Adhikarana 1 (1-2) · Śloka 2
अथातो द्विव्रणीयचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
मद्यमत्तस्य सम्प्रहारादिना व्रणोत्पत्तौ व्रणचिकित्सार्थं द्विव्रणीय उच्यते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो द्विव्रणीयचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
मद्यमत्तस्य सम्प्रहारादिना व्रणोत्पत्तौ व्रणचिकित्सार्थं द्विव्रणीय उच्यते||१-२||
Adhikarana 2 (3-4) · Śloka 4
परावरज्ञमात्रेयं गतमानमदव्यथम्| अग्निवेशो गुरुं काले विनयादिदमब्रवीत्||३|| भगवन्! पूर्वमुद्दिष्टौ द्वौ व्रणौ रोगसङ्ग्रहे| तयोर्लिङ्गं चिकित्सां च वक्तुमर्हसि शर्मद!||४||
🔊 Audio coming soon
परः मोक्षः, अवरं द्रव्यादि , तज्जानातीति परावरज्ञः| तयोर्लिङ्गं चिकित्सां चेत्यत्र हेतोरपि व्याधिगमकतया लिङ्गेनैव ग्रहणम्||३-४||
Adhikarana 3 (5-8) · Śloka 8
इत्यग्निवेशस्य वचो निशम्य गुरुरब्रवीत्| यौ व्रणौ पूर्वमुद्दिष्टौ निजश्चागन्तुरेव च||५|| श्रूयतां विधिवत् सौम्य! तयोर्लिङ्गं च भेषजम्| निजः शरीरदोषोत्थ आगन्तुर्बाह्यहेतुजः||६|| वधबन्धप्रपतनाद्दंष्ट्रादन्तनखक्षतात्| आगन्तवो व्रणास्तद्वद्विषस्पर्शाग्निशस्त्रजाः||७|| मन्त्रागदप्रलेपाद्यैर्भेषजैर्हेतुभिश्च ते| लिङ्गैकदेशैर्निर्दिष्टा विपरीता निजैर्व्रणैः ||८||
🔊 Audio coming soon
दोषा यद्यपि शारीरा एव, तथाऽपीह शारीरपदं स्नायुक्लेदादिष्वपीह प्रयुक्तदोषव्युदासार्थम्| निजागन्तुव्रणभेदमाह- मन्त्रेत्यादि| निजैः सममागन्तवो व्रणा विपरीता मन्त्रादिभिर्भेषजैश्च, तथा हेतुभिश्च वधबन्धनादिभिः, तथा लिङ्गैकदेशैश्च; स च लिङ्गैकदेशो यथा- आगन्तुर्व्यथापूर्वमुदेति पश्चाद्वातादीन् कोपयति, निजे तु पूर्वं वातादयः प्रकुप्यन्ति पश्चाद्व्यथोत्पद्यते| यदुक्तं- “आगन्तुर्व्यथापूर्वमुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति” (सू.अ.२०) इति||५-८||
Adhikarana 4 (9) · Śloka 9
व्रणानां निजहेतूनामागन्तूनामशाम्यताम्| कुर्याद्दोषबलापेक्षी निजानामौषधं यथा||९||
🔊 Audio coming soon
आगन्तुव्रणस्य भिन्नविषयतया विस्तर इह न वक्तव्यः; तेन तस्य चिकित्सामपि समासादेवाह- व्रणानामित्यादि| आगन्तूनां व्रणानां निजहेतूनां सतां मन्त्रादिचिकित्सया अशाम्यतां निजानां यथौषधं वक्ष्यमाणं तथैव दोषबलावेक्षी सन् कुर्यादिति योजना| आगन्तूनां चेहागन्तुचिकित्सयाऽप्रशमनं निजदोषानुबन्धादेव ज्ञेयम्; अत एवेह निजहेतूनामिति कृतम्||९||
Adhikarana 5 (10) · Śloka 10
यथास्वैर्हेतुभिर्दुष्टा वातपित्तकफा नृणाम्| बहिर्मार्गं समाश्रित्य जनयन्ति निजान् व्रणान्||१०||
🔊 Audio coming soon
यथास्वैरित्यादिना निजव्रणहेतुसम्प्राप्त्यादिकथनम्| अत्र यथास्वैर्हेतुभिरिति वचनेन वातादीनां स्वातन्त्र्येण प्रकोपं दर्शयति, स्वहेतुदुष्टो हि दोषः स्वतन्त्रो भवति; किञ्च यथास्वैर्हेतुभिरिति वचनेन य एव वातादिकोपहेतवस्त एवात्र निजव्रणकारका भवन्ति, न पुनर्व्रणानां विशिष्टो हेतुरस्ति; सामान्यवातादिहेतोस्तु विशिष्टव्रणलक्षणकार्योत्पत्तिः सम्प्राप्तिभेदाद्भवतीति ज्ञेयम्||१०||
Adhikarana 6 (11-16) · Śloka 16
स्तब्धः कठिनसंस्पर्शो मन्दस्रावोऽतितीव्ररुक् | तुद्यते स्फुरति श्यावो व्रणो मारुतसम्भवः||११|| सम्पूरणैः स्नेहपानैः स्निग्धैः स्वेदोपनाहनैः| प्रदेहैः परिषेकैश्च वातव्रणमुपाचरेत्||१२|| तृष्णामोहज्वरस्वे(क्ले)ददाहदुष्ट्यवदारणैः| व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः||१३|| शीतलैर्मधुरैस्तिक्तैः प्रदेहपरिषेचनैः| सर्पिष्पानैर्विरेकैश्च पैत्तिकं शमयेद्व्रणम्||१४|| बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः| पाण्डुवर्णोऽल्पसङ्क्लेदश्चिरकारी कफव्रणः||१५|| कषायकटुरूक्षोष्णैः प्रदेहपरिषेचनैः| कफव्रणं प्रशमयेत्तथा लङ्घनपाचनैः ||१६||
🔊 Audio coming soon
स्तब्ध इत्यादिना वातादिव्रणानां लक्षणानि तथा चिकित्सासूत्रं चाह| प्रदेहैः परिषेकैश्चेत्यत्र ‘अस्निग्धैः’ इत्यनुवर्तते| चिरं विकारं करोतीति चिरकारी| चिकित्सासमासाभिधानं च सुखग्रहणार्थमेव||११-१६||
Adhikarana 7 (17-19) · Śloka 19
तौ द्वौ नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः| तेषां परीक्षा त्रिविधा, प्रदुष्टा द्वादश स्मृताः||१७|| स्थानान्यष्टौ तथा गन्धाः, परिस्रावाश्चतुर्दश| षोडशोपद्रवा दोषाश्चत्वारो विंशतिस्तथा||१८|| तथा चोपक्रमाः सिद्धाः षट्त्रिंशत् समुदाहृताः| विभज्यमानाञ्छृणु मे सर्वानेतान् यथेरितान्||१९||
🔊 Audio coming soon
तौ द्वावित्यादि| नानात्वकारको भेदो नानात्वभेदः| प्रकर्षेण दुष्टाः प्रदुष्टाः||१७-१९||
Adhikarana 8 (20-21) · Śloka 21
कृत्योत्कृत्यस्तथा दुष्टोऽदुष्टो मर्मस्थितो न च| संवृतो दारुणः स्रावी सविषो विषमस्थितः||२०|| उत्सङ्ग्युत्सन्न एषां च व्रणान् विद्याद्विपर्ययात्| इति नानात्वभेदेन निरुक्ता विंशतिर्व्रणाः||२१||
🔊 Audio coming soon
एते च व्रणभेदादयोऽग्रे कृत्योत्कृत्य इत्यादिना व्याक्रियन्ते| तत्र कृत्यः छेदनाद्युपक्रमोपक्रमणीयः, उत्कृत्यस्य तु नात्र किञ्चित्करणीयमस्ति परं रोपणीय एव; किंवा कृत्यः साध्यः, अकृत्यस्त्वसाध्यः| कृत्यादयः षट् सविपर्यया एवोक्ताः, संवृतादयस्तु सप्तोद्दिष्टाः सविपर्ययाः सन्तश्चतुर्दश| उत्सन्न उद्गतमांसः| उत्सङ्गी स्थूलपर्यन्तः, किंवा व्रणाद्बहिः पूयावकाशरूपोत्सङ्गवानुत्सङ्गी| सुश्रुते तु “तत्रातिसंवृतोऽतिविवृत्तः” (सु.सू.अ.२२) इत्यादिना यद्दुष्टव्रणलक्षणमुक्तं तदतिसंवृतादिविषयम्, इह तु संवृतत्वविवृतत्वमात्रमुच्यते, तेनेह दुष्टव्रणेन संवृतस्य ग्रहणमुद्भावनीयम् ||२०-२१||
Adhikarana 9 (22-23) · Śloka 23
दर्शनप्रश्नसंस्पर्शैः परीक्षा त्रिविधा स्मृता| वयोवर्णशरीराणामिन्द्रियाणां च दर्शनात्||२२|| हेत्वर्तिसात्म्याग्निबलं परीक्ष्यं वचनाद्बुधैः| स्पर्शान्मार्दवशैत्ये च परीक्ष्ये सविपर्यये||२३||
🔊 Audio coming soon
परीक्षात्रैविध्यमुक्तं विभजते- दर्शनेत्यादि| इन्द्रियाणि च यद्यप्यतीन्द्रियत्वादनुमानगम्यानि, तथाऽपीह तदधिष्ठानानामिन्द्रियशब्देनोपादानम्| अग्निश्च यद्यपि “अग्निं जरणशक्त्या” (वि.अ.४) इति वचनादनुमानविषय उक्तस्तथाऽपि प्रश्नेनाग्निरवगम्यत एवेति कृत्वेह वचनपरीक्षणीयतैवोक्ता वह्नेः| सविपर्यये इति काठिन्यौष्ण्ये| अनुमानं च यद्यपि परीक्षाधिकारे प्रोक्तं “द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षमनुमानं च” (वि.अ.४) इत्यादिना, तथाऽप्यत्रानुमानस्य प्रायो व्यापाराभावादनुपादानमिति ब्रूते; किन्तु दर्शनादिपूर्वकत्वादनुमानस्य दर्शनादिना अनुमानमप्यतीन्द्रियादिषु ग्राहकं सङ्गृहीतमिति युक्तं पश्यामः| दर्शनशब्दश्चात्र साक्षादुपलब्धिवचनः, तेन व्रणगतगन्धेनापि व्रणपरीक्षणं सङ्गृहीतं भवति| दर्शनशब्देन च गृहीतोऽपि स्पर्श इह भूयसा व्याप्रियमाणत्वात् पुनरुक्तः||२२-२३||
Adhikarana 10 (24-25) · Śloka 25
श्वेतोऽवसन्नवर्त्माऽतिस्थूलवर्त्माऽतिपिञ्जरः | नीलःश्यावोऽतिपिडको रक्तः कृष्णोऽतिपूतिकः||२४|| रोप्यः कुम्भीमुखश्चेति प्रदुष्टा द्वादश व्रणाः| चतुर्विंशतिरुद्दिष्टा दोषाः कल्पान्तरेण वै||२५||
🔊 Audio coming soon
श्वेतोऽवसन्नेत्यादिना प्रदुष्टव्रणानाह| रोप्यलक्षणं तन्त्रान्तरादवगन्तव्यं, तथाहि भोजः- “रूढा रूढाः प्रकुप्यन्ति सान्तर्दोषाः पुनः पुनः| बहिः शुद्धा इवाभान्ति रोप्यास्ते सम्प्रकीर्तिताः” इति| एतेषामेव श्वेतादीनां भेदकारणान्तरभेदेन चतुर्विंशतित्वं भवतीति दर्शयन्नाह- चतुर्विंशतिरित्यादि| कल्पान्तरेणेति व्रणदुष्टिकारककारणयोगभेदेन स्नायुक्लेदादिना भिद्यमानाश्चतुर्विंशतिभेदा भवन्तीत्यर्थः||२४-२५||
Adhikarana 11 (26) · Śloka 26
त्वक्सिरामांसमेदोऽस्थिस्नायुमर्मान्तराश्रयाः| व्रणस्थानानि निर्दिष्टान्यष्टावेतानि सङ्ग्रहे||२६||
🔊 Audio coming soon
त्वगित्यादिना स्थाननिर्देशः| अन्तराश्रयः कोष्ठः||२६||
Adhikarana 12 (27) · Śloka 27
सर्पिस्तैलवसापूयरक्तश्यावाम्लपूतिकाः| व्रणानां व्रणगन्धज्ञैरष्टौ गन्धाः प्रकीर्तिताः||२७||
🔊 Audio coming soon
सर्पिरित्यादिना गन्धनिर्देशः| श्यावगन्धं दध्यादेस्ताम्रघृष्टसमानं गन्धमाहुः; केचित्तु ‘शावं’ इति पठन्ति; शवस्य गन्धः शावः| अम्लसहचरितगन्धोऽम्लगन्ध उच्यते||२७||
Adhikarana 13 (28-30) · Śloka 31
लसीकाजलपूयासृग्घारिद्रारुणपिञ्जराः| कषायनीलहरितस्निग्धरूक्षसितासिताः||२८|| इति रूपैः समुद्दिष्टा व्रणस्रावाश्चतुर्दश| विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः||२९|| मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः| कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः||३०|| षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः|३१|
🔊 Audio coming soon
लसीकेत्यादिना स्रावानाह||२८-३०||-
Adhikarana 14 (31-35) · Śloka 35
स्नायुक्लेदात्सिराक्लेदाद्गाम्भीर्यात्कृमिभक्षणात् ||३१|| अस्थिभेदात् सशल्यत्वात् सविषत्वाच्च सर्पणात्| नखकाष्ठप्रभेदाच्च चर्मलोमातिघट्टनात् ||३२|| मिथ्याबन्धादति स्नेहादतिभैषज्यकर्षणात्| अजीर्णादतिभुक्ताच्च विरुद्धासात्म्यभोजनात्||३३|| शोकात् क्रोधाद्दिवास्वप्नाद्व्यायामान्मैथुनात्तथा| व्रणा न प्रशमं यान्ति निष्क्रियत्वाच्च देहिनाम्||३४|| परिस्रावाच्च गन्धाच्च दोषाच्चोपद्रवैः सह| व्रणानां बहुदोषाणां कृच्छ्रत्वं चोपजायते||३५||
🔊 Audio coming soon
प्रकारान्तरोद्दिष्टाञ्चतुर्विंशतिदोषानाह- स्नायुक्लेदादित्यादि| अत्र नखकाष्ठप्रभेद एकमेव कारणम्| चर्मलोमातिघट्टनं तु कारणद्वयम्| चिकित्सावर्जनीयत्वं निष्क्रियत्वम्||३१-३५||
Adhikarana 15 (36-37) · Śloka 37
त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः| धीमतोऽभिनवः काले सुखसाध्यः स्मृतो व्रणः||३६|| गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः| सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः ||३७||
🔊 Audio coming soon
असाध्यो निरुपक्रम इति असाध्यत्वमभिधायापि निरुपक्रमताभिधानेन सोपक्रमसाध्यं याप्यं निषेधयति||३६-३७||
Adhikarana 16 (38) · Śloka 39
व्रणानामादितः कार्यं यथासन्नं विशोधनम्| ऊर्ध्वभागैरधोभागैः शस्त्रैर्बस्तिभिरेव च||३८|| सद्यः शुद्धशरीराणां प्रशमं यान्ति हि व्रणाः|३९|
🔊 Audio coming soon
अवसरप्राप्तायां षट्त्रिंशदुपक्रमरूपायां चिकित्सायां वक्तव्यायां संशोधनस्य प्राधान्योपदर्शनार्थं पृथगग्रेऽभिधानं- व्रणानामित्यादिना||३८||-
Adhikarana 17 (39-43) · Śloka 43
यथाक्रममतश्चोर्ध्वं शृणु सर्वानुपक्रमान्||३९|| शोफघ्नं षड्विधं चैव शस्त्रकर्मावपीडनम्| निर्वापणं ससन्धानं स्वेदः शमनमेषणम्||४०|| शोधनौ रोपणीयौ च कषायौ सप्रलेपनौ| द्वे तैले तद्गुणे पत्रं छादने द्वे च बन्धने||४१|| भोज्यमुत्सादनं दाहो द्विविधः सावसादनः| काठिन्यमार्दवकरे धूपनालेपने शुभे||४२|| व्रणावचूर्णनं वर्ण्यं रोपणं लोमरोहणम्| इति षट्त्रिंशदुद्दिष्टा व्रणानां समुपक्रमाः||४३||
🔊 Audio coming soon
उपक्रमानाह- शोफघ्नमित्यादिना| शोफघ्न उपक्रमो रक्तावसेकादिर्वक्ष्यमाणः| षड्विधं शस्त्रकर्मेति पाटनादि; अत्रैवाहरणमेषणं च शल्यतन्त्रोक्तमधिकं कर्मद्वयमन्तर्भावनीयं; किंवेषणं शस्त्रकर्माङ्गं न शस्त्रकर्म, तत्तु पृथगेव| अवपीडनं कल्कादिना आलेपनं पूयनिर्गमनार्थं वक्ष्यति| निर्वापणं दाहौष्ण्यशमनम्| शोधनौ रोपणीयौ च कषायौ सप्रलेपनौ इति शोधनरोपणकषायौ तथा शोधनरोपणालेपौ| द्वे तैले तद्गुणे इत्यत्र घृतस्यापि स्नेहत्वसामान्यात् तैलेनैव ग्रहणं; तेन यद्यपि चत्वारि तैलघृतानि प्रत्येकशोधनरोपणभेदाद्वक्ष्यति, तथाऽपि शोधनरोपणकर्मद्वयकर्तृतया द्वित्वमेवात्र तैलघृतयोर्गणनीयम्| काश्मीरास्तु “द्वौ स्नेहौ तद्गुणौ” इति पठन्ति| पत्रं छादने इति पत्रमेक उपक्रमः, छादनं तु द्विविधं बाह्यान्तरभेदेन वक्ष्यमाणम्| उत्सादनं निम्नव्रणोत्थापनम्| अवसादनम् उत्सन्नव्रणमांसक्षयकरम्| काठिन्यमार्दवकरे धूपनालेपने इति काठिन्यकरं धूपनं, मार्दवकरं धूपनं चेति; एवमालेपनमपि द्विविधं ज्ञेयम्| व्रणावचूर्णनं द्विविधं वदन्ति त्वग्वर्णकररोमजनकभेदेन| एवं षट्त्रिंशदुपक्रमा भवन्ति; शल्यतन्त्रे तु षष्टिरुपक्रमा उक्तास्तेऽप्यत्रैवान्तर्भावनीयाः||३९-४३||
Adhikarana 18 (44-48) · Śloka 48
पूर्वरूपं भिषग्बुद्ध्वा व्रणानां शोफमादितः| रक्तावसेचनं कुर्यादजातव्रणशान्तये||४४|| शोधयेद्बहुदोषांस्तु स्वल्पदोषान् विलङ्घयेत्| पूर्वं कषायसर्पिर्भिर्जयेद्वा मारुतोत्तरान्||४५|| न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः| ससर्पिष्कैः प्रलेपः स्याच्छोफनिर्वापणः परम्||४६|| विजया मधुकं वीरा बिसग्रन्थिः शतावरी| नीलोत्पलं नागपुष्पं प्रदेहः स्यात् सचन्दनः||४७|| सक्तवो मधुकं सर्पिः प्रदेहः स्यात् सशर्करः| अविदाहीनि चान्नानि शोफे भेषजमुत्तमम्||४८||
🔊 Audio coming soon
अथ यथावस्थं व्रणोपक्रमानाह- पूर्वरूपमित्यादि| शोथस्तु व्रणपूर्वरूपं, शोथचिकित्साऽनागतव्रणविहितत्वाद्व्रणोपक्रमत्वेनोक्ता| कषायपानैः सर्पिर्भिश्चेति कषायसर्पिर्भिः| विजया बला||४४-४८||
Adhikarana 19 (49-54) · Śloka 54
स चेदेवमुपक्रान्तः शोफो न प्रशमं व्रजेत्| तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते||४९|| तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका| सुखोष्णा शोफपाकार्थमुपनाहः प्रशस्यते||५०|| सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका| सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने||५१|| रुग्दाहरागतोदैश्च विदग्धं शोफमादिशेत्| जलबस्तिसमस्पर्शं सम्पक्वं पीडितोन्नतम्||५२|| उमाऽथो गुग्गुलुः सौधं पयो दक्षकपोतयोः| विट् पलाशभवः क्षारो हेमक्षीरी मुकूलकः||५३|| इत्युक्तो भेषजगणः पक्वशोथप्रभेदनः| सुकुमारस्य, कृच्छ्रस्य शस्त्रं तु परमुच्यते||५४||
🔊 Audio coming soon
उपनाहैरिति सोष्णबहललेपैः| किण्वं सुराबीजम्| उमा अतसी| सौधं पयः स्नुहीक्षीरम्| हेमक्षीरी कङ्कुष्ठम्| मुकूलकः दन्ती| सुकुमारस्येति च्छेदः| कृच्छ्रस्येति असुकुमारस्य, शस्त्रं परं भेदनमिति सम्बन्धः||४९-५४||
Adhikarana 20 (55) · Śloka 55
पाटनं व्यधनं चैव छेदनं लेपनं तथा| प्रच्छनं सीवनं चैव षड्विधं शस्त्रकर्म तत्||५५||
🔊 Audio coming soon
पाटनमित्यादिना प्रोक्ते षड्विधशस्त्रकर्मणि तिस्रैषणीयोक्ताधिकदारणादिशस्त्रकर्मावरोधो बोद्धव्यः, तेन न विरोधः||५५||
Adhikarana 21 (56-60) · Śloka 61
नाडीव्रणाः पक्वशोथास्तथा क्षतगुदोदरम्| अन्तःशल्याश्च ये शोफाः पाट्यास्ते तद्विधाश्च ये||५६|| दकोदराणि सम्पक्वा गुल्मा ये ये च रक्तजाः| व्यध्याः शोणितरोगाश्च विसर्पपिडकादयः||५७|| उद्वृत्तान् स्थूलपर्यन्तानुत्सन्नान् कठिणान् व्रणान्| अर्शःप्रभृत्यधीमांसं छेदनेनोपपादयेत्||५८|| किलासानि सकुष्ठानि लिखेल्लेख्यानि बुद्धिमान्| वातासृग्ग्रन्थिपिडकाः सकोठा रक्तमण्डलम्||५९|| कुष्ठान्यभिहतं चाङ्गं शोथांश्च प्रच्छयेद्भिषक्| सीव्यं कुक्ष्युदराद्यं तु गम्भीरं यद्विपाटितम्||६०|| इति षड्विधमुद्दिष्टं शस्त्रकर्म मनीषिभिः|६१|
🔊 Audio coming soon
पाटनादीनां पृथग्विषयमाह- नाडीव्रणा इत्यादि| सम्पक्व गुल्मा ये ते व्यध्याः| तथा ये च रक्तजा इति रक्तगुल्माः| शोणितरोगा विधिशोणितीयोक्ताः| व्यध्या इति सिराव्यधादिसाध्याः| लेख्यानीति लेखनावस्थाप्राप्तानि||५६-६०||-
Adhikarana 22 (61-62) · Śloka 62
सूक्ष्माननाः कोषवन्तो ये व्रणास्तान्प्रपीडयेत्||६१|| कलायाश्च मसूराश्च गोधूमाः सहरेणवः| कल्कीकृताः प्रशस्यन्ते निःस्नेहा व्रणपीडने||६२||
🔊 Audio coming soon
व्रणपीडने इति व्रणपीडनश्च लेपो निःस्नेहो व्रणमुखं वर्जयित्वा कर्तव्यः||६१-६२||
Adhikarana 23 (63-64) · Śloka 65
शाल्मलीत्वग्बलामूलं तथा न्यग्रोधपल्लवाः| न्यग्रोधादिकमुद्दिष्टं बलादिकमथापि वा||६३|| आलेपनं निर्वपणं तद्विद्यात्तैश्च सेचनम्| सर्पिषा शतधौतेन पयसा मधुकाम्बुना||६४|| निर्वापयेत् सुशीतेन रक्तपित्तोत्तरान् व्रणान्|६५|
🔊 Audio coming soon
न्यग्रोधादिकमिति न्यग्रोधोदुम्बराश्वत्थेत्यादिनोक्तमत्रैव| बलादिकं ‘विजया मधुकं वीरा’ इत्यादिना शोथहरोपक्रमोपदिष्टम्||६३-६४||-
Adhikarana 24 (65-67) · Śloka 68
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा||६५|| सन्दधीत समं वैद्यो बन्धनैश्चोपपादयेत्| तान्समान्सुस्थिताञ्ज्ञात्वा फलिनीलोध्रकट्फलैः||६६|| समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्| पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः||६७|| धातकीलोध्रचूर्णैर्वा तथा रोहन्ति ते व्रणाः|६८|
🔊 Audio coming soon
लम्बानीत्यादिना सन्धानोपक्रममाह| शुक्तिः बदरिका||६५-६७||-
Adhikarana 25 (68-71) · Śloka 72
अस्थिभग्नं च्युतं सन्धिं सन्दधीत समं पुनः||६८|| समेन सममङ्गेन कृत्वाऽन्येन विचक्षणः| स्थिरैः कवलिकाबन्धैः कुशिकाभिश्च संस्थितम्||६९|| पट्टैः प्रभूतसर्पिष्कैर्बध्नीयादचलं सुखम्| अविदाहिभिरन्नैश्च पैष्टिकैस्तमुपाचरेत्||७०|| ग्लानिर्हि न हिता तस्य सन्धिविश्लेषकारिका| विच्युताभिहताङ्गानां विसर्पादीनुपद्रवान्||७१|| उपाचरेद्यथाकालं कालज्ञः स्वाच्चिकित्सितात्|७२|
🔊 Audio coming soon
समेन सममङ्गेन कृत्वेति समेनाविकृतेनान्येनाङ्गेन समं सदृशं कृत्वा सन्दधीतेति योज्यम्| कवलिकाकुशिकाबन्धौ सुश्रुते द्रष्टव्यौ | विच्युताभिहताङ्गानामित्यादौ ‘आनाहादीनुपक्रमान्’ इति केचित् पठन्ति | स्वाच्चिकित्सितादिति विसर्पादिचिकित्सितात्||६८-७१||-
Adhikarana 26 (72-79) · Śloka 79
शुष्का महारुजः स्तब्धा ये व्रणा मारुतोत्तराः| स्वेद्याः सङ्करकल्पेन ते स्युः कृशरपायसैः||७२|| ग्राम्यबैलाम्बुजानूपैर्वैशवारैश्च संस्कृतैः| उत्कारिकाभिश्चोष्णाभिः सुखी स्याद्व्रणितस्तथा||७३|| सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः| तेषामुमां तिलांश्चैव भृष्टान् पयसि निर्वृतान्||७४|| तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक्| बला गुडूची मधुकं पृश्निपर्णी शतावरी||७५|| जीवन्ती शर्करा क्षीरं तैलं मत्स्यवसा घृतम्| संसिद्धा समधूच्छिष्टा शूलघ्नी स्नेहशर्करा||७६|| द्विपञ्चमूलक्वथितेनाम्भसा पयसाऽथवा | सर्पिषा वा सतैलेन कोष्णेन परिषेचयेत्||७७|| यवचूर्णं समधुकं सतिलं सह सर्पिषा| दद्यादालेपनं कोष्णं दाहशूलोपशान्तये||७८|| उपनाहश्च कर्तव्यः सतिलो मुद्गपायसः| रुग्दाहयोः प्रशमनो व्रणेष्वेष विधिर्हितः||७९||
🔊 Audio coming soon
बला गुडूचीत्यादि| अत्र बलादीनि पिष्टानि शर्कराक्षीरमधूच्छिष्टतैलादिभिः समैरुत्करिकां कृत्वा स्वेदः कर्तव्यः; अन्ये तु बलादिकल्केन तैलादिस्नेहं चतुर्गुणे क्षीरे साधयित्वा स्नेहपादिकं मधूच्छिष्टप्रक्षेपमाहुः| स्नेहस्यात्र संहतावस्थितत्वात् मधुशर्करावत् ‘स्नेहशर्करा’ इति व्यपदेशः| द्विपञ्चमूलक्वथितेनेति अम्भसा पयसा सर्पिषा तैलेन वेति योजनीयम्||७२-७९||
Adhikarana 27 (80-82) · Śloka 82
सूक्ष्मानना बहुस्रावाः कोषवन्तश्च ये व्रणाः| न च मर्माश्रितास्तेषामेषणं हितमुच्यते||८०|| द्विविधामेषणीं विद्यान्मृद्वीं च कठिनामपि| औद्भिदैर्मृदुभिर्नालैर्लोहानां वा शलाकया||८१|| गम्भीरे मांसले देशे पाट्यं लौहशलाकया| एष्यं विद्याद्व्रणं नालैर्विपरीतमतो भिषक्||८२||
🔊 Audio coming soon
द्विविधामित्यादौ औद्भिदैर्मृदुभिर्नालैः मृद्वीं, लोहैः कठिनाम्| पाठ्यमिति एषणीयं पाठ्यं च||८०-८२||
Adhikarana 28 (83-85) · Śloka 85
पूतिगन्धान् विवर्णांश्च बहुस्रावान्महारुजः| व्रणानशुद्धान् विज्ञाय शोधनैः समुपाचरेत्||८३|| त्रिफला खदिरो दार्वी न्यग्रोधादिर्बला कुशः| निम्बकोलकपत्राणि कषायाः शोधना मताः||८४|| तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्धृतम्| मधुकं निम्बपत्राणि प्रलेपो व्रणशोधनः||८५||
🔊 Audio coming soon
निम्बकोलकपत्राणीत्यत्र निम्ब एव मृदुर्निम्बकोलक उच्यते; किंवा कुलकेति पाठः, कुलकः पटोलः||८३-८५||
Adhikarana 29 (86-94) · Śloka 94
नातिरक्तो नातिपाण्डुर्नातिश्यावो न चातिरुक्| न चोत्सन्नो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः||८६|| न्यग्रोधोदुम्बराश्वत्थकदम्बप्लक्षवेतसाः| करवीरार्ककुटजाः कषाया व्रणरोपणाः||८७|| चन्दनं पद्मकिञ्जल्कं दार्वीत्वङ्नीलमुत्पलम्| मेदे मूर्वा समङ्गा च यष्ट्याह्वं व्रणरोपणम्||८८|| प्रपौण्डरीकं जीवन्ती गोजिह्वा धातकी बला| रोपणं सतिलं दद्यात् प्रलेपं सघृतं व्रणे||८९|| कम्पिल्लकं विडङ्गानि वत्सकं त्रिफलां बलाम्| पटोलं पिचुमर्दं च लोध्रं मुस्तं प्रियङ्गुकम्||९०|| खदिरं धातकीं सर्जमेलामगुरुचन्दने| पिष्ट्वा साध्यं भवेत्तैलं तत् परं व्रणरोपणम्||९१|| प्रपौण्डरीकं मधुकं काकोल्यौ द्वे च चन्दने| सिद्धमेतैः समैस्तैलं परं स्याद्व्रणरोपणम्||९२|| दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वा| दार्वीत्वचश्च कल्केन प्रधानं व्रणरोपणम्||९३|| येनैव विधिना तैलं घृतं तेनैव साधयेत्| रक्तपित्तोत्तरं दृष्ट्वा रोपणीयं व्रणं भिषक्||९४||
🔊 Audio coming soon
नातिरक्त इत्यादिना शुद्धव्रणलक्षणमभिधाय रोपणमाह- न्यग्रोधेत्यादि| कषाया इति बहुवचननिर्देशाद्यथोक्तव्यस्तसमस्तप्रयोगान् सूचयति| दार्व्यास्त्वक् दार्वीत्वक् व्रणशोधनी रोपणी च| घृतं तैरेव साधयेदिति यथोक्ततैलद्रव्यैरेव साधयेदिति| घृतविषयमाह- रक्तपित्तोत्तरमित्यादि| रोपणीयमिति वचनाद् रोपणमेव घृतं कर्तव्यं, नतु शोधनार्थं घृतं कर्तव्यमित्यर्थः||८६-९४||
Adhikarana 30 (95-96) · Śloka 96
कदम्बार्जुननिम्बानां पाटल्याः पिप्पलस्य च| व्रणप्रच्छादने विद्वान् पत्राण्यर्कस्य चादिशेत्||९५|| वार्क्षोऽथवाऽऽजिनः क्षौमः पट्टो व्रणहितः स्मृतः| बन्धश्च द्विविधः शस्तो व्रणानां सव्यदक्षिणः||९६||
🔊 Audio coming soon
वार्क्ष इत्यादौ वृक्षभवं वल्कलं वार्क्षम्| सव्यदक्षिण इति वामदक्षिणः; वामपरिक्षेपः सव्यः, दक्षिणपरिक्षेपो दक्षिणः| अत्रैव शल्योक्तचतुर्दशबन्धावरोधः कार्यः||९५-९६||
Adhikarana 31 (97-100) · Śloka 100
लवणाम्लकटूष्णानि विदाहीनि गुरूणि च| वर्जयेदन्नपानानि व्रणी मैथुनमेव च||९७|| नातिशीतगुरुस्निग्धमविदाहि यथाव्रणम्| अन्नपानं व्रणहितं हितं चास्वपनं दिवा||९८|| स्तन्यानि जीवनीयानि बृंहणीयानि यानि च| उत्सादनार्थं निम्नानां व्रणानां तानि कल्पयेत्||९९|| भूर्जग्रन्थ्यश्मकासीसमधोभागानि गुग्गुलुः| व्रणावसादनं तद्वत् कलविङ्ककपोतविट्||१००||
🔊 Audio coming soon
स्तन्यानि षड्विरेचनशताश्रितीयोक्तानि| अश्मकासीसं धातुकासीसम्| अधोभागानि त्रिवृतादीनि विरेचनद्रव्याणि||९७-१००||
Adhikarana 32 (101-106) · Śloka 106
रुधिरेऽतिप्रवृत्ते तु च्छिन्ने च्छेद्येऽधिमांसके| कफग्रन्थिषु गण्डेषु वातस्तम्भानिलार्तिषु||१०१|| गूढपूयलसीकेषु गम्भीरेषु स्थिरेषु च| कप्तेषु चाङ्गदेशेषु कर्माग्नेः सम्प्रशस्यते||१०२|| मधूच्छिष्टेन तैलेन मज्जक्षौद्रवसाघृतैः| तप्तैर्वा विविधैर्लोहैर्दहेद्दाहविशेषवित्||१०३|| रूक्षाणां सुकुमाराणां गम्भीरान्मारुतोत्तरान्| दहेत् स्नेहमधूच्छिष्टैर्लोहैः क्षौद्रैस्ततोऽन्यथा||१०४|| बालदुर्बलवृद्धानां गर्भिण्या रक्तपित्तिनाम्| तृष्णाज्वरपरीतानामबलानां विषादिनाम्||१०५|| नाग्निकर्मोपदेष्टव्यं स्नायुमर्मव्रणेषु च| सविषेषु च शल्येषु नेत्रकुष्ठव्रणेषु च||१०६||
🔊 Audio coming soon
छेद्ये इति छेदनार्हे| क्लृप्तेष्विति कर्तितेषु| रूक्षस्निग्धदाहभेदविषयं दाहकवस्तुभेदं च दर्शयन्नाह- सुकुमाराणामित्यादिना| दाहविशेषविदिति दाहानां विशेषं स्निग्धरूक्षादिरूपं तथा बिन्दुवलयादिरूपं जानातीति दाहविशेषवित्| विषादिनामिति भक्षितविषाणाम्||१०१-१०६||
Adhikarana 33 (107-109) · Śloka 109
रोगदोषबलापेक्षी मात्राकालाग्निकोविदः| शस्त्रकर्माग्निकृत्येषु क्षारमप्यवचारयेत्||१०७|| कठिनत्वं व्रणा यान्ति गन्धैः सारैश्च धूपिताः| सर्पिर्मज्जवसाधूपैः शैथिल्यं यान्ति हि व्रणाः||१०८|| रुजः स्रावाश्च गन्धाश्च कृमयश्च व्रणाश्रिताः| शैथिल्यं मार्दवं चापि धूपनेनोपशाम्यति||१०९||
🔊 Audio coming soon
यद्यप्युपक्रमेषु क्षारः पृथङ्न पठितः, तथाऽपि शस्त्राग्निव्यापारकर्तृत्वाच्छस्त्राग्न्युपक्रमगृहीत एवेति कृत्वा क्षारमप्यवचारयेदिति वचनेन क्षारोऽपि विहितः||१०७-१०९||
Adhikarana 34 (110-112) · Śloka 112
लोध्रन्यग्रोधशुङ्गानि खदिरस्त्रिफला घृतम्| प्रलेपो व्रणशैथिल्यसौकुमार्यप्रसाधनः||११०|| सरुजः कठिनाः स्तब्धा निरास्रावाश्च ये व्रणाः| यवचूर्णैः ससर्पिष्कैर्बहुशस्तान् प्रलेपयेत्||१११|| मुद्गषष्टिकशालीनां पायसैर्वा यथाक्रमम्| सघृतैर्जीवनीयैर्वा तर्पयेत्तानभीक्ष्णशः||११२||
🔊 Audio coming soon
तर्पयेदिति तर्पणार्थं लेपं कारयेत्||११०-११२||
Adhikarana 35 (113-119) · Śloka 119
ककुभोदुम्बराश्वत्थलोध्रजाम्बवकट्फलैः| त्वचमाश्वेव गृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः||११३|| मनःशिलैला मञ्जिष्ठा लाक्षा च रजनीद्वयम्| प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः||११४|| अयोरजः सकासीसं त्रिफलाकुसुमानि च| करोति लेपः कृष्णत्वं सद्य एव नवत्वचि||११५|| कालीयकनताम्रास्थिहेमकान्तारसोत्तमैः | लेपः सगोमयरसः सवर्णीकरणः परः||११६|| ध्यामकाश्वत्थनिचुलमूलं लाक्षा सगैरिका| सहेमश्चामृतासङ्गः कासीसं चेति वर्णकृत्||११७|| चतुष्पदानां त्वग्लोमखुरशृङ्गास्थिभस्मना| तैलाक्ता चूर्णिता भूमिर्भवेल्लोमवती पुनः||११८|| षोडशोपद्रवा ये च व्रणानां परिकीर्तिताः| तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते||११९||
🔊 Audio coming soon
ककुभेत्यादिप्रकरणेन त्वग्जननं तथा सवर्णकरणं तथा रोमजननमिति उपक्रमत्रयमाह| त्वचमाश्वेव गृह्णन्तीति सत्वचो भवन्ति| त्रिफलाकुसुमानीति त्रिफलावृक्षपुष्पाणि| लता प्रियङ्गुः| कान्ता मञ्जिष्ठा| रसोत्तमः पारदः, घृतं वा| अमृतासङ्गः कर्परिकातुत्थम्||११३-११९||
Adhikarana 36 (120-121) · Śloka 121
तत्र श्लोकौ- द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव च| स्थानानि गन्धाः स्रावाश्च सोपसर्गाः क्रियाश्च याः||१२०|| व्रणाधिकारे सप्रश्नमेतन्नवकमुक्तवान्| मुनिर्व्याससमासाभ्यामग्निवेशाय धीमते||१२१||
🔊 Audio coming soon
द्वौ व्रणावित्याद्यध्यायसङ्ग्रहो व्यक्तः||१२०-१२१||
Adhikarana puShpikA · Śloka 25
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते दृढबलसम्पूरिते चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः||२५||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः||२५||