Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

31. sadyōvraṇapratiṣēdhaḥ

Adhikarana atha sadyovraNapratiShedho nAmaikatriMsho~adhyAyaH - pratij~jA (1) · Śloka 1

अथातः सद्योव्रणप्रतिषेधं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

निजव्रणमुक्त्वाऽऽगन्तुव्रणनिश्चयायाऽध्याय आरभ्यते||१||

Adhikarana viShaye~asminnatItAvekShaNam (2) · Śloka 2

आगन्तोर्व्रणस्य प्रागुपदिष्टः सम्भवः| तत्र तत्र यथा- यथं प्रतीकारश्च||२||

🔊 Audio coming soon

आगन्तोर्व्रणस्य व्रणविभक्तिविज्ञानीये सम्भव उपदिष्टः शस्त्रादिना| तत्र च सूत्रचिकित्सितादौ यथायथं प्रतीकारश्चोपदिष्टः||२||

Adhikarana kShatasya traividhyam (3) · Śloka 3

विविधाभिघातजनितैस्तु सबह्वाकृतिभिरपि सद्योव्रणैरधिष्ठितमङ्गं समासात् त्रिविधं भवति छिन्नं विद्धं पिच्चितं च| त्रिविधमपि चैतत्त्वगादिक्षणनात् क्षतमित्युच्यते||३||

🔊 Audio coming soon

विविधाकृतिभिरघातैर्जनितत्वात् सुह्वाकृतिभिरधिष्ठितमङ्गं समासात् संक्षेपतस्त्रिविधं भवति छिन्नादिभेदेन| छिन्नं द्विधाभूतम्| विद्धं छिद्रितम्| प्रहारेण पीडनेन वा चूर्णिकृतं पिच्चितम्| एतच्च त्रयमपि त्वगादिक्षणनात् क्षतमित्युच्यते||३||

Adhikarana chinnasya pa~jcavidhatvam (4) · Śloka 4

तत्र छिन्नं पञ्चधा भिद्यते| तद्यथा-त्वक्छेदे घृष्टम्| किञ्चिन्मांसस्याप्यवकृत्तम्| तस्यैवावगाढस्य विशेषेण विशालमायतं च विच्छिन्नम्| किञ्चिछेषेष्वस्थिस्नाय्वादिषु विलम्बितम्| अशेषाङ्गच्छेदे पातितम्||४||

🔊 Audio coming soon

तत्रेत्यादि सुबोधम्| तद्यथेत्यादिना पञ्चानां भेदानां नाम च लक्षणं च| त्वङ्मात्रविच्छेदे घृष्टमुच्यते| मांसस्यापि किञ्चिद्विच्छेदे अवकृतं भवति| तस्यैव मांसस्यावगाढस्यातिप्रविष्टस्य प्रहारविषेण विशालं विस्तीर्णमायतं दीर्घं च यद्भवति तन्नाम्ना विच्छिन्नम्| अस्थ्यादिषु स्तोकमात्रयाऽवशेषेषु यद्भवति तन्नाम्ना विलम्बितम्| अशेषाङ्गस्य विच्छेदे सति पातितं भवति| इति पञ्चधा छिन्नम्||४||

Adhikarana viddhasyAShTavidhatvam (5) · Śloka 5

विद्धं त्वष्टविधम्| तत्र मांसमनुप्राप्ते शलेय्ऽनुविद्धम्| द्वितीये पार्श्वे त्वचमुन्नाम्योत्तुण्डितम्| किञ्चिन्निस्सृतेऽतिविद्धम्| सर्वथा निस्सृते निर्विद्धम्| एतदेव चतुर्विधं कोष्ठे पृथुमुखैर्वा प्रहरणैः कुन्तादिभिर्विद्धमनु भिन्नं भिन्नोत्तुण्डितमतिभिन्नं निर्भिन्नमिति च संज्ञा लभते||५||

🔊 Audio coming soon

विद्धं पुनरनुविद्धमित्यादिना चतुर्विधं कोष्ठेऽनुभिन्नमित्यादिना चतुर्विधमित्यष्टविधम्| तत्रेत्यादिनाष्टौ भेदा उच्यन्ते| मांसमनुप्राप्ते शल्ये यद्विद्धं तदनुविद्धमुच्यते| यतः प्रविष्टं ततो द्वितीयपार्श्वेन त्वच्चमुन्नाम्योत्तुण्डितं त्वगुन्नामेनानुमितमनिस्सृतशल्यमुखं यद्विद्धं तन्नाम्नोत्तुण्डितम्| त्वचमपि विपाट्य किञ्चिन्निःसृते शल्ये तन्नम्नातिविद्धम्| एकतः प्रविष्टेऽन्यतः सर्वथा निर्गते शल्ये यद्विद्धं तन्नाम्ना निर्विद्धम्| एतदेवानुविद्धमित्यादिना चतुर्विधम्| कोष्ठे वा भूतमन्यस्मिन्नङ्गे वा पृथुमुखैर्वा कुन्तादिभिः प्रहरणैर्भूतं क्रमेणानुभिन्नभिन्नोत्तुण्डितातिभिन्ननिर्भिन्नाख्यं संज्ञाचतुष्टयं च लभते| तेन पूर्वचतुष्टयं कोष्ठवर्जितेऽङ्गे लघुमुखशल्यकृतं भवतीत्युक्तमित्यष्टौ विद्धभेदाः| (कोष्ठादन्यत्र स्थूलास्यशल्यविद्धं कोष्ठे उभयथा विद्धं च भिन्नादिसंज्ञकम्||५||

Adhikarana piccitasya dvaividhyam (6) · Śloka 6

यत् पुनः प्रहारेण पीडनेन वा गात्रमस्थियुक्तमसृङ्मज्जप्लुतं पृथुतामापद्यते तत् पिच्चितम्| तद् द्विविधम्| सव्रणमव्रणञ्च| तत्र सव्रणमुक्तम्| अव्रणं पुनर्भङेषूपदेक्ष्यते||६||

🔊 Audio coming soon

यत् पुनर्गात्रं मुद्गरादिप्रहारेण वा यन्त्रपीडनेन वा अस्थियुक्तमसृङ्मज्जप्लुतं चानु पृथुतां विस्तीर्णतामापन्नं तत् पिच्चितं गात्रमुच्यते| तच्च पिच्चितं सव्रणाव्रणभेदेन द्विविधम्| तत्र यत्सव्रणं पिच्चितं तत्सम्प्रत्येव पिच्चितलक्षणेनोक्तम्| अव्रणन्तु भङ्गप्रकारत्वात् भङ्गेषूपदेक्ष्यते||६||

Adhikarana sadyovraNacikitsA sAptAhiko vidhiH (7) · Śloka 7

भवति चात्र सद्यः सद्योव्रणं सिञ्चेद्यष्टीमधुकसर्पिषा| तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः| क्षतोष्मणो निग्रहार्थं तत्कालविसृतस्य च| कषायशीतमधुरस्निग्धा लेपादयो हिताः| सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः| मधुसर्पिर्प्रयुञ्जीत पित्तघ्नींश्च हिमाः क्रियाः| ससंरम्भेषु कर्त्तव्यमूर्ध्वं चाधश्च शोधनम्| उपवासो हितं भक्तं प्रततं रक्तमोक्षणम्| घृष्टपिच्चितयोरेष सुतरामिष्यते विधिः| तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते| अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते| ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे| स्नेहबस्तिञ्च कुर्वीत वातघ्नौषधसाधितम्| इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः| सप्ताहात् गतवेगे तु पूर्वोक्तं विधिमाचरेत्||७||

🔊 Audio coming soon

सद्योव्रणं यष्टीमधुकसिद्धेन तच्चूर्णयुक्तेन वा सर्पिषा सद्य एव सिञ्चेत्| अथवा तीव्रव्यथं सद्योव्रणं कोष्णेन गर्भव्यापच्चारिरोक्तेन बलातैलेन सिञ्चेत्| पुनः क्षतोष्मणः अभिघातजस्योष्मणस्तत्कालविसृतस्य निग्रहार्थं कषायादिगुणा लेपादयो हिताः| आयतेषु पुनः सद्योव्रणेषु विशेषतः सन्धानार्थं मधसर्पिः प्रयुञ्जीत| सर्वाश्च पित्तघ्नीः क्रियाः शीताः सन्धानार्थं प्रयुज्ञीत| (अत्र विशेषकथनात् मधुसर्पिषः सर्वेषु व्रणेषूपयोज्यत्वं सूचितम्| पित्तघ्नीश्चेति च शब्दाद्रक्तप्रसादनं च )| ससंरम्भेषु संरम्भयुक्तेषु व्रणेषूर्ध्वमधश्च वमनविरेचनाभ्यां शोधनं कर्तव्यम्| उपवासश्च कर्तव्यः| हितं पथ्यं भक्तं भोजनं सन्ततं रक्तमोक्षणं च कर्तव्यम्| एष च शोधनादिको विधिर्घृष्टे पिच्चिते च सुतरामिष्यते| यतस्तयोर्घृष्टपिच्चितयोः स्वभावादेवाल्पमस्रं स्रवति तेन हेतुना स्रुतशिष्टेनास्रेणाशु पाको जायते| तस्मात् पाकरक्षणार्थं शोधनादिकं कुर्यादित्यर्थः| पुनश्च घृष्टात् पिच्चिताच्चान्यस्मिन् विक्षते प्रायोऽत्यर्थमस्रं स्रवति ततो हेतो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे च सति स्नेहपानादिकं वातघ्नौषधसाधितं स्नेहबस्तिं च कुर्वीत| इत्यनन्तरोक्तप्रकारेण सद्योव्रणहितो विधिः साप्ताहिकः प्रोक्तः| सप्ताहं प्रयोजनं यस्यासौ साप्ताहिकः| ततः सप्ताहादनन्तरं गतवेगे पूर्वोक्तमनन्तराध्यायोक्तं विधिमाचरेत्|| ७||

Adhikarana duShTavraNe sAmAnyakarma (8) · Śloka 8

क्षालनाभ्यङ्गलेपेषु तस्मिन् दुष्टे प्रयोजयेत्| आरग्वधादिकं वर्गं सुरसादिं च शोधनम्| कल्कस्रिवृत्तिलैरण्डपत्रैर्योज्यः ससैन्धवैः| वातिके पैत्तिके कुम्भयष्ट्याह्वरजनीतिलैः| श्लैष्मिके तिलतेजोह्वानिकुम्भस्वर्जिकाग्निकैः| एष दुष्टव्रणविधिः कुष्ठमेहव्रणेष्वपि| प्रायः सामान्यकर्मेदं .......................||८||

🔊 Audio coming soon

तस्मिन्निति व्रणे दुष्टे सामान्येनारग्वधादिवर्गं सुरसादिवर्गं च क्षालनादिषु शोधनं युञ्ज्यात्| वातिके व्रणे त्रिवृदादिभिः कल्को योज्यः पैत्तिके कुम्भादिभिः| श्लैष्मिके तिलादिभिः| एष च वातादिदुष्टव्रणविधिः कुष्ठव्रणेष्वपि योज्यः मेहव्रणेष्वपि पिटकाजेषु| इदं च कर्म वेगानन्तरमुक्तं तत् प्रायः सामान्यतः साधारणतया विज्ञेयम्||८||

Adhikarana Cinne visheShakarma (9) · Śloka 9

....................... वक्ष्यते तु पृथक् पृथक्| घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि निक्षिपेत्| कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः| सीवनं विधिनोक्तेन बन्धनं चानुपीडनम्||९||

🔊 Audio coming soon

यत्तु विशेषेषु तद्वक्ष्यते घृष्ट इत्यादिना| घृष्टे व्रणे पूर्वोक्तेन यष्टीमधुकसर्पिषा रुजं निगृह्य यथायथं चूर्णानि योजयेत्| अवकृते तु रुजं निगृह्य कल्कादीनि| विच्छिन्ने प्रविलम्बिनि च सीवनादिकं योजयेत् सूत्रस्थानोक्तेन विधिना||९||

Adhikarana netravraNe karmavisheShaH (10) · Śloka 10

असाध्यं स्फुटितं नेत्रमुदीर्णं लम्बते तु यत्| सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक्| पीडयेत् पाणिना पद्मपत्रव्यवहितेन तत्| ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः| विपक्वमाजं यष्ट्याह्वजीवकर्षभकोल्पलैः| सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित्| गलपीडावसन्नेऽक्ष्णि वमनोत्कासनक्षवाः| प्राणायामोऽथवा कार्यः क्रिया च क्षतनेत्रवत्||१०||

🔊 Audio coming soon

विच्छिन्नप्रविलम्बिप्रसङ्गान्नयनयोर्विच्छिन्नस्यासाध्यत्वं प्रविलम्बिनः स्थापनोपायं च दर्शयति| नेत्रं तु यत्प्रहारेण स्फुटितं मध्येन तदसाध्यम्| यत्तु नेत्रमभिहतमुदीर्णं स्थानात् परिभ्रष्टं सल्लम्बते तन्नेत्रं यथापूर्वस्थानं सन्निवेश्याद्व्याविद्धसिरम् कृत्वा भिषक् पद्मपत्रव्यवहितेन पाणिना पीडयेत्| ततः पीडनादनन्तरं अस्याभिहताक्षस्य आजं हविर्घृतं यष्ट्यादिभिः सक्षीरैर्विपक्वं सिद्धं सेचनादिषु हितम्| तद्धि यष्ट्यादिहविः सर्वनेत्राभिघातजित्| गलपीडनेनात्यवसन्नेऽक्ष्णि वमनादयो योज्याः| प्राणायामोऽथ वा कार्यः| अनन्तरोक्तक्षतनेत्रवच्च क्रिया कार्या| (अत्र प्राणायामशब्देन श्वासनिरोधमात्रमेव गृह्यते| प्राणायामेन रुद्धोन्तराध्मातो वायुर्बहिर्गन्तुं मार्गं मार्गयन् नेत्रश्रोतादिस्रोतांस्यापूर्य तत्रस्थानाच्चलितेन नेत्राद्यवयवेन रुद्धो निम्नं तदेवोन्नमयेत्) ||१०||

Adhikarana karNacchede karmavisheShaH (11) · Śloka 11

कर्णे स्थानाच्च्युते स्यूते स्रोतस्तैलेन पूरयेत्||११||

🔊 Audio coming soon

कर्णौ यदा प्रहारादिना बन्धनस्थानाच्च्युतो भवति तदा तस्मिन् यथास्थानं निवेश्य स्यूते सति कर्णस्रोतस्तैलेन पूरयेत्||११||

Adhikarana kRukATikAcCede karma (12) · Śloka 12

कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते| समं निवेश्य बध्नीयात्स्यूत्वा शीघ्रं निरन्तरम्| आजेन सर्पिषा चात्र परिषेकः प्रशस्यते| उत्तानोन्नानि भुञ्जीत शयीत च सुयन्त्रितः||१२||

🔊 Audio coming soon

कुकाटिका तु यदा छिन्ना भवति तदा मारुतेऽपि निर्गच्छत्यवश्यं शीघ्रं समं निवेश्य निरन्तरं च स्यूत्वा बध्नीयात्| आजेनेत्यादि सुबोधम्| (पूर्वं शस्त्रकर्मविधौ वायुनिर्वामिणः शल्यगर्भादिना सामान्येन निषिद्धसीवनस्यात्र सीवनकथनं स्थानविशेषेण विशेषविधिस्तेन न पूर्वापरव्याघात इति प्रदर्शयितुमपिशब्दः| शीघ्रमाश्वेव समं यथास्थानं निवेश्य मारुतनिर्गमननिरोधार्थं निरन्तरं स्यूत्वा सूत्रोदितविधानेन बध्नीयात्)||१२||

Adhikarana shAkhAghAte karma (13) · Śloka 13

घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ् निवेशिते| स्यूत्वा वेल्लितबन्धेन बध्नीयात् घनवाससा| चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे||१३||

🔊 Audio coming soon

शाखासु घातं तिर्यक्स्थं न कराद्यभिमुखस्थं तस्मिन् गात्रे सम्यङ् निवेशिते स्यूते च सूत्रोक्तलक्षणेन वेल्लिताख्येन ,बन्धेन घानवाससा बध्नीयात्| असङ्गते व्रण उक्तलक्षणे गोष्फणाबन्धः कार्यः||१३||

Adhikarana vilambimuShkasya karma (14) · Śloka 14

पादौ विलम्बिमुष्कस्य प्रेक्ष्य नेत्रे च वारिणा| प्रवेश्य वृषणौ सीव्येत् सीवन्या तुन्नसंज्ञया| कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्| स्नेहसेकं न कुर्वीत तेन क्लिद्यति हि व्रणः| कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः| शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम्||१४||

🔊 Audio coming soon

विलम्बिमुष्कस्य पुंसः पादौ नेत्रे च वारिणा प्रेक्ष्यानुवृषणौ च स्थाने प्रवेश्योक्तलक्षणेन् तुन्ननाम्ना सीवनप्रकारेण सीव्येत्| तत्र च कट्यां पट्टकमावेश्य तेनैव गोष्फणाबन्धः कार्यः| तत्र च मुष्कव्रणे स्नेहसेकण् न कुर्वीत| तेन हि व्रणः क्लिद्यति| कालानुसार्यादिभिः सिद्धं तैलं रोपणम्| कालानुसारी तगरम्| अगरु प्रसिद्धम्| एला सूक्ष्मैला| शिला मनश्शिला||१४||

Adhikarana chinnashAkhAyAM karma (15) · Śloka 15

छिन्नां निश्शेषतः शाखां दग्ध्वा तैलेन युक्तितः| बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत्||१५||

🔊 Audio coming soon

निश्शेषतः छिन्नायां शाखायाम्| सुबोधम्| (छिन्नक्रियामाह- छिन्न इति| निश्शेषतः छिन्नां पतितामित्यर्थः| शाखां शाखाशब्देनात्र पादपाणिपरिग्रहः| तैलेन युक्तिततो दग्ध्वा तैलस्यात्र दाहसाधनभूतत्वात्तप्तेन तैलेनत्यर्थः| युक्तितः आसिरामुखसङ्कुचनाद्दग्ध्वा कोशबन्धेन बध्नीयात्| ततो बन्धनादनन्तरं व्रणवदाचरेद्रोपयेदित्यर्थः)||१५||

Adhikarana shalyAhRute sAmAnyaM karma (16) · Śloka 16

कार्यः शल्याहृते विद्धे क्रमो भङ्गात्तु पिच्चिते||१६||

🔊 Audio coming soon

सर्वस्मिंश्च विद्धे शल्य आहृते क्रमो व्रणक्रमः कार्यः न त्वन्तःशल्ये| पिच्चिते विदलिताख्ये तु भाङ्गोक्तक्रमः||१६||

Adhikarana shalyAhRute sthAnAnusAraM karma (17) · Śloka 17

शिरसोऽपहृते शल्ये बालवर्तिं प्रवेशयेत्| मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा| व्रणे रोहति चैकैकं शनैरपनयेत् कचम्| मस्तुलुङ्गस्रुतौ खादेन्मस्तिष्कानन्यजीवजान्| शल्ये हृतेऽङ्गादन्यस्मात् स्नेहवर्ति निधापयेत्| दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः| सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्||१७||

🔊 Audio coming soon

यदा तु शिरसः शल्यमपहृतं भवति तदा व्रणे बालवर्ति सन्धिग्रन्थिविरहितां प्रवेशयेत्| अन्यथाऽनावृते व्रणेः मस्तुलुङ्गस्रुतैर्हेतोश्चलः क्रुद्ध एनमातुरं हन्यात्| मस्तुलुङ्गः कपालमज्जा| यथा यथा च व्रणो रोहणात् संवृततां याति तथा तथैकैकं कचं बालमपनयेत्| यदा पुनः कपालान्मस्तुलुङ्गः स्रुतस्तदान्यप्राणिजान् मस्तुलुङ्गान् खादेत्| शिरसोऽन्यस्मादङ्गाच्छल्ये हृते व्रणे स्नेहवर्ति निधापयेत्| (अन्यजीवजानित्यनेनास्य जीवितधामत्वं सूचितम्)| ये दूरावगाढादयो व्रणास्तान् सूक्ष्मनेत्रार्पितेन चक्रतैलेन सेचयेत्| दूरावगाढा अतिप्रविष्टशल्याः| सूक्ष्मास्याः सूक्ष्ममुखाः| स्रुतशोणिता रक्तस्रावयुक्ताः| चक्रतैलं चक्रपीडितम्| नेत्रं नाडीयन्त्रम्| तत् सूक्ष्ममस्थूलम्||१७||

Adhikarana koShThaBedalakShaNAni cikitsA ca (18) · Śloka 18

भिन्ने कोष्ठेऽसृजा पूर्ण मूर्च्छा हृत्पार्श्ववेदनाः| ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम्| सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता| लोहगन्धित्वामास्येऽस्य स्याद्गात्रे च विगन्धिता| आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि| आध्मानेनातिमात्रेण शूलेन च विशस्यते| पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्| नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः| अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते| असृजा स्यन्दमानेन पार्श्वैर्मूत्रेण बस्तिवत्| तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्| रक्ताक्षं पाण्डुवदनमानद्धं च विवर्जयेत्| आमाशयस्थे वमनं हितं पक्वाशयाश्रिते| विरेचनं निरूहश्च निःस्नेहोष्णैर्विशोधनैः| यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः| भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम्| अतिनिस्सृतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्||१८||

🔊 Audio coming soon

कोष्ठे भिन्ने रक्तेन पूर्णे मूर्च्छादिकं गात्रविगन्धितान्तं स्यात्| इति सामान्येन कोष्ठे भिन्ने| (असृजा पूर्ण इत्यनेन कोष्ठभेदेऽपि स्थानविशेषवशात् सर्वत्राप्यसृक्पूर्णता न स्यादिति च ध्वनितम्)| शूलेन च विशस्यत इत्येवमन्तमामाशयस्थे रक्ते रुधिरे पक्वाशयस्थे सति शूलगौरवादिकं भवेत्| (विशस्यते व्यापद्यते परितप्यत इत्यर्थः| खेभ्यो नवद्वारेभ्यो रोमकूपेभ्यश्च रक्तस्यागमो रक्तप्रवृत्तिः| चशब्दः समुच्चये)| आमाशयः पक्वाशयो वा अभिन्नोऽपि कोष्ठभेदे स्यान्दमानेनाऽसृजा पार्श्वेभ्यः स्रोतोभिः सूक्ष्मैरभिपूर्यते यथा मूत्रेण बस्तिः| तत्र तेषु मध्ये शीतपादोच्छ्वासकराननादिगुणमन्तर्लोहितं कोष्ठरक्तं वर्जयेत्| आमाशस्यस्थे रक्ते वमनं हितम्| पक्वाशयस्थे विरेचनं निरूहश्च| एतच्च सर्वं स्नेहोष्णरहितैर्विशोधनैरोषधैः कुर्यात्| स च यवादीनां रसैः स्नेहवर्जितैरन्नं भुञ्जीत| अथवा सैन्धवसंयुक्तां यवागूं पिबेत्| यस्तु भिन्नकोष्ठोतिनिस्सृतरक्तः सोऽजादिजमसृक्पिबेत्||१८||

Adhikarana koShThaBedadvaividhyam (19) · Śloka 19

क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः| मूर्च्छादयोऽल्पाः प्रथमे द्वितीये त्वतिबाधकाः| क्लिष्टान्त्रः संशये देही छिन्नान्त्रो नैव जीवति| यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः| व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवत्यसंशयम्||१९||

🔊 Audio coming soon

द्विधा च कोष्ठभेदः स्मृतः| एकः क्लिष्टान्त्रो द्वितीयश्छिन्नान्त्रः| प्रथमे क्लिष्टान्त्रे अल्पा मूर्च्छादयो भवन्ति| द्वितीये छिन्नान्त्रे त्वतिबाधकाः| क्लिष्टान्त्रस्तु देही संशये जीवति वा नवेति| छिन्नान्त्रस्य तु मरणमेव निश्चितम्| यस्य भिन्नकोष्ठस्य विडादयः स्वंस्वं मार्गमापन्नाः प्राप्ताः व्युपद्रवो मूर्च्छद्युपद्रवरहितश्च स भिन्नेऽपि कोष्ठे निस्संशयं जीवति| (अत्रापिशब्देन कोष्ठभेदस्य प्रायशो साध्यत्वं सूचितम्) ||१९||

Adhikarana AntrapraveshanavidhirupacArAshca (20) · Śloka 20

अभिन्नमान्त्रं निष्क्रान्तं प्रवेश्यं न त्वतोऽन्यथा| उलुङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु| प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः| प्रवेशयेत् क्लृप्तनखो घृतेनाक्तं शनैः शनैः| क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिः परिप्लुतम्| अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेच्च तम्| तथान्त्राणि विशन्त्यन्तस्तत्कालं पीडयेत च| व्रणसौक्ष्म्याद्बहुत्वाद्वा कोष्ठमान्त्रमनाविशत्| तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्| यथास्थानस्थिते सम्यगान्त्रे सीव्येदनु व्रणम्| स्थानादपेतमादत्ते जीवितं गुपितं च तत्| वेष्टयित्वानुपट्टेन घृतेन परिषेचयेत्| पाययेत ततः कोष्णं चित्रातैलयुतं पयः| मृदुक्रियार्थं शकृतो वायोश्चाधः प्रवृत्तये| त्वगश्वकर्णककुभबदरीसल्लकीधवात्| धातकीमेषशृङ्गीभ्यां क्षीरिभ्यश्च बलाजटा| तत् कल्कसाधितं तैलं प्रधानं व्रणरोपणम्| अनुवर्तेत वर्षञ्च यथोक्तां व्रणयन्त्रणाम्||२०||

🔊 Audio coming soon

आन्त्रं पुनर्यदिभिन्नं निष्क्रान्तं तदेव प्रवेश्यम्| अतः अभिन्नादन्यथा विपरीतं भिन्नं तु न प्रवेश्यमसिद्धेः| एके त्वाचार्यास्तदपि भिन्नान्त्रमप्युलुङ्गिलशिरोग्रस्तं सत् प्रवेश्यमेवेति वदन्ति| उलुङ्गिलं पिपीलिका, तस्य सिरसा ग्रस्तं गृहीतम्| एतदुक्तमत्र शिरशब्देन व्रणोष्ठावेकीकृत्य पिपीलिकामुखेन ग्राहयित्वा पिपीलिकाशिरसि कायात् पृथक् कृते सत्यलुङ्गिलशिरोग्रस्तमान्त्रं भवतीति| (एके केचिदाचार्याः पुनस्तत् भिन्नान्त्रमप्युलुङ्गिलशिरोग्रस्तं उलुङ्गिलशिरसा मर्कोटकशीर्षेण ग्रस्तं खादितं प्रवेश्यं प्रवेश नीयमिति वदन्ति| अत्र शिरःशब्देन व्रणोष्ठा-वेकीकृत्य उलुङ्गिलेन ग्राहयित्वा ग्रस्तमात्रे शिरसः शेषमङ्गमपनीय शिरसा सह प्रवेश्यमिति सूचितम्| उलुङ्गिलं पेक्कन्तलयनुरम्य इति केरलभाषा)| आन्त्रप्रवेशनप्रकारमाह-प्रवेश्यं चान्त्रं तृणादिभिर्दिग्धं पयसा प्रक्षाल्य क्लृप्तनखो भिषक् घृतेनाक्तं शनैः शनैः प्रवेशयेत्| शुष्कन्त्वान्त्रं क्षीरेणार्द्रीकृतं भूरिसर्पिः परिप्लुतं कृत्वा प्रवेशयेत्| (दिग्धं लिप्तम्| प्रक्षाल्य शोधयित्वा| क्लृप्तनखो वर्द्धितनखः| आन्त्रग्रहणे नखाग्रेणान्त्रदरणभयाच्छिन्ननख इत्यर्थः| शनैः शनैर्मन्दं मन्दं प्रवेशयेत्)| सुखप्रवेशनोपायमाह-निष्क्रान्तान्त्रस्य तस्य कण्ठं कण्ठान्तर्भागमुत्कासनार्थमङ्गुल्या प्रमृशेत् परामृशेत्| तं चोद्वेजयेज्जलाभ्युक्षणेन| तथेत्येवं कृते आन्त्राण्यन्तः प्रविशन्ति| तत्कालं च प्रवेशितमात्रमान्त्रं पीडयेदान्त्रावयवानां यथास्वस्थानप्राप्तये| (तत्कालं कण्ठप्रमर्शनादिजनितेनोत्कासोद्वेगादिना यस्मिन् काले वायोरानुलोम्यं भवति तस्मिन् काल इत्यर्थः पीडयेत| अनाविश दान्त्रं करेण मन्दं मन्दं प्रपीड्य प्रवेशयेत्| आविष्टमप्यवयवानां यथास्थानप्राप्त्यर्थम्| किञ्चित् पीडयेदिति चशब्देन द्योत्यते| तथा एवं कृते सत्यान्त्राण्यन्तः सुखं विशन्ति)| तथाऽप्यप्रविष्टस्यान्त्रस्य प्रवेशनोपायमाह-बहुत्वाद्यत्रान्त्रं कथञ्चिदपि निर्यातं व्रणसौक्ष्म्यात्वशक्यप्रवेशं तत्र कोष्ठं तत्प्रमाणेन पाटयित्वा प्रवेशयेत्| यत्रापि व्रणस्य नातिसूक्ष्मत्वमान्त्रस्य तु शोफादिना बहुत्वं तत्रापि जठरं तत्प्रमाणेन पाटयित्वा प्रवेशयेत्| ततो यथास्थानमान्त्रे स्थिते सम्यगनु व्रणम् सीव्येत्| यथास्थानस्थापनहेतुरुच्यते स्थानात् स्वादपेतमान्त्रं जीवितमादत्त इति| तच्च प्रवेशितमान्त्रं गुपितं रक्षितं कृत्वानु पट्टेन वस्त्रखण्डेन वेष्टयित्वा घृतेन परिषेचयेत्| ततोऽनन्तरं शकृतः पुरीषस्य मृदुक्रियार्थं मार्दवापादनाय वायोश्चाधः प्रवृत्त्यर्थं चित्रातैलयुक्तं कोष्णं क्षीरं पाययेत्| चित्रा द्रवन्ती, तस्याः स्रुतं तैलम्| त्वगित्यादि सुबोधम्| अश्वकर्णादिभ्यस्त्वग्बलाजटा बलामूलम्| एवञ्च वर्षम् यथोक्तां व्रणयन्त्रणामनुवर्तेतानुकूल्येनाङ्गीकुर्यात्|| २०||

Adhikarana medovartinirgame cikitsA (21) · Śloka 21

उदारान्मेदसो वर्ति निर्गतां भस्मना मृदा| अवकीर्य कषायैर्वा श्लक्ष्णैर्मूले ततः समम्| दृढं च बध्वा सूत्रेण वर्द्धयेत्कुशलो भिषक्| तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु| स्यादन्यथा रुगाटोपो मृत्युर्वा छिद्यमानया| सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्| क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्| रुग्दाहजित् सयष्ट्याह्वैः परं पूर्वोदितो विधिः| मेदोग्रन्थ्युदितं चात्र तैलमभ्यञ्जने हितम्| तालीसं पद्मकं मांसी हरेण्वगरुचन्दनम्| हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः| पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्||२१||

🔊 Audio coming soon

व्रणमुखान्निर्गतायां मेदो वर्तेश्छेदनविधानमाह-यदा तूदरान्मेदसो वर्तिर्निर्गता भवति तदा तां भस्मना मृदा कषायैर्वा मसूरादिभिर्मूलेऽवकीर्यानु च सूत्रेण समं दृढं च बध्वा कुशलो भिषग्वर्धयेत् छिन्द्यात्| केनेत्याह-तीक्ष्णेन शस्त्रेणाग्निप्रतप्तेन| सकृदित्येकेनैव यत्नेन| (कुशलः छेद्याच्छेद्यपरिज्ञानकुशलः या तु प्रवेश्यमानाप्रविशति प्रविश्यावतिष्ठते च तां न छिन्द्यात्| अतो विपरीतामेव छिन्द्यादिति भावः| भिषग्वैद्य उदरादुदरगाद् व्रणमुखान्निर्गतां बर्हिर्निस्सृतां मेदसोवर्तिमणुभूतं मेदसोऽवयव विशेषं भस्मना मृद श्लक्षणैः कषायद्रव्यचूर्णैर्वाऽवकीर्य ततो मूले मूलप्रदेशे सूत्रेण क्षौमादिकृतेन समं यथा न विषमं भवति तथा दृढं बध्वा अग्निप्रतप्तेनाग्निसन्तापात्तत्तुल्यवर्णेन तीक्ष्णधारेण शस्त्रेण सकृदेकवारमेव वर्धयेत् छिन्द्यात्| भोजेनाऽप्युक्तम्- खान्मेदसो वह्न्यनिलार्कतापाद्व्रणस्य निस्सर्पति यस्य वर्तिः| स्थानं तु तस्याः पटलं वदन्ति यत्पञ्चमं कोष्ठगतं नराणाम्|| प्रवेश्य तां भस्मसमृत्कषायैः स्वस्थानमेवाशु नयेद्यथावत्| न चेद्विशेत्साऽप्यवतिष्ठते वा सूत्रेण बध्वाऽथ निगृह्य चैनाम्|| शस्त्रेण छिन्द्याज्ज्वलनोज्वलेन स्त्रीबालवृद्धेष्वितरेण वापि| उच्छिद्यमाना क्षयशूलमृत्युमाटोपमेदः स्रवणं च कुर्यात्|| इति)| उक्तातिक्रमणे दोषमाह-अन्यथा यथोक्तविधेः परित्यागेन छिद्यमानया मेदोवर्त्या आतुरस्य रुगाटोपो मृत्युर्मरणं वा स्यात्| (अन्यथा यथोक्तवैपरीत्येन छिद्यमानयाच्छिद्यमानया वा)| छेदनानन्तरकरणीयमाह-परञ्च व्रणे सक्षौद्रे बद्धे ह्यस्तने चात्रे सुजीर्णे सयष्ट्याह्वैः शर्करादिभिः शृतं घृतं वा क्षीरं वा रुग्दाहजित् पिबेत्| अतः परं पूर्वाध्यायोक्तो व्रणविधिः कार्यः| (व्रणे निस्सृतमेदोवर्तिके कोष्ठव्रणे| चशब्दाच्छिन्नायाः छिन्नावशिष्टायाश्च मेदोवर्तेरन्तर्निधापनं व्रणोष्ठसीवनादिपूर्वकर्तव्यं द्योत्यते| सक्षौद्रे क्षौद्रसहिते| अत्र सक्षौद्र इति विशेषकथनं सर्पिष्परिहारार्थम्| उक्तं च सौश्रुते-'क्षौद्रेणाभ्यज्य वेष्टयेदि'ति| व्रणबन्धनविधानेनावबद्धे ह्यस्तनेऽन्ने सुजीर्णे अनवशिष्टरसशेषमात्रं जीर्णे सति घृतं वा यष्ट्याह्वसहितैः शर्करादिभिः शृतं क्षीरं वा रुग्दाहशमनार्थं पिबेत्| रुजि घृतं दाहे क्षीरमुभयत्रोभयं वा)| मेदोग्रन्थि तैलं ग्रन्थ्यादौ वक्ष्यते| (आन्त्रानन्तरोक्ते व्रणे मेदोग्रन्थ्युदितं मेदोग्रन्थिशमनाय गुञ्जाद्विकरञ्जादिभिरुदितमुक्तं तैलमभ्यञ्जने हितम्)| एवं घृष्टादीनां चिकित्सां पृथक् पृथगुक्त्वा सर्वं सद्योव्रणसाधारणं रोपणतैलमाह-तालीसादिभिः पक्वं तैलं सद्योव्रणेषूत्तमं रोपणमुक्तमाचार्यैः|| २१||

Adhikarana mUDhaprahAre cikitsA (22) · Śloka 22

मूढप्रहाराभिहते पतिते विषमोच्चकैः| कार्यं वातास्रजित्तृप्तिमर्दनाभ्यङ्गसेचनम्||२२||

🔊 Audio coming soon

मूढेनादृश्यत्वग्भेदादिना प्रहारेणाभिहते पुरुषे विषमोच्चकैः दूरप्रपातादुत्पतनावपतनवैषम्येण पतिते वा वातास्रजित्तृप्त्यादिकं कार्यम्| (विषमोच्चकैः विषमाद्विषमप्रदेशात् उच्चकैर्वृक्षादिभ्यो वा पतिते वा वातास्रजिद्वातशोणितहरं कर्म तृप्त्यादि कार्यम्| तृप्तिः स्नेहतर्पणम्| तृप्तिमर्दनाभ्यङ्गशोधनमिति पाठः| शोधनं वमनविरेचनादि||२२||

Adhikarana tailadroNyAM vAsaH (23) · Śloka 23

विश्लिष्टदेहं मथितं क्षीणं मर्महतं हतम्| वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम्||२३||

🔊 Audio coming soon

हतमभिहतं विश्लिष्टदेहत्वादियुक्तं सन्तं मांसरसेनाशितं तैलपूर्णायां द्रोण्यां वासयेत्| (विश्लिष्टदेहं बलवद्धनुराकर्षणातिगुरुभारवहनादिना विश्लिष्टसन्धिर्देहो यस्य स तथोक्तः तम्| मथितं अस्थ्ना सहावचूर्णितम्| क्षीणं येन केनापि देहश्रम जननकर्मणा क्षीणशरीरम्| मर्महतं शस्त्रहतं मर्मण्यभिहतम्| हतं दण्डाद्यभिहतम्| मांसरसाशिनं कृत्वा तैलपूर्णायां द्रोण्यामधिवासयेत्| अनेनानेकागन्तुव्रणसम्प्राप्तौ यदि शरीरविश्लेषणादिकं स्यात्तत्राऽप्येतच्चिकित्सितं कर्तव्यं न केवलं व्रणचिकित्सितमेवेति द्योत्यते ||२३||

Adhikarana sadyovraNAnAM tritvAvyabhicAraH (24-31) · Śloka 31

प्रहर्तृयत्नायुधघातगात्रैः सद्योव्रणाः काममनन्तरूपाः| तथापि न त्रित्वमतिक्रमन्ते चयादिभेदैरिव मारुताद्याः||२४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे सद्योव्रणप्रतिषेधो नामैकत्रिंशोऽध्यायः||३१||

🔊 Audio coming soon

प्रहर्त्रित्यादिना सद्योव्रणांस्रैविध्येनोपसंहरति| प्रहर्तुर्यत्नानां नानात्वादनेकप्रकारत्वादायुधानां चानेकाकारत्वादभिघातस्य चानेकरूपत्वात् गात्राणां च बहुविधसंस्थानत्वात् काममङ्गीकुर्मो यत् सद्योव्रणा अनन्तरूपास्तथापि छिन्नविद्धपिच्चिताख्यं त्रित्वं नातिक्रमन्ते| दृष्टान्तो यथा-मारुताद्या दोषाश्चयादीनां तारतम्यादियुक्तानां भेदैरनन्तरूपा अपि सन्तो वातपित्तश्लेष्माख्यं त्रित्वं नातिवर्तन्त इति||२४|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे एकत्रींशोऽध्यायः||