सुकृच्छ्राः शिरसो गदाः|
मेधाविनः प्रणश्यन्ति गात्रं सुप्तं च बुध्यते|
एष सप्तामृतश्चूर्णः सर्वव्याधिषु पूजितः||१३६||
विडङ्गादीनां सप्तानां चूर्णो माक्षिकेणैकविंशतिदिनं संयतेन्द्रियेण सता लीढः काचतिमिरे शिरोरोगांश्च नाशयति, मेधां जनयति त्वग्दोषेण च सुप्तगात्रं बोधयति| नाम्ना सप्तामृतः सर्वव्याधिहरश्च|| १३६||
Adhikarana caturthaH prayogaH (137) · Śloka 137
पलं चूर्णस्य कञ्चुक्याः क्षीरप्रस्थे समावपेत्|
स्नेहं दध्नस्ततो लिह्याज्जितात्मा ससिता मधु|
शालेरन्नं पयः पानं मासमेवम् प्रयोजयेत्|
चतुर्गुणः परीहारः षोडशाब्दसमद्युतिः|
शतनि पञ्चवर्षाणां जीवेद्देव इवोर्जितः||१३७||
कञ्चुकीजातदध्नो नवनीतप्रयोगः सुबोधः| षोडशवर्षेण यूना समकान्तिः सन् देव इवोर्जया युक्तः पञ्चशतवर्षाणि जीवति||१३७||
Adhikarana martyAmRutaM ghRutam (138) · Śloka 138
पचेत्पलानि द्रोणेऽपां कञ्चुक्याः पञ्चविंशतिः|
अष्टांशशिष्टे तु घृतात् प्रस्थं क्षीरसमं पचेत्|
शङ्खपुष्पीवचाकुष्ठत्रिवृतामरदारुभिः|
वरायष्टीसिताद्राक्षामहिषाक्षैः पलांशिकैः|
युक्तैः कमलकिञ्जल्कत्रिपलेन हिमेऽत्र च|
क्षौद्राच्च्तुष्पलं दद्यादेतन्मर्त्यामृताह्वयम्|
चक्षुष्यं बृंहणं मेध्यं वर्ण्यं वर्षशतप्रदम्||१३८||
पचेत् पलानीत्यादिना मर्त्यामृतं नामघृतं सुबोधम्| शङ्खपुष्पादिभिः पलांशिकैः पद्मकिञ्जल्कात् त्रिपलेन युक्तैरिति सम्बन्धः| अत्र च हिम इति शीतिभूते| महिषाक्षो गुग्गुलुः|| १३८||
Adhikarana somAmRutaM ghRutam (139) · Śloka 139
पचेत्पलानि कञ्चुक्यास्त्रीणि लोहात्सुचूर्णितात्|
पलाशबीजाच्चत्वारि दश द्वे च फलत्रयात्|
अष्टादश शतावर्या बीजकस्यैकवींशतिः|
जीवन्त्याः षोडशैकध्यं पौर्णमास्यां विपाचयेत्|
वहेयां पादशेशे च पृथगर्द्धाढकेन च|
पचेत् काञ्जिकमस्तुभ्यां घृतप्रस्थं पिचून्मितैः|
शताह्वारुष्करवचाकुष्ठैलाविड्~हिङ्गुभिः|
सौवर्चलान्वितैः पद्मकेसराच्च त्रिभिः पलैः|
पञ्चभिः पद्मबीजानां पद्मद्वादशकेन च|
एतत् सोमामृतं पीत्वा यत्सोमोऽद्यापि राजते|
इदमुपयुज्य सर्पिरतिवीर्यमुदारगुणं भवति सुवाक्सुधीः सुदृढसुबलः सुभगः|
ग्रहमरकोपसर्गविषभीतिभिरधृष्यवपु र्विजितजराज्वरो नयति वर्षशतद्वितयम्||१३९||
अष्टौ पलानीत्यादिना सोमामृतं नाम घृतं भवति| यत् सोमः शशाङ्कः पुरा पीत्वा अद्यापि राजते| अतिवीर्यमुत्कृष्टगुणं चेदमुपयुज्य नरः सुवाक्त्वादियुक्तो भवति| ग्रहादिभिश्चाप्रघृष्यो विजितजराज्वरः सन् वर्षशतद्वयं जीवति| ज्वरा व्याधयः| त्रिफलायाः प्रत्येकं पलचतुष्टयम्| इति कञ्चुकीकल्पः|| १३९||
Adhikarana guggulukalpaH prAgutpattiH (140) · Śloka 140
दानवेन्द्रविजितान् पुरा सुरान् भ्रष्टकान्तिधृतिधैर्यतेजसः|
वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम्|
अद्याप्यतः सुरगणाः किल धूपमुख्यान् हित्वा वरागरुतुरुष्कहिमेन्दुदर्पान्|
निर्दह्यमानवपुषोऽपि शिखां पिबन्तो गन्धेन यस्य मुदिता दधति प्रसादम्||१४०||
पुरा पूर्वं कस्मिंश्चित् काले दानवेन्द्रैर्विजितान् सुरान् भ्रष्टकान्त्यादीन् दृष्ट्वा विष्णुर्बलादिप्रदं गुग्गुलुममृतं किला-सृजत्| किलेत्यागमे| अत उक्ताद्धेतोः सुरगणा दिवौकसोऽद्याप्यविच्छेदवरागर्वादीन् धूपमुख्यान् हित्वा त्यक्त्वा यस्य गुग्गुलोः शिखां धूमलेखां पिबन्तो निर्दह्यमानशरीरा अपि परं प्रसादं दधति धारयन्ति||१४०||
Adhikarana gugguluguNA (141) · Śloka 141
स योगवाही सशिवः ससार्वः सर्वर्तुसेव्यः सुखशीलनीयः|
हन्ता जरापाप्ममलामयानां कर्त्ताऽग्निमेधास्मृतिपाटवानाम्||१४१||
स इति गुग्गुलुः| योगवाही योगेनैव सः प्रयुज्यते यदि तर्हि स्वगुणानजहत् तस्य गुणान् गृह्णाति| शिवः श्रेयस्करः| सर्वेभ्यो हितः सार्वः| सुबोधम्| जरादीनां हन्ता| अग्न्यादीनां कर्त्ता|| १४१||
Adhikarana shreShThatAlakShaNam (142) · Śloka 142
गन्धोत्कटः सदाहे स्निग्धद्रवपिच्छिलो विगतशल्यः|
महिषाक्षः पुष्परागस्फटिकासितनीरदच्छायः|
यः पद्मरागरागो यः कनकच्छेदपाटलो यो व|
जयतीन्द्रनीलममलं भग्नोऽप्यतिकान्तिमत्वेन||१४२||
स च महिषाक्षो गुग्गुलुः श्रेष्ठः यो दाह उत्कटगन्धः स्निग्धादिरुपश्च| व्याख्यासमम्|| १४२||
Adhikarana shreShThA mAtrA (143) · Śloka 143
श्रेष्ठः प्रयोगोऽस्य तुला पलात्रैवाधिकं पिबेत्||१४३||
अस्य च गुग्गुलोस्तुलापलशतं परं प्रयोगः| अत ऊनोऽपि दोषाद्यपेक्षया| प्रत्यहं च पलादधिकं नैव पिबेत्|| १४३||
Adhikarana pAnakAle prayojyo mantraH (144) · Śloka 144
आत्रेयमुनिगीतश्च मन्त्रोऽयं कर्मसिद्धिकृत्|
भगवान् पुण्डरीकाक्षो देवाश्च सपुरन्दराः|
आज्ञापयन्ति सम्यक्त्वां प्रभावं चादिशन्ति ते|
जरामरणदुःखेभ्यो यथा तेभ्युत्थितः सुराः|
उपयोक्तुस्तथैवास्य भव त्वं हि महाबल||१४४||
भगवानित्यादिना श्लोकद्वयेनात्रेयमुनिगीतः कर्मसिद्धिकृदयं गुग्गुलुप्रयोगमन्त्रः सुबोधः|| १४४||
Adhikarana vAtakaphAmayeShu prayogaH (145) · Śloka 145
पञ्चमूलस्य महतः क्वाथेन हितभोजिना|
गुग्गुलुः शीलितो हन्ति सर्वान् वातकफामयान्|
लघीयसोऽपि तद्वच्च सुखोष्णेन जलेन वा|
मस्तुधान्याम्लमद्यैर्वा वचादेः सलिलेन वा||१४५||
स च गुग्गुलुर्महतः पञ्चमूलस्य वा लघीयसो ह्रस्वस्य वा क्वाथेनोष्णाम्बुना वा मस्त्वादीनामन्यतमेन व वचादेर्गणस्य सलिलेन क्वाथेन वा हितभोजिना शीलितः सर्वान् वातकफेन कृतानामयान् व्याधीन् हन्ति|| १४५||
Adhikarana bAdhiryAdiShu prayogaH (146) · Śloka 146
वरणादेस्तु बाधिर्यदन्तकर्णशिरोरुजः|
स्वरभेदोदरश्वासवर्ध्मान्तर्गुल्मविद्रधीन्||१४६||
वरणादेस्तु गणस्य सलिलेन शीलितो वाधिर्यादीन् विद्रध्यन्तानामयान् हन्ति| अन्तःशब्दो गुल्मविद्रधीभ्यां सम्बध्यते||१४६||
Adhikarana vAtapittAsrarogeShu prayogaH (147) · Śloka 147
वातपित्तास्ररोगेषु बृंहणार्थिनि चेष्यते|
क्वाथेन वाजिगन्धाया जीवनीयगणस्य वा||१४७||
अश्वगन्धायाः क्वाथेन जीवनीयगणस्य वा क्वाथेन युक्तो गुग्गुलुर्वातपित्तास्ररोगेष्विष्यते बृंहणार्थिनि च पुरुषे इष्यते||१४७||
Adhikarana vAtapitte prayogaH (148) · Śloka 148
क्वाथेनोत्पलमृद्वीका रक्तचन्दनजन्मना|
वातपित्तं निहन्त्येश पद्मकादिगणस्य वा||१४८||
एष गुग्गुलुरुत्पलादिजन्मना क्वाथेन पद्मकादिगणस्य क्वाथेन वा युक्तो वातपित्तं निहन्ति|| १४८||
Adhikarana kaPavAte prayogaH (149) · Śloka 149
चव्यकुष्ठविडङ्गनां यवान्या नागरस्य वा|
प्रसारिण्याश्च तोयेन गुग्गुलुः कफवातजित्||१४९||
चव्यादित्रयस्य वा यवान्यादीनां वा क्वाथेन युक्तो गुग्गुलुः कफवातजित्|| १४९||
Adhikarana kaphavAtamedodoShe prayogaH (150) · Śloka 150
त्र्यूषणाग्निघनवेल्लवराभि र्भक्षयन् समघृतं महिषाक्षम्|
आशु हन्ति कफमारुतमेदो दोषजान् बलवतोऽपि विकारान्||१५०||
त्र्यूषणादीनां समानां नवसङ्ख्यानामेको भगः| द्वितीयो गुग्गुलोरित्येतत् भक्षयन् पुरुषो बलवतोऽपि कफादिजान् विकारान् आशु हन्ति|| १५०||
Adhikarana kaphapittarogeShu prayogaH (151) · Śloka 151
पटोलनिम्बत्रिपुलागुडूची गायत्रिरात्रिद्वयबीजकानाम्|
क्वाथैः पृथक्पथ्यपरस्य हन्ति मासेन घोरान् कफपित्तरोगन्|
विशेषाच्छोफवीसर्पदुष्टव्रणभगन्दरान्|
शुक्रार्त्तवमनोदोषप्रमेहश्वित्रपाण्डुताः||१५१||
पटोलादीनां पृथगष्टभिः क्वाथैर्युक्तो गुग्गुलुः पथ्यपरस्य पुंसो घोरान् कफपित्तरोगान् हन्ति| शोफादीन् पाण्डुतान्तान् रोगान् विशेषाद्धन्ति| दोषशब्दो रोगपर्यायः शुक्लादित्रयेण सम्बध्यते||१५१||
Adhikarana galarogAdiShu prayogaH (152) · Śloka 152
पटोलारिष्टनिर्यूहपिष्टस्तुल्यरसाञ्जनः|
गलरोगापचीव्यङ्गग्रन्थिस्थौल्यकृमिप्रणुत्||१५२||
पटोलनिम्बयोः क्वाथेन पिष्टस्तुल्यरसाञ्जनो गुग्गुलुः गलरोगादिकं प्रकर्षेण नुदति|| १५२||
Adhikarana vAtashoNite prayogaH (153) · Śloka 153
शिलाजतुसमः पीतः पयसा वातशोणितम्|
निवर्तयत्यतिबलं क्षीरमांसघृताशिनः||१५३||
शिलाजतुना समो गुग्गुलुः पयसा क्षीरेण पीतोऽतिबलं वातशोणितं क्षीराद्यशनशीलिनः पुंसो निवर्त्तयति|| १५३||
Adhikarana vAtapittakapheShu prayogaH (154) · Śloka 154
रसेन पयसा मूत्रैर्वातपित्तकफापहः||१५४||
मांसरसेन युक्तो गुग्गुलुर्वातापहः| पयसा क्षीरेण पित्तापहः मूत्रेण कफापहः|| १५४||
Adhikarana medhAdikRutyaprayogaH (155) · Śloka 155
ब्राह्मीमण्डूकशङ्खानां पृथङ्मेधादिकृद्रसैः||१५५||
ब्राह्न्यादीनां पृथग्रसैर्युक्तो मेधादिकृत्| आदिशब्देन स्मृत्यादीनां ग्रहणम्|| १५५||
Adhikarana sarvAmayaghnaprayogaH (156) · Śloka 156
मागधिकाग्निकलिङ्गविडङ्गै र्बिल्वघृतैः सवरापलषट्कैः|
गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैः सकलामयनाशः||१५६||
मागधिकादिभिश्चतुर्भिर्बिल्वघृतैः प्रत्येकं पलप्रमाणैस्त्रिफलायाश्च प्रत्येकं द्विपलैरेतैश्च सर्वैः सदृशेन समेन दशपलेन गुग्गुलुना समेतैर्युक्तैस्ततश्च क्षौद्रद्रुतैः सकलामयानां नाशो भवति|| १५६||
Adhikarana sAmAnyopadeshaH (157) · Śloka 157
पिबेत् पलशतं योऽस्य विधिना नियतो यतिः|
नाकालमृत्योर्न व्याधेर्न तस्य जरसो भयम्|
कल्पयेदौषधैः स्वै-स्वैर्व्याधिषु व्याधिनाशनैः|
शिलाजतुविधानञ्च गुग्गुलोः सर्वमिष्यते||१५७||
अस्य च प्रकृतस्य गुग्गुलोः पलशतं यः पुरुषो नियतो नियतेन्द्रियः यतिर्ब्रह्मचारी च पिबेत् तस्याकालमृत्योर्व्याधेर्जरसश्च भयं न भवति| सर्वेषु च व्याधिषु स्वैः स्वैश्चिकित्सितनिर्दिष्टव्याधिनाशनैः सह गुग्गुलुं कल्पयेत्| अस्य च गुग्गुलोर्वक्ष्यमाणं शिलाजतुविधानमपि सर्वमिष्यते| शिलाजतुवत् सोऽपि योक्तव्य इत्यर्थः|| १५७||
Adhikarana atimAtraprayogadoShAH (148) · Śloka 148
गुणनिधिरपि कुर्यात् सोऽतिमात्रोपयुक्त स्तिमिरवदनशोषक्लीबताकार्श्यमोहान्|
शमलशिथिलभावं देहरौक्ष्यं च तस्माद् रजनिचरनिषेवी स्यान्न रोगेष्वमीषु||१४८||
स च गुग्गुलुः स्वभावेन गुणनिधिरप्युपकारनिधानमप्यतिमात्रोपयुक्तः संस्तिमिरादिकं गदं कुर्यात्| यतोऽस्य तिमिरादिकरणशक्तिर्विद्यते| ततोऽमीषु तिमिरादिषु रोगेषु पुरुषो रजनिचरनिषेवी न स्यात्| रजनिचरो गुग्गुलुः| क्लीबता स्त्रीगमनाशक्तत्वम्| शमलशिथिलभवो द्रुतपुरीषत्वम्| सर्वामयेषूक्तोऽप्येषु निशेधः| इति गुग्गुलुकल्पः|| १४८||
Adhikarana shilAjatukalpaH paricayaH guNAshca (159) · Śloka 159
ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत्|
हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु|
सर्वदोषप्रशमनं सर्वरोगविनाशनम्|
शिलाभ्यो यस्य यज्जातं धातोस्तत्तद्गुणं वदेत्||१५९||
इतः शिलाजतुः| ग्रीष्माख्य ऋतौ गिरयः पर्वताः अर्केण भगवता गभस्तिमालिन तप्ताः सन्तो जतुतुल्यं यद्वमन्ति उद्गिरन्ति तच्छिलाजतूच्यते| किं ते वमन्तीत्याह-हेमादिषट् धातुरसं, हेमादीनां सुवर्णरूप्यताम्रत्रपुसीसशस्त्राख्यानां षण्णां धातूनां रसं तच्च यथास्वं धातुबलैरेव विज्ञायते| तच्च सर्वं शिलाजतु सर्वदोषप्रशमनं सर्वरोगविनाशनं च| यस्य च हेमादिधातोः शिलाभ्यो यज्जातं तत्तद्गुणम्|| १५९||
Adhikarana shreShThashilAjatulakShaNam (160) · Śloka 160
सर्वं च तिक्तकटुकं नात्युष्णं कटुपाकतः|
छेदनं च विशेषेण लौहं तत्र प्रशस्यते|
गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्|
स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम्||१६०||
सर्वं च तिक्तादिगुणम्| तत्र तेषु मध्ये लौहं प्रशस्तम्| गोमूत्रगन्धित्वादिगुणं च शिलाजतु श्रेश्ठमिति विद्यात्| विशर्करं विगतशिलाचूर्णम्|| १६०||
Adhikarana doShAnusAraM bhAvanam (161) · Śloka 161
रास्नादशमूलबलापुनर्नवैरण्डशुण्ठिमधुकानाम्|
क्वाथेन भावितं तद्विशेषतो वातरोगघ्नम्|
द्राक्षाभीरुपटोलत्रायन्तिगुडूचिजीवनीयानाम्|
निर्यूहेण सुभिन्नं शस्तं पित्तमये सुतराम्|
क्रिमिजिद्वचाफलत्रयकरञ्जघनमुख्यपञ्चमूलानाम्|
सहपञ्चकोलकानां क्वाथेन कफामये भाव्यम्|
लघुपञ्चमूलशुण्ठीद्राक्षाकाश्मर्यवाजिगन्धानाम्|
सगुडूचिशरबलानां रसेन पित्तानिलगदेषु|
घनकुष्ठवचात्रिफलासुरदारुविडङ्गपञ्चकोलानाम्|
रजनीमरिचातिविषायुक्तानां वातकफजेषु|
पाठापटोलनिम्बत्रिफलाघनकुटजसप्तपर्णानम्|
त्रायन्त्यमृतातिविषासहितानां पित्तकफजेषु||१६१||
प्रतिदोषं शिलाजतुभावनमाह-रास्नेत्यादि| तच्च शिलाजतु सर्वदोषरोगघ्नमपि रास्नादिक्वाथेन भावितं विशेषेण वातरोगघ्नं भवति| द्राक्षादिक्वाथेन भावितं पित्तामये सुतरां शस्तम्| कफामये पञ्चकोलसहितानां कृमिजिद्वचादीनां क्वाथेन भाव्यम्| मुख्यपञ्चमूलं महत्| गुडूच्यादिसहितानां लघुपञ्चमूलादीनां रसेन क्वाथेन पित्तानिलगदेषु भाव्यम्| रजन्यादियुक्तानां घनादीनां क्वाथेन वात कफजेषु व्याधिषु| त्रायन्त्यादिसहितानां पाठादीनां क्वाथेन पित्तकफजेषु|| १६१||
Adhikarana nicaye bhAvanAvyavasthA (162) · Śloka 162
निचयेऽपि दोषबलतो योगानेतान् विकल्प्य युञ्जीत|
विविधगणसंग्रहोक्तैस्तैस्तैश्च गणैर्गिरेस्सारम्|
व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे|
प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्||१६२||
एतांश्च पृथग्दोषोक्तान् संसर्गोक्तांश्च योगान् सन्निपातेऽपि दोषबलापेक्षया विकल्प्य युञ्जीत| विविधगणसंग्रहाध्यायोक्तैश्च जीवनीयादिभिर्गणैः स्वे स्वेष्वेव विषयेषु| गिरेः सारं शिलाजतु| कथं युञ्जीतेत्याह-व्याधिसात्म्यं व्याधितसात्म्यं च समनुसरन्ननुगच्छन्| तच्च यदा भाव्यं तदायस्पात्र एव| तच्च प्रथममेव केवलेन जलेन धौतं शुष्कं च क्वाथैस्ततो भाव्यम्|| १६२||
Adhikarana bhAvanAvidhAnam (163) · Śloka 163
समगिरिजमष्टगुणिते निष्क्वाथ्यं भावनौषधं तोये|
तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेत् गिरिजम्|
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः|
स्वैस्स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त||१६३||
समगिरिजमित्यादिना भावनाविधानम्| यावदेव शिलाजतु भाव्यं तावदेवौषधं पलमानेनाष्टगुणिते तोये निष्क्वाथ्यम्| अष्टांशो तस्मिन् निर्यूहे क्वाथे पूते उष्णे च गिरिजं प्रक्षिपेत्| तच्च शिलाजतु क्वाथेन समरसतामेकत्वं प्राप्तमनु च शुष्कं पुनरनेनैव विधानेन भावनारसं प्रक्षिपेत्| एवमेतेन प्रकारेण स्वैस्स्वैर्यथोक्तैः प्रत्येकं कषायैः| सप्तवारान् भावयेत्|| १६३||
Adhikarana upayogakramaH (164) · Śloka 164
अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्|
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम्|
फलत्रयस्य यूषेण पटोल्या मधुकस्य च|
योगयोग्यं ततस्तस्य कालापेक्षं प्रयोजयेत्|
शिलाजमेव देहस्य भवत्यत्युपकारकम्|
गुणान् समग्रान् कुरुते सहसा व्यापदश्च न||१६४||
अथेत्यादिना उपयोगक्रमः| आदावेव स्निग्धस्यानन्तरं कृतशोधनस्य तिक्तकैः सूत्रोक्तैरौषधैः साधितं घृतं त्र्यहं युञ्जीत| ततोऽनन्तरं फलत्रयादीनां त्रयाणामेकैकस्य यूषेण क्वाथेन युक्तं गिरिजं क्रमेण त्र्यहं युञ्जीत| एवं द्वादशाहानि संस्कारः| ततोऽनन्तरं तस्य शिलाजतुनो योगं स्वस्थातुरविशेषवशेन कालमपेक्ष्य प्रयोजयेत्| एवमेतेनैव क्रमेण शिलाजं देहस्यात्युपकारकं भवति| समस्तांश्च रसायनगुणान् कुरुते| व्यापदश्च सहसा न कुरुते||१६४||
Adhikarana mAtrAbhedAH (165) · Śloka 165
एकत्रिसप्तसप्ताहं कर्शमर्द्धपलं पलम्|
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः||१६५||
तस्य शिलाजस्य हीनादिविशेषेण त्रिप्रकारो योगो मत आचार्याणाम्| एको हीनः, द्वितीयो मध्यमः, तृतीय उत्तमः-एवं हीनादिविशेषेण| मात्राविशेषेण प्रत्येकं त्रिविधं कर्षमर्द्धपलं पलमिति| अत्रैकसप्ताहं हीनो योगः| त्रिसप्ताहं मध्यमः| सप्तसप्ताहमुत्तम इति क्रमार्थः| तथैव कर्षो हीनयोगः| अर्द्धपलं मध्यमः| पलमुत्तम इति|| १६५||
Adhikarana tAmrAdibhiH prayogaH (166) · Śloka 166
संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्|
युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः|
क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्|
हन्याद्रोगानशेषांश्च जीर्णे हितमिताशिनः||१६६||
संस्कृतमिति| संस्कृते स्नेहादिभिर्देहे यथादोषमौषधैः संस्कृतं शिलाजं ताम्रादिभिर्द्धातुभिः पृथग्यथायोगं मिश्रितैर्वा चतुर्भिर्वा युक्तं क्षीरेण चालोडितं प्रयुक्तं रासायनं फलं दीर्घायुष्ट्वादिकं जीर्णे हितं मितं च भोजनं कुर्वतः शीघ्रः कुर्यादशेषांश्च रोगान् हन्यात्|| १६६||
Adhikarana parihAryANi (167) · Śloka 167
व्यायामातपमारुतचेतःसन्तापगुरुविदाह्यादि|
उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम्|
कुलत्थान् काकमाचीञ्च कपोतांश्च सदा त्यजेत्|
पिबेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा||१६७||
व्यायाम इत्यादि| अत्र च व्यायामादिकमशेषं प्रयोगात्परतो द्विगुणमपि कालं परिवर्जयेदपिशब्दात् प्रयोगेऽपि| कुलत्थादिकं च सदा प्रयोगात् प्रभृति यावज्जीवं त्यजेत्| तथैव च माहेन्द्रादिकमुदकं पिबेत्| माहेन्द्रमान्तरिक्षम्| शिलाजतुप्रयोगेषु विदाहीनि गुरूनि च| वर्जयेत् सर्वकालन्तु कुलत्थान् परिवर्जयेत्|| ते ह्यन्त्यन्तविरुद्धत्वादश्मनोभेदनाः परम्| लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते|| इति चरकपाठः| व्याख्या-सर्वकालन्तु कुलत्थान् परिवर्जयेदित्यत्र तुशब्दोऽवधारणार्थे| ननु सर्वत्वं कालस्य कीदृक्? यावज्जीवमित्येके| अन्ये त्वाचक्षते अत्यन्तविरुद्धत्वेऽपि रसायनस्यान्तवता फलेन भवितव्यं नात्यन्तिकेन| तस्मात् संवत्सरपरिहारः तस्यैतावानेव कालो यतः षडृतवस्तस्य विशेषणानि| कुलत्थानां शिलाजतुप्रयोगे विदाह्यादिभ्यो विशेषतो विरोधः तस्मात्तेषामेव वर्जनं यत स्तन्मय एव कायो भवति| कुलत्थाश्चाश्मविरोधिनः येन तद्रवेण ग्रावाणः सिक्ताः स्फुटन्ति| संवत्सराद्धि अत्यन्तदृढता कायस्य स्यादतः संवत्सरं परिहारः-इति जेज्जटः|| १६७||
Adhikarana rogabhedAnusAramanupAnabhedAH (168) · Śloka 168
ज्वरी ज्वरघ्नाम्बुदपर्पटादि क्वाथेन रक्ती मधुयष्टिकायाः|
शोषी रसैः क्रव्यभुगामिषोत्थै र्मायूरमांसैः पयसा च कार्श्ये|
मध्वम्बुना मेदसि सम्प्रवृद्धे क्षीरेण पर्याकुलबुद्धिसत्त्वः|
पाण्ड्वामयार्त्तावुदरे सशोफे पिबेच्छिलाजं महिषीजलेन|
अश्म वीरतराद्येन कुष्ठं खदिरवारिणा|
विषं विषघ्नैरगदैर्हन्त्येवं तद्यथामयम्|
शैलजत्रिकटुक्षौद्रं क्षौद्रधातून् निषेवते|
क्षीरौदनाशी यो जीर्णे यक्ष्मणा न स बाध्यते|
सुभावितात्मारगणैस्तुलां पीत्वा शिलोद्भवात्|
साराम्बुनैव भुञ्जानः शालिं जाङ्गलजै रसैः|
व्यपोह्य मधुमेहाख्यमन्तकं रोगसङ्करम्|
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः||१६८||
ज्वरीत्यादेः शिलाजं पिबेदिति सम्बन्धः| व्याख्यासमम्| मुस्तापर्पटकादि यच्चिकित्सित उक्तं तस्य क्वाथेन| रक्ती रक्तपित्तेन प्रवृत्तरक्तः| क्रव्यभुजो मांसाशिनः प्राणिनस्तेषां रसैः शोषी राजयक्ष्मी| पर्याकुलमेकरूपं बुद्धिः सत्त्वं च यस्य सः क्षीरेण| सत्त्वं मनः| पाण्ड्वामयादित्रये महिषीमूत्रेण| अश्मेत्यादिभिर्हन्तीति सम्बन्धः| यथामयमिति रोगस्वरूपानतिक्रमेण| शैलजादिकं सर्वं क्षौद्रेण सहितं यो निषेवते तस्मिंश्च जीर्णे क्षीरौदनाशी च भवति, स राजयक्ष्मणा न बाध्यते| सारगणोऽसनादिसारास्तैः सुभाविताच्छिलोद्भवात् तुलां पलशतं साराम्बुनैव पीत्वा शालिं जाङ्गलजै रसैर्भुञ्जानः पुरुषो मधुमेहाख्यं रोगसङ्करमन्तकं व्यपोह्य नाशयित्वा वपुरादिभिरुपेतोऽनामयश्च सन् वर्षशतं जीवति|| १६८||
Adhikarana shivAgulikA (169) · Śloka 169
शिलाह्वात् षोडशपलं त्रिस्त्रिरेकत्र भावयेत्|
वराया दशमूलस्य गुडूच्याः कर्कशस्य च|
बलाया मधुयष्ट्याश्च रसे गव्ये च वारिणि|
क्षीरे सकृत्क्रमेणैवं सप्तकृत्वस्तथा पुनः|
काकोलियुग्मघनपुष्करवह्निरास्ना- मेदायुगर्द्धिचविकागजपिप्पलीनाम्|
पाठाद्विजीवकनिकुम्भविदारियुग्म- वीरा वरी मधुफलांशुमतीद्वयानाम्|
पालिकानामब्द्रोणे सिद्धानां पादशेषिते क्वाथे|
भावितमित्थं गिरिजं द्विपलैश्चूर्णीकृतैर्युञ्ज्यात्|
कर्कटशृङ्गीधात्रीव्योषैस्ताली सपन्नकुडवेन|
चूर्णपलेन विदार्यास्त्वक्क्षीर्याः कर्षयुग्मेन|
द्विपलेन चतुर्जातात्तैलघृतक्षौद्रशर्कराभिश्च|
द्विपलादिद्विगुणाभिः कार्या गुलिकास्ततोऽक्षसमाः|
ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः|
तासामेकां खादेत् प्रतिदिनमनुपानमत्रेष्टम्|
क्षीररसदाडिमाम्भो मार्द्वीकसुरासवान्यतमम्|
जीर्णेऽन्नं लघु भोज्यं यूषपयःपिशितनिर्यूहैः|
सप्ताहमात्रमेवम् सर्वान्नीनः क्रमाद्भवेत् परतः|
भक्तस्यान्ते प्राग्वा गुलिका न विरुद्ध्यते सैषा|
निरपाया भूरिफला परिहारसुखोपयोजिता जयति|
प्रबलमपि वातशोणितमूरुस्तम्भं ज्वरं दीर्घम्|
भगमूत्रशुक्रदोषप्लीहयकृद्रक्तपाण्डुहृद्रोगान्|
वर्ध्मवमिगुल्मपीनसहिध्माकासारुचिश्वासान्|
विद्रधिमुदरं कुष्ठं श्वित्रं जाड्यं क्षयं मदं मूर्च्छाम्|
उन्मादमपस्मारं मुखनेत्रशिरोगदांस्तांस्तान्|
आनाहमतीसारं हलीमकं कामलाग्रहणिरोगान्|
ग्रन्थ्यर्बुदान् सपिटकान् भगन्दरं गण्डमालां च|
अतिकार्श्यमतिस्थौल्यं स्वेदमथश्लीपदं गुदे कीलान्|
दंष्ट्राविषं समूलं गरप्रयोगान् सुघोरांश्च|
अभिचारमरातिकृतं दुःस्वप्नं भौतिकीं तथा बाधाम्|
पाप्माऽलक्ष्मीं चेयं गुलिका शमयेच्छिवा नाम्ना|
वृष्याऽऽयुष्या धन्या कान्तियशःश्रीविबोधिनी मेध्या|
कुरुते नृपवल्लभतां जयं विवादे च वक्त्रस्था|
जितखलतिवलीपलिता जीवयति सुखं शतद्वयं शरदाम्|
वर्षद्वयप्रयोगाद्वर्षशतचतुष्टयं जीवेत्||१६९||
शिलाह्वादित्यादिना शिवा गुलिका| षोडशपलं शिलाह्वात् त्रिफलादीनां षण्णां षट्सु क्वाथेषु क्रमेण तत्रैकैकत्र क्वाथे त्रिस्त्रिर्भावयेत्| भावनाक्वाथस्य चेहैव विधानमुक्तम्| तेन त्रिफलादिषट्कान्यतमद्रव्यं शिलाजतुसमत्वात् षोडशपलं कार्यम्| तत्र चाष्टगुणं जलं दत्वा क्वथितेनाष्टांशशिष्टेन तेन समं शिलाजतु भाव्यम्| तदनन्तरमेव च गोमूत्रेणैवं वारान् भावयेत्| अनन्तरं च क्षीरे सकृदेकवारं भावयेत्| मूत्रं क्षीरं च क्वाथवच्छिलाजतुसममेव विज्ञेयम्| एवं क्रमेण त्रिफलादिक्वाथैरिति क्रमो व्याख्यातः| एवं द्वाविंशतिवारान् भावयेत्| ततः पुनः सप्तवारन् भावयेत्| केनेत्याह-काकोल्यादिक्वाथेन| खरनादे-कर्कटशृङ्गी श्रावणी चात्राधिके पठिते| काकोलियुग्मं काकोली क्षीरकाकोली च| घनं मुस्तम्, वह्निश्चित्रकः, मेदायुग्मं मेदा महामेदा च| ते हि प्रसिद्धे| जीवकद्वयं, जीवन्ती जीवकं च| निकुम्भो दन्ती| विदारीयुग्मं विदारी क्षीरविदारी च| वीरा स्वनामिका (महाशतावरी)| वरी शतावरी| मधुफला द्राक्षा| अंशुमतीद्वयं सालपर्णी पृश्निपर्णी च| इत्थमनेन प्रकारेण भावितं गिरिजं कर्कशृङ्ग्यादिभिः पञ्चभिः प्रत्येकं द्विपलैर्युञ्ज्याद्योगं नयेत्| अत्र खरनादे 'पुष्करमूलम'पि पठितम्| तालीसपत्रकुडवादींश्च युञ्ज्यादिति सम्बध्यते| क्षीरशुक्लातवक्षीर्योरत्र पलं कर्षद्वयं च| ययोः पलान्युक्तानि खरनादे पञ्च| तैलादिभिश्च द्विपलादिद्विगुणाभिर्युञ्ज्यात्| द्विपलादेर्द्विगुणत्वम्| एवञ्च तैलादीनां द्वन्द्वात् स्त्रीलिङ्गैः सामानिधकरण्यं स्यात्| तेन तैलं द्विपलं ततो द्विगुणं घृतं चत्वारि पलानि| ततो द्विगुणं क्षौद्रमष्टौ पलानि| ततो द्विगुणा शर्करा षोडशपलानि| ततोऽनन्तर-मक्षसमाः कर्षिका गुलिकाः कार्याः| तासां गुलिकानां मध्यात् प्रतिदिनमेकां गुलिकं खादेत्| अत्र च गुलिकायां दोषाद्यपेक्षं क्षीरादीनामन्यतममनुपानमिष्टम्| अत्र च लघ्वन्नं यूषादिभिरर्थात् कफादिषु भोज्यं तस्मिंश्च जीर्णे| अजीर्णे वर्ज्यमित्यर्थः| पिशितनिर्यूहो मांसरसः| एष एव क्रमः सप्ताहमात्रं विधेयः| मात्रशब्देन दोषाद्यपेक्षमाधिक्यमपि प्रदर्शयति| परतश्च सप्ताहादिच्छया क्रमात् सर्वान्नीनो भवेत् न तु त्वरया| एषा च गुलिका प्राग्भक्तमप्युत्तरभक्तमपि न विरुध्यते| निरपाया अस्यामुपयुज्यमानायामपायो नाशङ्क्यते| एषा च परिहारसुखा यन्त्रणानन्वितेत्यर्थः| एषा चोप योजिता सती प्रबलमपि वातशोणितमूरुस्तम्भादिकं च जयति| दोषशब्देन रोगपर्यायेण भगादीनां सम्बन्धः| मुखादिगदांश्च तांस्तानिति स्वस्वाध्यायनिर्दिष्टान्| इयं च गुलिका नाम्ना शिवा पाप्मानमलक्ष्मीं च शमयेत् वृष्यादिस्वरूपा च| वक्त्रस्था विवादे जयञ्च कुरुते| एषा च जितखल्यादिका सती शरदां संवत्सराणां शतद्वयं पुरुषं सुखं जीवयति| अस्याश्च वर्षद्वयप्रयोगात्पुरुषो वर्षशतचतुष्टयं जीवेत्|| १६९||
Adhikarana shilAjatukalpopasaMhAraH (170) · Śloka 170
न सोऽस्ति रोगो भुवि साध्यरूपो ऽजत्वशमजं यं न जयेत् प्रसह्य|
तत्कालयोगैर्विधिवत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति|
अमरमन्दिरमन्दरसम्भवात् शतपलं गिरिजादुपोजय|
यदि जरामयदुःखविवर्जितां सुचिरमिच्छसि जीवितसन्ततिम्|
दशगुणमुपयुङ्क्ते यः शतं शैलजातात् लघुहितमितभोजी वर्जयन् वर्जनीयान्|
सततसमनुषक्तान् वर्जितान् वैद्यवृन्दै र्विधमति सगदौघान् नेक्षते चायुषोऽन्तम्|
समुद्बभूवामृतमन्थनोत्थः स्वेदः शिलाभ्योऽमृतवान् गिरेः प्राक्|
यो मन्दरस्यात्मभुवाहिताय न्यस्तः स शैलेषु शिलाजरूप्||१७०||
शिलाजतूपसंह्नियते| भुवि स रोगः साध्यरूपः साध्यस्वरूपः नास्ति यं रोगमश्मजं जतु प्रसह्याक्रम्य न जयेत्| तच्चाश्मजं जतु काले योग्यैश्च योगैर्विधिवच्छास्त्रविधिना प्रयुक्तं स्वस्थस्य च नीरोगस्यापि विपुलामूर्जां दधाति| कमप्यधिकृत्योच्यते| त्वं यदि जरादिवर्जितां सुचिरं बहुकालं जीवितसन्ततिमायुषः समूहमिच्छसि तर्हि पलशतं गिरिजादपयोजय| किम्भूतादाह-अमरमन्दिरमन्दरसम्भवादमराणां देवानां यन्मन्दिरं वासवेश्म यो मन्दरः मुख्यो गिरिः तत्र सम्भवो यस्य तस्मात्| यः पुरुषः शैलजातात् गिरिजाद्दशगुणं सहस्रं लघ्वादिभोजी वर्जनीयांश्च वर्जयन्नुपयुङ्क्ते स पुरुषो व्याधिसमूहान् विधमति नाशयति| आयुषश्चान्तं नेक्षते न पश्यति| किम्भूतान् गदौघानाह-सततसमनुषक्ताण् अजय्यत्वादनुबद्धान् वैद्यवृन्दैर्वर्जितांश्च| पुरा अमृतमथने मन्थनगिरेर्मन्दरस्य श्रमस्वेदोऽमृतेन युक्तः प्रथममुद्बभूव| योऽमृतवान् गिरेः स्वेदः स एवात्मभुव ब्रह्मणा लोकहिताय शिलाजरूपेण शैलेषु हिमवदादिषु न्यस्तः| इति शिलाजतुकल्पः|| १७०||
Adhikarana atha tApyakalpaH (171) · Śloka 171
सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः|
तापीकिरातचीनेषु यवनेषु च निर्मितः|
ताप्यां सूर्यांशुसन्तप्तो माधवे मासि दृश्यते|
मधुरः काञ्चनाभासः साम्लो रजतसन्निभः|
किञ्चित्कषाय उभयः शीतः पाके कटुर्लघुः|
शिलानिर्यासवच्चात्र कुलत्थादीन् परित्यजेत्||१७१||
इतस्ताप्यः-सुवर्णशैलप्रभवः काञ्चनो रसास्ताप्यादिषु देशेषु विष्णुना निर्मितः| तापी मध्यदेशप्रसिद्धा तस्यां सूर्यांशुभिः सन्तप्तः स माधवे वैशाखे मासि दृश्यते| स च द्विविधः एकः काञ्चनाभासो मधुरश्च| द्वितीयो रजतसन्निभोऽम्लश्च| उभयोऽपि किञ्चित्कषायरसः कटुको लघुश्च| शिलाजतुवच्च ताप्येऽपि कुलत्थादीन् परित्यजेद्वर्जयेत्|| १७१||
Adhikarana utpattiH, svarUpaM guNAshca (172) · Śloka 172
न तन्निषेवी जरसाभिभूयते न पन्नगैर्नापि गरैर्न वृश्चिकैः|
न पाण्डुमेहज्वरशोफयक्ष्मभि- र्न कण्ठनेत्रश्रवणत्वगामयैः||१७२||
यश्च तं निषेवते स जरसा नाभिभूयते नापि पन्नगादिभिः|
Adhikarana vividhAnupAnairupayogaH (173) · Śloka 173
सोदश्वित्क्को माक्षिकधातुः सघृतो वा- सक्षौद्रो वा क्षौद्रघृताभ्यां सहितो वा|
साम्भस्को वा तैलयुतो वा विनिहन्ता त्वग्दोषाणां सर्वविषाणां स गराणाम्||१७३||
अक्षादीनां पर्वतनिर्यासेन शिलाजतुना युतानामेको भागो द्वितीयो माक्षिकधातोः तन्मधुमिश्रं लिह्यात्|| १७३||
Adhikarana pANDau akShAdibhiH prayogaH (174) · Śloka 174
अक्षद्राक्षायोमलमुस्तामलकानां सव्योषाणां पर्वतनिर्यासयुतानाम्|
दत्वा तुल्यं माक्षिकधातुं मधुमिश्रं लिह्यात्पाण्डुव्याध्यभिभूतः शिवमिच्छन्||१७४||
अक्षादीनां पर्वतनिर्यासेन शिलाजतुना युतानामेको भागो द्वितीयो माक्षिकधातोः तन्मधुमिश्रं लिह्यात्| सुबोधम्|| १७४||
Adhikarana pANDvAdau piNDI (175) · Śloka 175
अंशः शुण्ठ्या लोहमलांशो बदरांशः पिप्पल्यंशो माक्षिकधातुर्द्धिगुणांशः|
क्षौद्रं कामं कृष्णतिलानामपि चांशः श्रेष्ठा पिण्डी पाण्डुविकारश्वयथुघ्नी||१७५||
शुण्ठ्यादिनां पञ्चानामेक एको भागो माक्षिकधातोर्द्वौ भागौ क्षौद्रं काममिच्छया योजयेदित्येः पिण्डी श्रेष्ठा पाण्डुविकारश्वयथुघ्नी|| १७५||
Adhikarana shoShaghnaH prayogaH (176) · Śloka 176
सायश्चूर्णं माक्षिकधातुं मधुमिश्रं व्योषोपेतं पर्वतनिर्यासममेतम्|
क्षीराहारो योऽवलिहानः प्रयतात्मा मृत्युद्वारं शोषमपोहत्यचिरेण||१७६||
अयश्चूर्णादियुक्तं माक्षिकधातुमवलिहानः क्षीराहारः सन् मृत्योर्द्वारभूतं राजयक्ष्माणमचिरेणापोहति| अयश्चूर्णादीनि पञ्च समानि||१७६||
Adhikarana cakShUrogAdiShUpayogaH (177) · Śloka 177
लोहं सर्पिर्माक्षिकधातुर्मधुमात्रा धात्रीचूर्णं केसरमम्बुप्रभावानाम्|
योगं कुर्यादेष सिताभागविमिश्र श्चक्षुर्घ्राणश्रोत्ररसज्ञानविबोधम्||१७७||
लोहादिचूर्णमम्बुप्रभवानां पद्मानां केसरं मधुमात्रा माक्षिकस्य स्तोकं एष योगः-एषां समेन सिताभागेन विमिश्रश्चुरादीनां विबोधं करोति|| १७७||
Adhikarana vArddhakye prayogaH (178) · Śloka 178
कृत्वैकस्थं माक्षिकधातुं त्रिफलां च भ्राष्ट्रे पक्त्वा ये सहनिष्कं विलिहन्ति|
पथ्यादास्तान् वार्द्धकदोषा न भजन्ते मातुर्दोषास्तन्यनिवृत्तानिव बालान्||१७८||
माक्षिकधातुं त्रिफलां चेत्येकस्थं कृत्वा मिश्रीकृत्य भ्राष्ट्रे पक्त्वा सघृतं ये पुरुषा अवलिहन्ति पथ्यादाः सन्तस्तान् वार्द्धकदोषा जरादयो न भजन्ते| यथा मातुर्दोषा स्तन्यान्निवृत्तान् बालान् सम्बन्धित्वाभावान्न भजन्ते|| १७८||
Adhikarana jarAnAshano yogaH (179) · Śloka 179
समश्नतो माक्षिकधातुचूर्णं सर्पिर्मधुभ्यां त्रिफला रजश्च|
शनैः शनैर्याति जराविनाशं प्रत्यन्तवासादिव लोकयात्रा||१७९||
माक्षिकधातुचूर्णं त्रिफलाचूर्णं चैकीकृत्य सर्पिर्मधुभ्यां समश्नतः पुंसो जरा शनैः शनैर्विनाशं याति| यथा प्रत्यन्तवासाद्गह्वरे निवसनात् लोकयात्रा विनाशं याति| इति ताप्यकल्पः|| १७९||
Adhikarana vRuddhadArakakalpaH paricayo guNAshca (180) · Śloka 180
त्रिकोणकाण्डा सुबहुप्रताना फलेषु पीता कुसुमेषु रक्ता|
पत्रैः सदुग्धैर्मृदुरोमवद्धि स्तम्बूलतुल्यैर्घनकन्दमूला|
पवनविवस्वदंशुवनितादिषु कामचरा विविधमनः शरीरगदवृन्दनिवृत्तिकरी|
भुवि परमौषधिर्महिषवल्लरीति प्रथिता क्वचिदपि वृद्धदारक इयन्त्वपि वेल्लरिका||१८०||
इतो वृद्धादारकः| त्रिकोणकाण्डादिरूपा परमौषधी भुवि महिषवल्लिरीति प्रथिता| क्वचिदपि वृद्धदारक इति, क्वचिद्वेल्लरिकेति च| पवनादिषु कामचरा वातातपव्यवायादिषु इच्छावृत्तिरयन्त्रणा विविधानां मनोगदवृन्दानां शरीरगदवृन्दानाञ्च निवृत्तिकरी|| १८०||
Adhikarana rasAyanaprayogaH (181) · Śloka 181
वसन्ते संगृहीतानां शोषितानामनातपे|
वृद्धादारकमूलानां तुलां सञ्चूर्ण्य सर्पिषा|
आप्लाव्य घृतपात्रस्थां धान्ये पक्षमुपेक्षिताम्|
लिह्यादनुपिबेत्क्षीरं जीर्णे क्षीरघृताशनः|
तत्प्रयोगाज्जराजीर्णे वृद्धो दारकतामियात्|
भग्नास्थिर्गद्गदः पङ्गुः कृशो ह्रस्वोऽन्यरूपताम्|
निरस्ताशेषदोषोत्थनखभेदाद्युपद्रवः|
अपस्मारग्रहोन्मादपाप्मालक्ष्मीविवर्जितः|
दीप्ताग्निर्बलवान् वाग्मी जीवेद्वर्षशतानि षट्||१८१||
वसन्ते संगृहीतादिगुणानां वृद्धदारकमूलानां तुलां पलशतं सञ्चूर्ण्य पश्चात् घृतेनाप्लाव्य घृतपात्रे स्थितां धान्यराशौ पक्षमुपेक्षितां पक्षादूर्ध्वं लिह्यात्| अनन्तरञ्च क्षीरं पिबेत्| जीर्णे च क्षीरघृताशनः स्यात्| तत्प्रयोगाद्दृद्धदारकप्रयोगाद्दृद्धः पुरुषो वर्णादीनामभिनवानां सम्भवाद्दारकतामतितरुणत्वमियात्| भग्नास्थ्यादिश्चान्यरूपतां यथास्थिताद्वैपरीत्यं याति| तेन भग्नास्थिः श्लिष्टस्थिर्भवति| गद्गदो मधुरवाक्| पङ्गुः सुगतिः| कृशः स्थूलः| ह्रस्वो दीर्घ इति| निरस्ता अपास्ता अशेषा वातादिदोषोत्था नखभेदादयः सूत्रस्थाने पठिता उपद्रवव्याधयो येन| अपस्मारादिवर्जितो दीप्ताग्नित्वादियुक्तश्च षड्वर्षशतानि जीवेत्||१८१||
Adhikarana ashvagandhAyA prayogaH (182) · Śloka 182
चूर्णितैरश्वगन्धायाः संयुतं त्रिंशता पलैः|
तत्तुल्यं दारकं प्राश्य पयसा सर्पिषाऽथवा|
जीर्णे पूर्ववदश्नीयाद्यो जीवेत्स समाः शतम्|
वाजिवेगो गजप्राणः सुरूपो भास्करद्युतिः||१८२||
अश्वगन्धायास्त्रिंशत्पलस्य चूर्णेन तत्तुल्यमेव त्रिंशत्पलं वृद्धदारकसंयुतं पयसा सर्पिषा वा प्राश्य तस्मिन् जीर्णे पूर्ववदिति क्षीरघृताभ्यां यः पुरुषोऽश्नीयात्स समाशतं वर्षशतं जीवेत् वाजिवेगादियुतश्च भवेत्| भास्करद्युतिः सूर्यतेजः|| १८२||
Adhikarana varIgokShurakAbhyAM prayogau (183) · Śloka 183
अश्वगन्धेन संयोज्यौ वरीगोक्षुरकौ पृथक्||१८३||
अश्वगन्धाप्रकारेण वृद्धदारकप्रयोगे शतावरी योज्या| तद्वदेव गोक्षुरकोऽपि|| १८३||
Adhikarana svaryaH prayogaH (184) · Śloka 184
यो लिह्यात् सर्पिषा चूर्णं वृद्धदारकमूलजम्|
सप्ताहं यूषभक्ताशी स्यात्स किन्नरतुल्यवाक्||१८४||
यो लिह्यादित्यादि| यः पुरुषो वृद्धदारकमूलजं चूर्णं सर्पिषा सह सप्ताहं लिह्याज्जीर्णे यूषभक्ताशी च स्यात् स किन्नरसमानवाक् स्यात्|| १८४||
Adhikarana shatAyuHkarAH prayogAH (185) · Śloka 185
स्वरसेन शतावर्याः सप्ताहं भवितञ्च तत्|
लिहानः पूर्ववन्मासं शतं जीवेन्महामतिः|
लिह्याद्वा मधुसर्पिर्भ्यां धात्रीस्वरसभावितम्|
क्षीरेण वा पिवन्मासं शतं जीवेदरुक्सुधीः|
वृद्धदारकमूलानां रसं क्षीरेण यः पिबेत्|
तत्कल्कसिद्धं सर्पिर्वा स जीवेन्नीरुजः शतम्||१८५||
तच्च वृद्धदारकमूलचूर्णं शतावरीस्वरसेन सप्ताहं भावितं पूर्ववदिति सर्पिषा मासं लिहानो महामतिः सन् वर्षशतं जीवेत्| धात्रीस्वरसभावितस्य वृद्धदारकमूलचूर्णस्य मासं मधुसर्पिर्भ्यां लेहनं क्षीरेण पानं वा| व्याख्यासमम्| तत्कल्कसिद्धमिति वृद्धदारकमूलकल्कसिद्धम्|| १८५||
Adhikarana kuShThAdighnaH prayogaH (186) · Śloka 186
पीतं वेल्लरिकामूलं गोमूत्रेण सहोषितम्|
कुष्ठगुल्मोदरगरश्लीपदार्शोऽपचीर्जयेत्||१८६||
सहोषितं भावितम्|| १८६||
Adhikarana shlIpadAdighno yogaH (187) · Śloka 187
पिप्पली त्रिफला दार्वी महौषधपुनर्नवाः|
पृथग्दशपलाः सर्वैस्तुल्यांशो वृद्धदारकः|
धान्याम्लपीतस्तच्चुर्णो जीर्णे स्वच्छन्दभोजनः|
श्लीपदाममरुद्वर्ध्मगुल्मोदरगरान् हरेत्||१८७||
पिप्पल्यादीनि सप्त पृथग्दशपलानि सर्वैः समो वृद्धदारकः| सुबोधम्| आममरुदामवातः|| १८७||
Adhikarana prayogAntaram (188) · Śloka 188
शौण्डी विश्ववराद्वीपिवेल्लमुस्ताः समांशकाः|
तुल्यवेल्लरिकामूलाः साज्यक्षौद्रास्तथा गुणाः||१८८||
शौण्ड्यादीन्यष्टौ समभागानि सर्वैः समं वेल्लरिकामूलम्| अस्याज्यक्षौद्रभ्यां प्रयोगः| तथा गुणाः इति श्लीपदादीन् जयेयुः| शौण्डी पिप्पली| वरा फलत्रयम्|| १८८||
Adhikarana pa~jcashatavarShAyuHkaro yogaH (189) · Śloka 189
तत्फलात् स्वरसं कर्षं लिहंस्तुल्याज्यमाक्षिकम्|
गव्यं पिबेदनु पयो माहिषं वा यथेष्टभुक्|
पञ्चाहेन जयेत्कासान् सप्ताहेन त्वगामयान्|
महाकुष्ठानि मासेन भवेन्मासद्वयेन तु|
पञ्चवर्षशतायुष्को धीमेधाबलरूपवान्||१८९||
वृद्धदारकफलस्वरसस्य कर्षस्तावदेवाज्यं तावदेव क्षौद्रमिति लिहन् गव्यं पयोऽनु पिबेन्माहिषं वा पयः| व्याख्यासमम्||१८९||
Adhikarana sahasrAyuHkaro yogaH (190) · Śloka 190
वेल्लरीफलमूलानां पिप्पल्याश्च समं रजः|
वेल्लरीफलमूलोत्थस्वरसेनैव भावयेत्|
अमृताया रसेनाऽनु ततः शुष्कं घृताप्लुतम्|
निखनेद् घृतकुम्भस्थं करीषे बहुसञ्चये|
मासादुद्धृत्य तं लेहं यो वर्षमुपयोजयेत्|
सहस्रायुः स जरसा सहसा नाभिभूयते||१९०||
एको भागो वेल्लर्याः फलमूलानां चूर्णस्य| द्वितीयः पिप्पलीरजसः| एतद्वेल्लरीफलमूलस्वरसेनैव भावयेत्| अनन्तरं गुडूचीरसेन भावयेत्| ततः शोषयित्वा घृतेनाऽऽप्लाव्य घृतकुम्भस्थं बहुसञ्चये करीषे गोमये निखनेत्| ततो व्याख्यासमम्| इति वृद्धदारककल्पः|| १९०||
Adhikarana kuShThasya rasAyanaprayogaH (191) · Śloka 191
कुष्ठचूर्णतुलां क्षौद्रघृतस्य द्वितुलान्विताम्|
धान्यराशौ दिनशतं निहितामुपयोजयेत्|
सुगन्धिकायो दृक्श्रोत्रस्वरवर्णेष्वतीन्द्रियः|
गतव्याधिजरो जीवेत् सप्तवर्षशतानि ना||१९१||
कुष्ठस्य प्रयोग उच्यते| कुष्ठचूर्णपलशतं घृतपलशतं चैकीकृत्य धान्यराशौ दिनशतस्थितं ततः पुरुष उपयोजयन् सुगन्धिकायो भवति| दृगादिषु चातीन्द्रियोऽतिशयेनाश्चर्यभूतत्वात्| गतव्याधिजरश्च सप्तवर्षशतानि जीवेत्| इति कुष्ठस्य प्रयोगः||१९१||
Adhikarana kuTIprAveshikasyopasaMhAraH (192) · Śloka 192
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः|
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः||१९२||
एते च सर्वे प्रयोगाः कुटीप्रवेशमधिकृत्योक्ताः अतः स एवो पसंह्नियते-क्षणिनामन्यप्रयोजनरहितानां परिच्छदवताञ्च कुटीप्रवेशो हितः| परिच्छदोऽनेकविधमुपकरणम्| अतो यथोक्तादन्यथा वैपरीत्येन ये क्षणिनः परिच्छदवन्तश्च न भवन्ति तेषां सौर्यमारुतिको विधिर्हितः| (कुटीप्रवेशः क्षमिणां परिच्छदवतां हितः इति चरकपाठः| कुटीप्रावेशिकवातातपिकयोर्विषयप्रर्दनायाह-कुटीप्रवेश इत्यादि| क्षमिणां कृतक्षमाणां न पुत्रदारकुटुम्बधनपर्येषणापर्याकुलानामित्यर्थः| परिच्छदवतां सर्वोपकरणवतामिति यावत्| इति जेज्जटः)|| १९२||
Adhikarana vAtAtapikAH yogAH (193) · Śloka 193
वाततपसहा योगा वक्ष्यन्तेऽतो विशेषतः|
सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः||१९३||
वातातपसहा इत्यादि सुबोधम्|| १९३||
Adhikarana vividhAH yogAH (194) · Śloka 194
शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः|
त्रिशः समस्तमथवा प्राक्पीतं स्थापेद्वयः||१९४||
शीतोदकादिकमेकैकं वा द्वे द्वे वा त्रीणि त्रीणि वा समस्तमेव वा प्राक्पीतं वयः स्थापयेत् जीर्णत्वाद्रक्षेत्|| १९४||
Adhikarana vividhA yogAH (195) · Śloka 195
हरीतकीमागधिकाक्षधात्री श्चूर्णीकृता लोहरजोविमिश्राः|
सर्पिर्मधुभ्यामदतः शरीरं कालाग्रदूती न जरा दुनोति||१९५||
हरीतक्यादिकं मधुसर्पिर्भ्यां सहादतो भक्षयतः पुंसः शरीरं कालस्याग्रदूती जरा न दुनोति नोपतापयति|| १९५||
Adhikarana vividhA yogAH (196) · Śloka 196
हरीतकीमागधिकाविडङ्ग शशाङ्कलेखामलकच्छावीनाम्|
सितोपलातैलघृतान्वितानां रोगा न लेढारमभिद्रवन्ति||१९६||
हरीतक्यादीनां सितोपलाद्यन्वितानां लेढारं लिहानं पुरुषं रोगा नाभिद्रवन्ति नाभिधावन्ति| आमलकच्छविरामलकफलं त्याजितास्थि|| १९६||
Adhikarana vividhA yogAH (197) · Śloka 197
त्रिफलामसनोदकेन पिष्टां रजनीं पर्युषितामयः कपाले|
मधुना मधुरां लिहन् हिनस्ति स्थविमानं जरसं गदांश्च सर्वान्||१९७||
असनोदकेन बीजकजलेन पिष्टां त्रिफलां रजनीं रात्रिमयःकपाले शस्त्रपात्रे मधुना माक्षिकेण मधुरामापादितमाधुर्यां लिहन् पुरुषः स्थविमादिकं हिनस्ति नाशयति|| १९७||
Adhikarana vividhA yogAH (198) · Śloka 198
खदिरासनयूषभाविताया- स्त्रिफलाया घृतमाक्षिकप्लुतायाः|
नियमेन नरा निषेवितारो यदि जीवन्त्यजराः किमत्र चित्रम्||१९८||
खदिरादिक्वाथभावितायास्त्रिफलायाः प्रयोगः सुबोधः||१९८||
Adhikarana vividhA yogAH (199) · Śloka 199
असनस्वरसेन भाविताना मभयानां सविडङ्गतण्डुलानाम्|
मधुलोहरजोघृताप्लुतानां न हि लेढारमभिद्रवन्ति रोगाः||१९९||
अभयानामादौ विडङ्गतण्डुलैर्योजनमनन्तरमसनोदकेन भावनं ततो मध्वादिभिर्योजनम्| सुबोधम्|| १९९||
Adhikarana vividhA yogAH (200) · Śloka 200
बीजकस्य रसमङ्गुलिहार्यं शर्करामधुघृतं त्रिफलां च|
शीलयत्सु पुरुषेषु जरत्ता स्वागतापि विनिवर्त्तत एव||२००||
अङ्गुलिहार्यो योऽङ्गुल्या आहर्तुं शक्यते तम्| एवंविधं प्रयोगं शीलयत्स्वतिशयेनागतापि जरत्ता विनिवर्त्तते| वृत्तस्य नाम मनसि स्फुरत्येव|| २००||
Adhikarana vividhA yogAH (201) · Śloka 201
दर्वीप्रलेपस्त्रिफलाकषायः सितोपलातैलमधुप्रगाढः|
सप्पिलीनागरलोहरेणु स्तनोः सपत्निं जरसं निहन्ति||२०१||
त्रिफलायाः कषायो घनत्वेन दर्वीप्रलेपः सितोपलादिभिः प्रगाढः पिप्पल्यादिभिर्युक्तस्तनोः शरीरस्य सपत्नीं जरसं निहन्ति|
Adhikarana vividhA yogAH (202) · Śloka 202
फलत्रयत्र्यूषणचूर्णयुक्तां द्राक्षां ससर्पिर्मधुशर्करां च|
क्षीरानुपानं पुरुषा लिहन्तो जीवन्ति निर्द्धूतजराविकाराः||२०२||
फलत्रयादिचूर्णयुक्तां सर्पिरादियुताञ्च द्राक्षां क्षीरानुपानं लिहन्तः पुरुषा निर्द्धूतजराविकारा जीवन्ति|| २०२||
Adhikarana vividhA yogAH (203) · Śloka 203
हरीतकीं सर्पिषि सम्प्रप्ताय समश्नतस्तत् पिबतो घृतं च|
भवेच्चिरस्थायि बलं शरीरे सकृत्कृतं साधु यथा कृतज्ञे||२०३||
सर्पिषि घृते हरीतकीं सम्प्रताप्य तामेव समश्नतस्तदेव च घृतमनुपिबतः शरीरे बलं चिरस्थायि भवति तथा यथा कृतज्ञे पुरुषे सकृदेकवारमेव कृतं यत्किञ्चित् साधु चिरस्थायि भवति|| २०३||
Adhikarana vividhA yogAH (204) · Śloka 204
आराच्चितानां कलशं पुराणं धत्रीफलानां मधुनश्च पूर्णम्|
संवत्सरार्द्धं निहितं यवेषु निषेवमाणो जरसं निहन्ति||२०४||
मृण्मयं पुराणं कलाशमाराच्चितानां बहुकालसञ्चितानां धात्रीफलानां माक्षिकस्य च पूर्णं यवराशौ संवत्सरार्द्धं षण्मासं निहितं निषेवमाणः पुरुषो जरसं निहन्ति| पूरणयोगेन षाष्ठी| अत्र च यथाप्रयोगं गुणातिशयः|| २०४||
Adhikarana vividhA yogAH (205) · Śloka 205
धात्रीकृमिघ्नासनसारचूर्ण सतैलसर्पिर्मधुलोहरेणु|
निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमपि प्रणष्टम्||२०५||
धात्र्यादिकं निषेवमाणस्य तारुण्यं लावण्यञ्च प्रणष्टमपि भवति|| २०५||
Adhikarana vividhA yogAH (206) · Śloka 206
नवामलकशुक्तयो मधु घृतं रजश्चायसं चतुष्टयमयोघटस्थमिति चूर्णितं वत्सरम्|
क्रमेण लिहतः पयोऽनुपिबतश्च पथ्याशिन श्चिरं भवति जीवितं क्षयमुपैति पृथ्वी जरा||२०६||
नवानामामलकानां शुक्तयो दलानि मधुघृतमयोरजश्चेत्येतच्चतुष्टय्मर्थात् समं चूर्णकरणयोग्यं कालमयोघटे स्थितं ततस्तच्चूर्णितं क्रमेण स्तोकाभिवृद्ध्या वत्सरं लिहतोऽनु पयः पिबतः पुंसः पथ्याशिनः सतो जीवितं चिरं भवति जरा च पृथ्वी विस्तीर्णापि क्षयमेति|| २०६||
Adhikarana shvadaMShTrAdicUrNam (207) · Śloka 207
चूर्ण श्वदंष्ट्रामलकामृतानां लिहन् ससर्पिर्मधुभागयुक्तम्|
वृषस्थिरःशान्तविकारदुःखः समाः शतं जीवति कृषणकेशः||२०७||
श्वदंष्ट्रादिचूर्णं व्याख्यासमम्|| २०७||
Adhikarana viDa~ggaprayogAH (208) · Śloka 208
विडङ्गसारं मधुकं च पिष्टं भलातकक्वाथमधुप्रगाढम्|
अर्शासि जन्तूंश्च जयत्युदीर्णान् वह्निं च सन्धुक्षयति क्षणेन|
विडङ्गभल्लातकचित्रकाणां गुडोत्तराणामभयान्वितानाम्|
तैलेन चूर्णानि निषेवमाणान् शरीरिणो नोपतपन्ति रोगाः|
विडङ्गभल्लातकनागराणि येऽश्नन्ति सर्पिर्मधुसंयुतानि|
जरानदीं रोगतरङ्गिणीं ते लावण्ययुक्ताः पुरुषास्तरन्ति|
विडङ्गकल्कं स्वरसेन धात्र्याः क्षौद्रेण युक्तं च पिबेन्नरो यः|
द्राक्षारसक्षौद्रपरिप्लुतं वा विजित्य रोगान् स भवेच्छतायुः||२०८||
विडङ्गसारादिकं विडङ्गभल्लातकादिकं च| गुडोत्तरं गुडाधिकम्| तैलेनोपयुज्यते| ये पुरुषा विडङ्गादिकमश्नन्ति ते जरानदीं लावण्ययुक्तास्तरन्ति| किम्भूतामाह-रोगतरङ्गिणीं रोगा एव ह्यवगाढत्वात्तरङ्गाः| जरोपशमे पुरुषस्य यतो लावण्यादिकं स्यात्| विडङ्गकल्कस्य धात्रीरसक्षौद्राभ्यां वा द्राक्षारसक्षौद्राभ्यां वा प्रयोगः|| २०८||
Adhikarana pippalItaNDulaprayogaH (209) · Śloka 209
चूर्णं समं मागधिकाकणानां विडङ्गचुर्णेन सचित्रकेण|
निषेवमाणो मधुरैलमिश्रं वयःपरीणामजले न मज्जेत्||२०९||
मागधिकाकणानां पिप्पलीतण्डुलानां चूर्णं सचित्रकेण विडाङ्गचूर्णेन समं चित्रकविडङ्गचूर्णसमं पिप्पलीचूर्णमित्यर्थः| वयःपरिणाम एव विनाशहेतुत्वाज्जलम्|| २०९||
Adhikarana paunarnavakalpaH mUrvAdayashca (210) · Śloka 210
पुनर्नवस्यार्द्धपलं पलं वा पिष्टं पिबेद्यः पयसार्द्धमासम्|
मासद्वयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः सपुनर्नवः स्यात्|
मूर्वाबृहत्यंशुमतीबलाना मुशीरपाठासनशारिवाणाम्|
कालानुसार्यागरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम्||२१०||
पुनर्नवस्यार्द्धपलमित्यादि सुबोधम्| मूर्वाबृहत्यादिकञ्च||२१०||
Adhikarana shatAvarIghRutam (211) · Śloka 211
शतावरीकल्ककषायसिद्धं ये सर्पिरश्नन्ति सिताद्वितीयम्|
तान् जीतिताध्वानमभिप्रपन्नान् न विप्रलुम्पन्ति विकारचोराः||२११||
ये शतावरीकल्कषायसिद्धं सर्पिः सितया सहाश्नन्ति तान् जीविताध्वानमायुरेव पन्थानमभिप्रपन्नान् प्राप्य विकारचोरा न विप्रलुम्पन्ति न लुण्ठयन्ति|| २११||
Adhikarana ashvagandhAprayogaH (212) · Śloka 212
पीत्वाश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा|
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सुबृष्टिः||२१२||
पय आदीनामन्यतमेनार्द्धमासमश्वगन्धा पीता कृशस्य बालस्य वपुषस्तथा पुष्टिं विधत्ते यथा सस्यस्य सुवृष्टिः|| २१२||
Adhikarana kRuShNatilaprayogaH (213) · Śloka 213
दिने दिने कृष्णतिलप्रकुञ्चं समश्नतः शीतजलानुपानम्|
पोषः शरीरस्य भवत्यनल्पो दृढीभवन्त्यामरणाच्च दन्ताः||२१३||
Adhikarana shilAjatukShaudrAdiprayogaH (214) · Śloka 214
शिलाजतुक्षौद्रविडङ्गसर्पि र्लोहाभयापारदताप्यभक्षः|
आपूर्यते दुर्बलदेहधातु स्त्रिपञ्चरात्रेण यथा शशाङ्कः||२१४||
दिने दिने इत्यादि प्रयोगद्वयं व्याख्यासमम्| प्रकुञ्चः पलम्| पारदं शिलाजतुताप्याभ्यां मर्दितुं योग्यं भवति| यथा शशाङ्कश्चन्द्रस्त्रिपञ्चरात्रेण पक्षेणापूर्यते तद्वदसावपि|| २१४||
Adhikarana shilAjatunaH prayogAntaram (215) · Śloka 215
मधु मधुरसा लाजा भार्ङ्गी मधूकशतावरी|
कमलकुसुमत्वक्क्षीरीभिः समं जतु पार्वतम्|
प्रचुरहविषा लेहं लीढ्वा समृद्धसितोपलम्|
शिथिलजरसो मन्दातङ्का भवन्ति चिरायुषः||२१५||
मध्वादीनामेको भागो द्वितीयः शिलाजतुन इत्येतल्लेहं प्रचुरघृतं स्मृद्धशर्करञ्च लीढ्वा पुरुषाश्शिथिलजरसः स्वल्पजराः स्वल्पव्याधयश्चिरजीविताश्च भवन्ति|| २१५||
Adhikarana nArasiMhaghRutam (216) · Śloka 216
गायत्रीशिखिशिंशपासनशिवा वेल्लाक्षकारुष्करान् पिष्ट्वाष्टौ दशषड्गुणेम्भसि धृतान् खण्डैः सहायोमयैः|
पात्रे लोहकृते त्र्यहं रविकरैरालोडयन् पाचये दग्नौ चानुमृदौ सलोहशकलं पादस्थितं तत्पचेत्|
पूतस्यांशः क्षीरतोंऽशस्तथांशौ भार्ङ्गान्निर्यासात् पिवर्यास्त्रयोंऽशाः|
अंशाश्चत्वारस्तत्र हैयङगवीना देकीकृत्यैतत्साधयेत् कृष्णलौहे|
विमलया सितया मधुनाथवा युक्तमयुक्तमिदं यदि वा घृतम्|
स्वरुचिभोजनपानविचेष्टितो भवति ना पलशः परिशीलयन्|
श्रीमान् निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गो केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी|
वाङ्मेधाधीसमृद्धः सुपटु हृतवहो मासमात्रोपयोगा द्धत्तेऽसौ नारसिंह वपुरनलशिखातप्तचामीकराभम्||२१६||
गायत्र्यादिना नारसिंहघृतम्| गायत्री खदिरः, शिखी चित्रकः, असनं बीजकं, शिवा हरीतकी, अक्षकं बिभीतकम्-एतान्यष्टावौषधानि समानि पिष्ट्वा एतेभ्यो मानेन षोडशगुणेऽम्भस्यौषधसमैश्च शस्त्रैर्द्धृतानि त्र्यहमादित्यतापेनालोडयन् चालयन् पाचयेत्| चतुर्थेऽह्नि तथाविधमेव चतुर्भागशेषं तन्मृदुनाऽग्निना पचेत्| ततः परिपूतं क्वाथं गृहीत्वाऽनेन समो भागो क्षीरस्य देयः| क्षीरयुक्तेन तेनैव समो भृङ्गस्वरसात् भागः| क्वाथस्त्रिगुणः पिवर्याः शतावर्याः स्वरसः क्वाथाच्चतुर्गुणं हैयङ्गवीनं हयो दोहस्य विकारो नवनीतम्| कृष्णलौह इति शस्त्रपात्रे सिद्धमतिशुद्ध्या शर्करया वा माक्षिकेण वा युतं प्रयोगस्य बलस्य वार्थे| अत्र च भोजनादिकं स्वरुच्या| पलश इति यथासामर्थ्यं मात्रा| भृङ्गाङ्गं भ्रमरशरीरम्| मधु मार्द्वीकं तस्य पानात् सुरभिमुखः| असौ प्रयोक्ता पुरुषस्तु नारसिंहं वपुर्द्धत्ते| किम्भूतमाह अनलशिखाभिरग्निज्वालाभिस्तप्तं यच्चामीकरं सुवर्णं तदाभम्|| २१६||
Adhikarana nArasiMhaghRutaprashaMsA (217) · Śloka 217
हविरिदमतिप्रभावं स्वमिव वपुर्निर्मितं नृसिंहेन|
नश्यन्ति यतो भीता व्याध्याधिजरासुरा दूरात्|
भृङ्गप्रवालानमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा|
विशुद्धकोष्ठोऽसनसारसिद्धदुग्धानुपस्तत्कृतभोजनार्थः|
मासोपयोगात् ससुखी जीवत्यब्दशतत्रयम्|
गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्द्रियः||२१७||
इदमतिप्रभावं हविर्घृतं स्वमिव शरीरं भगवता नरसिंहेन निर्मितम्| यतो घृताद्व्याध्याद्यसुरा दूरान्नश्यन्ति पलायन्ते| यथा हि नरसिंहवपुषोऽसुरा दूरान्नश्यन्ति तथैवास्मात् घृताद्व्याध्यादय इत्यर्थः| आधयो मनोरोगाः|| २१७||
Adhikarana atideshena tailavidhAnam (218) · Śloka 218
अनेनैव च कल्पेन यस्तैलमुपयोजयेत्|
तानेवाऽऽप्नोति स गुणान् कृष्णकेशश्च जायते||२१८||
योऽनेनैव कल्पेन हैयङ्गवीनविधानेन सिद्धं तैलमुपयोजयेत्| स तामेवानन्तरोक्तान् गुणानाप्नोति कृष्णकेशश्च जायते भवति||२१८||
Adhikarana kAshmarIphalaprayogaH (219) · Śloka 219
काश्मर्याणां तुलां मासं स्थितां मधुघृतोक्षिताम्|
उपयुज्य पयोऽन्नाशी चिरं जीवति कान्तिमान्||२१९||
काश्मर्याः फलानां तुलापलशतं या मधुघृताभ्यां सिक्त सती मासं स्थिता तां पयोऽन्नाशी सन्नुपयुज्य चिरं जीवति कान्तिमांश्च भवति|| २१९||
Adhikarana uktarasAyanopasaMhAraH (220) · Śloka 220
उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि|
महानुशंसान्यपि चापराणि प्राप्त्यादिकष्टानि न कीर्तितानि|
अमानुषाणामतिविस्मयानां सत्कर्मणां यद्यपि तनि हेतुः|
समूलकाषं तु कषन्ति देहं भ्रंशाद्विधेस्तेन विवर्जितानि||२२०||
उक्तानीत्यादिना रसायनान्युपसंह्रियन्ते-तान्येतनि रसायनान्युक्तानि यान्यस्मिन् कलियुगे कर्त्तुं शक्यन्ते फलान्वितनि च भवन्ति| अपराणि तु येषां महान्ति फलानि शंसितानि प्राप्त्युपयोगाधिकारादिना यतोऽतिकष्टान्यतो न कीर्तितनि| यान्यप्यमानुषाणां मनुष्यासम्भविनामत्याश्चर्याणामुत्कृष्टानां योगादीनां कर्मणां यद्यपि हेतुस्तथापि विधेः शास्त्रोक्तस्य भ्रंशाद्देहं समूलकाषं कषन्ति हिंसस्ति तेन हेतुना तान्यत्र विवर्जितानि||२२०||
Adhikarana rasAyanAnyavashyaM niShevaNIyAni (221) · Śloka 221
युगस्वभावाद्यदि चौषधीनां क्रियासु शक्तिः परिकल्पयतेऽल्पा|
आयुर्बलादिषवपि सा तथेति यत्नान्निषेव्याणि रसायनानि|
न चौषधीनामपि सर्वथैव प्रभावहानिः परिकल्पनीय़ा|
फलं प्रयात्यूर्ध्वमधस्त्रिवृत्तु प्रत्यक्षतः कस्य न सिद्धमेतत्||२२१||
युगस्वभावादित्यादिना रसायनफलानामलाभाशङ्का निवार्यते| यदि च जनेन युगस्वभावादौषधीनामल्पा शक्तिः क्रियासु परिकल्प्यते तर्ह्यायुर्बलादिषवपि सा तथेत्यल्पैव| तस्माद्रसायनानि द्रव्याणि यत्नान्निषेव्याणी| यदि हि कृतयुगसमेवाद्यापि आयुः स्यादौषधीनाञ्च युगस्वभावादल्पवीर्यत्वं ततो युज्येत रसायनानामनिषेवणम्| यावता यथौषधयोल्पवीर्यास्तथाऽऽयुरादीन्यपि सुतरमिति| न च सुधिया औषधीनां प्रभावहानिः सर्वथेत्यवश्यं परिकल्पनीया| यन्मदनफलं वामयति त्रिवृत्तु विरेचयतीत्येवमादीन्यपि कस्य प्रत्यक्षसिद्धं न भवति|| २२१||
Adhikarana rasAyanAnAM samyagvidhAnaM kAryam (222) · Śloka 222
अदेशकालोपहितान्यसात्म्या न्यत्युष्णतीक्ष्णानि यथौषधानि|
नाशं नयन्ते सहसैव देहं सम्यक्प्रयुक्तानि तथैव वृद्धिम्|
जित्वा तस्मादिन्द्रियादीन् सुदुष्टान् कालोपेतः श्रद्दधानो यथावत्|
आयुःप्रज्ञातेजसां यद्विवृध्यै वीर्योपेतं शीलयेदौषधं तत्||२२२||
अदेशकालेत्यादिना श्लोकद्वयेन रसायनानां सम्यग्विधाने यत्नः प्रदर्श्यते| औषधान्यदेशकालोपयुक्तादीनि प्रयुक्तानि सहसा वृद्धिं नयन्ति प्रापयन्ति| यथैव सहसा देहं नाशं नयन्ति तथैव सम्यक्प्रयुक्तानि सहसा वृद्धिं नयन्ति प्रापयन्ति| यत एवं तस्मादसम्यगौषधविधाने विशेषहेतून् सुदुष्टानिन्द्रियादीन् शत्रून् जित्वा वशे कृत्वा काले श्रद्दधानः श्रद्धावान् यदौशधमायुरादीनां विवृद्धयै वीर्ययुक्तं भवति तदेव यथावच्चीलयेत्||२२२||
Adhikarana rasAyanayoge niyamaparatvam (223) · Śloka 223
उत्साहवीरैरपि सर्वकालं नरैरगम्यानि तपोदरिद्रैः|
महार्णवानामिव दुस्तराणां पाराण्यपाराणि रसायनानाम्|
रसायनानामुपयोगसम्पदा कृतप्रसादैर्मलदोषधातुभिः|
स्थिरं शरीरं क्रियते शरीरिणां कुलं यथा सत्पुरुषैरधिष्ठितम्|
दान्तेन्द्रियेण शास्त्रार्थं यथावदनुतिष्ठता|
कियद्वा दीर्घदर्शित्वं नेन्द्रत्वमपि दुर्ल्लभम्||२२३||
उत्साहवीरैरित्यादिना रसायनप्रयोगे नियमपरत्वमुच्यते| यथा तपसा दरिद्रैः पुरुषैरुत्साहवीरैरपि दुस्तराणां महार्णवानामपाराणि पाराणि सर्वमालमगम्यानि भवन्ति तथैवापाराण्यनन्तानि रसायनानाम्| 'उत्साहधीरैरि' ति च पाठः| रसायनानां पथ्यामलकादीनां य उपयोगस्तस्य सम्पदा परिपूर्णतया कृतप्रसादैर्मलदोषधातुभिः कर्त्तृभिः शरीरिणां शरीरं स्थिरं क्रियते तथा यथा सत्पुरुषैरधिष्ठितं कुलम्| अथवा शास्त्रेक्तविधानेन रसायनफलाप्राप्तिः कियन्मात्रा| दान्तेन्द्रियत्वादियुक्तेन पुरुषेण इन्द्रत्वमपि न दुर्ल्लभम्|| २२३||
Adhikarana rasAyanaprayoge vyAdhipratikAraH (224) · Śloka 224
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि|
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२२४||
यदि च रसायनस्य विधिभ्रं शाज्ज्वरादयो व्याधयो जायरेन् ततस्तेषामुत्पन्नानां व्याधीनां प्रकृतं रसायनं मुक्त्वा स्वम् स्वमौषधं कार्यम्|| २२४||
Adhikarana agnimUlameva lAbhaH (225) · Śloka 225
अध्याक्रान्ता येऽम्लपटुक्षारकटूष्णै र्द्रव्यैस्तीक्ष्णैः सन्निहिता तेषु जरत्ता|
सन्धुक्ष्योऽग्निस्तैरुपजाते च विवर्ज्या योगास्तेऽग्नौ धातुसमृद्धेः स हि मूलम्|
आयुर्योगाः साध्वपि युक्त मृदुवह्नौ नैरर्थक्यं यान्ति कृतघ्नेऽप्युपकाराः|
दीप्ते वह्नौ ते तु गणौघैरपि तुच्छा विस्तीर्यन्ते पात्रनिसृष्टा इव भोगाः||२२५||
अध्याक्रान्तेत्यादिना जराविनाशप्रसङ्गेऽम्लादीनां सदैवोपयोगप्रतिषेधः क्रियते| अम्लादिगुणैर्द्रव्यैर्येऽध्याक्रान्तास्तेषु जरत्ता जरासन्निहिता जरतो भावो जरत्ता| तैरम्लादिभिः क्रमेणाग्निः सन्धुक्ष्योऽर्थान्मन्दीभूतः सन्| उपजाते चाग्नावम्लादयो योगा वर्ज्याः| अतश्चाग्निः सन्धुक्ष्यो यतो धातूनां समृद्धेः सम्यग्वृद्धेर्मूलं सः| मृद्वग्नौ तु पुरुषे नानाविधा योगाः साधु कृत्वापि युक्तास्तथा निरर्थकतां यान्ति यथा कृतघ्ने पुरुषे प्रयुक्ता उपकारः| ते तु प्रयोगास्तुच्छाः| स्वल्पा अपि दीप्ते वह्नौ तथा विस्तीर्यन्ते यथा सत्पात्रे निसृष्टा दत्ता भोगः|| २२५||
Adhikarana AcArarasAyanam (226) · Śloka 226
सत्यवादिनमक्रोधमध्यात्मप्रवणेन्द्रियम्|
शान्तं सद्दृत्तनिरतं विद्यान्नित्यरसायनम्|
गुणैरेभिः समुदितः सेवते यो रसायनम्|
त निर्वृतात्मा दीर्घायुः परत्रेह च मोदते|
शास्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्त्तिनः|
बुद्धिरस्खलितार्थेषु परिपूर्णं रसायनम्||२२६||
सत्यवादिनमित्यादि सुबोधम्| (अध्यात्मप्रवणानि योगप्रवणानीन्द्रियाणि यस्य तम्| एभिः सत्यवचनादिभिः समुदितः संयुक्तः परत्रान्यजन्मनि| अर्थेषु शब्दादिषु इति जेज्जतः)||२२६||
Adhikarana goShThe rasAyanasiddhiH (227-49) · Śloka 49
गवामृजुत्वेन कृतानुकारै रनयवागाशयदेहचेष्टैः|
स्थिरेन्द्रियायुर्ज्वलनैः सुशीलैः सुवृद्धगोपैः समधिष्थितेषु|
प्राज्याज्यदुग्धौषधिपादपेषु ह्युम्भारवैर्वल्गितवत्सकेषु|
कठप्रवेशेन विनापि सिद्धिं ब्रजन्ति गोष्ठेषु रसायनानि||२२७||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे रसायन विधिनीमैकोनपञ्चाशोऽध्यायः||४९||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृता वष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे रसायन विधिनीमैकोनपञ्चाशोऽध्यायः||४९|| गवामित्यादि| सुष्ठ्वतिशयेन वृद्धैर्गोपैः समधिष्ठितेषु गोष्ठेषु रसायनानि सिद्धिं व्रजन्ति| किम्भूतैर्गोपैरित्याह-ऋजुत्वेन वामस्वभावत्वेन गवां कृतानुकारैस्तथा अनन्यवागादिभिः येषामाशयेन चित्तेन समा वाग्देहचेष्ट चेत्यर्थः| तथा स्थिरेन्द्रयित्वादियुक्तैः सुशीलैः साधुभिर्वृद्धगोपैः| किम्भूतेषु गोष्ठेष्वित्याह- प्राज्याज्यादिषु, प्राज्यं प्रभूतमाज्यादि येषु तथा हुम्भारवैर्गोमुखाह्वानैर्वल्गितावत्सका येष्विति| अस्मिन्नध्याये श्लोकशतानि सप्त पञ्चाशदधिकानि|| २२७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखाया मुत्तरतन्त्रे एकोनपञ्चाशोऽध्यायः