Adhikarana atha vraNapratiShedho nAma triMsho~adhyAyaH - pratij~jA (1) · Śloka 1
अथातो व्रणप्रतिशेधं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
व्रणस्य विभागं दर्शयित्वा साध्यस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते| निजस्य प्राधान्यात् प्रथमनिर्णयः| स च यतः शोफपूर्वको भवत्यत उच्यते||१||
Adhikarana shophAvasthAyAshcikitsAsUtram (2) · Śloka 2
व्रणस्य शोफावस्थायां शस्त्रकर्मविधौ श्वयथुचिकित्सिते च साधनमुद्दिष्टम्||२||
व्रणस्य शोफावस्थायामित्यादि सुबोधम्||२||
Adhikarana tatrApatarpaNaprAdhAnyam (3) · Śloka 3
तत्रापतर्पणमेवादौ प्रधानतमम्|
अपि च-दोषोच्छ्रायोपशान्त्यर्थमुपदिष्टं यथायथम्|
अवेक्ष्य देहप्राणादीन् कर्त्तव्यमपतर्पणम्||३||
अपतर्पणं सर्वं लङ्घनम्| अपि चेत्यपतर्पणविभागसमुच्चयाय| दोषाणामुच्छ्रायस्योपशान्त्यर्थं यदपतर्पणमुपदिष्टं तद्देहादीनवेक्ष्य यथायथं कर्तव्यम्||३||
Adhikarana apatarpaNaPalam (4) · Śloka 4
रागसंरम्भरहिताः परिम्लाना हृताश्रयाः|
सद्यः शाम्यन्ति शुद्धानां व्रणाः शोफाश्च देहिनाम्||४||
राग इत्यादिना शोधनाख्यस्यापतर्पणस्य फलद्वारेण गुणकीर्तनम्| शुद्धानां देहिनां व्रणाः शोफाश्च सद्यः शाम्यन्ति||४||
Adhikarana lepAdInAM guNAH (5) · Śloka 5
लेपाभ्यङ्गपरिषेकान् यथोक्तांश्च प्रयोजयेत्|
यथाम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति|
दोषाग्निरेवं सहसा प्रलेपाद्यैः प्रयोजितैः||५||
तत्र च व्रणे लेपादीन् यथोक्तान् सामान्यविशेषत उक्तान् प्रयोजयेत्| यथेत्यादिना दृष्टान्तपूर्वकं लेपादीनां प्रभावकीर्तनम्||५||
Adhikarana pralepanavidhiH (6) · Śloka 6
प्रतिलोममेव चानुलिम्पेन्नानुलोमम्|
तथा ह्यौषधं सम्यगवतिष्ठते|
अनुप्रविशति च रोमकूपान्|
न तु शुष्यदुपेक्षितव्यमन्यत्र पीडयितव्यात्|
शुष्कं हि दाहोषारागश्यावत्वशूलानि वर्धयति||६||
प्रतिलोममित्यादि सुबोधम्| तथापीति प्रतिलोमलेपने| पीडयितव्ये व्रणे शुष्यदुपेक्षितव्यमेव| अन्यत्र कुतो हेतोः शुष्यदौषधं नोपेक्षितव्यमित्याह-शुष्कं हीत्यादि||६||
Adhikarana pradeha-pralepa-kalkaBedAH (7) · Śloka 7
यस्तु शीतस्तनुर्मुहुर्मुहुश्च प्रयुज्यते स प्रदेहो रक्तपित्तत्वचां प्रसादकृत्|
प्रलेपस्तूष्णः शीतो वा बहलश्च तथा वातश्लेष्मप्रशमनस्तस्योपयोगः क्षताक्षतेषु|
यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञा लभते||७||
यस्तु शीतादिगुणः पुनः पुनश्च प्रयुज्यते स रक्तादिप्रसादकृत् एवम्भूतस्य प्रदेह इत्याख्या| यस्तूष्णादिगुणस्तथेति पुनः पुनर्युज्यते स प्रलेपाख्यो वातश्लेष्मप्रशमनः| तस्य प्रलेपस्य क्षते चाक्षते चोपयोगः| सुबोधम्| भूय इति पुनः प्रलेपसंज्ञायां स्थितायाम्||७||
Adhikarana Alepasya daSavidhatvam (8) · Śloka 8
दशविधश्च समासादालेपः|
तद्यथा-स्नैहिको निर्वापणः प्रसादनः स्तम्भनो विलायनः पाचनः पीडनः शोधनो रोपणः सवर्णीकरणश्च||८||
समासात् सङ्क्षेपतः स्नैहिकादिभेदेन दशविध आलेपो नामभिरेव व्याख्यातार्थः||८||
Adhikarana AlepAnAM BedAnusAraM viShayaH dravya~jca (9) · Śloka 9
तत्र वाते स्निग्धद्रव्यैः स्नेहाढ्यैः स्नेहेनैव स्नैहिकः|
पित्ते पित्तप्राये व शोफे विषाग्निक्षारदग्धे च शितैर्निर्वापणः|
स एव चान्तर्दुष्टे रक्ते प्रसादनः|
स एव च पुनरस्रातिप्रवृत्तौ स्तम्भनसज्ञः|
श्लेष्ममेदोभूयिष्ठे शीतैश्चाविदग्धे पिष्टलब्धे ग्रथिते वा रूक्षैर्विलायनः|
तैरेव च विदग्धे पाचनः|
सूक्ष्मास्ये व्रणे रूक्षैः पिच्छिलैश्च पीडनः|
अशुद्धे यथास्वमुपदिष्टैः शोधनः|
शुद्धे रोपणः|
रूढे च सवर्णीकरणः|
नामभिरेव चैषां स्वरूपमाख्यातम्||९||
तत्रेत्यादिना दशविधानामालेपानां विषयो द्रव्यं चाख्यायते| स एव स एवेति यथोक्तलक्षणो निर्वापणः| अविदग्धः परिवासेनाऽप्राप्तपाकावस्थः| तैरेवेति शीतादिगुणैः| अशुद्ध इत्यादिना शोधनादीनां क्रमेण प्रयोगकथनम्||९||
Adhikarana rAtrau pradehaniShedhastatra yuktiSca (10) · Śloka 10
न च प्रदेहं रात्रौ प्रयुञ्जीत|
मा भूच्छैत्यपिहितस्योष्मणो बहिरनिस्सरणाद्विकारपरिवृद्धिः||१०||
रात्रौ प्रदेहं न प्रयुञ्जीत| का युक्तिरित्याह-मा भूच्छैत्य इत्यादि| रात्रिशैत्येन शरीरोष्मणः कृतपिधानस्य सुतरां बहिरनिस्सरणाद्विकारपरिवृद्धिर्मा भूदिति|| १०||
Adhikarana atra puShkalAvatamatam (11) · Śloka 11
पुष्कलावतस्तु पठति- तमसा पिहिता ह्यूष्मा रोमकूपैरनावृतैः|
लेपाद्विनैव निर्याति रात्रौ नालेपयेदतः||११||
पुष्कलावतनामा ऋषिस्तु पठतीत्यनेन रात्रौ लेपप्रतिषेधे युक्त्यन्तरप्रदर्शनं करोति| यद्रात्रौ तमसा पिहितः शरीरोष्माऽनावृतै रोमकूपैर्लेपाद्विनैव निर्यात्यतो नालेपयेत्||११||
Adhikarana paryuShitalepaniShedhaH (12) · Śloka 12
न च पर्युषितं लेपं दद्यात् भूयस्तमेव वा|
व्यम्लः पर्युषितो हि स्याद् भ्रष्टवीर्यस्तथेतरः||१२||
न चेत्यादि सुबोधम्| पर्यूषितं ह्यनिष्ठम्| भूयस्तमेवेति यो दत्तः||१२||
Adhikarana jalaukAdyairasrAharaNe hetuH (13) · Śloka 13
शोफे व्रणे च कठिने विवर्णे वेदनान्विते|
सविषे च विशेषेण जलजाद्यैर्हरेदसृक्|
वेदनायाः प्रशान्त्यर्थं पाकस्याऽप्राप्तयेऽपि च||१३||
शोफे व्रणे वा कठिनादिगुणे जलजाद्यैरस्राहरणे किम्प्रयोजनमित्याह-वेदनाया इत्यादि| (अत्र विशेष शब्देन सर्वधातुदूषकस्यापि विषस्य विशेषाद्रक्तदूषकत्वं सूचितम्)||१३||
Adhikarana srAvaNottaraM pradehAdi (14) · Śloka 14
निर्वापणान् पुनश्चात्र न्यग्रोधाद्यैः सुशीतलान्|
कुर्यात् प्रदेहसेकादीन् सघृतक्षीरशर्करान्|
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः|
प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम्|
प्रदेहः ससितस्तद्वत् सक्तवो मधुकं घृतम्||१४||
अत्र पुनश्च विस्राविते रक्ते निर्वापणान् पूर्वोक्तलक्षणान् सुशीतलान् प्रदेहादीन् घ्रुतादियुक्तान् कुर्यात्| कैरौशधैरित्याह-न्यग्रोधाद्यैर्न्यग्रोधोदुम्बरेत्यादिभिः| तान्येव पठति-न्यग्रोधादीनां वल्कलैस्त्वग्भिर्भूरिसर्पिर्भिः प्रदेहः परं शोफनिर्वापणः| सुबोधम्| (सक्त्वादिभिः सितासहितः प्रदेहस्तद्वत् पूर्वगुणः)||१४||
Adhikarana vAtolbaNAnAM svedanam (15) · Śloka 15
वातोल्बणानां स्तब्धानां कठिनानां महारुजाम्|
स्रुतासृजां च शोफानां व्रणानामपि चेदृशाम्|
ग्राम्यानूपौदकामिषवेशवारकृसरापायसोत्कारिकाभिः स्वेदो योज्यः||१५||
वातोल्बणादीनां शोफानां वा व्रणानां वा ग्राम्यादिमांसवेशवारादिभिरुत्कारिकाभिः स्वेदो योज्यः||१५||
Adhikarana dAhashUlaharA cikitsA (16) · Śloka 16
सदाहशूलांस्तु तिलानतसींश्च भृष्ट्वा पयसि निर्वाप्य तेनैव क्षीरेण पिष्ट्वा प्रलेपयेत्|
वलामधुकपृश्निपर्णीच्छिन्नरुहाभीरुजीवन्तीशर्करामदनक्षीरमहास्नेहसिद्धोत्कारिका कवोष्णा शूलदाहहरा|
तद्वन्मधुकयवचूर्णतैलसर्पिर्भिः कोष्ण आलेपः|
तथा सतिलो मुद्गपायसमुपनाहः|
दशमूलसिद्धेन सुखोष्णेनाम्भसा पयसा वा घृततैलाभ्यां वा परिषेकः शोफे व्रणे वा दाहशूलघ्नः||१६||
सदाहशूलानिति शोफान् वा व्रणान् वा| सुबोधम्| निर्वाप्य पयसि क्षिप्त्वा| वलादिसिद्धोत्कारिका कवोष्णा सती शूलदाहहरा| उत्कारिका स्विन्नपिण्डी| मधुकादिभिः कोष्ण आलेपस्तद्वदिति शूलदाहहरः| तथैव तिलमुद्गाभ्याम् पायसेनोपनाहः| दशमूलसिद्धेन सुखोष्णेनाम्भसा परिषेकः| पयसा वा दशमूलसिद्धेन सुखोष्णेन, घृतेनम् तैलेन वा, द्वाभ्यां वा, परिषेकः शोफे दाहशूलघ्नो व्रणे वा||१६||
Adhikarana shophavimlApanam (17) · Śloka 17
स्थिराणां मन्दवेदनानां शोफानां विम्लापनं कार्यम्|
अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः|
विम्लापनार्थं मृद्नीयात्तलेनाङ्गुष्ठकेन वा|
तथाऽऽस्फोतपत्रमसूरकल्केनाऽऽलेपः|
सुसिद्धपिष्टैः सघृतैर्मुद्गयवगोधूमैर्वा||१७||
स्थिरादिगुणानां शोफानां विम्लापनं कार्यम्| विम्लापनं विलयनम्| अभ्यज्येत्यादिना तदेवोच्यते| सुबोधम्| तलो हस्ततलः| (अभ्यज्य वातकफघ्नैः स्नेहैरभ्यङ्गं कृत्वा पिण्डद्रवनाड्याद्यन्यतमेन स्वेदेन स्वेदयित्वा| चशब्दः समुच्चये| ततः स्वेदानन्तरं विम्लापनार्थं विलयनार्थं वेणुनाड्याद्यन्यतमेन मन्दं मन्दं विमृद्नीयान्मर्दयेदित्यर्थः)| सुबोधम्| आस्फोतोऽर्कः मुद्गादिभिः उसिद्धादिगुणैः प्रलेपः||१७||
Adhikarana upanAhaH (18) · Śloka 18
विलीयते स चेन्नैव ततस्तमुपनाहयेत्|
अविदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते|
शिग्रुशणफलचित्रककिण्वनिष्पावसर्षपतिलातसीसक्तुकोलगृहधूमैरम्लपिष्टैः सुखोष्णैः स्निग्धैः सलवणैरुत्कारिकां कृत्वा तथा प्रलिप्यैरण्डपत्रेणावच्छाद्य बध्नीयात्||१८||
स चेत् स्थिरत्वादिगुणः शोफो न विलीयते ततस्तमुपनाहयेत् बध्नीयात् तथेत्युपनाहेन अविदग्धोऽभिनवः शोफः शान्तिमश्नुते विदग्धः पाकाभिमुखः पाकमश्नुते| शिग्र्वादिभिरुत्कारिकया प्रलिप्यैरण्डपत्रेणाच्छाद्य वध्नीयात्||१८||
Adhikarana pAkAbhimukhe kRutyam (19) · Śloka 19
पाकाभिमुखे च शोफे यथेष्टमातुरं भोजयेत् पाचनार्थं पाकवेदनाशस्त्रकर्मसहनार्थं च||१९||
पाकाभिमुखे सोफे पाचनाद्यर्थं वैद्य आतुरं यथेष्टं भोजयेत्||१९||
Adhikarana pakve kRutyam (20) · Śloka 20
पक्वे तु यथोक्तेन विधिना शस्त्रमवचारयेत्||२०||
पक्व इत्यादि सुबोधम्| यथोक्तेन सूत्रप्रदर्शितेन||२०||
Adhikarana dAraNArhe kRutyam (21) · Śloka 21
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते|
दारणं दारणार्हस्य दोषपाकोद्धते हितम्||२१||
यस्तु शोफः पक्वः सन् पिण्डितो न स्वयमेव दीर्यते तस्मिन् शोफे पीडनैर्लेपः पीडिते दोषे च पाकेनोद्धते दारणार्हस्य पुंसो दारणः हितं येनावदीर्यते| दारणार्हः सूत्र उक्तः||२१||
Adhikarana citrakAdiBirdAraNam (22) · Śloka 22
चित्रकचिरबिल्वदन्तीकरवीरमूलकपोतपङ्कगृध्रपुरीषैर्गुग्गुल्वतसीस्नुहीक्षीरपलाशक्षारसुवर्णक्षीरीदक्षशकृन्मुकूलकैर्वा क्षारौषधैर्वा क्षारेण वा||२२||
चित्रकादिभिर्दारणमुच्यते| अथवा गुग्गुल्वादिभिः मुकुलकं दन्ती| अथवा क्षारौषधैः| क्षारौषधानि क्षारपाकविध्युक्तानि| अथवा केवलेनैव च यवक्षारेण दारणम्||२२||
Adhikarana vraNapIDanaM viShayaH dravya~jca (23) · Śloka 23
पूयगर्भानणुद्वारान् सोत्सङ्गान् मर्मगानपि|
निःस्नेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत्|
शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति|
न मुखे चैनमालिम्पेत्तथा दोषः प्रसिच्यते|
कलाययवगोधूममुद्गमाषहरेणवः|
द्रव्याणां पिच्छिलानाञ्च त्वङ्मूलानि प्रपीडने||२३||
पूयगर्भत्वादियुक्तान् शोफान् वक्ष्यमाणैः पीडनद्रव्यैः स्नेहवर्जितैः समन्तान् प्रतिपीडयेत्| (पूयगर्भानन्तःपूयसहितान्| अणुद्वारान् अणुमुखतयाऽन्तरान्तरावरुद्धपूयास्रावान्| सोत्सङ्गानुत्सङ्गसहितान्| उत्सङ्गानुत्सङ्गसहितान्| उत्सङ्गा उन्नतिः| शुष्कस्य पूयस्य संश्लेष इति केचित्| मर्मगान् पाकादिना सम्प्राप्तमर्मान्| अपिशब्दः समुच्चये)| पीडनार्थं च शुष्यन्तं प्रलेपं समुपेक्षेत| तथा हि पीडयेत्| एनं च पीडनीयं शोफं मुखे नैवाऽऽलिम्पेत्| तेन हि दोषः प्रसिच्यते स्रवति| (पीडनं प्रति प्रलेपं शुष्यन्तं समुपेक्षेत पीडनविषयं प्रलेपं शुष्यन्तं शोषं गच्छन्तं समुपेक्षेत नापनयेदित्यर्थः| शुष्यन्तमित्युक्तत्वादेव शुष्कस्यानुपेक्षणीयत्वमप्यर्थात् गम्यते| एनं पीडनीयं शोफं मुखे व्रणमुखे नैवालिम्पेत् न प्रलेपयेत्| तथा एवंविधे सति दोषः अन्तर्गतः पूयाख्यो मलः प्रसिच्यते प्रस्रवति| 'आलेपः शुष्कोऽवपीड्य पूयं बहिर्निष्कासयति यतस्तदवपीडनं' इति जेज्जटः)| अथ किं तत् प्रपीडनमित्याह-कलायेत्यादि| पिच्छिलानां शाल्मल्यादीनां द्रव्याणां त्वचो मूलानि च|| २३||
Adhikarana Sodhanam ( kaShAyeNa ) (24) · Śloka 24
विवर्णान् पिच्छिलान् पूतिगन्धीन् क्लेदरुजावतः|
व्रणानशुद्धान् विज्ञाय शोधनैरेभिराचरेत्|
शङ्खिन्यङ्कोलसुमनः करवीरसुवर्चलाः|
त्रिफला खदिरो दार्वी कोलपत्रं पलङ्कषा|
प्रक्षालने कषायाणि वर्गश्चारग्वधादिकः||२४||
विवर्णादिगुणान् व्रणानत एव चाशुद्धनिति विज्ञाय एभिर्वक्ष्यमाणैः शोधनैरुपाचरेत्| शङ्खिनीत्यादि| शङ्खिन्यादीनि कषायरसानि च द्रव्याण्यारग्वधादिको वर्गश्चाऽशुद्धानां व्रणानां प्रक्षालने योज्यः||२४||
Adhikarana SodhanAlepaH (25) · Śloka 25
पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम्|
निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः||२५||
पटोल्यादीनां सलवण आलेपो व्रणशोधनः| (पटोल्यादिकं निम्बपत्राणि च आलेपः एतत् सर्वमालेपनद्रव्यमित्यर्थः| सपटुः सैन्धवोपेतो व्रणशोधनो भवति)||२५||
Adhikarana shodhanakalkAdikam (26) · Śloka 26
अजगन्धाजश्रृङ्गी च गवाक्षी लाङ्गली निशा|
पूतीकश्चित्रकः पाठा पटोलीवेल्लरेणुकाः|
कटुत्रयं यवक्षारो लवणानि सुराष्ट्रजा|
निकुम्भकुम्भकासीसहरितालमनश्शिलाः|
कल्काज्यतैलरसजाचूर्णवर्तिषु भेषजम्||२६||
अजगन्धादीनि कल्कादिषु प्रयोगेण शोफानां व्रणानाञ्च भेषजम्| रसजा रसक्रिया| वर्तिर्व्रणनिधेया चैलमयी||२६||
Adhikarana shodhanaghRutam (27) · Śloka 27
तत्र गम्भीरेषु पित्तात्मकेषु दाहपाकवत्सु व्रणेष्वतीक्ष्णोष्णैरेभिः कार्पासीफलमिश्रं कल्कं घृतं च साधयित्वा योजयेत्||२७||
तत्रेत्यादिना कल्कादय उच्यन्ते| गम्भीरत्वादियुक्तेषु व्रणेष्वेभिरित्यजगन्धादिभिः पूतीकादितीक्ष्णोष्णद्रव्यरहितैः कृतं कार्पासीफलमिश्रं कल्कं घृतं च साधयित्वा योजयेत्||२७||
Adhikarana Sodhanatailam (28) · Śloka 28
उत्सन्नमांसेष्वल्पस्रावेषु रूक्षेषु तिलापामार्गबृहतीद्वययुक्तैः पूर्वोक्तैः पूतीकादिभिः सार्षपं तैलं च||२८||
उत्सन्नमांसादिषु व्रणेषु पूर्वोक्तैः सर्वैः पूतीकादिभिस्तिलादियुक्तैः सर्षपतैलं चैकं साधयित्वा योजयेदिति सम्बन्धः||२८||
Adhikarana SodhanarasakriyA (29) · Śloka 29
प्रचलप्रदेशाजेषु क्लेदबहुलेषुत्सन्नास्थिरमासेषु तैलेन चासिद्ध्यत्सु रसक्रियां कुर्यात्|
यथोक्तानां संशोधनौषधानां कषाये पुनः परिस्राव्याधिश्रृते मनश्शिलातुवरीकासीसचूर्णप्रतीवापसिद्धां च मातुलुङ्गरसोपेतां सक्षौद्रां युञ्जीत||२९||
प्रचलप्रदेशजत्वादियुक्तेषु व्रणेषु ये च तैलेन न शुद्ध्यन्ति तेषु च रसक्रियां कुर्यात्| कामित्याह-यथोक्तानामित्यादि||२९||
Adhikarana SodhanacUrNam (30) · Śloka 30
मेदोयुक्तेषु गम्भीरेषु क्लेदिषु कल्कैश्चासिद्ध्यत्सुवचायां सैन्धवे किण्वे कासीसे रजनीद्वये|
शोधनाग्र्येषु चान्येषु चूर्णं कुर्वीत शोधनम्||३०||
मेदोयुक्तादिषु व्रणेषु वचादिकेऽन्येष्वपि शोधनौषधेषु शोधनं चूर्णं कुर्वीत ||३०||
Adhikarana SodhanavartiH (31) · Śloka 31
अन्तःशल्यानणुद्वारान् गम्भीरान् मांससंश्रितान्|
सन्धिमर्मनिविष्टांश्च शोधयेद्वर्तिभिर्व्रणान्||३१||
अन्तश्शल्यादिकान् व्रणान् वर्तिभिः शोधयेदिति सम्बन्धः||३१||
Adhikarana dhUpanantadarthaM dravyANi ca (32) · Śloka 32
वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्|
श्रीवेष्टकसर्जरससालदेवदारुशिंशपाख़दिरासनकैडर्यसारयवमधूच्छिष्टभूर्जपत्रपक्षौमसर्पिभिः||३२||
वाताभिभूतत्वादिगुणान् व्रणान् श्रीवेष्टकादिभिर्धूपयेत्| ( नि ) श्रीवेष्टको वायसिकः श्रीवासश्चेति शब्दितः| सालादीनां सारः| कैडर्यः करञ्जः| (वाताभिभूतान् उद्रिक्तवातान्| सास्रावानास्रावयुक्तान्| आस्रावः पूयवहनम्| उग्रा अतिशयिता वेदना पीडाविशेषो येषां तानुग्रवेदनान्)||३२||
Adhikarana nirvApaNam (33) · Śloka 33
निर्वापयेद् भृशं शीतैः पित्तरक्तविषोल्बणान्||३३||
पित्ताद्युल्बणान् व्रणान् भृशं शीतैर्निर्वापयेत्| (उद्रिक्तपित्तान् उल्बणरक्तान् विषयुक्तांश्च व्रणान् शीतैश्चन्दनोशीरादिशीतलद्रव्यैर्भृशमतिशयेन निर्वापयेत्| लेपसेकादिनोष्मोपशमनं कुर्यादित्यर्थः )||३३||
Adhikarana utsAdanam (34) · Śloka 34
शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम्|
अश्वगन्धापामार्गतालपत्रीसुवर्चलाबलातिबलानन्ताधातकीकुसुमसमङ्गाभिः पद्मकादिवर्गेण न्यग्रोधादिना च कल्कस्तथा सर्पींष्यभ्यञ्जनार्थे||३४||
शुष्कमांसादिके व्रणे उत्सादनं मांसवर्धनं हितम्| अश्वगन्धादिभिः कल्को वा सर्पींषि वा उत्सादनानि| (शुष्कमांसे अल्पमांसे गम्भीरे च व्रणे| गम्भीरं निम्नम्)||३४||
Adhikarana mAMsAdamAMsAhAraH (35) · Śloka 35
अद्यान्मांसादमांसानि विधिनोपहितानि च|
मांसं मांसादमांसेन वर्धते शुद्धचेतसः||३५||
उत्सादनार्थं मांसादानां सिंहश्येनादीनां मांसानि विधानेनोपहितानि संस्कृतान्यद्यात्| यतः शुद्धचेतसः शोकादिरहितस्य मांसादमाम्सेनावश्यं व्रणे मांसं वर्द्धते||३५||
Adhikarana avasAdanam (36) · Śloka 36
उत्सन्नमृदुमांसानां व्रणानामवसादनम्|
सैन्धवकासीससुमनोमुकुलगुग्गुलाग्निचित्रकाग्निमन्थदन्तीशिरीषकरञ्जफलभूर्जग्रन्थिकुक्कुटाण्डात्वक्कपोतकलविङ्कपुरीषनेपालीहरितालचूर्णानि सक्षौद्राणि||३६||
उत्सन्नमांसादीनां व्रणानामवसादनं व्रणमांसनिम्नीकरणं हितम्| किं तदित्याह - सैन्धवेत्यादि| सुबोधम्| कलविङ्को ग्रामचटकः||३६||
Adhikarana mRudUkaraNam (37) · Śloka 37
सरुजे कठिने स्तब्धे रूक्षे शुष्यति च व्रणे|
मार्दवजननार्थं व्रणाविरोधि वातघ्नसिद्धस्य सर्पिषः पानम्|
तद्विधैरेव च सिद्धं तैलमभ्यङ्गः|
पूर्वोक्ताश्च स्वेदाः|
तथा सर्पिर्मज्जवसाभिर्धूपाः सुस्निग्धसक्तुसैन्धवकिण्वतिलपिष्टकृसरपायसानूपवेशवाराः किञ्चिदुष्णो बहुशः प्रलेपाः|
पित्तविद्रधिवीसर्पशोफकुष्ठघृतानि च|
सर्वव्रणेषु योज्यानि पानसेकप्रलेपने||३७||
सरुजादिके व्रणे व्रणाविरोधिभिः काञ्चिकादिरहितैर्वातहरैद्रव्यैः सिद्धस्य सर्पिषः पानम्| तद्विधैरिति व्रणाविरोधिभिर्वातहरैः पूर्वोक्ता इति शोफावस्थोक्ताः| पित्तजानां विद्रध्यादीनां यानि घृतान्युक्तानि तानि सर्वव्रणेषु पानादिषु योज्यानि||३७||
Adhikarana dAruNIkaraNam (38) · Śloka 38
अतिमृमांसेषु व्रणेषु दारुणीकरणार्थं त्रिफलालोध्राग्रसर्जजम्बूप्रियङ्ग्वशोकवल्कलानि|
सौराष्ट्ऱ्रीकासीसरोचनावचूर्णनम्|
सारैर्गन्धैश्च धूपः||३८||
अतिमृदुमांसेषु व्रणेषु दारुणत्वापादनाय त्रिफलादिकल्कलानि नानाप्रयोगैर्योज्यानि| सौराष्ट्र्याद्यवचूर्णनं हितम्| सारैरगरुचन्दनादिभिर्गन्धद्रव्यैश्च मांस्यादिभिर्धूपः||३८||
Adhikarana kShArakarma (39) · Śloka 39
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्|
व्रणान् सुदुःखशोध्यांश्च शोधयेत्क्षारकर्मणा||३९||
उत्सन्नमांसत्वादियुक्तान् व्रणान् क्षारकर्मणा शोधयेत्||३९||
Adhikarana agnikarma (40) · Śloka 40
स्रवन्तोऽश्मरिजा मूत्रं ये चान्ये रक्तवाहिनः|
छिन्नाश्च सन्धयो येषां यथोक्तैर्ये च साधनैः|
साध्यमाना न सिध्यन्ति शोध्याः स्युस्तेऽग्निकर्मणा||४०||
ये व्रणा अश्मरिजाः सन्तो मूत्रं स्रवन्ति अन्ये च ये रक्तवाहिनो येषां च सन्धयश्छिन्नाः ये च सर्वैरुक्तैः साधनैरुपक्रमैर्न सिध्यन्ति ते सर्वे अग्निकर्मणा शोध्याः स्युरिति सम्भावनायाम्||४०||
Adhikarana ropaNam (41) · Śloka 41
व्रणानामथ शुद्धानाम् रोपणानि प्रयोजयेत्|
असनादिन्यग्रोधादिवर्गधवसल्लकीकुटजत्वचो मञ्जिष्ठासमङ्गामृताश्वगन्धाऽऽरग्वधधातकीपुष्पाणि पद्मकादिश्च प्रक्षालनादिषु सप्तसु प्रयोज्या इति||४१||
एवमन्ते शुद्धानां व्रणानां रोपणं योज्यम्| किं तदित्याह-असनादीत्यादि| असनादिकं पद्मकाद्यन्तं प्रक्षालनादिषु सप्तसु प्रक्षालनाऽऽलेपघृततैलरसक्रियाचूर्णवर्तिषु योजयेत्||४१||
Adhikarana pracCardanAdyantaHSodhanam (42) · Śloka 42
भवन्ति चात्र- उत्सन्नदुष्टपिशिते संक्लिष्टध्यामशोणिते|
व्रणे प्रच्छर्दनं शस्तं कफदुष्टे विशेषतः|
विरेचनं पित्तदुष्टे दीर्घकालानुबन्धिनि|
रूक्षे सवेदने बस्तिरधःकाये विशेषतः||४२||
उत्सन्नत्वादिगुणे व्रणे प्रच्छर्दनं शस्तम्| कफदुष्टे व्रणे विशेषेण प्रच्छर्दनम्| विरेको बस्तिश्च सुबोधः||४२||
Adhikarana jatrUrdhvajeShu nAvanAdikam (43) · Śloka 43
जत्रूर्ध्वजे च श्वयथौ कण्ड्वाढ्ये तीक्ष्णनावनम्|
तज्ज एवानिलाढ्ये तु श्वयथौ स्नेहनावनम्|
तथा सशोफरुक्स्रावे धूमो वातकफोल्बणे|
रुजादिमिति वक्त्रस्थे यथास्वं कवलो हितः||४३||
जत्रूर्ध्वजे कण्ड्वाढ्ये च श्वयथौ तीक्ष्णं नस्यं शस्तम्| तज्ज एवेत्यूर्ध्वजत्रुज एव श्वयथावनिलाढ्ये च स्नेहनस्यम्| तथेत्यूर्ध्वजत्रुज एव च व्रणे वातकफोल्बणे शोफादियुक्ते धूमः| वक्त्रस्थे रुजादिमति व्रणे यथास्वं दोषाधिक्येन कवलो हितः||४३||
Adhikarana doShAnusAraM kaShAyAdyarthaM dravyANi (44) · Śloka 44
द्वावाद्यौ पञ्चमूलाख्यौ गणौ यश्चानिलापहः|
ते व्रणे वातिके योज्याः कषायादिषु सप्तसु|
न्यग्रोधपद्मकाद्यौ तु पैत्ते वर्गश्च पित्तजित्|
आरग्वधादिः श्लेष्मघ्नः कफे मिश्रास्तु मिश्रजे||४४||
द्वावाद्यौ पञ्चमूलो महध्रस्वाख्यौ| अनिलापहो गणः शोधनाद्युक्त इत्येते वातिके व्रणे सप्तसु कषायादिषु योज्याः| कषायः क्षालने| न्यग्रोधपद्मकाद्यौ गणौ पित्तजिद्वर्गश्च पित्तव्रणे सप्तसु कषायादिषु योज्यः| आरग्वधादिर्गणः श्लेष्मघ्नो वर्गश्च कफजे| मिश्रजे व्रणे यथायोगं मिश्रास्ते योगाः||४४||
Adhikarana doShAnusAraM lepavidhAnam (45) · Śloka 45
पिष्टोऽम्लैर्वातिके लेपस्तैलसर्पिर्वसायुतः|
घनः कोष्णश्च पैत्ते तु पयःपिष्टो घृतान्वितः|
तनुवस्त्रान्तरः शश्वदुष्णो गोमूत्रपेषितः|
रूक्षस्तैलेन वा स्निग्धो बहलः कफजे हितः||४५||
पिष्टोऽम्लैरित्यादिना वातादिषु लेपविधानं सुबोधम्| घनः कोष्णश्चेत्येवमन्तं वाते| तनुवस्त्रान्तर इत्येवमन्तं पित्ते| कफे शश्वदुष्ण इत्यादि| बहलो घनः||४५||
Adhikarana mAMsasthavraNAnAM tilakalkena prayogaH (46) · Śloka 46
अपेतपूतिमांसांनां मांसस्थानामरोहताम्|
कल्कं संरोहणं कुर्यात्तिलानां मधुकान्वितम्|
स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित्|
स क्षौद्रनिम्बपत्राभ्यां युक्तः संशोधनः परम्|
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः|
तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः||४६||
मांसस्थानां व्रणानामपगतपूतिमांसानामरोहतां सतां तिलानां कल्कं मधुकान्वितं संरोहणं कुर्यात्| स हि तिलकल्कः स्निग्धादिगुणत्वात् सर्वदोषजित् भवति| समधुकान्वितस्तिलकल्कः क्षौद्रनिम्बपत्राभ्यां युक्त: परं संशोधनः| असौ च मधुकान्वितस्तिलकल्कः पूर्वाभ्यामेव क्षौद्रनिम्बपत्राभ्यां सर्पिषा च युक्त आशु रोपणो भवति| केचिदाचार्या रोपणविदस्तिलकल्कप्रकारेण यवकल्कमपीच्छन्ति||४६||
Adhikarana sAsrAdivraNAnAM ropaNam (47) · Śloka 47
सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान्|
क्षीररोपणभैषज्यश्रृतेनाज्येन रोपयेत्|
रोपणौषधसिद्धेन तैलेन कफवातजान्||४७||
अस्रादियुक्तान् व्रणान् क्षीरेण रोपणभैषज्यैश्च श्रृतनाज्येन रोपयेत्| कफवातजान् व्रणान् रोपणैरौषधैः सिद्धेन तैलेन रोपयेत्||४७||
Adhikarana avadhyavraNAdInAM ropaNakramaH (48) · Śloka 48
अवध्यानां चलस्थानां शुद्धानां वा प्रदुष्यताम्|
यथास्वं रोपणैः कुर्याद्रसजां सनिशाद्वयैः|
समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते|
नीरुजामवगाढानां शुद्धानां वर्तयो हिताः||४८||
अवध्यादीनां व्रणानां यथास्वं दोषाद्यपेक्षया रोपणौषधैर्हरिद्राद्वययुक्तै रसजां रसक्रियां कुर्यात्| यथास्वमेतैरेव त्वौषधैः समत्वादियुक्तानां व्रणानां चूर्ण इष्यते| यथास्वं तैरेव नीरुजादीनां व्रणानां वर्तयो हिताः||४८||
Adhikarana ropaNaH kalkaH (49) · Śloka 49
समङ्गामोचसरलसोमवल्काः सचन्दनाः|
पद्मकादिश्च कल्कोऽयं परमं रोपणोऽथवा|
पुण्ड्राह्वतिलजीवन्तीगोजिह्वाधातकीबलाः||४९||
समङ्गादिभिः पद्मकादिगणान्तैः कल्कः परमं व्रणरोपणः| सोमवल्कः कट्फलत्वक्| अथवा पुण्ड्राह्वादीनां बलान्तानां कल्कः परमं व्रणरोपणः||४९||
Adhikarana ropaNaM tailaM ghRuta~jca (50) · Śloka 50
प्रपौण्डरीकमधुककाकोलीद्वयचन्दनैः|
साधितं तैलमाज्यं वा तद्वत्कम्पिल्लकेन वा|
दूर्वारसेन वा दार्व्यास्त्वचा वा व्रणरोपणम्||५०||
प्रपौण्डरीकादिभिः साधितं तैलं घृतं वा तद्वदिति परमं व्रणरोपणम्| कम्पिल्लकेन वा साधितं तैलं वाज्यं वा| दूर्वारसेन वा साधितं दार्वीत्वचा वा||५०||
Adhikarana paTolAdiyogaH (tailaghRutayoH) (51) · Śloka 51
पटोलनिम्बपत्राणि लोध्रमुस्ताप्रियङ्गवः|
सूक्ष्मैलाधातकीसर्ज्जखदिरागरुचन्दनम्|
कम्पिल्लकं विडङ्गानि वत्सकं त्रिफला बला|
कल्कैरेभिघृतं सिद्धं तैलं वा रोपणं परम्||५१||
पटोलादिकल्कैर्घृतं वा तैलं वा सिद्धं परमं व्रणरोपणम्||५१||
Adhikarana varNasAdhanaM savarNIkaraNam (52) · Śloka 52
पद्मकं पद्मकिञ्जल्कं दार्वी मूर्वा तिलोत्पलम्|
मेदा समङ्गा यष्ट्याह्वं प्रलेपो वर्णसाधनः|
ककुभोदुम्बराश्वत्थजम्बूकट्फललोध्रजैः|
त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः|
लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः|
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परम्|
ध्यामकाश्वत्थनिचुलमूलं लाक्षालगैरिकम्|
सहेमश्चामृतासङ्गकासीसं चेति वर्णकृत्|
कालेयकलताऽऽम्रास्थिहेमकालारसोत्तमैः|
लेपः सगोमयरसः सवर्णकरणः परम्|
अयोरजः सकासीसं त्रिफलाकुसुमानि च|
प्रलेपः कुरुते काष्णर्यं सद्य एव नवत्वचि|
दग्धयाऽऽनूपसत्त्वानां श्लक्ष्णचूर्णितया त्वचा|
भल्लाततैलप्लुतया शुक्लमालेपयेद् व्रणम्|
नवं कपालिकामूलं वैदुलं सस्थिराह्वयम्|
कासीसं मधुकं लेपो व्रणे कृष्णे मधुद्रुतः|
कपित्थान्मांसमुद्धृत्य मूत्रस्याज्यस्य पूरणम्|
क्षिपेच्चात्र मनोह्वालवंशनिर्लेखरोचनाः|
कासीसं प्रपुनाटश्च मासं न्यस्तं ततो भुवि|
अधोऽर्जुनस्य तच्छुक्लव्रणालेपः सवर्णकृत्||५२||
पद्मकादिभिर्व्रणे लेपो वर्णसाधनो वर्णकरणः| (ककुभादित्वचां चूर्णैश्चूर्णिता अवकीर्णा व्रणास्त्वचमाश्वेव निगृह्णन्ति निबध्नन्ति)| लाक्षादिभिर्घृतक्षौद्रसहितः प्रलेपः परमतिशयेन त्वग्विशुद्धिं करोति| ध्यामकादिभिर्घृतक्षौद्रसहितः प्रलेपो वर्णकृत् भवति| (ध्यामकं कत्तृणानुकारि तृणम्| निचुलो वञ्जुलः| अलं हरितालम्| हेम नागकेसरम्| अमृतासङ्गः कर्परिका| कासीसं तुत्थकम्| इति जेज्जटः)| अमृता गुडूची| आसङ्गो रसाञ्जनमिति च| कालेयकादिभिर्गोमयरसोपेतो लेपः परं सवर्णकरणः कायसमानवर्णकरणः| कालेयकं दार्वी| (नि) कालेयकं दारुनिशा दार्वी पीतद्रुपीतनः| लता दूर्वा प्रियङ्गुश्च| हेम पद्मकं नागकेसरमिति जेज्जटः| रसोत्तमः पारदः| काला सारिवेति जेज्जटः| अयोरज आदिरालेपो नवत्वचि सद्य एव काष्णर्यं कुरुते| त्रिफलायाः कुसुमानि| शुक्लं व्रणमानूपानां सत्त्वानां प्राणिनां त्वचा दग्धयाऽनु श्लक्ष्णचूर्णितयाऽनु च भल्लाततैलप्लुतया लेपयेत्| भल्लाततैलमरुष्करतैलम्| कृष्णं व्रणं सप्तरात्रं छागले पयसि स्थितेनानु च तेनैवावस्थानपयसा पिष्टेन रोहिणीफलेनाऽऽलेपयेत्| कृष्णे व्रणे नवमार्चरकालोत्पन्नं कपालिकामूलादिकं मधुद्रुतो लेपः| कपालिकामूलं वैदुलं मूलमिति सम्बध्यते| ('नवं कपालिकाचूर्णं वैदुलं सर्जनाम् च| कासीसं क्षौद्रयुक्तं च मधुकञ्चैव लेपयेदि'ति सुश्रुतः)| कपित्थफलस्य त्वगन्तर्भवे मांस उद्धृते सति मूत्राज्ययोः पूरणम्| तत्र च मनोह्वादिकं प्रक्षिप्य ततोऽर्जुनवृक्षस्याधो भुवि न्यस्तं तत् शुक्लव्रण आलेपः सवर्णकृत्| वंशनिर्लेखनं वंशतनुशल्कः| कासीसं तुत्थम्| ('मूत्रस्याजस्य पूरणमि'ति सुश्रुतः )||५२||
Adhikarana romasa~jjananam (53) · Śloka 53
दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम्|
रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता|
चतुष्पान्नखरोमास्थित्वक्श्रृङ्गखुरजा मषी||५३||
वारणदन्तो हस्तिदन्तोऽन्तर्धूमं दग्धस्तैलं रसाञ्जनं च सवर्णकरणो लेपः| चतुष्पदां नखादिजां मषी तैलपरिप्लुता तद्वदिति रोमसञ्जननो लेपः||५३||
Adhikarana pathyanirdeSaH (54-30) · Śloka 30
जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम्|
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति||५४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे व्रणप्रतिषेधो नाम त्रिंशोऽध्यायः||३०||
स्निग्धादिगुणं शाल्योदनं जाङ्गलैर्मांसैः सह भुञ्जानः पुरुषः शीघ्रं व्रणमपोहति||५४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे त्रिंशोऽध्यायः