Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

30. vraṇapratiṣēdhaḥ

Adhikarana atha vraNapratiShedho nAma triMsho~adhyAyaH - pratij~jA (1) · Śloka 1

अथातो व्रणप्रतिशेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

व्रणस्य विभागं दर्शयित्वा साध्यस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते| निजस्य प्राधान्यात् प्रथमनिर्णयः| स च यतः शोफपूर्वको भवत्यत उच्यते||१||

Adhikarana shophAvasthAyAshcikitsAsUtram (2) · Śloka 2

व्रणस्य शोफावस्थायां शस्त्रकर्मविधौ श्वयथुचिकित्सिते च साधनमुद्दिष्टम्||२||

🔊 Audio coming soon

व्रणस्य शोफावस्थायामित्यादि सुबोधम्||२||

Adhikarana tatrApatarpaNaprAdhAnyam (3) · Śloka 3

तत्रापतर्पणमेवादौ प्रधानतमम्| अपि च-दोषोच्छ्रायोपशान्त्यर्थमुपदिष्टं यथायथम्| अवेक्ष्य देहप्राणादीन् कर्त्तव्यमपतर्पणम्||३||

🔊 Audio coming soon

अपतर्पणं सर्वं लङ्घनम्| अपि चेत्यपतर्पणविभागसमुच्चयाय| दोषाणामुच्छ्रायस्योपशान्त्यर्थं यदपतर्पणमुपदिष्टं तद्देहादीनवेक्ष्य यथायथं कर्तव्यम्||३||

Adhikarana apatarpaNaPalam (4) · Śloka 4

रागसंरम्भरहिताः परिम्लाना हृताश्रयाः| सद्यः शाम्यन्ति शुद्धानां व्रणाः शोफाश्च देहिनाम्||४||

🔊 Audio coming soon

राग इत्यादिना शोधनाख्यस्यापतर्पणस्य फलद्वारेण गुणकीर्तनम्| शुद्धानां देहिनां व्रणाः शोफाश्च सद्यः शाम्यन्ति||४||

Adhikarana lepAdInAM guNAH (5) · Śloka 5

लेपाभ्यङ्गपरिषेकान् यथोक्तांश्च प्रयोजयेत्| यथाम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति| दोषाग्निरेवं सहसा प्रलेपाद्यैः प्रयोजितैः||५||

🔊 Audio coming soon

तत्र च व्रणे लेपादीन् यथोक्तान् सामान्यविशेषत उक्तान् प्रयोजयेत्| यथेत्यादिना दृष्टान्तपूर्वकं लेपादीनां प्रभावकीर्तनम्||५||

Adhikarana pralepanavidhiH (6) · Śloka 6

प्रतिलोममेव चानुलिम्पेन्नानुलोमम्| तथा ह्यौषधं सम्यगवतिष्ठते| अनुप्रविशति च रोमकूपान्| न तु शुष्यदुपेक्षितव्यमन्यत्र पीडयितव्यात्| शुष्कं हि दाहोषारागश्यावत्वशूलानि वर्धयति||६||

🔊 Audio coming soon

प्रतिलोममित्यादि सुबोधम्| तथापीति प्रतिलोमलेपने| पीडयितव्ये व्रणे शुष्यदुपेक्षितव्यमेव| अन्यत्र कुतो हेतोः शुष्यदौषधं नोपेक्षितव्यमित्याह-शुष्कं हीत्यादि||६||

Adhikarana pradeha-pralepa-kalkaBedAH (7) · Śloka 7

यस्तु शीतस्तनुर्मुहुर्मुहुश्च प्रयुज्यते स प्रदेहो रक्तपित्तत्वचां प्रसादकृत्| प्रलेपस्तूष्णः शीतो वा बहलश्च तथा वातश्लेष्मप्रशमनस्तस्योपयोगः क्षताक्षतेषु| यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञा लभते||७||

🔊 Audio coming soon

यस्तु शीतादिगुणः पुनः पुनश्च प्रयुज्यते स रक्तादिप्रसादकृत् एवम्भूतस्य प्रदेह इत्याख्या| यस्तूष्णादिगुणस्तथेति पुनः पुनर्युज्यते स प्रलेपाख्यो वातश्लेष्मप्रशमनः| तस्य प्रलेपस्य क्षते चाक्षते चोपयोगः| सुबोधम्| भूय इति पुनः प्रलेपसंज्ञायां स्थितायाम्||७||

Adhikarana Alepasya daSavidhatvam (8) · Śloka 8

दशविधश्च समासादालेपः| तद्यथा-स्नैहिको निर्वापणः प्रसादनः स्तम्भनो विलायनः पाचनः पीडनः शोधनो रोपणः सवर्णीकरणश्च||८||

🔊 Audio coming soon

समासात् सङ्क्षेपतः स्नैहिकादिभेदेन दशविध आलेपो नामभिरेव व्याख्यातार्थः||८||

Adhikarana AlepAnAM BedAnusAraM viShayaH dravya~jca (9) · Śloka 9

तत्र वाते स्निग्धद्रव्यैः स्नेहाढ्यैः स्नेहेनैव स्नैहिकः| पित्ते पित्तप्राये व शोफे विषाग्निक्षारदग्धे च शितैर्निर्वापणः| स एव चान्तर्दुष्टे रक्ते प्रसादनः| स एव च पुनरस्रातिप्रवृत्तौ स्तम्भनसज्ञः| श्लेष्ममेदोभूयिष्ठे शीतैश्चाविदग्धे पिष्टलब्धे ग्रथिते वा रूक्षैर्विलायनः| तैरेव च विदग्धे पाचनः| सूक्ष्मास्ये व्रणे रूक्षैः पिच्छिलैश्च पीडनः| अशुद्धे यथास्वमुपदिष्टैः शोधनः| शुद्धे रोपणः| रूढे च सवर्णीकरणः| नामभिरेव चैषां स्वरूपमाख्यातम्||९||

🔊 Audio coming soon

तत्रेत्यादिना दशविधानामालेपानां विषयो द्रव्यं चाख्यायते| स एव स एवेति यथोक्तलक्षणो निर्वापणः| अविदग्धः परिवासेनाऽप्राप्तपाकावस्थः| तैरेवेति शीतादिगुणैः| अशुद्ध इत्यादिना शोधनादीनां क्रमेण प्रयोगकथनम्||९||

Adhikarana rAtrau pradehaniShedhastatra yuktiSca (10) · Śloka 10

न च प्रदेहं रात्रौ प्रयुञ्जीत| मा भूच्छैत्यपिहितस्योष्मणो बहिरनिस्सरणाद्विकारपरिवृद्धिः||१०||

🔊 Audio coming soon

रात्रौ प्रदेहं न प्रयुञ्जीत| का युक्तिरित्याह-मा भूच्छैत्य इत्यादि| रात्रिशैत्येन शरीरोष्मणः कृतपिधानस्य सुतरां बहिरनिस्सरणाद्विकारपरिवृद्धिर्मा भूदिति|| १०||

Adhikarana atra puShkalAvatamatam (11) · Śloka 11

पुष्कलावतस्तु पठति- तमसा पिहिता ह्यूष्मा रोमकूपैरनावृतैः| लेपाद्विनैव निर्याति रात्रौ नालेपयेदतः||११||

🔊 Audio coming soon

पुष्कलावतनामा ऋषिस्तु पठतीत्यनेन रात्रौ लेपप्रतिषेधे युक्त्यन्तरप्रदर्शनं करोति| यद्रात्रौ तमसा पिहितः शरीरोष्माऽनावृतै रोमकूपैर्लेपाद्विनैव निर्यात्यतो नालेपयेत्||११||

Adhikarana paryuShitalepaniShedhaH (12) · Śloka 12

न च पर्युषितं लेपं दद्यात् भूयस्तमेव वा| व्यम्लः पर्युषितो हि स्याद् भ्रष्टवीर्यस्तथेतरः||१२||

🔊 Audio coming soon

न चेत्यादि सुबोधम्| पर्यूषितं ह्यनिष्ठम्| भूयस्तमेवेति यो दत्तः||१२||

Adhikarana jalaukAdyairasrAharaNe hetuH (13) · Śloka 13

शोफे व्रणे च कठिने विवर्णे वेदनान्विते| सविषे च विशेषेण जलजाद्यैर्हरेदसृक्| वेदनायाः प्रशान्त्यर्थं पाकस्याऽप्राप्तयेऽपि च||१३||

🔊 Audio coming soon

शोफे व्रणे वा कठिनादिगुणे जलजाद्यैरस्राहरणे किम्प्रयोजनमित्याह-वेदनाया इत्यादि| (अत्र विशेष शब्देन सर्वधातुदूषकस्यापि विषस्य विशेषाद्रक्तदूषकत्वं सूचितम्)||१३||

Adhikarana srAvaNottaraM pradehAdi (14) · Śloka 14

निर्वापणान् पुनश्चात्र न्यग्रोधाद्यैः सुशीतलान्| कुर्यात् प्रदेहसेकादीन् सघृतक्षीरशर्करान्| न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः| प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम्| प्रदेहः ससितस्तद्वत् सक्तवो मधुकं घृतम्||१४||

🔊 Audio coming soon

अत्र पुनश्च विस्राविते रक्ते निर्वापणान् पूर्वोक्तलक्षणान् सुशीतलान् प्रदेहादीन् घ्रुतादियुक्तान् कुर्यात्| कैरौशधैरित्याह-न्यग्रोधाद्यैर्न्यग्रोधोदुम्बरेत्यादिभिः| तान्येव पठति-न्यग्रोधादीनां वल्कलैस्त्वग्भिर्भूरिसर्पिर्भिः प्रदेहः परं शोफनिर्वापणः| सुबोधम्| (सक्त्वादिभिः सितासहितः प्रदेहस्तद्वत् पूर्वगुणः)||१४||

Adhikarana vAtolbaNAnAM svedanam (15) · Śloka 15

वातोल्बणानां स्तब्धानां कठिनानां महारुजाम्| स्रुतासृजां च शोफानां व्रणानामपि चेदृशाम्| ग्राम्यानूपौदकामिषवेशवारकृसरापायसोत्कारिकाभिः स्वेदो योज्यः||१५||

🔊 Audio coming soon

वातोल्बणादीनां शोफानां वा व्रणानां वा ग्राम्यादिमांसवेशवारादिभिरुत्कारिकाभिः स्वेदो योज्यः||१५||

Adhikarana dAhashUlaharA cikitsA (16) · Śloka 16

सदाहशूलांस्तु तिलानतसींश्च भृष्ट्वा पयसि निर्वाप्य तेनैव क्षीरेण पिष्ट्वा प्रलेपयेत्| वलामधुकपृश्निपर्णीच्छिन्नरुहाभीरुजीवन्तीशर्करामदनक्षीरमहास्नेहसिद्धोत्कारिका कवोष्णा शूलदाहहरा| तद्वन्मधुकयवचूर्णतैलसर्पिर्भिः कोष्ण आलेपः| तथा सतिलो मुद्गपायसमुपनाहः| दशमूलसिद्धेन सुखोष्णेनाम्भसा पयसा वा घृततैलाभ्यां वा परिषेकः शोफे व्रणे वा दाहशूलघ्नः||१६||

🔊 Audio coming soon

सदाहशूलानिति शोफान् वा व्रणान् वा| सुबोधम्| निर्वाप्य पयसि क्षिप्त्वा| वलादिसिद्धोत्कारिका कवोष्णा सती शूलदाहहरा| उत्कारिका स्विन्नपिण्डी| मधुकादिभिः कोष्ण आलेपस्तद्वदिति शूलदाहहरः| तथैव तिलमुद्गाभ्याम् पायसेनोपनाहः| दशमूलसिद्धेन सुखोष्णेनाम्भसा परिषेकः| पयसा वा दशमूलसिद्धेन सुखोष्णेन, घृतेनम् तैलेन वा, द्वाभ्यां वा, परिषेकः शोफे दाहशूलघ्नो व्रणे वा||१६||

Adhikarana shophavimlApanam (17) · Śloka 17

स्थिराणां मन्दवेदनानां शोफानां विम्लापनं कार्यम्| अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः| विम्लापनार्थं मृद्नीयात्तलेनाङ्गुष्ठकेन वा| तथाऽऽस्फोतपत्रमसूरकल्केनाऽऽलेपः| सुसिद्धपिष्टैः सघृतैर्मुद्गयवगोधूमैर्वा||१७||

🔊 Audio coming soon

स्थिरादिगुणानां शोफानां विम्लापनं कार्यम्| विम्लापनं विलयनम्| अभ्यज्येत्यादिना तदेवोच्यते| सुबोधम्| तलो हस्ततलः| (अभ्यज्य वातकफघ्नैः स्नेहैरभ्यङ्गं कृत्वा पिण्डद्रवनाड्याद्यन्यतमेन स्वेदेन स्वेदयित्वा| चशब्दः समुच्चये| ततः स्वेदानन्तरं विम्लापनार्थं विलयनार्थं वेणुनाड्याद्यन्यतमेन मन्दं मन्दं विमृद्नीयान्मर्दयेदित्यर्थः)| सुबोधम्| आस्फोतोऽर्कः मुद्गादिभिः उसिद्धादिगुणैः प्रलेपः||१७||

Adhikarana upanAhaH (18) · Śloka 18

विलीयते स चेन्नैव ततस्तमुपनाहयेत्| अविदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते| शिग्रुशणफलचित्रककिण्वनिष्पावसर्षपतिलातसीसक्तुकोलगृहधूमैरम्लपिष्टैः सुखोष्णैः स्निग्धैः सलवणैरुत्कारिकां कृत्वा तथा प्रलिप्यैरण्डपत्रेणावच्छाद्य बध्नीयात्||१८||

🔊 Audio coming soon

स चेत् स्थिरत्वादिगुणः शोफो न विलीयते ततस्तमुपनाहयेत् बध्नीयात् तथेत्युपनाहेन अविदग्धोऽभिनवः शोफः शान्तिमश्नुते विदग्धः पाकाभिमुखः पाकमश्नुते| शिग्र्वादिभिरुत्कारिकया प्रलिप्यैरण्डपत्रेणाच्छाद्य वध्नीयात्||१८||

Adhikarana pAkAbhimukhe kRutyam (19) · Śloka 19

पाकाभिमुखे च शोफे यथेष्टमातुरं भोजयेत् पाचनार्थं पाकवेदनाशस्त्रकर्मसहनार्थं च||१९||

🔊 Audio coming soon

पाकाभिमुखे सोफे पाचनाद्यर्थं वैद्य आतुरं यथेष्टं भोजयेत्||१९||

Adhikarana pakve kRutyam (20) · Śloka 20

पक्वे तु यथोक्तेन विधिना शस्त्रमवचारयेत्||२०||

🔊 Audio coming soon

पक्व इत्यादि सुबोधम्| यथोक्तेन सूत्रप्रदर्शितेन||२०||

Adhikarana dAraNArhe kRutyam (21) · Śloka 21

सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते| दारणं दारणार्हस्य दोषपाकोद्धते हितम्||२१||

🔊 Audio coming soon

यस्तु शोफः पक्वः सन् पिण्डितो न स्वयमेव दीर्यते तस्मिन् शोफे पीडनैर्लेपः पीडिते दोषे च पाकेनोद्धते दारणार्हस्य पुंसो दारणः हितं येनावदीर्यते| दारणार्हः सूत्र उक्तः||२१||

Adhikarana citrakAdiBirdAraNam (22) · Śloka 22

चित्रकचिरबिल्वदन्तीकरवीरमूलकपोतपङ्कगृध्रपुरीषैर्गुग्गुल्वतसीस्नुहीक्षीरपलाशक्षारसुवर्णक्षीरीदक्षशकृन्मुकूलकैर्वा क्षारौषधैर्वा क्षारेण वा||२२||

🔊 Audio coming soon

चित्रकादिभिर्दारणमुच्यते| अथवा गुग्गुल्वादिभिः मुकुलकं दन्ती| अथवा क्षारौषधैः| क्षारौषधानि क्षारपाकविध्युक्तानि| अथवा केवलेनैव च यवक्षारेण दारणम्||२२||

Adhikarana vraNapIDanaM viShayaH dravya~jca (23) · Śloka 23

पूयगर्भानणुद्वारान् सोत्सङ्गान् मर्मगानपि| निःस्नेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत्| शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति| न मुखे चैनमालिम्पेत्तथा दोषः प्रसिच्यते| कलाययवगोधूममुद्गमाषहरेणवः| द्रव्याणां पिच्छिलानाञ्च त्वङ्मूलानि प्रपीडने||२३||

🔊 Audio coming soon

पूयगर्भत्वादियुक्तान् शोफान् वक्ष्यमाणैः पीडनद्रव्यैः स्नेहवर्जितैः समन्तान् प्रतिपीडयेत्| (पूयगर्भानन्तःपूयसहितान्| अणुद्वारान् अणुमुखतयाऽन्तरान्तरावरुद्धपूयास्रावान्| सोत्सङ्गानुत्सङ्गसहितान्| उत्सङ्गानुत्सङ्गसहितान्| उत्सङ्गा उन्नतिः| शुष्कस्य पूयस्य संश्लेष इति केचित्| मर्मगान् पाकादिना सम्प्राप्तमर्मान्| अपिशब्दः समुच्चये)| पीडनार्थं च शुष्यन्तं प्रलेपं समुपेक्षेत| तथा हि पीडयेत्| एनं च पीडनीयं शोफं मुखे नैवाऽऽलिम्पेत्| तेन हि दोषः प्रसिच्यते स्रवति| (पीडनं प्रति प्रलेपं शुष्यन्तं समुपेक्षेत पीडनविषयं प्रलेपं शुष्यन्तं शोषं गच्छन्तं समुपेक्षेत नापनयेदित्यर्थः| शुष्यन्तमित्युक्तत्वादेव शुष्कस्यानुपेक्षणीयत्वमप्यर्थात् गम्यते| एनं पीडनीयं शोफं मुखे व्रणमुखे नैवालिम्पेत् न प्रलेपयेत्| तथा एवंविधे सति दोषः अन्तर्गतः पूयाख्यो मलः प्रसिच्यते प्रस्रवति| 'आलेपः शुष्कोऽवपीड्य पूयं बहिर्निष्कासयति यतस्तदवपीडनं' इति जेज्जटः)| अथ किं तत् प्रपीडनमित्याह-कलायेत्यादि| पिच्छिलानां शाल्मल्यादीनां द्रव्याणां त्वचो मूलानि च|| २३||

Adhikarana Sodhanam ( kaShAyeNa ) (24) · Śloka 24

विवर्णान् पिच्छिलान् पूतिगन्धीन् क्लेदरुजावतः| व्रणानशुद्धान् विज्ञाय शोधनैरेभिराचरेत्| शङ्खिन्यङ्कोलसुमनः करवीरसुवर्चलाः| त्रिफला खदिरो दार्वी कोलपत्रं पलङ्कषा| प्रक्षालने कषायाणि वर्गश्चारग्वधादिकः||२४||

🔊 Audio coming soon

विवर्णादिगुणान् व्रणानत एव चाशुद्धनिति विज्ञाय एभिर्वक्ष्यमाणैः शोधनैरुपाचरेत्| शङ्खिनीत्यादि| शङ्खिन्यादीनि कषायरसानि च द्रव्याण्यारग्वधादिको वर्गश्चाऽशुद्धानां व्रणानां प्रक्षालने योज्यः||२४||

Adhikarana SodhanAlepaH (25) · Śloka 25

पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम्| निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः||२५||

🔊 Audio coming soon

पटोल्यादीनां सलवण आलेपो व्रणशोधनः| (पटोल्यादिकं निम्बपत्राणि च आलेपः एतत् सर्वमालेपनद्रव्यमित्यर्थः| सपटुः सैन्धवोपेतो व्रणशोधनो भवति)||२५||

Adhikarana shodhanakalkAdikam (26) · Śloka 26

अजगन्धाजश्रृङ्गी च गवाक्षी लाङ्गली निशा| पूतीकश्चित्रकः पाठा पटोलीवेल्लरेणुकाः| कटुत्रयं यवक्षारो लवणानि सुराष्ट्रजा| निकुम्भकुम्भकासीसहरितालमनश्शिलाः| कल्काज्यतैलरसजाचूर्णवर्तिषु भेषजम्||२६||

🔊 Audio coming soon

अजगन्धादीनि कल्कादिषु प्रयोगेण शोफानां व्रणानाञ्च भेषजम्| रसजा रसक्रिया| वर्तिर्व्रणनिधेया चैलमयी||२६||

Adhikarana shodhanaghRutam (27) · Śloka 27

तत्र गम्भीरेषु पित्तात्मकेषु दाहपाकवत्सु व्रणेष्वतीक्ष्णोष्णैरेभिः कार्पासीफलमिश्रं कल्कं घृतं च साधयित्वा योजयेत्||२७||

🔊 Audio coming soon

तत्रेत्यादिना कल्कादय उच्यन्ते| गम्भीरत्वादियुक्तेषु व्रणेष्वेभिरित्यजगन्धादिभिः पूतीकादितीक्ष्णोष्णद्रव्यरहितैः कृतं कार्पासीफलमिश्रं कल्कं घृतं च साधयित्वा योजयेत्||२७||

Adhikarana Sodhanatailam (28) · Śloka 28

उत्सन्नमांसेष्वल्पस्रावेषु रूक्षेषु तिलापामार्गबृहतीद्वययुक्तैः पूर्वोक्तैः पूतीकादिभिः सार्षपं तैलं च||२८||

🔊 Audio coming soon

उत्सन्नमांसादिषु व्रणेषु पूर्वोक्तैः सर्वैः पूतीकादिभिस्तिलादियुक्तैः सर्षपतैलं चैकं साधयित्वा योजयेदिति सम्बन्धः||२८||

Adhikarana SodhanarasakriyA (29) · Śloka 29

प्रचलप्रदेशाजेषु क्लेदबहुलेषुत्सन्नास्थिरमासेषु तैलेन चासिद्ध्यत्सु रसक्रियां कुर्यात्| यथोक्तानां संशोधनौषधानां कषाये पुनः परिस्राव्याधिश्रृते मनश्शिलातुवरीकासीसचूर्णप्रतीवापसिद्धां च मातुलुङ्गरसोपेतां सक्षौद्रां युञ्जीत||२९||

🔊 Audio coming soon

प्रचलप्रदेशजत्वादियुक्तेषु व्रणेषु ये च तैलेन न शुद्ध्यन्ति तेषु च रसक्रियां कुर्यात्| कामित्याह-यथोक्तानामित्यादि||२९||

Adhikarana SodhanacUrNam (30) · Śloka 30

मेदोयुक्तेषु गम्भीरेषु क्लेदिषु कल्कैश्चासिद्ध्यत्सुवचायां सैन्धवे किण्वे कासीसे रजनीद्वये| शोधनाग्र्येषु चान्येषु चूर्णं कुर्वीत शोधनम्||३०||

🔊 Audio coming soon

मेदोयुक्तादिषु व्रणेषु वचादिकेऽन्येष्वपि शोधनौषधेषु शोधनं चूर्णं कुर्वीत ||३०||

Adhikarana SodhanavartiH (31) · Śloka 31

अन्तःशल्यानणुद्वारान् गम्भीरान् मांससंश्रितान्| सन्धिमर्मनिविष्टांश्च शोधयेद्वर्तिभिर्व्रणान्||३१||

🔊 Audio coming soon

अन्तश्शल्यादिकान् व्रणान् वर्तिभिः शोधयेदिति सम्बन्धः||३१||

Adhikarana dhUpanantadarthaM dravyANi ca (32) · Śloka 32

वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्| श्रीवेष्टकसर्जरससालदेवदारुशिंशपाख़दिरासनकैडर्यसारयवमधूच्छिष्टभूर्जपत्रपक्षौमसर्पिभिः||३२||

🔊 Audio coming soon

वाताभिभूतत्वादिगुणान् व्रणान् श्रीवेष्टकादिभिर्धूपयेत्| ( नि ) श्रीवेष्टको वायसिकः श्रीवासश्चेति शब्दितः| सालादीनां सारः| कैडर्यः करञ्जः| (वाताभिभूतान् उद्रिक्तवातान्| सास्रावानास्रावयुक्तान्| आस्रावः पूयवहनम्| उग्रा अतिशयिता वेदना पीडाविशेषो येषां तानुग्रवेदनान्)||३२||

Adhikarana nirvApaNam (33) · Śloka 33

निर्वापयेद् भृशं शीतैः पित्तरक्तविषोल्बणान्||३३||

🔊 Audio coming soon

पित्ताद्युल्बणान् व्रणान् भृशं शीतैर्निर्वापयेत्| (उद्रिक्तपित्तान् उल्बणरक्तान् विषयुक्तांश्च व्रणान् शीतैश्चन्दनोशीरादिशीतलद्रव्यैर्भृशमतिशयेन निर्वापयेत्| लेपसेकादिनोष्मोपशमनं कुर्यादित्यर्थः )||३३||

Adhikarana utsAdanam (34) · Śloka 34

शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम्| अश्वगन्धापामार्गतालपत्रीसुवर्चलाबलातिबलानन्ताधातकीकुसुमसमङ्गाभिः पद्मकादिवर्गेण न्यग्रोधादिना च कल्कस्तथा सर्पींष्यभ्यञ्जनार्थे||३४||

🔊 Audio coming soon

शुष्कमांसादिके व्रणे उत्सादनं मांसवर्धनं हितम्| अश्वगन्धादिभिः कल्को वा सर्पींषि वा उत्सादनानि| (शुष्कमांसे अल्पमांसे गम्भीरे च व्रणे| गम्भीरं निम्नम्)||३४||

Adhikarana mAMsAdamAMsAhAraH (35) · Śloka 35

अद्यान्मांसादमांसानि विधिनोपहितानि च| मांसं मांसादमांसेन वर्धते शुद्धचेतसः||३५||

🔊 Audio coming soon

उत्सादनार्थं मांसादानां सिंहश्येनादीनां मांसानि विधानेनोपहितानि संस्कृतान्यद्यात्| यतः शुद्धचेतसः शोकादिरहितस्य मांसादमाम्सेनावश्यं व्रणे मांसं वर्द्धते||३५||

Adhikarana avasAdanam (36) · Śloka 36

उत्सन्नमृदुमांसानां व्रणानामवसादनम्| सैन्धवकासीससुमनोमुकुलगुग्गुलाग्निचित्रकाग्निमन्थदन्तीशिरीषकरञ्जफलभूर्जग्रन्थिकुक्कुटाण्डात्वक्कपोतकलविङ्कपुरीषनेपालीहरितालचूर्णानि सक्षौद्राणि||३६||

🔊 Audio coming soon

उत्सन्नमांसादीनां व्रणानामवसादनं व्रणमांसनिम्नीकरणं हितम्| किं तदित्याह - सैन्धवेत्यादि| सुबोधम्| कलविङ्को ग्रामचटकः||३६||

Adhikarana mRudUkaraNam (37) · Śloka 37

सरुजे कठिने स्तब्धे रूक्षे शुष्यति च व्रणे| मार्दवजननार्थं व्रणाविरोधि वातघ्नसिद्धस्य सर्पिषः पानम्| तद्विधैरेव च सिद्धं तैलमभ्यङ्गः| पूर्वोक्ताश्च स्वेदाः| तथा सर्पिर्मज्जवसाभिर्धूपाः सुस्निग्धसक्तुसैन्धवकिण्वतिलपिष्टकृसरपायसानूपवेशवाराः किञ्चिदुष्णो बहुशः प्रलेपाः| पित्तविद्रधिवीसर्पशोफकुष्ठघृतानि च| सर्वव्रणेषु योज्यानि पानसेकप्रलेपने||३७||

🔊 Audio coming soon

सरुजादिके व्रणे व्रणाविरोधिभिः काञ्चिकादिरहितैर्वातहरैद्रव्यैः सिद्धस्य सर्पिषः पानम्| तद्विधैरिति व्रणाविरोधिभिर्वातहरैः पूर्वोक्ता इति शोफावस्थोक्ताः| पित्तजानां विद्रध्यादीनां यानि घृतान्युक्तानि तानि सर्वव्रणेषु पानादिषु योज्यानि||३७||

Adhikarana dAruNIkaraNam (38) · Śloka 38

अतिमृमांसेषु व्रणेषु दारुणीकरणार्थं त्रिफलालोध्राग्रसर्जजम्बूप्रियङ्ग्वशोकवल्कलानि| सौराष्ट्ऱ्रीकासीसरोचनावचूर्णनम्| सारैर्गन्धैश्च धूपः||३८||

🔊 Audio coming soon

अतिमृदुमांसेषु व्रणेषु दारुणत्वापादनाय त्रिफलादिकल्कलानि नानाप्रयोगैर्योज्यानि| सौराष्ट्र्याद्यवचूर्णनं हितम्| सारैरगरुचन्दनादिभिर्गन्धद्रव्यैश्च मांस्यादिभिर्धूपः||३८||

Adhikarana kShArakarma (39) · Śloka 39

उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्| व्रणान् सुदुःखशोध्यांश्च शोधयेत्क्षारकर्मणा||३९||

🔊 Audio coming soon

उत्सन्नमांसत्वादियुक्तान् व्रणान् क्षारकर्मणा शोधयेत्||३९||

Adhikarana agnikarma (40) · Śloka 40

स्रवन्तोऽश्मरिजा मूत्रं ये चान्ये रक्तवाहिनः| छिन्नाश्च सन्धयो येषां यथोक्तैर्ये च साधनैः| साध्यमाना न सिध्यन्ति शोध्याः स्युस्तेऽग्निकर्मणा||४०||

🔊 Audio coming soon

ये व्रणा अश्मरिजाः सन्तो मूत्रं स्रवन्ति अन्ये च ये रक्तवाहिनो येषां च सन्धयश्छिन्नाः ये च सर्वैरुक्तैः साधनैरुपक्रमैर्न सिध्यन्ति ते सर्वे अग्निकर्मणा शोध्याः स्युरिति सम्भावनायाम्||४०||

Adhikarana ropaNam (41) · Śloka 41

व्रणानामथ शुद्धानाम् रोपणानि प्रयोजयेत्| असनादिन्यग्रोधादिवर्गधवसल्लकीकुटजत्वचो मञ्जिष्ठासमङ्गामृताश्वगन्धाऽऽरग्वधधातकीपुष्पाणि पद्मकादिश्च प्रक्षालनादिषु सप्तसु प्रयोज्या इति||४१||

🔊 Audio coming soon

एवमन्ते शुद्धानां व्रणानां रोपणं योज्यम्| किं तदित्याह-असनादीत्यादि| असनादिकं पद्मकाद्यन्तं प्रक्षालनादिषु सप्तसु प्रक्षालनाऽऽलेपघृततैलरसक्रियाचूर्णवर्तिषु योजयेत्||४१||

Adhikarana pracCardanAdyantaHSodhanam (42) · Śloka 42

भवन्ति चात्र- उत्सन्नदुष्टपिशिते संक्लिष्टध्यामशोणिते| व्रणे प्रच्छर्दनं शस्तं कफदुष्टे विशेषतः| विरेचनं पित्तदुष्टे दीर्घकालानुबन्धिनि| रूक्षे सवेदने बस्तिरधःकाये विशेषतः||४२||

🔊 Audio coming soon

उत्सन्नत्वादिगुणे व्रणे प्रच्छर्दनं शस्तम्| कफदुष्टे व्रणे विशेषेण प्रच्छर्दनम्| विरेको बस्तिश्च सुबोधः||४२||

Adhikarana jatrUrdhvajeShu nAvanAdikam (43) · Śloka 43

जत्रूर्ध्वजे च श्वयथौ कण्ड्वाढ्ये तीक्ष्णनावनम्| तज्ज एवानिलाढ्ये तु श्वयथौ स्नेहनावनम्| तथा सशोफरुक्स्रावे धूमो वातकफोल्बणे| रुजादिमिति वक्त्रस्थे यथास्वं कवलो हितः||४३||

🔊 Audio coming soon

जत्रूर्ध्वजे कण्ड्वाढ्ये च श्वयथौ तीक्ष्णं नस्यं शस्तम्| तज्ज एवेत्यूर्ध्वजत्रुज एव श्वयथावनिलाढ्ये च स्नेहनस्यम्| तथेत्यूर्ध्वजत्रुज एव च व्रणे वातकफोल्बणे शोफादियुक्ते धूमः| वक्त्रस्थे रुजादिमति व्रणे यथास्वं दोषाधिक्येन कवलो हितः||४३||

Adhikarana doShAnusAraM kaShAyAdyarthaM dravyANi (44) · Śloka 44

द्वावाद्यौ पञ्चमूलाख्यौ गणौ यश्चानिलापहः| ते व्रणे वातिके योज्याः कषायादिषु सप्तसु| न्यग्रोधपद्मकाद्यौ तु पैत्ते वर्गश्च पित्तजित्| आरग्वधादिः श्लेष्मघ्नः कफे मिश्रास्तु मिश्रजे||४४||

🔊 Audio coming soon

द्वावाद्यौ पञ्चमूलो महध्रस्वाख्यौ| अनिलापहो गणः शोधनाद्युक्त इत्येते वातिके व्रणे सप्तसु कषायादिषु योज्याः| कषायः क्षालने| न्यग्रोधपद्मकाद्यौ गणौ पित्तजिद्वर्गश्च पित्तव्रणे सप्तसु कषायादिषु योज्यः| आरग्वधादिर्गणः श्लेष्मघ्नो वर्गश्च कफजे| मिश्रजे व्रणे यथायोगं मिश्रास्ते योगाः||४४||

Adhikarana doShAnusAraM lepavidhAnam (45) · Śloka 45

पिष्टोऽम्लैर्वातिके लेपस्तैलसर्पिर्वसायुतः| घनः कोष्णश्च पैत्ते तु पयःपिष्टो घृतान्वितः| तनुवस्त्रान्तरः शश्वदुष्णो गोमूत्रपेषितः| रूक्षस्तैलेन वा स्निग्धो बहलः कफजे हितः||४५||

🔊 Audio coming soon

पिष्टोऽम्लैरित्यादिना वातादिषु लेपविधानं सुबोधम्| घनः कोष्णश्चेत्येवमन्तं वाते| तनुवस्त्रान्तर इत्येवमन्तं पित्ते| कफे शश्वदुष्ण इत्यादि| बहलो घनः||४५||

Adhikarana mAMsasthavraNAnAM tilakalkena prayogaH (46) · Śloka 46

अपेतपूतिमांसांनां मांसस्थानामरोहताम्| कल्कं संरोहणं कुर्यात्तिलानां मधुकान्वितम्| स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित्| स क्षौद्रनिम्बपत्राभ्यां युक्तः संशोधनः परम्| पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः| तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः||४६||

🔊 Audio coming soon

मांसस्थानां व्रणानामपगतपूतिमांसानामरोहतां सतां तिलानां कल्कं मधुकान्वितं संरोहणं कुर्यात्| स हि तिलकल्कः स्निग्धादिगुणत्वात् सर्वदोषजित् भवति| समधुकान्वितस्तिलकल्कः क्षौद्रनिम्बपत्राभ्यां युक्त: परं संशोधनः| असौ च मधुकान्वितस्तिलकल्कः पूर्वाभ्यामेव क्षौद्रनिम्बपत्राभ्यां सर्पिषा च युक्त आशु रोपणो भवति| केचिदाचार्या रोपणविदस्तिलकल्कप्रकारेण यवकल्कमपीच्छन्ति||४६||

Adhikarana sAsrAdivraNAnAM ropaNam (47) · Śloka 47

सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान्| क्षीररोपणभैषज्यश्रृतेनाज्येन रोपयेत्| रोपणौषधसिद्धेन तैलेन कफवातजान्||४७||

🔊 Audio coming soon

अस्रादियुक्तान् व्रणान् क्षीरेण रोपणभैषज्यैश्च श्रृतनाज्येन रोपयेत्| कफवातजान् व्रणान् रोपणैरौषधैः सिद्धेन तैलेन रोपयेत्||४७||

Adhikarana avadhyavraNAdInAM ropaNakramaH (48) · Śloka 48

अवध्यानां चलस्थानां शुद्धानां वा प्रदुष्यताम्| यथास्वं रोपणैः कुर्याद्रसजां सनिशाद्वयैः| समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते| नीरुजामवगाढानां शुद्धानां वर्तयो हिताः||४८||

🔊 Audio coming soon

अवध्यादीनां व्रणानां यथास्वं दोषाद्यपेक्षया रोपणौषधैर्हरिद्राद्वययुक्तै रसजां रसक्रियां कुर्यात्| यथास्वमेतैरेव त्वौषधैः समत्वादियुक्तानां व्रणानां चूर्ण इष्यते| यथास्वं तैरेव नीरुजादीनां व्रणानां वर्तयो हिताः||४८||

Adhikarana ropaNaH kalkaH (49) · Śloka 49

समङ्गामोचसरलसोमवल्काः सचन्दनाः| पद्मकादिश्च कल्कोऽयं परमं रोपणोऽथवा| पुण्ड्राह्वतिलजीवन्तीगोजिह्वाधातकीबलाः||४९||

🔊 Audio coming soon

समङ्गादिभिः पद्मकादिगणान्तैः कल्कः परमं व्रणरोपणः| सोमवल्कः कट्फलत्वक्| अथवा पुण्ड्राह्वादीनां बलान्तानां कल्कः परमं व्रणरोपणः||४९||

Adhikarana ropaNaM tailaM ghRuta~jca (50) · Śloka 50

प्रपौण्डरीकमधुककाकोलीद्वयचन्दनैः| साधितं तैलमाज्यं वा तद्वत्कम्पिल्लकेन वा| दूर्वारसेन वा दार्व्यास्त्वचा वा व्रणरोपणम्||५०||

🔊 Audio coming soon

प्रपौण्डरीकादिभिः साधितं तैलं घृतं वा तद्वदिति परमं व्रणरोपणम्| कम्पिल्लकेन वा साधितं तैलं वाज्यं वा| दूर्वारसेन वा साधितं दार्वीत्वचा वा||५०||

Adhikarana paTolAdiyogaH (tailaghRutayoH) (51) · Śloka 51

पटोलनिम्बपत्राणि लोध्रमुस्ताप्रियङ्गवः| सूक्ष्मैलाधातकीसर्ज्जखदिरागरुचन्दनम्| कम्पिल्लकं विडङ्गानि वत्सकं त्रिफला बला| कल्कैरेभिघृतं सिद्धं तैलं वा रोपणं परम्||५१||

🔊 Audio coming soon

पटोलादिकल्कैर्घृतं वा तैलं वा सिद्धं परमं व्रणरोपणम्||५१||

Adhikarana varNasAdhanaM savarNIkaraNam (52) · Śloka 52

पद्मकं पद्मकिञ्जल्कं दार्वी मूर्वा तिलोत्पलम्| मेदा समङ्गा यष्ट्याह्वं प्रलेपो वर्णसाधनः| ककुभोदुम्बराश्वत्थजम्बूकट्फललोध्रजैः| त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः| लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः| प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परम्| ध्यामकाश्वत्थनिचुलमूलं लाक्षालगैरिकम्| सहेमश्चामृतासङ्गकासीसं चेति वर्णकृत्| कालेयकलताऽऽम्रास्थिहेमकालारसोत्तमैः| लेपः सगोमयरसः सवर्णकरणः परम्| अयोरजः सकासीसं त्रिफलाकुसुमानि च| प्रलेपः कुरुते काष्णर्यं सद्य एव नवत्वचि| दग्धयाऽऽनूपसत्त्वानां श्लक्ष्णचूर्णितया त्वचा| भल्लाततैलप्लुतया शुक्लमालेपयेद् व्रणम्| नवं कपालिकामूलं वैदुलं सस्थिराह्वयम्| कासीसं मधुकं लेपो व्रणे कृष्णे मधुद्रुतः| कपित्थान्मांसमुद्धृत्य मूत्रस्याज्यस्य पूरणम्| क्षिपेच्चात्र मनोह्वालवंशनिर्लेखरोचनाः| कासीसं प्रपुनाटश्च मासं न्यस्तं ततो भुवि| अधोऽर्जुनस्य तच्छुक्लव्रणालेपः सवर्णकृत्||५२||

🔊 Audio coming soon

पद्मकादिभिर्व्रणे लेपो वर्णसाधनो वर्णकरणः| (ककुभादित्वचां चूर्णैश्चूर्णिता अवकीर्णा व्रणास्त्वचमाश्वेव निगृह्णन्ति निबध्नन्ति)| लाक्षादिभिर्घृतक्षौद्रसहितः प्रलेपः परमतिशयेन त्वग्विशुद्धिं करोति| ध्यामकादिभिर्घृतक्षौद्रसहितः प्रलेपो वर्णकृत् भवति| (ध्यामकं कत्तृणानुकारि तृणम्| निचुलो वञ्जुलः| अलं हरितालम्| हेम नागकेसरम्| अमृतासङ्गः कर्परिका| कासीसं तुत्थकम्| इति जेज्जटः)| अमृता गुडूची| आसङ्गो रसाञ्जनमिति च| कालेयकादिभिर्गोमयरसोपेतो लेपः परं सवर्णकरणः कायसमानवर्णकरणः| कालेयकं दार्वी| (नि) कालेयकं दारुनिशा दार्वी पीतद्रुपीतनः| लता दूर्वा प्रियङ्गुश्च| हेम पद्मकं नागकेसरमिति जेज्जटः| रसोत्तमः पारदः| काला सारिवेति जेज्जटः| अयोरज आदिरालेपो नवत्वचि सद्य एव काष्णर्यं कुरुते| त्रिफलायाः कुसुमानि| शुक्लं व्रणमानूपानां सत्त्वानां प्राणिनां त्वचा दग्धयाऽनु श्लक्ष्णचूर्णितयाऽनु च भल्लाततैलप्लुतया लेपयेत्| भल्लाततैलमरुष्करतैलम्| कृष्णं व्रणं सप्तरात्रं छागले पयसि स्थितेनानु च तेनैवावस्थानपयसा पिष्टेन रोहिणीफलेनाऽऽलेपयेत्| कृष्णे व्रणे नवमार्चरकालोत्पन्नं कपालिकामूलादिकं मधुद्रुतो लेपः| कपालिकामूलं वैदुलं मूलमिति सम्बध्यते| ('नवं कपालिकाचूर्णं वैदुलं सर्जनाम् च| कासीसं क्षौद्रयुक्तं च मधुकञ्चैव लेपयेदि'ति सुश्रुतः)| कपित्थफलस्य त्वगन्तर्भवे मांस उद्धृते सति मूत्राज्ययोः पूरणम्| तत्र च मनोह्वादिकं प्रक्षिप्य ततोऽर्जुनवृक्षस्याधो भुवि न्यस्तं तत् शुक्लव्रण आलेपः सवर्णकृत्| वंशनिर्लेखनं वंशतनुशल्कः| कासीसं तुत्थम्| ('मूत्रस्याजस्य पूरणमि'ति सुश्रुतः )||५२||

Adhikarana romasa~jjananam (53) · Śloka 53

दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम्| रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता| चतुष्पान्नखरोमास्थित्वक्श्रृङ्गखुरजा मषी||५३||

🔊 Audio coming soon

वारणदन्तो हस्तिदन्तोऽन्तर्धूमं दग्धस्तैलं रसाञ्जनं च सवर्णकरणो लेपः| चतुष्पदां नखादिजां मषी तैलपरिप्लुता तद्वदिति रोमसञ्जननो लेपः||५३||

Adhikarana pathyanirdeSaH (54-30) · Śloka 30

जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम्| भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति||५४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे व्रणप्रतिषेधो नाम त्रिंशोऽध्यायः||३०||

🔊 Audio coming soon

स्निग्धादिगुणं शाल्योदनं जाङ्गलैर्मांसैः सह भुञ्जानः पुरुषः शीघ्रं व्रणमपोहति||५४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे त्रिंशोऽध्यायः