Adhikarana 1 (1-2) · Śloka 2
अथातस्त्रिमर्मीयचिकित्सितमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
द्विव्रणीये द्विसङ्ख्यावच्छिन्नरोगचिकित्साभिधानानन्तरं त्रिसङ्ख्यावच्छिन्नशिरोबस्तिहृदयमर्मरोगचिकित्साभिधानार्थं त्रिमर्मीयचिकित्सित उच्यते| त्रिमर्मशब्देन हि त्रिमर्माश्रिता रोगास्तस्योपचारश्चाभिधीयते; तेन त्रिमर्मीयरोगानधिकृत्य कृतं चिकित्सितं त्रिमर्मीयचिकित्सितम्||१-२||
Adhikarana 2 (3-4) · Śloka 4
सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेभ्यः|
मर्माणि बस्तिं हृदयं शिरश्च प्रधानभूतानि वदन्ति तज्ज्ञाः||३||
प्राणाश्रयात्, तानि हि पीडयन्तो वातादयोऽसूनपि पीडयन्ति|
तत्संश्रितानामनुपालनार्थं महागदानां शृणु सौम्य रक्षाम्||४||
प्रकृतप्रधानमर्मत्रयमवधारयति- सप्तोत्तरमित्यादि| शरीरसङ्ख्यामधिकृत्येति शरीरसङ्ख्याशारीरे (शा.अ.७) उक्तमधिकृत्येत्यर्थः| हृदयादिमर्मप्राधान्ये हेतुमाह- प्राणाश्रयादिति| हृदयादीनां प्राणाश्रयत्वे एवोपपत्तिमाह- तानीत्यादि| हृदयाद्युपघातेन यस्माद्विशेषतः प्राणोपघातो भवति, तस्माद् हृदयाद्याश्रिताः प्राणा उच्यन्ते; यथा भित्त्युपघातोपहन्यमानं चित्रं भित्त्याश्रयमुच्यते| तत्संश्रितानामिति प्राणाश्रयाणां हृदयादीनां; संश्रितशब्देन हि संश्रय उच्यते| महान्तो गदा येषु भवन्ति तेषां महागदानां बस्त्यादीनामनुपालनार्थं रक्षां शृणु; किंवा तत्संश्रितानामिति बस्त्यादिसंश्रितानां प्राणानामनुपालनार्थं, महागदानां महामर्मबस्त्यादिव्यापकोदावर्तादीनां, रक्षामिति चिकित्साम्||३-४||
Adhikarana 3 (5-10) · Śloka 10
कषायतिक्तोषणरूक्षभोज्यैः सन्धारणाभोजनमैथुनैश्च |
पक्वाशये कुप्यति चेदपानः स्रोतांस्यधोगानि बली स रुद्ध्वा||५||
करोति विण्मारुतमूत्रसङ्गं क्रमादुदावर्तमतः सुघोरम्|
रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णं सपृष्ठपार्श्वेष्वतिदारुणा स्यात्||६||
आध्मानहृल्लासविकर्तिकाश्च तोदोऽविपाकश्च सबस्तिशोथः|
वर्चोऽप्रवृत्तिर्जठरे च गण्डान्यूर्ध्वश्च वायुर्विहतो गुदे स्यात्||७||
कृच्छ्रेण शुष्कस्य चिरात् प्रवृत्तिः स्याद्वा तनुः स्यात् खररूक्षशीता|
ततश्च रोगा ज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषाः||८||
वम्यान्ध्यबाधिर्यशिरोऽभितापवातोदराष्ठीलमनोविकाराः|
तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगाः||९||
अन्ये च रोगा बहवोऽनिलोत्था भवन्त्युदावर्तकृताः सुघोराः|
चिकित्सितं चास्य यथावदूर्ध्वं प्रवक्ष्यते तच्छृणु चाग्निवेश!||१०||
बस्त्यादिजानां यथाक्रमं हेत्वादिमाह- कषायेत्यादि| ऊषणः कटुकः| पक्वाशये इत्यादिना उदावर्तसम्प्राप्तिलिङ्गचिकित्सितानि प्राह| ननु कथमपानः कुपितोऽपानस्यैव सङ्गं करोतीति मारुतसङ्गशब्देनोच्यते? ब्रूमः- आत्मनैवायं दुष्टः सम्यगप्रवर्तमान आत्मनः सङ्गं करोतीत्युच्यते, यथा मन एव मनोनिग्रहं करोति| उक्तं च “इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः” (शा.अ.१) इति| ऊर्ध्वश्चेति ऊर्ध्वगमनस्वभावः||५-१०||
Adhikarana 4 (11-17) · Śloka 17
तं तैलशीतज्वरनाशनाक्तं स्वेदैर्यथोक्तैः प्रविलीनदोषम्|
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः||११||
श्यामात्रिवृन्मागधिकां सदन्तीं गोमूत्रपिष्टां दशभागमाषाम्|
सनीलिकां द्विर्लवणां गुडेन वर्तिं कराङ्गुष्ठनिभां विदध्यात्||१२||
पिण्याकसौवर्चलहिङ्गुभिर्वा ससर्षपत्र्यूषणयावशूकैः|
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिः सुधार्कजक्षीरगुडैर्युताभिः||१३||
स्यात् पिप्पलीसर्षपराढवेश्मधूमैः सगोमूत्रगुडैश्च वर्तिः|
श्यामाफलालाबुकपिप्पलीनां नाड्याऽथवा तत् प्रधमेत्तु चूर्णम्||१४||
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णं सजीमूतकसैन्धवं वा|
स्निग्धे गुदे तान्यनुलोमयन्ति नरस्य वर्चोऽनिलमूत्रसङ्गम्||१५||
तेषां विघाते तु भिषग्विदध्यात् स्वभ्यक्तसुस्विन्नतनोर्निरूहम्|
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतं सुतीक्ष्णम्||१६||
वातेऽधिकेऽम्लं लवणं सतैलं, क्षीरेण पित्ते तु, कफे समूत्रम्|
स मूत्रवर्चोऽनिलसङ्गमाशु गुदं सिराश्च प्रगुणीकरोति||१७||
तैलज्वरनाशनाक्तमिति शीतज्वरनाशनागुर्वाद्याक्तम्| श्यामेत्यादिफलवर्तौ श्यामा त्रिवृद्भेदः| दशभागा माषस्य यस्यां सा दशभागमाषा| द्विर्लवणामिति द्विभागलवणाम्| गुडेनेतिवचनेन यावता गुडेन वर्तिः कर्तुं युज्यते तावन्मानो गुडो देयः| यावशूकैरित्यन्तेन द्वितीया वर्तिर्गुडैनैव कर्तव्या| शङ्खिनी श्वेतबुह्ना| राढः मदनफलम्| वेश्मधूमः अगारधूमः| रक्षोघ्नः सर्षपः| करहाटः मदनः| तेषां विघाते इति फलवर्तिचूर्णनामुक्तानां कार्याकरणे| ऊर्ध्वानुलोमौषधं वमनविरेचनौषधम्| वातेऽधिक इत्यादिना दोषभेदेन बस्तावावापमाह| उदावर्ते पित्तकफौ वातकोपितावेव ज्ञेयौ| स इति पूर्वोक्तो बस्तिः||११-१७||
Adhikarana 5 (18) · Śloka 18
त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्|
अन्यैश्च सृष्टानिलमूत्रविड्भिरद्यात् प्रसन्नागुडसीधुपायी||१८||
प्रसन्ना मद्योपरि स्वच्छो भागः| गुडकृतः सीधुः गुडसीधुः||१८||
Adhikarana 6 (19) · Śloka 19
भूयोऽनुबन्धे तु भवेद्विरेच्यो मूत्रप्रसन्नादधिमण्डशुक्तैः|
स्वस्थं तु पश्चादनुवासयेत्तं रौक्ष्याद्धि सङ्गोऽनिलवर्चसोश्चेत्||१९||
भूयोऽनुबन्धे इति बस्तिप्रयोगे सत्यप्युदावर्तानुबन्धे| एतच्च विरेचनं बस्तिदानात् सप्ताहादूर्ध्वम्| यदुक्तं- “नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्| शुद्धो निरूहेण विरेचनं च” (सि.अ.१) इति||१९||
Adhikarana 7 (20-22) · Śloka 22
द्विरुत्तरं हिङ्गु वचाग्निकुष्ठं सुवर्चिका चैव विडङ्गचूर्णम्|
सुखाम्बुनाऽऽनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ||२०||
वचाभयाचित्रकयावशूकान् सपिप्पलीकातिविषान् सकुष्ठान्|
उष्णाम्बुनाऽऽनाहविमूढवातान् पीत्वा जयेदाशु रसौदनाशी||२१||
हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्|
यथोत्तरं भागविवृद्धमेतत् प्लीहोदराजीर्णविसूचिकासु||२२||
द्विरुत्तरेत्यादौ यथोत्तरं द्रव्याणां द्वैगुण्यम्| सुवर्चिका स्वर्जिकाक्षारः| सुखाम्बुना ‘पीतम्’ इति शेषः| उग्रगन्धा अजमोदा||२०-२२||
Adhikarana 8 (23) · Śloka 23
स्थिरादिवर्गस्य पुनर्नवायाः शम्पाकपूतीककरञ्जयोश्च|
सिद्धः कषाये द्विपलांशिकानां प्रस्थो घृतात् स्यात् प्रतिरुद्धवाते||२३||
स्थिरादिवर्गस्येति अल्पपञ्चमूलस्य| शम्पाकपूतीककरञ्जयोश्चेत्यत्र पूतीकशब्दः करञ्जविशेषणम्| तथाहि जतूकर्णः- “आरग्वधपूतिकपुनर्नवास्थिराद्यैर्घृतं सिद्धमः” इत्यादि||२३||
Adhikarana 9 (24-25) · Śloka 25
फलं च मूलं च विरेचनोक्तं हिङ्ग्वर्कमूलं दशमूलमग्र्यम्|
स्नुक् चित्रकश्चैव पुनर्नवा च तुल्यानि सर्वैर्लवणानि पञ्च||२४||
स्नेहैः समूत्रैः सह जर्जराणि शरावसन्धौ विपचेत् सुलिप्ते|
पक्वं सुपिष्टं लवणं तदन्नैः पानैस्तथाऽऽनाहरुजाघ्नमद्यात्||२५||
फलं च मूलं च विरेचनोक्तमिति दीर्घञ्जीवितीये (सू.अ.१) मूलिनीफलिनीविरेचनकर्मण्युक्तं; किंवा कल्पे विरेचनयोगेषु वक्ष्यमाणम्||२४-२५||
Adhikarana 10 (26-31) · Śloka 31
हृत्स्तम्भमूर्धामयगौरवाभ्यामुद्गारसङ्गेन सपीनसेन|
आनाहमामप्रभवं जयेत्तु प्रच्छर्दनैर्लङ्घनपाचनैश्च||२६||
(गुल्मोदरब्रध्नार्शःप्लीहोदावर्तयोनिशुक्रगदे |
मेदःकफसंसृष्टे मारुतरक्तेऽवगाढे च||२७||
गृध्रसिपक्षवधादिषु विरेचनार्हेषु वातरोगेषु|
वाते विबद्धमार्गे मेदःकफपित्तरक्तेन||२८||
पयसा मांसरसैर्वा त्रिफलारसयूषमूत्रमदिराभिः|
दोषानुबन्धयोगात् प्रशस्तमेरण्डजं तैलम्||२९||
तद्वातनुत्स्वभावात् संयोगवशाद्विरेचनाच्च जयेत्|
मेदोसृक्पित्तकफोन्मिश्रानिलरोगजित्तस्मात्||३०||
बलकोष्ठव्याधिवशादापञ्चपला भवेन्मात्रा|
मृदुकोष्ठाल्पबलानां सह भोज्यं तत्प्रयोज्यं स्यत्)||३१||
इत्युदावर्तचिकित्सा|
हृदित्यादिना उदावर्तस्यैव हेतुलक्षणविशेषकृतामानाहसञ्ज्ञां प्रदर्श्य तत्र भेषजमाह||२६-३१||
Adhikarana 11 (32-35) · Śloka 35
व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्|
आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणामिहाष्टौ||३२||
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य बस्तौ|
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात्||३३||
तीव्रा रुजो वङ्क्षणबस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात्|
पीतं सरक्तं सरुजं सदाहं कृच्छ्रान्मुहुर्मूत्रयतीह पित्तात्||३४||
बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे|
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम्||३५||
व्यायामेत्यादिना बस्त्याश्रयरोगेषु मूत्रकृच्छ्राण्याह| पृथगित्यादिना वातपित्तकफसन्निपातजानां मूत्रकृच्छ्राणां सम्प्राप्तिमाह| तीव्रा हि रुगित्यादिना चतुर्णां प्रत्येकं रूपमाह||३२-३५||
Adhikarana 12 (36) · Śloka 36
विशोषयेद्बस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा|
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः||३६||
विशोषयेदित्यादिना चतुष्प्रकारानप्यश्मरीरोगानाह| तन्त्रान्तरेऽश्मर्यस्तु वातपित्तकफशुक्रजा उक्ताः; यद्यपि सर्वाश्मरीषु दोषत्रयजन्यत्वमस्ति, “संहन्त्यापो यथा दिव्या मारुतोऽग्निश्च वैद्युतः| तद्वद्बलासं बस्तिस्थमूष्मा संहन्ति सनिलः” (सु. नि. अ. ३) इति सुश्रुत प्रतिपादितं; तथाऽप्युत्कटैकदोषाभिप्रायेण वातजादिव्यपदेशो ज्ञेयः| वातजायामश्मर्यां प्रबलेन वायुना मूत्रशोषे क्रियमाणे तद्गतः कफ एवाश्मरीरूपः क्रियते, एवं पित्ताश्मर्यामपि ज्ञेयम्, अत एव सुश्रुते श्लेष्माधिष्ठानाः सर्वा एवाश्मर्य उक्ताः| अश्मर्युत्पादे दृष्टान्तमाह- पित्तेष्विव रोचना गोरिति; पित्तेष्विति बहुवचनं पित्तबहुत्वापेक्षया ||३६||
Adhikarana 13 (37-38) · Śloka 39
कदम्बपुष्पाकृतिरश्मतुल्या श्लक्ष्णा त्रिपुट्यप्यथवाऽपि मृद्वी|
मूत्रस्य चेन्मार्गमुपैति रुद्ध्वा मूत्रं रुजं तस्य करोति बस्तौ||३७||
ससेवनीमेहनबस्तिशूलं विशीर्णधारं च करोति मूत्रम्|
मृद्नाति मेढ्रं स तु वेदनार्तो मुहुः शकृन्मुञ्चति मेहते च||३८||
क्षोभात् क्षते मूत्रयतीह सासृक् तस्याः सुखं मेहति च व्यपायात्|३९|
कदम्बपुष्पाकृत्यादयो विशेषा यथायोग्यतया दोषभेदादुन्नेयाः| तत्र वातेन कदम्बपुष्पाकृतिस्त्रिपुटी च, पित्तेनाश्मतुल्या श्लक्ष्णा, मृद्वी कफेन शुक्रेण च| क्षोभात् क्षत इति अश्मरीक्षोभान्मूत्रमार्गे बस्तौ वा क्षते| तस्या इति अश्मर्याः| व्यपायादिति मूत्रमार्गापगमात्| सुखमिति निर्वेदनम्||३७-३८||-
Adhikarana 14 (39-41) · Śloka 41
एषाऽश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती||३९||
(रेतोऽभिघाताभिहतस्य पुंसः प्रवर्तते यस्य तु मूत्रकृच्छ्रम्|
स्याद्वेदना वङ्क्षणबस्तिमेढ्रे तस्यातिशूलं वृषणातिवृत्ते||४०||
शुक्रेण संरुद्धगतिप्रवाहो मूत्रं स कृच्छ्रेण विमुञ्चतीह|
तमण्डयोः स्तब्धमिति ब्रुवन्ति रेतोऽभिघातात् प्रवदन्ति कृच्छ्रम् )||४१||
एषेत्यादिना शर्करामाह| भिन्नमूर्तिरिति अणुरूपतया भेदितमूर्तिः| अत एव मूत्रपथात् क्षरन्तीत्युक्तम्| तेन वातेन द्विधा त्रिधा भिन्नाऽनेकधा वाऽश्मरी मूत्रपथेन क्षरन्ती शर्करेव भवति||३९-४१||
Adhikarana 15 (42) · Śloka 43
शुक्रं मलाश्चैव पृथक् पृथग्वा मूत्राशयस्थाः प्रतिवारयन्ति|
तद्व्याहतं मेहनबस्तिशूलं मूत्रं सशुक्रं कुरुते विबद्धम्||४२||
स्तब्धश्च शूनो भृशवेदनश्च तुद्येत बस्तिर्वृषणौ च तस्य|४३|
शुक्रं मला इत्यादिना शुक्रजमूत्रकृच्छ्रलक्षणम्| मूत्राशयस्था इति मूत्रमार्गस्थिताः||४२||-
Adhikarana 16 (43-44) · Śloka 44
क्षताभिघातात् क्षतजं क्षयाद्वा प्रकोपितं बस्तिगतं विबद्धम्||४३||
तीव्रार्ति मूत्रेण सहाश्मरीत्वमायाति तस्मिन्नतिसञ्चिते च|
आध्माततां विन्दति गौरवं च बस्तेर्लघुत्वं च विनिःसृतेऽस्मिन्||४४||
इति मूत्रकृच्छ्रनिदानम्|
क्षतेत्यादिना रक्तजं मूत्रकृच्छ्रमाह| क्षतजमिति रक्तम्| क्षयाद्वा प्रकोपितमिति अतिव्यवायाच्छुक्रक्षये सति वायुनोदीर्य बस्तिमानीतम्| आध्माततामिति बस्तिपूर्णताम्| तस्मिन्निति रक्ते अतिसञ्चिते| एवं सूत्रस्थानोद्दिष्टा अष्टौ मूत्रघाता मूत्रकृच्छ्रशब्देनेह निर्दिश्य व्याकृताः| ये तु त्रिमर्मीयसिद्धौ त्रयोदश मूत्राघाता वक्तव्यास्ते सूत्रस्थानेऽसूत्रिता अपि एकादशक्षुद्रकुष्ठवदन्तर्भावनीयाः| मूत्राघातमूत्रकृच्छ्रयोश्चायं विशेषः- यन्मूत्रकृच्छ्रे मूत्रं कृच्छ्रेण वहति, मूत्राघाते मूत्रं शोष्यते प्रतिहन्यते वा; सुश्रुतेऽपि च मूत्रकृच्छ्रमूत्राघातयोर्विशेषोऽध्यायभेदेनैवोक्तः| अन्ये तु मूत्रकृच्छ्रविशेषानेव मूत्राघातानाहुः, यथायोग्यतया वातपित्तादिचतुर्षु मूत्रकृच्छ्रेषु मूत्राघातानन्तर्भावयन्ति; तेन न पृथङ्मूत्राघाताभिधानम्||४३-४४||
Adhikarana 17 (45-48) · Śloka 48
अभ्यञ्जनस्नेहनिरूहबस्तिस्नेहोपनाहोत्तरबस्तिसेकान्|
स्थिरादिभिर्वातहरैश्च सिद्धान् दद्याद्रसांश्चानिलमूत्रकृच्छ्रे||४५||
पुनर्नवैरण्डशतावरीभिः पत्तूरवृश्चीरबलाश्मभिद्भिः|
द्विपञ्चमूलेन कुलत्थकोलयवैश्च तोयोत्क्वथिते कषाये||४६||
तैलं वराहर्क्षवसा घृतं च तैरेव कल्कैर्लवणैश्च साध्यम्|
तन्मात्रयाऽऽशु प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम्||४७||
एतानि चान्यानि वरौषधानि पिष्टानि शस्तान्यपि चोपनाहे|
स्युर्लाभतस्तैलफलानि चैव स्नेहाम्लयुक्तानि सुखोष्णवन्ति||४८||
मूत्रकृच्छ्रे चिकित्सामाह- अभ्यञ्जनेत्यादि| स्थिरादिभिः पञ्चमूलैः| वातहरैरिति तत्र तत्र वातहरत्वेन प्रतिपादितैः| पत्तूरः शालिञ्चका| अश्मभित् पाषाणभेदः| अन्यानीति एवङ्गुणान्येवान्यानि| तैलफलानि तिलोमास्फोतादीनि||४५-४८||
Adhikarana 18 (49-51) · Śloka 51
सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्बस्तिपयोविरेकाः|
द्राक्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः||४९||
शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकशेरुकाणाम्|
क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत् पैत्तिकमूत्रकृच्छ्री||५०||
पिबेत् कषायं कमलोत्पलानां शृङ्गाटकानामथवा विदार्याः|
दण्डैरकाणामथवाऽपि मूलं पूर्वेण कल्पेन तथाऽम्बु शीतम्||५१||
ग्रैष्मो विधिरिति तस्याशीतीयोक्तो ग्रीष्मविधिः| तत्र शिशिरावेव सेकावगाहौ यद्यप्युक्तौ, तथाऽपि विशेषेण शिशिरसेकावगाहकरणार्थं पुनरभिधानम्| दण्डैरका ‘होग्गल’ इति ख्याता| पूर्वेण कल्पेनेति क्वाथेन मधुशर्करयोर्योगेन च||४९-५१||
Adhikarana 19 (52-53) · Śloka 53
एर्वारुबीजं त्रपुषात् कुसुम्भात् सकुङ्कुमः स्याद्वृषकश्च पेयः|
द्राक्षारसेनाश्मरिशर्करासु सर्वेषु कृच्छ्रेषु प्रशस्त एषः||५२||
एर्वारुबीजं मधुकं सदारु पैत्ते पिबेत्तण्डुलधावनेन|
दार्वीं तथैवामलकीरसेन समाक्षिकां पित्तकृते तु कृच्छ्रे||५३||
त्रपुषात् कुसुम्भादित्यत्र बीजमिति सम्बध्यते||५२-५३||
Adhikarana 20 (54-57) · Śloka 57
क्षारोष्णतीक्ष्णौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहाः|
तक्रं सतिक्तौषधसिद्धतैलमभ्यङ्गपानं कफमूत्रकृच्छ्रे||५४||
व्योषं श्वदंष्ट्रात्रुटिसारसास्थि कोलप्रमाणं मधुमूत्रयुक्तम्|
पिबेत्त्रुटिं क्षौद्रयुतां कदल्या रसेन कैडर्यरसेन वाऽपि||५५||
तक्रेण युक्तं शितिवारकस्य बीजं पिबेत् कृच्छ्रविनाशहेतोः|
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे||५६||
सप्तच्छदारग्वधकेबुकैलाधवं करञ्जं कुटजं गुडूचीम्|
पक्त्वा जले तेन पिबेद्यवागूं सिद्धं कषायं मधुसंयुतं वा||५७||
क्षारोष्णेत्यादि| कफकृच्छ्रे क्षारादिभिर्युक्तं भेषजमन्नपानं च प्रयोज्यम्| व्योषं त्रिकटुकम्| त्रुटिः एला| सारसः पक्षी स्वनामख्यातः| कोलप्रमाणमिति अष्टमाषकमानम्| कैटर्यः पार्वतो निम्बः| शितिवारकः शालिञ्चः||५४-५७||
Adhikarana 21 (58) · Śloka 58
सर्वं त्रिदोषप्रभवे तु वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्|
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात् पित्ते विरेकः पवने तु बस्तिः||५८||
इति मूत्रकृच्छ्रचिकित्सा|
सर्वमित्यादि| एतदेव वातादिभेषजं मिलितं त्रिदोषप्रभवे कृच्छ्रे कर्तव्यम्| तच्च समेष्वपि दोषेषु वायोः स्थानानुपूर्व्या चिकित्सितं कर्तव्यं, न ज्वर इव त्रिदोषभवे कफस्थानानुपूर्व्या कर्तव्यं; मूत्रकृच्छ्रस्य समत्रिदोषारब्धत्वेऽपि वातस्थानभवत्वेन वायुरेव प्रथमं चिकित्स्य इति भावः| विषमसन्निपातारब्धे क्रियामाह- त्रिभ्योऽधिके इत्यादि| त्रिभ्योऽधिके इति ग्रन्थः कफे तथा पित्ते तथा पवने इत्यनेन च क्रमेण सम्बध्यते||५८||
Adhikarana 22 (59-72) · Śloka 72
क्रिया हिता साऽश्मरिशर्कराभ्यां कृच्छ्रे यथैवेह कफानिलाभ्याम्|
कार्याऽश्मरीभेदनपातनाय विशेषयुक्तं शृणु कर्म सिद्धम्||५९||
पाषाणभेदं वृषकं श्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणां त्रपुषस्य बीजम्||६०||
उत्कुञ्चिका हिङ्गु सवेतसाम्लं स्याद्द्वे बृहत्यौ हपुषा वचा च|
चूर्णं पिबेदश्मरिभेदपक्वं सर्पिश्च गोमूत्रचतुर्गुणं तैः||६१||
मूलं श्वदंष्ट्रेक्षुरकोरुबूकात् क्षीरेण पिष्टं बृहतीद्वयाच्च|
आलोड्य दध्ना मधुरेण पेयं दिनानि सप्ताश्मरिभेदनाय||६२||
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्च सदर्भपुष्पाः|
क्षीराम्बुमद्येक्षुरसैः सुपिष्टं पेयं भवेदश्मरिशर्करासु||६३||
त्रुटिं सुराह्वं लवणानि पञ्च यवाग्रजं कुन्दुरुकाश्मभेदौ|
कम्पिल्लकं गोक्षुरकस्य बीजमेर्वारुबीजं त्रपुषस्य बीजम्||६४||
चूर्णीकृतं चित्रकहिङ्गुमासीयवानितुल्यं त्रिफलाद्विभागम्|
अम्लैरशुक्तै रसमद्ययुषैः पेयं हि गुल्माश्मरिभेदनार्थम्||६५||
बिल्वप्रमाणो घृततैलभृष्टो यूषः कृतः शिग्रुकमूलकल्कात्|
शीतोऽश्मभित् स्याद्दधिमण्डयुक्तः पेयः प्रकामं लवणेन युक्तः||६६||
जलेन शोभाञ्जनमूलकल्कः शीतो हितश्चाश्मरिशर्करासु|
सितोपला वा समयावशूका कृच्छ्रेषु सर्वेष्वपि भेषजं स्यात्||६७||
पीत्वाऽथ मद्यं निगदं रथेन हयेन वा शीघ्रजवेन यायात्|
तैः शर्करा प्रच्यवतेऽश्मरी तु शम्येन्न चेच्छल्यविदुद्धरेत्ताम्||६८||
रेतोभिघातप्रभवे तु कृच्छ्रे समीक्ष्य दोषं प्रतिकर्म कुर्यात्|
कार्पासमूलं वृषकाश्मभेदौ बला स्थिरादीनि गवेधुका च||६९||
वृश्चीर ऐन्द्री च पुनर्नवा च शतावरी मध्वसनाख्यपर्ण्यौ|
तत्क्वाथसिद्धः पवने रसः स्यात् पित्तेऽधिके क्षीरमथापि सर्पिः||७०||
कफे च यूषादिकमन्नपानं संसर्गजे सर्वहितः क्रमः स्यात्|
एवं न चेच्छाम्यति तस्य युञ्ज्यात् सुरां पुराणां मधुकासवं वा||७१||
विहङ्गमांसानि च बृंहणाय बस्तींश्च शुक्राशयशोधनार्थम्|
शुद्धस्य तृप्तस्य च वृष्ययोगैः प्रियानुकूलाः प्रमदा विधेयाः||७२||
क्रिया हिता सेति या कफमारुतोत्थे कृच्छ्रे विहिता सा मिलितैव शर्करायामश्मर्यां च कर्तव्या| खराश्वा अजमोदा| चूर्णं पिबेदित्यत्र जलेनैव पानम्| इक्षुरकः कोकिलाक्षः| कुन्दुरुः स्वनामख्यातः| त्रिफलाद्विभागमिति त्रिफलायाः प्रत्येकं मूलभागाद् भागद्वयम्| अम्लैरिति काञ्जिकादिभिः| अशुक्तैरिति शुक्तवर्जितैः| मद्यं चात्राम्लग्रहणगृहीतमपि बस्तिशोधनत्वादशमरीभेदकत्वप्रकर्षख्यापनार्थं पुनरुच्यते| अश्मभिदिति अश्मरीभेदी| सितोपला शर्करा| शल्यविदुद्धरेदिति शल्यशास्त्रवेत्ता तदुक्तविधानेनाश्मरीमाकर्षेत्| समीक्ष्य दोषमिति दोषमुल्बणं समीक्ष्य| प्रतिकर्म कुर्यात् प्रतिकर्म चिकित्सितम्| मध्वसनाख्यपर्ण्यौ मधुपर्णी गुडूची, असनपर्णी अपराजिता, ‘दारुपर्णी’ इत्यपरे| संसर्गजे इति त्रिदोषानुगते| विहङ्गः पक्षी||५९-७२||
Adhikarana 23 (73-75) · Śloka 75
रक्तोद्भवे तूत्पलनालतालकासेक्षुबालेक्षुकशेरुकाणि|
पिबेत् सिताक्षौद्रयुतानि खादेदिक्षुं विदारीं त्रपुषाणि चैव||७३||
घृतं श्वदंष्ट्रास्वरसेन सिद्धं क्षीरेण चैवाष्टगुणेन पेयम्|
स्थिरादिकानां कनकादिकानामेकैकशो वा विधिनैव तेन||७४||
क्षीरेण बस्तिर्मधुरौषधैः स्यात्तैलेन वा स्वादुफलोत्थितेन|
यन्मूत्रकृच्छ्रे विहितं तु पैत्ते कार्यं तु तच्छोणितमूत्रकृच्छ्रे||७५||
खादेदिति असिद्धान्येव खादेत्| घृतं श्वदंष्ट्रेत्यादौ साहचर्यात् केचिच्छ्वदंष्ट्रास्वरसमप्यष्टगुणं वदन्ति; तन्न, स्वरसः स्नेहसम एव स्नेहेषु भवति, उक्तं हि जतूकर्णे- “कल्काच्चतुर्गुणः स्नेहः, स्वरसः स्नेहसम्मितः” इति; तेन क्षीरवत् सर्वस्नेहेषु स्वरसविधानं ज्ञेयम्| स्थिरादिकानामित्यादौ कतकादिः मधुरस्कन्धे (वि.अ.८) “...कतककाश्मर्य... ” इत्यादिनोक्तो गणो ज्ञेयः| विधिनैव तेनेति पूर्वघृतविधिनैव; तेन श्वदंष्ट्रास्थाने स्थिरादीनि प्रत्येकं कल्पनीयानि| स्वादुफलोत्थितेनेति मधूकाक्षोटादिफलनिष्पन्नेन तैलेन||७३-७५||
Adhikarana 24 (76) · Śloka 76
व्यायामसन्धारणशुष्करूक्षपिष्टान्नवातार्ककरव्यवायान्|
खर्जूरशालूककपित्थजम्बूबिसं कषायं न रसं भजेत||७६||
इत्यश्मरीचिकित्सा|
व्यायामेत्यादिना मूत्रकृच्छ्रेऽपथ्यान्याह||७६||
Adhikarana 25 (77-80) · Śloka 80
व्यायामतीक्ष्णातिविरेकबस्तिचिन्ताभयत्रासगदातिचाराः|
छर्द्यामसन्धारणकर्शनानि हृद्रोगकर्तॄणि तथाऽभिघातः||७७||
वैवर्ण्यमूर्च्छाज्वरकासहिक्काश्वासास्यवैरस्यतृषाप्रमोहाः|
छर्दिः कफोत्क्लेशरुजोऽरुचिश्च हृद्रोगजाः स्युर्विविधास्तथाऽन्ये||७८||
हृच्छून्यभावद्रवशोषभेदस्तम्भाः समोहाः पवनाद्विशेषः|
पित्तात्तमोदूयनदाहमोहाः सन्त्रासतापज्वरपीतभावाः||७९||
स्तब्धं गुरु स्यात् स्तिमितं च मर्म कफात् प्रसेकज्वरकासतन्द्राः|
विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रार्तितोदं कृमिजं सकण्डूम्||८०||
निदानादिक्रमेण हृद्रोगचिकित्सामाह| गदातिचार इति रोगाणामसम्यगुपचारः| हृद्रोगकर्तॄणीति यथा “भीष्मः कुरूणां भयशोकहर्ता”, तेन “तृजकाभ्यां कर्तरि” (पा.अ.२|२|१५|) इत्यनेनात्र समासः| वैवर्ण्येत्यादौ हृद्रोगजा इति वचनाद्धृद्रोगानन्तरकालभावितया वैवर्ण्यादीनामुपद्रवत्वमिच्छन्ति; ये तु वैवर्ण्यादीनां सामान्यहृद्रोगलक्षणत्वमाहुः, ते हृद्रोगेण समं जायन्ते इति हृद्रोगजा इति विग्रहाल्लिङ्गत्वं व्युत्पादयन्ति| हृद्रोगाश्च कियन्तःशिरसीये (सू.अ.१७) विस्तरेणोक्ता अपि चिकित्साप्रकरणादिह सङ्क्षेपेणाभिधीयन्ते| मर्मेति हृदयम्||७७-८०||
Adhikarana 26 (81-89) · Śloka 89
तैलं ससौवीरकमस्तुतक्रं वाते प्रपेयं लवणं सुखोष्णम्|
मूत्राम्बुसिद्धं लवणैश्च तैलमानाहगुल्मार्तिहृदामयघ्नम्||८१||
पुनर्नवां दारु सपञ्चमूलं रास्नां यवान् बिल्वकुलत्थकोलम्|
पक्त्वा जले तेन विपाच्य तैलमभ्यङ्गपानेऽनिलहृद्गदध्नम्||८२||
हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्च कल्कैः|
सहिङ्गुभिः साधितमग्र्यसर्पिर्गुल्मे सहृत्पार्श्वगदेऽनिलोत्थे||८३||
सपुष्कराह्वं फलपूरमूलं महौषधं शट्यभया च कल्काः|
क्षाराम्बुसर्पिर्लवणैर्विमिश्राः स्युर्वातहृद्रोगविकर्तिकाघ्नाः||८४||
क्वाथः कृतः पौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वैः|
सनागराजाजिवचायवानीक्षारः सुखोष्णो लवणश्च पेयः||८५||
पथ्याशटीपौष्करपञ्चकोलात् समातुलुङ्गाद्यमकेन कल्कः|
गुडप्रसन्नालवणैश्च भृष्टो हृत्पार्श्वपृष्ठोदरयोनिशूले||८६||
स्यात्त्र्यूषणं द्वे त्रिफले सपाठे निदिग्धिकागोक्षुरकौ बले द्वे|
ऋद्धिस्त्रुटिस्तामलकी स्वगुप्ता मेदे मधूकं मधुकं स्थिरा च||८७||
शतावरी जीवकपृश्निपर्ण्यौ द्रव्यैरिमैरक्षसमैः सुपिष्टैः|
प्रस्थं घृतस्येह पचेद्विधिज्ञः प्रस्थेन दध्ना त्वथ माहिषेण||८८||
मात्रां पलं चार्धपलं पिचुं वा प्रयोजयेन्माक्षिकसम्प्रयुक्ताम्|
श्वासे सकासे त्वथ पाण्डुरोगे हलीमके हृद्ग्रहणीप्रदोषे||८९||
तैलमित्यादिना यथाक्रमं चिकित्सामाह| तैलादीनामत्र समभागानां पेयत्वं ज्ञेयम्| वयःकयस्थेति वयःस्थाकायस्थयोर्गुडूच्यामलकयोः स्वरसग्रहणम्| अग्र्यसर्पिरिति अत्राग्र्यपदमस्य सर्पिषः प्राधान्यख्यापनार्थम्| विकर्तिकेह हृदयपरिकर्तिकाकारा वेदना| क्वाथः कृत इत्यादौ नागरादीनां कल्कं पौष्करादिक्वाथे प्रक्षेपमाहुः| पथ्याशतीत्यादौ यमकेन भृष्टः कल्कः गुडप्रसन्नालवणैश्च पेय इति व्याख्येयम्| द्वे त्रिफले इत्यत्र द्राक्षाकाश्मर्यपरूषकाणि द्वितीया त्रिफला| त्रुटिः सूक्ष्मैला||८१-८९||
Adhikarana 27 (90-95) · Śloka 95
शीताः प्रदेहाः परिषेचनानि तथा विरेको हृदि पित्तदुष्टे|
द्राक्षासिताक्षौद्रपरूषकैः स्याच्छुद्धे तु पित्तापहमन्नपानम्||९०||
यष्ट्याह्विकातिक्तकरोहिणीभ्यां कल्कं पिबेच्चापि सिताजलेन|
क्षते च सर्पींषि हितानि सर्पिर्गुडाश्च ये तान् प्रसमीक्ष्य सम्यक्||९१||
दद्याद्भिषग्धन्वरसांश्च गव्यक्षीराशिनां पित्तहृदामयेषु|
तैरेव सर्वे प्रशमं प्रयान्ति पित्तामयाः शोणितसंश्रया ये||९२||
द्राक्षाबलाश्रेयसिशर्कराभिः खर्जूरवीरर्षभकोत्पलैश्च|
काकोलिमेदायुगजीवकैश्च क्षीरेण सिद्धं महिषीघृतं स्यात्||९३||
कशेरुकाशैवलशृङ्गवेरप्रपौण्डरीकं मधुकं बिसस्य|
ग्रन्थिश्च सर्पिः पयसा पचेत्तैः क्षौद्रान्वितं पित्तहृदामयघ्नम्||९४||
स्थिरादिकल्कैः पयसा च सिद्धं द्राक्षारसेनेक्षुरसेन वाऽपि|
सर्पिर्हितं स्वादुफलेक्षुजाश्च रसाः सुशीता हृदि पित्तदुष्टे||९५||
शीता इत्यादि पित्तहृद्रोगचिकित्सितम्| क्षते इति क्षतक्षीणचिकित्सिते| श्रेयसी रास्ना| खर्जूरं खर्जूरफलम्| क्षौद्रान्वितमिति साधनोत्तरकालं पादिकमधुयुक्तम्| स्वादुफलेत्यादौ स्वरसा इति रसाः||९०-९५||
Adhikarana 28 (96-99) · Śloka 99
स्विन्नस्य वान्तस्य विलङ्घितस्य क्रिया कफघ्नी कफमर्मरोगे|
कौलत्थधान्यैश्च रसैर्ववान्नं पानानि तीक्ष्णानि च शङ्कराणि||९६||
मूत्रे शृताः कट्फलशृङ्गवेरपीतद्रुपथ्यातिविषाः प्रदेयाः|
कृष्णाशटीपुष्करमूलरास्नावचाभयानागरचूर्णकं च||९७||
उदुम्बराश्वत्थवटार्जुनाख्ये पालाशरौहीतकखादिरे च|
क्वाथे त्रिवृत्त्र्यूषणचूर्णसिद्धो लेहः कफघ्नोऽशिशिराम्बुयुक्तः||९८||
शिलाह्वयं वा भिषगप्रमत्तः प्रयोजयेत् कल्पविधानदिष्टम्|
प्राशं तथाऽऽगस्त्यमथापि लेहं रसायनं ब्राह्ममथामलक्याः||९९||
स्विन्नस्येत्यादि कफजहृद्रोगचिकित्साधिकारः| शङ्कराणीति कल्याणकराणी| उदुम्बरेत्यादौ उदुम्बरादिक्वाथे भागत्रये त्रिवृत्त्र्यूषणचूर्णं पादिकं प्रक्षेप्यम्| अशिशिराम्बुयुक्त इति उष्णसलिलानुपानः| कल्पविधानदिष्टमिति रसायने विहितम्; कल्पशब्देन च क्षुद्ररसायनमुच्यते| प्राश इति च्यवनप्राशः| आगस्त्यमिति लेहविशेषणम्||९६-९९||
Adhikarana 29 (100) · Śloka 100
त्रिदोषजे लङ्घनमादितः स्यादन्नं च सर्वेषु हितं विधेयम्|
हीनातिमध्यत्वमवेक्ष्य चैव कार्यं त्रयाणामपि कर्म शस्तम्||१००||
त्रिदोषजे आदौ लङ्घनविधानं हृदयस्य कफस्थानतया तद्गते त्रिदोषजेऽपि कफ एवादौ लङ्घनेन जेय इति मत्वा कृतम्| त्रिदोषजे तूल्बणदोषचिकित्सासूत्रमाह- हीनातीत्यादि| हीनत्वमधिकत्वं मध्यमत्वं च दोषाणामवेक्ष्य यत् कर्म शस्तमधिकदोषविजेतृतया तत् कार्यमिति वाक्यार्थः||१००||
Adhikarana 30 (101-102) · Śloka 103
भुक्तेऽधिकं जीर्यति शूलमल्पं जीर्णे स्थितं चेत् सुरदारुकुष्ठम्|
सतिल्वकं द्वे लवणे विडङ्गमुष्णाम्बुना सातिविषं पिबेत् सः||१०१||
जीर्णेऽधिके स्नेहविरेचनं स्यात् फलैर्विरेच्यो यदि जीर्यति स्यात्|
त्रिष्वेव कालेष्वधिके तु शूले तीक्ष्णं हितं मूलविरेचनं स्यात्||१०२||
प्रायोऽनिलो रुद्धगतिः प्रकुप्यत्यामाशये शोधनमेव तस्मात्|
कार्यं तथा लङ्घनपाचनं च ...|१०३|
भुक्तेऽधिकमित्यादिना सान्निपातिकहृद्रोगे प्रायोभाविशूलं लक्षणभेदेन विभजञ्चिकित्सति| भुक्तेऽधिकमित्यादिना श्लेष्मशूलमुच्यते| स्थितमिति प्रशान्तम्| जीर्णेऽधिकमित्यादिना अनिलशूलं, जीर्यत्यधिकमित्यनेन च पैत्तिकं ब्रूते| फलैरिति द्राक्षाकाश्मर्यादिभिः| त्रिष्वेवेत्यादिना सान्निपातिकशूलमाह| मूलविरेचनं त्रिवृन्मूलादिभिर्विरेचनम्| अत्र विरेचनोपपत्तिमाह- प्रायोऽनिल इत्यादि| अत्र चानिलकोपे यद्यपि बस्तिरुचितः, तथाऽप्यामाशयापेक्षयाऽऽमाशयशोधनं विरेचनमेव देयम्||१०१-१०२||-
Adhikarana 31 (103) · Śloka 103
... सर्वं कृमिघ्नं कृमिहृद्गदे च||१०३||
इति हृद्रोगचिकित्सा|
कृमिघ्नमिति व्याधितरूपीये (वि. अ. ७) कृमिहरत्वेनोक्तं विधानम्||१०३||
Adhikarana 32 (104-106) · Śloka 107
सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः|
प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमैः||१०४||
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु|
घ्राणार्तितोदौ क्षवथुर्जलाभः स्रावोऽनिलात् सस्वरमूर्धरोगः||१०५||
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानि पित्तात्|
कासारुचिस्रावघनप्रसेकाः कफाद्गुरुः स्रोतसि चापि कण्डूः||१०६||
सर्वाणि रूपाणि तु सन्निपातात् स्युः पीनसे तीव्ररुजेऽतिदुःखे |१०७|
क्रमागतशिरोरोगचिकित्सायां वक्तव्यायां शिरोरोगप्रधानत्वाद्भूरिशिरोरोगहेतुत्वाच्च प्रतिश्यायमेव तावदाह| शालाक्येऽप्युक्तं- “भूयिष्ठं व्याधयः सर्वे प्रतिश्यायनिमित्तजाः| तस्माद्रोगः प्रतिश्यायः पूर्वमेवोपदिश्यते” इति| यद्यपि राजयक्ष्मचिकित्सिते प्रतिश्याय उक्त एव, तथाऽपि तत्र यक्ष्मपूर्वरूपतयोक्तः, इह तु स्वतन्त्रः प्रतिश्याय उच्यत इति विशेषः| रजः धूलिः| अतिस्वप्नः दिवास्वप्नः| अवश्यायः तुषारः| संस्त्यानदोषे इति घनीभूतदोषे| घ्राणार्तीत्यादिना वातादिप्रतिश्यायानां चतुर्णां क्रमाल्लक्षणमाह| सस्वरमूर्धरोग इति स्वररोगः स्वरभेदः| कफाद्गुरुरित्यादौ गुरुशब्दः कण्डूविशेषणम्| स्रोतसीति नासास्रोतसि||१०४-१०६||-
Adhikarana 33 (107-109) · Śloka 109
सर्वोऽतिवृद्धोऽहितभोजनात्तु दुष्टप्रतिश्याय उपेक्षितः स्यात्||१०७||
ततस्तु रोगाः क्षवथुश्च नासाशोषः प्रतीनाहपरिस्रवौ च|
घ्राणस्य पूतित्वमपीनसश्च सपाकशोथार्बुदपूयरक्ताः||१०८||
अरूंषि शीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः|
तृट्श्वासकासज्वररक्तपित्तवैस्वर्यशोषाश्च ततो भवन्ति||१०९||
सर्वोऽतिवृद्ध इत्यादिना प्रतिश्यायजान् क्षवथ्वादीनाह| अत्र मुखरोगं ये न पठन्ति ते शिरोरोगग्रहणेनैव मुखरोगस्य ग्रहणमिति मन्यन्ते| एषां तु दुष्टप्रतिश्यायक्षवथ्वादीनां शालाक्यादिषु विस्तरः, अत्र तु पराधिकारत्वात् सङ्क्षेप एव||१०७-१०९||
Adhikarana 34 (110-117) · Śloka 117
रोधाभिघातस्रवशोषपाकैर्घ्राणं युतं यश्च न वेत्ति गन्धम्|
दुर्गन्धि चास्यं बहुशःप्रकोपि दुष्टप्रतिश्यायमुदाहरेत्तम्||११०||
संस्पृश्य मर्माण्यनिलस्तु मूर्ध्नि विष्वक्पथस्थः क्षवथुं करोति|
क्रुद्धः स संशोष्य कफं तु नासाशृङ्गाटकघ्राणविशोषणं च||१११||
उच्छ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम्|
यो मस्तुलुङ्गाद्घनपीतपक्वः कफः स्रवेदेष परिस्रवस्तु||११२||
वैवर्ण्यदौर्गन्ध्यमुपेक्षया तु स्यात् पूतिनस्यं श्वयथुर्भ्रमश्च|
आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा||११३||
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन|
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्||११४||
सदाहरागः श्वयथुः सपाकः स्याद् घ्राणपाकोऽपि च रक्तपित्तात्|
घ्राणाश्रितासृक्प्रभृतीन् प्रदूष्य कुर्वन्ति नासाश्वयथुं मलाश्च||११५||
घ्राणे तथोच्छ्वासगतिं निरुध्य मांसास्रदोषादपि चार्बुदानि|
घ्राणात् स्रवेद्वा श्रवणान्मुखाद्वा पित्ताक्तमस्रं त्वपि पूयरक्तम्||११६||
कुर्यात् सपित्तः पवनस्त्वगादीन् सन्दूष्य चारूंषि सपाकवन्ति|
नासा प्रदीप्तेव नरस्य यस्य दीप्तं तु तं रोगमुदाहरन्ति||११७||
इति नासारोगनिदानम्|
रोधाभिघातेत्यादिना दुष्टप्रतिश्यायादीनामर्जुनलोमपर्यन्तानां क्रमेण लक्षणान्याह| क्रुद्ध इत्यादौ स इति अनिलः| मस्तुलुङ्गादिति मस्तिष्कात्| कुर्यात् सपित्त इत्यादिना अरुंषिकामाह; सा तु शिरोभवा ज्ञेया||११०-११७||
Adhikarana 35 (118) · Śloka 118
भृशार्तिशूलं स्फुरतीह वातात् पित्तात् सदाहार्ति कफाद्गुरु स्यात्|
सर्वैस्त्रिदोषं क्रिमिभिस्तु कण्डूर्दौर्गन्ध्यतोदार्तियुतं शिरः स्यात्||११८||
इति शिरोरोगनिदानम्|
भृशार्तीत्यादिना यद्यपि प्रतिश्यायोत्पन्नत्वेन शिरोरोगाणां लक्षणमुच्यते, तथाऽपि स्वतन्त्रोत्पन्नानामपि शिरोरोगाणामेतदेव लक्षणं ज्ञेयम्| एवं मुखरोगादिलक्षणेष्वपि वाच्यम्| सर्वैस्त्रिदोषमिति वातादिलक्षणैर्मिलितैस्त्रिदोषं स्यादित्यर्थः||११८||
Adhikarana 36 (119-123) · Śloka 123
मुखामये मारुतजे तु शोषकार्कश्यरौक्ष्याणि चला रुजश्च|
कृष्णारुणं निष्पतनं सशीतं प्रस्रंसनस्पन्दनतोदभेदाः||११९||
तृष्णाज्वरस्फोटकतालुदाहा धूमायनं चाप्यवदीर्णता च|
पित्तात् समूर्च्छा विविधा रुजश्च वर्णाश्च शुक्लारुणवर्णवर्ज्याः||१२०||
कण्डूर्गुरुत्वं सितविज्जलत्वं स्नेहोऽरुचिर्जाड्यकफप्रसेकौ|
उत्क्लेशमन्दानलता च तन्द्रा रुजश्च मन्दाः कफवक्ररोगे||१२१||
सर्वाणि रूपाणि तु वक्ररोगे भवन्ति यस्मिन् स तु सर्वजः स्यात्|
संस्थानदूष्याकृतिनामभेदाच्चैते चतुःषष्टिविधा भवन्ति||१२२||
शालाक्यतन्त्रेऽभिहितानि तेषां निमित्तरूपाकृतिभेषजानि|
यथाप्रदेशं तु चतुर्विधस्य क्रियां प्रवक्ष्यामि मुखामयस्य||१२३||
इति मुखरोगनिदानम्|
निष्पतनमिति मुखस्रावः| तृष्णेत्यादि पित्तजमुखरोगलक्षणम्| शालाक्ये प्रपञ्चोक्तमुखरोगाणामत्रैव चतुर्विधमुखरोगेऽन्तर्भावं दर्शयन्नाह- संस्थानेत्यादि| संस्थानं स्थानमोष्ठादि, दूष्यं रक्तादि, आकृतिः लिङ्गं, नाम शीतादादि, एषां भेदाद् विकल्पाच्चतुःषष्टिविधा भवन्ति, ते च शालाक्ये एवोन्नेयाः| सुश्रुते पञ्चषष्टिमुखरोगा उक्ताः, तथाऽपीह वैदेहमतानुसारेणादूरान्तरेणेयं चतुःषष्टिः| यथाप्रदेशमिति यथाचिकित्साप्रदेशम्||११९-१२३||
Adhikarana 37 (124-126) · Śloka 126
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनगन्धरूपैः|
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्रश्च मतोऽनिलेन||१२४||
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्याल्लवणं च वक्रम्|
माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसम्बद्धयुतं कफेन||१२५||
अरोचके शोकभयानिलोभक्रोधाद्यहृद्याशनगन्धजे स्यात्|
स्वाभाविकं वक्रमथारुचिश्च त्रिदोषजे नैकरसं भवेत्तु||१२६||
इत्यरोचकनिदानम्|
आस्यरोगान्तर्निविष्टत्वादेवारोचकानाह| यद्यपि राजयक्ष्मचिकित्सितेऽप्यरोचका उक्ताः, तथाऽपि शोषोक्तारोचकेभ्यः पृथगुत्पन्ना एवारोचका अभिधीयन्त इति न पौनरुक्त्यम्| अतिलोभेनात्रारुचिरुच्यते, तत्रातिलोभेन कृतं सतताभ्यासमरुचिकारणं दर्शयति| विबद्धसम्बद्धयुतमिति बन्धयुक्तमित्यर्थः| नैकरसमिति अनेकरसम्||१२४-१२६||
Adhikarana 38 (127-128) · Śloka 128
नादोऽतिरुक्कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात्|
शोफः सरागो दरणं विदाहः सपीतपूतिश्रवणं च पित्तात्||१२७||
वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिः श्लेष्मभवेऽल्परुक् च|
सर्वाणि रूपाणि तु सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः||१२८||
इति कर्णरोगनिदानम्|
नादोऽतिरुगित्यादिना कर्णरोगानाह| एते च शालाक्ये यद्यप्यष्टाविंशतिरुक्ताः, तथाऽपीह चतुर्ष्वेव कर्णरोगेषु शेषाणामप्यवरोधो व्याख्येयः, शेषाणामपि वातादिजन्यत्वात्||१२७-१२८||
Adhikarana 39 (129-131) · Śloka 131
अल्पस्तु रागोऽनुपदेहवांश्च सतोदभेदोऽनिलजाक्षिरोगे|
पित्तात् सदाहोऽतिरुजः सरागः पीतोपदेहः सुभृशोष्णवाही||१२९||
शुक्लोपदेहं बहुपिच्छिलाश्रु नेत्रं कफात् स्याद्गुरुता सकण्डुः|
सर्वाणि रूपाणि तु सन्निपातान्नेत्रामयाः षण्णवतिस्तु भेदात्||१३०||
तेषामभिव्यक्तिरभिप्रदिष्टा शालाक्यतन्त्रेषु चिकित्सितं च|
पराधिकारे तु न विस्तरोक्तिः शस्तेति तेनात्र न नः प्रयासः||१३१||
इति नेत्ररोगनिदानम्|
अल्पस्तु राग इत्यादिना चत्वारोऽक्षिरोगा अभिधीयन्ते| उपदेहः दूषिका| सुभृशोष्णवाहीति अत्यर्थोष्णस्रावी| अनुक्तनेत्रामयानां सङ्ख्यामाह- नेत्रामयाः षण्णवतिरिति| नेत्रामयेषु आचार्याणां विप्रतिपत्तिः; नेत्ररोगाणां षट्सप्ततिं विदेहः प्राह, करालस्तु षण्णवतिम्, अशीतिं सात्यकिः प्राह| तेषु करालमतेनैवैतदभिधानम्, उक्तं च तत्र- “विंशतिः सप्त वर्त्मस्था, नव सन्धौ प्रकीर्तिताः| त्रयोदश तु शुक्लस्थाः, षड्रोगाः कृष्णभागजाः|| विंशतिः पञ्च दृष्टिस्थाः, षोडशैव च सर्वगाः” इति| एतेषां ज्ञानोपायमाह- तेषामित्यादि| अभिव्यक्तिरिति लक्षणम्| नेत्ररोगप्रपञ्चानभिधाने हेतुमाह- पराधिकारेष्वित्यादि||१२९-१३१||
Adhikarana 40 (132-133) · Śloka 133
तेजोऽनिलाद्यैः सह केशभूमिं दग्ध्वाऽऽशु कुर्यात् खलतिं नरस्य|
किञ्चित्तु दग्ध्वा पलितानि कुर्याद्धरिप्रभत्वं च शिरोरुहाणाम्||१३२||
इत्यूर्ध्वजत्रूत्थगदैकदेशस्तन्त्रे निबद्धोऽयमशून्यतार्थम्|
अतः परं भेषजसङ्ग्रहं तु निबोध सङ्क्षेपत उच्यमानम्||१३३||
इति खालित्यरोगनिदानम्|
तेज इत्यादिना खालित्यलक्षणमाह| तेजःशब्देन देहोष्माऽभिमतः; स वाताद्यैर्युक्तः खालित्यादि करोतीति योजनीयम्| ये तु ‘तेजः सवातं’ इति पठन्ति, ते तेजःशब्देन पित्तमपि वर्णयन्ति| हरिप्रभत्वमिति कपिलत्वम्| शिरोरुहाणामिति केशानाम्| अशून्यतार्थमिति अस्य कायचिकित्साशास्त्रस्य शालाक्याभिधेयरोगैरशून्यतार्थम्| भेषजसङ्ग्रहमिति भेषजाभिधायकं ग्रन्थम्||१३२-१३३||
Adhikarana 41 (134-143) · Śloka 143
वातात् सकासवैस्वर्ये सक्षारं पीनसे वृतम्|
पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा||१३४||
शताह्वा त्वग्बला मूलं स्योनाकैरण्डबिल्वजम्|
सारग्वधं पिबेद्वर्तिं मधूच्छिष्टवसाघृतैः||१३५||
अथवा सघृतान् सक्तून् कृत्वा मल्लकसम्पुटे|
नवप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्||१३६||
शङ्खमूर्धललाटार्तौ पाणिस्वेदोपनाहनम्|
स्वभ्यक्ते क्षवथुस्रावरोधादौ सङ्करादयः||१३७||
घ्रेयाश्च रोहिषाजाजीवचातर्कारिचोरकाः|
त्वक्पत्रमरिचैलानां चूर्णा वा सोपकुञ्चिकाः||१३८||
स्रोतःशृङ्गाटनासाक्षिशोषे तैलं च नावनम्|
प्रभाव्याजे तिलान् क्षीरे तेन पिष्टांस्तदुष्मणा||१३९||
मन्दस्विन्नान् सयष्ट्याह्वचूर्णांस्तेनैव पीडयेत्|
दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत्||१४०||
सिद्धं ससैन्धवं तैलं दशकृत्वोऽणु तत् स्मृतम्|
स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे||१४१||
स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम्|
उष्णाम्बुना स्नानपाने निवातोष्णप्रतिश्रयः||१४२||
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत्|
वातजे पीनसे धीमानिच्छन्नेवात्मनो हितम्||१४३||
अथैतेषां क्रमाच्चिकित्साऽभिधीयते| प्रतिश्याये धूमस्य निषेधो वैरेचनिकधूमाभिप्रायेण कृतः, तेनेह स्नैहिकधूमाभिधानं न विरोधि| पाणिस्वेदं च उपनाहनं चेति पाणिस्वेदोपनाहनम्| क्षवथुस्रावरोधादावित्यत्र रोधशब्देन प्रतीनाहोऽभिधीयते| सङ्करादयः सङ्करप्रस्तरादयः स्वेदाध्यायोक्ताः स्वेदाः| तर्कारी जयन्ती| स्रोतःशृङ्गाटनासाक्षिशोषे इति घ्राणश्रोत्राक्षितर्पणीनां सिराणां सन्निपातः शृङ्गाटकः| नावनं तैलमुक्तमाहप्रभाव्याजे इत्यादि| तदुष्मणेति अजाक्षीरोष्मणा पिष्टस्वेदने मन्दोत्स्विन्नान्| सयष्ठ्याह्वचूर्णानिति यष्ट्याह्वचूर्णस्याप्रधानत्वात् तिलचूर्णात् पादिकत्वम्| तेनैव पीडयेदिति अजाक्षीरेण| एवं निष्पन्नतैलस्य दशमूलनिष्क्वाथादिभिर्दशकृत्वः पाकात् सिद्धं तैलमणुतैलं स्यात्; अणुता चास्य अणुस्रोतोनुसारित्वात्, तच्चेह भावनया पाकभूयस्त्वेन निष्पीडनविशेषेण च क्रियते| उक्तं हि विदेहे- “भावनात् पाचनाद्वाऽपि तैलानामणुतैलता| मर्दनादपि सर्वेषां देहानामणुतैलता” इति| सिद्धाम्लेत्यादिना आहाराचारावाह| निवातोष्णप्रतिश्रय इति निवातोष्णगृहस्थायी||१३४-१४३||
Adhikarana 42 (144-148) · Śloka 148
पैत्ते सर्पिः पिबेत् सिद्धं शृङ्गवेरशृतं पयः|
पाचनार्थं पिबेत् पक्वे कार्यं मूर्धविरेचनम्||१४४||
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः|
दन्त्या च साधितं तैलं नस्यं स्यात् पक्वपीनसे||१४५||
पूयास्रे रक्तपित्तघ्नाः कषाया नावनानि च|
पाकदाहाढ्यरूक्षेषु शीता लेपाः ससेचनाः||१४६||
घ्रेयनस्योपचाराश्च कषायाः स्वादुशीतलाः|
मन्दपित्ते प्रतिश्याये स्निग्धैः कुर्याद्विरेचनम्||१४७||
घृतं क्षीरं यवाः शालिर्गोधूमा जाङ्गला रसाः|
शीताम्लास्तिक्तशाकानि यूषा मुद्गादिभिर्हिताः||१४८||
पैत्ते सर्पिः पिबेत् सिद्धमित्यत्र शृङ्गवेरसिद्धमेव सर्पिर्देयम्| रक्तपित्तघ्ना इति रक्तपित्तचिकित्सोक्ताः| मन्दपित्ते इति ईषत्पित्ते||१४४-१४८||
Adhikarana 43 (149-157) · Śloka 157
गौरवारोचकेष्वादौ लङ्घनं कफपीनसे|
स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा||१४९||
लशुनं मुद्गचूर्णेन व्योषक्षारघृतैर्युतम्|
देयं कफघ्नवमनमुत्क्लिष्टश्लेष्मणे हितम्||१५०||
अपीनसे पूतिनस्ये घ्राणस्रावे सकण्डुके|
धूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे||१५१||
मनःशिला वचा व्योषं विडङ्गं हिङ्गु गुग्गुलुः|
चूर्णो घ्रेयः प्रधमनं कटुभिश्च फलैस्तथा||१५२||
भार्गीमदनतर्कारीसुरसादिविपाचिते|
मूत्रे लाक्षा वचा लम्बा विडङ्गं कुष्ठपिप्पली||१५३||
कृत्वा कल्कं करञ्जं च तैलं तैः सार्षपं पचेत्|
पाकान्मुक्ते घने नस्यमेतन्मेदोनिभे कफे||१५४||
स्निग्धस्य व्याहते वेगे च्छर्दनं कफपीनसे|
वमनीयशृतक्षीरतिलमाषयवागुना||१५५||
वार्ताककुलकव्योषकुलत्थाढकिमुद्गजाः|
यूषाः कफघ्नमन्नं च शस्तमुष्णाम्बुसेच(व)नम्||१५६||
सर्वजित् पीनसे दुष्टे कार्यं शोफे च शोफजित्|
क्षारोऽर्बुदाधिमांसेषु क्रिया शेषेष्ववेक्ष्य च||१५७||
इति पीनसनासारोगचिकित्सा|
देयं कफघ्नवमनमिति कफघ्नद्रव्यकृतं वमनं देयमित्यर्थः| कटुभिः फलैरिति मरिचपिप्पल्यादिभिः| पाकान्मुक्ते इति पाकावसानाच्च्युते| व्याहते वेग इति पीनसस्य वेगे मन्दीभूते| शोफे चेति नासाशोफे||१४९-१५७||
Adhikarana 44 (158-165) · Śloka 165
वातिके शिरसो रोगे स्नेहान् स्वेदान् सनावनान्|
पानान्नमुपनाहांश्च कुर्याद्वातामयापहान्||१५८||
तैलभृष्टैरगुर्वाद्यैः सुखोष्णैरुपनाहनम्|
जीवनीयैः सुमनसा मत्स्यैर्मांसैश्च शस्यते||१५९||
रास्नास्थिरादिभिः सिद्धं सक्षीरं नस्यमर्तिनुत्|
तैलं रास्नाद्विकाकोलीशर्कराभिरथापि वा||१६०||
बलामधूकयष्ट्याह्वविदारीचन्दनोत्पलैः|
जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः||१६१||
प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे|
नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्||१६२||
दशमूलबलारास्नात्रिफलामधुकैः सह|
मयूरं पक्षपित्तान्त्रशकृत्तुण्डाङ्घ्रिवर्जितम्||१६३||
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्|
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम्||१६४||
कर्णाक्षिनासिकाजिह्वाताल्वास्यगलरोगनुत्|
मायूरमितिविख्यातमूर्ध्वजत्रुगदापहम्||१६५||
इति मायूरघृतम्|
दशमूलेत्यादौ दशमूलादिभिः प्रत्येकं त्रिपलमानैः समं मयूरं पक्षादिवर्जितं जलद्रोणे एव पचेत्| जलद्रोणो ह्यत्र क्वाथार्थं पादावशेषः सन् घृतप्रस्थाच्चतुर्गुणो भवति| किञ्च दशमूलादीनां चत्वारिंशत्पलेन मयूरेणैकेन सममदूरान्तरं चतुःषष्टिपलं क्वाथ्यं द्रोणमाने जले देयम्| किंवा दशमूलादीनां मयूरेण च मिलित्वा यावत् क्वाथ्यं भवति तच्चतुर्गुणं जलमुत्सर्गपरिभाषयैव देयम्| मधुरैरिति जीवनीयगणौक्तैर्दशभिः, जीवनीयानि हि मधुरत्वप्रकर्षादिह मधुरशब्देनोच्यन्ते||१५८-१६५||
Adhikarana 45 (166-175) · Śloka 175
एतेनैव कषायेण घृतप्रस्थं विपाचयेत्|
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः||१६६||
जीवन्तीत्रिफलामेदामृद्वीकर्धिपरूषकैः|
समङ्गाचविकाभार्गीकाश्मरीसुरदारुभिः||१६७||
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः|
मृणालबिसशालूकशृङ्गीजीवकपद्मकैः ||१६८||
शतावरीविदारीक्षुबृहतीसारिवायुगैः|
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः||१६९||
रास्नास्थिरातामलकीसूक्ष्मैलाशटिपौष्करैः|
पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः||१७०||
खर्जूराक्षोटवाताममुञ्जाताभिषुकैरपि |
द्रव्यैरेभिर्यथालाभं पूर्वकल्पेन साधितम्||१७१||
नस्ये पाने तथाऽभ्यङ्गे बस्तौ चैव प्रयोजयेत्|
शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे||१७२||
मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते|
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्||१७३||
ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते|
महामायूरमित्येतद्घृतमात्रेयपूजितम्||१७४||
इति महामायूरघृतम्|
आखुभिः कुक्कुटैर्हंसैः शशैश्चापि हि बुद्धिमान्|
कल्पेनानेन विपचेत् सर्पिरूर्ध्वगदापहम्||१७५||
एतेनैवेति दशमूलादिमयूरक्वाथेन यथोक्तविधानकृतेन| द्वितीयखर्जूरशब्देन खर्जूरफलं गृह्यते| अक्षोटवातामादीनि औत्तरापथिकानि| पूर्वयोगोक्तक्वाथविधानं यद्यप्येतेनैव कषायेणेत्यादिना सिद्धं, तथाऽपि पुनः पूर्वकल्पेनेति वचनेन यथालाभमितिपदेन च यथालाभं करणीयत्वं कल्क एव, न क्वाथे इति दर्शयति| अत्र प्रयोगभेदे जतूकर्णः- “तत्क्वाथोचितशिखिनं दशमूलश्रेयसीबलामधुकैस्त्रिपलैः सह सर्पिषा जीवनीयकर्षैः पचेत् पयसा क्वाथेऽस्मिन्नेव चतुष्के प्रस्थं घृतं यथालाभं जीवनबृंहणवातामाक्षोटत्रिफलापूगमधुकैः खर्जूरतालमस्तकत्वगेलापौष्करश्वदंष्ट्रातामलकीबिसभार्गीकसेरुशृङ्गाटकमृणाल रास्नास्थिरासमङ्गाशृङ्ग्यजडाभिः सह तु मायूरं चतुष्प्रयोगादूर्ध्वजत्रुगदेष्वमृतवत्” इति| अत्र मयूरस्थाने मूषकादीन् दर्शयन्नाह- आखुभिरित्यादिना| आखुना मयूरापेक्षया स्वल्पमानेनाप्यत्रैकेनापि साधनं कर्तव्यमित्याहुः||१६६-१७५||
Adhikarana 46 (176-179) · Śloka 179
पैत्ते घृतं पयः सेकाः शीता लेपाः सनावनाः|
जीवनीयानि सर्पींषि पानान्नं चापि पित्तनुत्||१७६||
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः|
क्षीरपिष्टैः प्रदेहः स्याच्छृतैर्वा परिषेचनम्||१७७||
त्वक्पत्रशर्कराकल्कः सुपिष्टस्तण्डुलाम्बुना|
कार्योऽवपीडः सर्पिश्च नस्यं तस्यानु पैत्तिके||१७८||
यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं घृतं हितम्|
नावनं शर्कराद्राक्षामधूकैर्वाऽपि पित्तजे||१७९||
शृतैर्वेत्यत्र क्षीरशृतैः| सर्पिश्च नस्यमित्यत्र अवपीडस्य पश्चात् सर्पिषा नस्यं देयम्||१७६-१७९||
Adhikarana 47 (180-186) · Śloka 186
कफजे स्वेदितं धूमनस्यप्रधमनादिभिः|
शुद्धं प्रलेपपानान्नैः कफघ्नैः समुपाचरेत्||१८०||
पुराणसर्पिषः पानैस्तीक्ष्णैर्बस्तिभिरेव च|
कफानिलोत्थिते दाहः शेषयो रक्तमोक्षणम्||१८१||
एरण्डनलदक्षौमगुग्गुल्वगुरुचन्दनैः|
धूमवर्तिं पिबेद्गन्धैरकुष्ठतगरैस्तथा||१८२||
सन्निपातभवे कार्या सन्निपातहिता क्रिया|
क्रिमिजे चैव कर्तव्यं तीक्ष्णं मूर्धविरेचनम्||१८३||
त्वग्दन्तीव्याघ्रकरजविडङ्गनवमालिकाः|
अपामार्गफलं बीजं नक्तमालशिरीषयोः|
क्षवकोऽश्मन्तको बिल्वं हरिद्रा हिङ्गु यूथिका||१८४||
फणिज्झकश्च तैस्तैलमविमूत्रे चतुर्गुणे|
सिद्धं स्यान्नावनं चूर्णं चैषां प्रधमनं हितम्||१८५||
फलं शिग्रुकरञ्जाभ्यां सव्योषं चावपीडकः|
कषायः स्वरसः क्षारश्चूर्णं कल्कोऽवपीडकः||१८६||
शुक्ततिक्तकटुक्षौद्रकषायैः कवलग्रहः|
इति शिरोरोगचिकित्सा|
कफानिलोद्भवे दाह इत्यत्र कफोद्भवे अनिलोद्भवे च सुश्रुतवचनाल्ललाटशङ्खदेशे दाहः कर्तव्यः| उक्तं हि सुश्रुते- “शिरोरोगाधिमन्थप्रभृतिषु भ्रूललाटशङ्खप्रदेशेषु दहेत्” (सु.सू.अ.१२) इति| गन्धैरकुष्ठतगरैरिति अगुर्वादिगन्धैः, कुष्ठतगरवर्जनं चात्र मस्तुलुङ्गस्राववर्जनार्थम्| उक्तं च शालाक्ये- “नतकुष्ठे स्रावयतो धूमवर्तिप्रयोजिते| मस्तुलुङ्गं प्रकर्षेण तस्मात्ते नैव योजयेत्” इति| व्याघ्रकरजः नखी| क्षवथुः छिक्काकारकः||१८०-१८६||-
Adhikarana 48 (187-205) · Śloka 205
धूमः प्रधमनं शुद्धिरधश्छर्दनलङ्घनम्||१८७||
भोज्यं च मुखरोगेषु यथास्वं दोषनुद्धितम्|
पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम्||१८८||
पाठां तेजोवतीं पथ्यां समभागं विचूर्णयेत्|
मुखरोगेषु सर्वेषु सक्षौद्रं तद्विधारयेत्||१८९||
सीधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः|
तेजोह्वामभयामेलां समङ्गां कटुकां घनम्||१९०||
पाठां ज्योतिष्मतीं लोध्रं दार्वीं कुष्ठं च चूर्णयेत्|
दन्तानां घर्षणं रक्तस्रावकण्डूरुजापहम्||१९१||
पञ्चकोलकतालीसपत्रैलामरिचत्वचः|
पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिताः||१९२||
गुडे पुराणे द्विगुणे क्वथिते गुटिकाः कृताः|
कर्कन्धुमात्राः सप्ताहं स्थिता मुष्ककभस्मनि||१९३||
कण्ठरोगेषु सर्वेषु धार्याः स्युरमृतोपमाः|
गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम्||१९४||
तेजोह्वा त्रिफला लोध्रं चित्रकश्चेति चूर्णितम्|
सक्षौद्रं धारयेदेतद्गलरोगविनाशनम्||१९५||
कालकं नाम तच्चूर्णं दन्तास्यगलरोगनुत्|
इति कालकचूर्णम्|
मनःशिला यवक्षारो हरितालं ससैन्धवम्||१९६||
दार्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम्|
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्||१९७||
मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम्|
इति पीतकचूर्णम्|
मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्||१९८||
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्|
पाठा रसाञ्जनं मूर्वा तेजोह्वेति च चूर्णितम्||१९९||
क्षौद्रयुक्तं विधातव्यं गलरोगे भिषग्जितम्|
योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः||२००||
कटुकातिविषापाठादार्वीमुस्तकलिङ्गकाः|
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः||२०१||
स्वरसः क्वथितो दार्व्या घनीभूतो रसक्रिया|
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा||२०२||
तालुशोषे त्वतृष्णस्य सर्पिरौत्तरभक्तिकम्|
नावनं मधुराः स्निग्धाः शीताश्चैव रसा हिताः||२०३||
मुखपाके सिराकर्म शिरःकायविरेचनम्|
मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहाः||२०४||
सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवाः|
कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः||२०५||
शुक्तेत्यादि मुखरोगचिकित्सितम्| शुद्धिरध इति विरेचनम्| दार्वीत्वगिति दार्व्यास्त्वग्| रुजापहमिति रोगपीडाहरम्| पञ्चकोलेत्यादौ चूर्णसमुदायाद्गुडो द्विगुणः| कर्कन्धूमात्रा इति अष्टमाषकमानाः| केचिद् रोध्रस्थाने लोहं पठन्ति; उक्तं हि शालाक्ये- “पाठा रसाञ्जनं व्योषं तेजोह्वा त्रिफलाऽग्निकः| गृहधूमो यवक्षारो शस्त्रं चूर्णं तु कालकम्” इति| वातपित्तकफापहा इति प्रत्येकमेव कालादयस्त्रयो योगास्त्रिदोषहराः| रसक्रियेति घनीभूतरसस्य सञ्ज्ञा| तालुशोषे इत्यादौ अतृष्णस्येतिपदेन तृष्णायुक्तस्य तालुशोषे औत्तरभक्तिकमपि सर्पिःपानं निषेधयति| तालुशोषे च “तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः” (सू.अ.१३) इत्यादिना यद्यपि स्नेहपानं निषिद्धं, तथाऽपीह औत्तरभक्तिकं सर्पिर्विशेषविधानात् कर्तव्यमेव| सिराकर्मेति सिराव्यधनं; तच्च सुश्रुतवचनात् तालुनि जिह्वायां च कर्तव्यम्||१८७-२०५||
Adhikarana 49 (206-214) · Śloka 214
तुलां खदिरसारस्य द्विगुणामरिमेदसः|
प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भसः पचेत्||२०६||
द्रोणशेषं कषायं तं पूत्वा भूयः पचेच्छनैः|
ततस्तस्मिन् घनीभूते चूर्णीकृत्याक्षभागिकम्||२०७||
चन्दनं पद्मकोशीरं मञ्जिष्ठा धातकी घनम्|
प्रपौण्डरीकं यष्ट्याह्वत्वगेलापद्मकेशरम्||२०८||
लाक्षां रसाञ्जनं मांसीत्रिफलालोध्रवालकम्|
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम्||२०९||
यवासागुरुपत्तङ्गगैरिकाञ्जनमावपेत्|
लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान्||२१०||
कर्पूरकुडवं चापि क्षिपेच्छीतेऽवतारिते|
ततस्तु गुटिकाःकार्याःशुष्काश्चास्येन धारयेत्||२११||
तैलं चानेन कल्केन कषायेण च साधयेत्|
दन्तानां चलनभ्रंशशौशिर्यक्रिमिरोगनुत्||२१२||
मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्|
स्रावोपलेपपैच्छिल्यवैस्वर्यगलशोषनुत्||२१३||
दन्तास्यगलरोगेषु सर्वेष्वेतत् परायणम्|
खदिरादिगुटीकेयं तैलं च खदिरादिकम्||२१४||
इति खदिरादिगुटिका तैलं च|
तुलामित्यादिना खदिरादिगुटिकामाह| द्विगुणामरिमेदस इति विट्खदिरस्य तु तुले द्वे एव| पत्तङ्गं रक्तचन्दनम्| लवङ्गादीनामत्र पलमानत्वम्| दन्तास्यगलरोगाः शालाक्योक्ता ज्ञेयाः| परायणमिति परमयनं श्रेष्ठं भेषजमिति यावत्| इति मुखरोगचिकित्सा||२०६-२१४||
Adhikarana 50 (215-220) · Śloka 220
अरुचौ कवलग्राहा धूमाः समुखधावनाः|
मनोज्ञमन्नपानं च हर्षणाश्वासनानि च||२१५||
कुष्ठसौवर्चलाजाजीशर्करामरिचं बिडम्|
धात्र्येलापद्मकोशीरपिप्पल्युत्पलचन्दनम्||२१६||
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम्|
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतः||२१७||
सतैलमाक्षिकास्त्वेते चत्वारः कवलग्रहाः|
चतुरोऽरोचकान् हन्युर्वाताद्येकजसर्वजान्||२१८||
कारवीमरिचाजाजीद्राक्षावृक्षाम्लदाडिमम्|
सौवर्चलं गुडः क्षौद्रं सर्वारोचकनाशनम्||२१९||
बस्तिं समीरणे, पित्ते विरेकं, वमनं कफे|
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे||२२०||
इत्यरोचकचिकित्सा|
अरोचकचिकित्सामाह- अरुचावित्यादि| कुष्ठेत्यादिना अर्धश्लोकोक्ताश्चत्वारो योगा वातपित्तकफसन्निपातजेष्वरोचकेषु क्रमाज्ज्ञेयाः||२१५-२२०||
Adhikarana 51 (221-230) · Śloka 230
कर्णशूले तु वातघ्नी हिता पीनसवत् क्रिया|
प्रदेहाः पूरणं नस्यं पाकस्रावे व्रणक्रियाः||२२१||
भोज्यानि च यथादोषं कुर्यात् स्नेहांश्च पूरणान्|
हिङ्गुतुम्बरुशुण्ठीभिस्तैलं तु सार्षपं पचेत्||२२२||
एतद्धि पूरणं श्रेष्ठं कर्णशूलनिवारणम्|
देवदारुवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः||२२३||
तैलं सिद्धं बस्तमूत्रे कर्णशूलनिवारणम्|
वराटकान् समाहृत्य दहेन्मृद्भाजने नवे||२२४||
तद्भस्म श्च्योतयेत्तेन गन्धतैलं विपाचयेत्|
रसाञ्जनस्य शुण्ठ्याश्च कल्काभ्यां कर्णशूलनुत्||२२५||
शुष्कमूलकशुण्ठानां क्षारो हिङ्गु महौषधम्|
शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम्||२२६||
सौवर्चलयवक्षारस्वर्जिकोद्भिदसैन्धवम्|
भूर्जग्रन्थिर्बिडं मुस्तं मधुशुक्तं चतुर्गुणम्||२२७||
मातुलुङ्गरसश्चैव कदल्या रस एव च|
सर्वैरेतैर्यथोद्दिष्टैः क्षारतैलं विपाचयेत्||२२८||
बाधिर्यं कर्णनादश्च पूयस्रावश्च दारुणः|
क्रिमयः कर्णशूलं च पूरणादस्य नश्यति ||२२९||
मुखकर्णाक्षिरोगेषु यथोक्तं पीनसे विधिम्|
कुर्याद्भिषक् समीक्ष्यादौ दोषकालबलाबलम्||२३०||
इति कर्णरोगचिकित्सा |
वराटकानित्यादौ तद्भस्मेति वराटकदाहभस्म| श्च्योतयेत् गालयेत्| गन्धतैलमिति सुगन्धद्रव्यकल्कयुक्तं तैलं, किंवा गन्धद्रव्याधिवासितं तिलोद्भवं तैलम्| शुष्कमूलकेत्यादिके क्षारतैले मधुशुक्तं चतुर्गुणमिति मधुप्रधानं शुक्तं चतुर्गुणम्| शुक्तं च “यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रनागरम्| धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते” इति| मातुलुङ्गकदलीरसौ तेलसमौ| अन्ये तु मधुशुक्तावुभावपि दापयन्ति; तत्र मधु तैलसमं, शुक्तं तु चतुर्गुणमिति वदन्ति; तन्नातिहृदयङ्गमं, यतो जतूकर्णे मधु न पठ्यत एव, मधुनः शुक्तग्रहणेनैव गृहीतत्वात्| उक्तं च- “मूलकभस्मशताह्वाद्विक्षारवचाचतुर्लवणकुष्ठदारुरसाञ्जननागरशोभाञ्जनहिङ्गुघनभूर्जैर्मातुलुङ्गकदलीरसैश्चतुर्गुणशुक्तैस्तैलं विपक्वं श्रुतिनादबाधिर्यशूलजन्तुघ्नम्” इति||२२१-२३०||
Adhikarana 52 (231-261) · Śloka 262
उत्पन्नमात्रे तरुणे नेत्ररोगे बिडालकः|
कार्यो दाहोपदेहाश्रुशोफरागनिवारणः||२३१||
नागरं सैन्धवं सर्पिर्मण्डेन च रसक्रिया|
निघृष्टं वातिके तद्वन्मधुसैन्धवगैरिकम्||२३२||
तथा शावरकं लोध्रं घृतभृष्टं बिडालकः|
तद्वत् कार्यो हरीतक्या घृतभृष्टो रुजापहः||२३३||
पैत्तिके चन्दनानन्तामञ्जिष्ठाभिर्बिडालकः|
कार्यः पद्मकयष्ट्याह्वमांसीकालीयकैस्तथा||२३४||
गैरिकं सैन्धवं मुस्तं रोचना च रसक्रिया|
कफे कार्या तथा क्षौद्रं प्रियङ्गुः समनःशिला||२३५||
सन्निपाते तु सर्वैः स्याद्बहिरक्ष्णोः प्रलेपनम्|
पक्ष्माण्यस्पृश्यता कार्यं सम्पक्वे त्वञ्जनं त्र्यहात्||२३६||
आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः|
कोष्णः सैरण्डतर्कारीबृहतीमधुशिग्रुभिः||२३७||
पृथ्वीकादार्विमञ्जिष्ठालाक्षाद्विमधुकोत्पलैः|
क्वाथः सशर्करः शीतः पूरणं रक्तपित्तनुत्||२३८||
नागरत्रिफलामुस्तनिम्बवासारसः कफे|
कोष्णमाश्च्योतनं मिश्रैरोषधैः सान्निपातके||२३९||
बृहत्येरण्डमूलत्वक् शिग्रोः पुष्पं ससैन्धवम्|
अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत्||२४०||
सुमनःकोरकाः शङ्खस्त्रिफला मधुकं बला|
पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा||२४१||
सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः|
फेनः शैलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत्||२४२||
अमृताह्वा बिसं बिल्वं पटोलं छागलं शकृत्|
प्रपौण्डरीकं यष्ट्याह्वं दार्वी कालानुसारिवा||२४३||
एषामष्टपलान् भागान् सुधौताञ्जर्जरीकृतान्|
तोये पक्त्वा रसे पूते भूयः पक्वे रसे घने||२४४||
कर्षं च श्वेतमरिचाज्जातीपुष्पान्नवात् पलम्|
चूर्णं क्षिप्त्वा कृता वर्तिः सर्वघ्नी दृक्प्रसादनी||२४५||
शङ्खप्रवालवैदूर्यलौहताम्रप्लवास्थिभिः|
स्रोतोजश्वेतमरिचैर्वर्तिः सर्वाक्षिरोगनुत्||२४६||
शाणार्धं मरिचाद्द्वौ च पिप्पल्यर्णवफेनयोः|
शाणार्धं सैन्धवाच्छाणा नव सौवीरकाञ्जनात्||२४७||
पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्|
कण्डूकाचकफार्तानां मलानां च विशोधनम्||२४८||
बस्तमूत्रे त्र्यहं स्थाप्यमेलाचूर्णं सुभावितम्|
चूर्णाञ्जनं हि तैमिर्यक्रिमिपिल्लमलापहम्||२४९||
सौवीरमञ्जनं तुत्थं ताप्यो धातुर्मनःशिला|
चक्षुष्या मधुकं लोहा मणयः पौष्पमञ्जनम्||२५०||
सैन्धवं शौकरी दंष्ट्रा कतकं चाञ्जनं शुभम्|
तिमिरादिषु चुर्णं वा वर्तिर्वेयमनुत्तमा||२५१||
कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं सिता|
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला||२५२||
कुक्कुटाण्डकपालानि वर्तिरेषा व्यपोहति|
तिमिरं पटलं काचं मलं चाशु सुखावती||२५३||
इति सुखावती वर्तिः |
त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः|
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः||२५४||
आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने|
सप्तरात्रं स्थितं भूयः पिष्ट्वा क्षीरेण वर्तयेत्||२५५||
एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुषः||२५६||
इति दृष्टिप्रदा वर्तिः |
वदने कृष्णसर्पस्य निहितं मासमञ्जनम्||२५६||
ततस्तस्मात् समृद्धृत्य सुशुष्कं चूर्णयेद्बुधः|
सुमनःकोरकैः शुष्कैरर्धांशैः सैन्धवेन च||२५७||
एतन्नेत्राञ्जनं कार्यं तिमिरघ्नमनुत्तमम्|
पिप्पल्यः किंशुकरसो वसा सर्पस्य सैन्धवम्||२५८||
जीर्णं घृतं च सर्वाक्षिरोगघ्नी स्याद्रसक्रिया|
कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रियाः||२५९||
शस्ता सर्वाक्षिरोगेषु काचार्बुदमलेषु च|
धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया||२६०||
पित्तरक्ताक्षिरोगघ्नी तैमिर्यपटलापहा|
धात्रीसैन्धवपिप्पल्यः स्युरल्पमरिचाः समाः||२६१||
क्षौद्रयुक्ता निहन्त्यान्ध्यं पटलं च रसक्रिया|२६२|
इति नेत्ररोगचिकित्सा |
उत्पन्नमात्रे इत्यादिना नेत्ररोगचिकित्सितमाह| बिडालकः नेत्रबहिर्लेपः शालाक्ये उच्यते| निघृष्टमित्यादौ तद्वदिति रसक्रियेत्यर्थः| हरीतकी तद्वदिति हरीतकीघृतयुक्तो बिडालकः| सन्निपाते तु सर्वैरिति प्रत्येकवाताद्युक्तबिडालकद्रव्यैः प्रलेपनं कार्यमित्यर्थः| नेत्राञ्जनं त्र्यहादित्यत्र प्रायोऽक्षिरोगाणां त्र्यहेण पाकात् त्र्यहादित्युक्तम्| पाकलक्षणं तन्त्रान्तरे- “प्रशस्तवर्त्मता चाक्ष्णोः संरम्भाश्रुप्रशान्तता| मन्दवेदनता कण्डूः पक्वाक्षिगदलक्षणम्” इति| आश्च्योतनम् अक्षिसेकः| सुमनःकोरकाः जातीमुकुलकाः| श्वेतमरिचं शोभाञ्जनबीजम्| प्लवः पक्षिविशेषः प्रसेवकगलः| द्वौ च पिप्पल्यर्णवफेनयोरिति शाणावित्यर्थः| चित्रायामिति चित्रानक्षत्रे| ताप्यो धातुः तापीनदीभवो माक्षिकधातुः| चक्षुष्या वनकुलत्थिका| पौष्पमञ्जनं पुष्पाञ्जनम्| अभिन्नचक्षुष इति अभिन्नतारकस्य| कृष्णसर्पस्येति मृतकृष्णसर्पस्य||२३१-२६१||-
Adhikarana 53 (262-282) · Śloka 282
खालित्ये पलिते वल्यां हरिलोम्नि च शोधितम्||२६२||
नस्यैस्तैलैः शिरोवक्रप्रलेपैश्चाप्युपाचरेत्|
सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि च||२६३||
नस्यं स्यादणुतैलं वा खालित्यपलितापहम्|
क्षीरात् सहचराद्भृङ्गराजाच्च सौरसाद्रसात्||२६४||
प्रस्थैस्तु कुडवस्तैलाद्यष्ट्याह्वपलकल्कितः|
सिद्धः शिलासमे भाण्डे मेषशृङ्गादिषु स्थितः||२६५||
नस्यं स्याद्भिषजा सम्यग्योजितं पलितापहम्|
भिषजा क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ||२६६||
उत्पाट्य पलिते देयौ तावुभौ पलितापहौ|
मार्कवस्वरसात् क्षीराद्द्विप्रस्थं मधुकात् पलम्||२६७||
तैः पचेत् कुडवं तैलात्तन्नस्यं पलितापहम्|
आदित्यवल्ल्या मूलानि कृष्णशैरेयकस्य च||२६८||
सुरसस्य च पत्राणि पत्रं कृष्णशणस्य च|
मार्कवः काकमाची च मधुकं देवदारु च||२६९||
पृथग्दशपलांशानि पिप्पल्यस्त्रिफलाऽञ्जनम्|
प्रपौण्डरीकं मञ्जिष्ठा लोध्रं कृष्णागुरूत्पलम्||२७०||
आम्रास्थि कर्दमः कृष्णो मृणालं रक्तचन्दनम्|
नीली भल्लातकास्थीनि कासीसं मदयन्तिका||२७१||
सोमराज्यसनः शस्त्रं कृष्णौ पिण्डीतचित्रकौ|
पुष्करार्जुनकाश्मर्याण्याम्रजम्बूफलानि च||२७२||
पृथक् पञ्चपलांशानि तैः पिष्टैराढकं पचेत्|
बैभीतकस्य तैलस्य धात्रीरसचतुर्गुणम्||२७३||
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः|
लोहपात्रे ततः पूतं संशुद्धमुपयोजयेत्||२७४||
पाने नस्यक्रियायां च शिरोभ्यङ्गे तथैव च|
एतच्चक्षुष्यमायुष्यं शिरसः सर्वरोगनुत्||२७५||
महानीलमिति ख्यातं पलितघ्नमनुत्तमम्|
इति महानीलतैलम्|
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः||२७६||
कार्षिकैस्तैलकुडवो द्विगुणामलकीरसः|
सिद्धः स प्रतिमर्शः स्यात् सर्वमूर्धगदापहः||२७७||
(पलितघ्नो विशेषेण कृष्णात्रेयेण भाषितः|) क्षीरं प्रियालयष्ट्याह्वे जीवकाद्यो गणस्तिलाः||२७८||
कृष्णा वक्त्रे प्रलेपः स्याद्धरिलोमनिवारणः|
तिलाः सामलकाश्चैव किञ्जल्को मधुकं मधु||२७९||
बृंहयेद्रञ्जयेचैतत् केशान्मूर्धप्रलेपनात्|
पचेत्सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम्||२८०||
तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशि|
तत् प्रातस्त्रिफलाधौतं स्यात् कृष्णमृदुमूर्धजम्||२८१||
अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः|
कुर्याच्छेषेषु रोगेषु क्रियां स्वां स्वाच्चिकित्सितात्|
शेषेष्वादौ च निर्दिष्टा सिद्धौ चान्या प्रवक्ष्यते||२८२||
इति खालित्यादिचिकित्सा|
खालित्ये इत्यादिना खालित्यादिचिकित्सितमाह| हरिलोम्नीति कपिललोम्नी| सहचरः झिण्टी| शिलासमे भाण्डे इति अश्ममये पात्रे वा मेषशृङ्गे संस्थितः| आदित्यपर्ण्या मूलानीति आदित्यपर्णी सूर्यावर्तः| कृष्णसैरीयकः कृष्णझिण्टी| सोमराजी बाकुची| शस्त्रं कृष्णं लोहम्| कृष्णपिण्डितचित्रकाविति कृष्णमदनकृष्णचित्रकौ| आदित्यपाकमिति आदित्यरश्मिसम्बन्धादेव पक्वम्| अत्र भागैरिति बहुवचनात् पृथग्भागे सिद्धेऽपि पृथगिति पदं न्यायसिद्धस्यापि त्रिफलापृथग्भागस्य द्योतनार्थम्| कल्कभूयस्त्वं चात्र वचनादेव भवन्नपि कल्पनीयम्| तिलाः सामलका इत्यादियोगाः केशरञ्जकाः| पचेत् सैन्धवेत्यादौ सैन्धवायश्चूर्णतण्डुलानां समत्वम्| शुद्धमिति प्रक्षालितम्| शेषेषु रोगेष्विति तृट्श्वासकासज्वररक्तपित्तशोषेषु पीनसोपद्रवतयोक्तेषु| शेषेष्वादौ च निर्दिष्टा इत्यत्र शेषशब्देन अनुक्तत्रिमर्मजरोगग्रहणम्| आदौ निर्दिष्टा इति सामान्यादिहैव दोषानुल्लेखेन त्रिमर्मजरोगोद्दिष्टा चिकित्सा ज्ञेया| सिद्धौ चान्या प्रवक्ष्यते इति त्रिमर्मीयायां सिद्धौ वक्ष्यते||२६२-२८२||
Adhikarana 54 (283-290) · Śloka 290
सर्पींष्युपरिभक्तानि स्वरभेदेऽनिलात्मके|
तैलैश्चतुष्प्रयोगैश्च बलारास्नामृताह्वयैः||२८३||
बर्हितित्तिरिदक्षाणां पञ्चमूलशृतान् रसान्|
मायूरं क्षीरसर्पिर्वा पिबेत्त्र्यूषणमेव वा||२८४||
पैत्तिके तु विरेकः स्यात् पयश्च मधुरैः शृतम्|
सर्पिर्गुडा घृतं तिक्तं जीवनीयं वृषस्य वा||२८५||
कफजे स्वरभेदे तु तीक्ष्णं मूर्धविरेचनम्|
विरेको वमनं धूमो यवान्नकटुसेवनम्||२८६||
चव्यभार्ग्यभयाव्योषक्षारमाक्षिकचित्रकान्|
लिह्याद्वा पिप्पलीपथ्ये तीक्ष्णं मद्यं पिबेच्च सः||२८७||
रक्तजे स्वरभेदे तु सघृता जाङ्गला रसाः|
द्राक्षाविदारीक्षुरसाः सघृतक्षौद्रशर्कराः||२८८||
यच्चोक्तं क्षयकासघ्नं तच्च सर्वं चिकित्सितम्|
पित्तजस्वरभेदघ्नं सिरावेधश्च रक्तजे||२८९||
सन्निपाते हिताः सर्वाः क्रिया न तु सिराव्यधः|
इत्युक्तं स्वरभेदस्य समासेन चिकित्सितम्||२९०||
इति स्वरभेदचिकित्सा|
सर्पींष्युपरिभक्तानीत्यादिना स्वभेदचिकित्सामाह| वातादिस्वरभेदलक्षणं यद्यपीह नोक्तं, तथाऽपि राजयक्ष्मचिकित्सोक्तमेव बोद्धव्यम्| यद्यपि तत्र चिकित्सोक्ता, तथाऽपीह स्वरभेदस्याधिकृतत्वात् पुनरप्युच्यते | चतुष्प्रयोगैरिति पानाभ्यङ्गगण्डूषबस्तिप्रयोगैः| बलारास्नामृताह्वयतैलानि वातव्याधौ वक्ष्यमाणानि| त्र्यूषणं कासिके प्रोक्तम्| जीवनीयघृतं वातरक्ते वक्ष्यमाणम्| वृषघृतं रक्तपितचिकित्सोक्तम्| पित्तजस्वरभेदघ्नं चिकित्सितमिति सम्बन्धः| इति स्वरभेदचिकित्सा||२८३-२९०||
Adhikarana 55 (291) · Śloka 291
भवन्ति चात्र- वातपित्तकफा नॄणां बस्तिहृन्मूर्धसंश्रयाः|
तस्मात्तत्स्थानसामीप्याद्धर्तव्या वमनादिभिः||२९१||
उक्तानुक्तचिकित्सार्थमाह- वातपित्तकफा इत्यादि| बस्तिहृन्मूर्धसंश्रया इति यथासङ्ख्येन| तत्स्थानसामीप्यादीति वातादिस्थानेषु बस्त्यादिषु च वमनादीनां कर्मणां मध्ये यस्य कर्मणः समीपदोषहरणरूपं सामर्थ्यं भवति तेन कर्मणा हर्तव्या इति||२९१||
Adhikarana 56 (292) · Śloka 292
अध्यात्मलोको वाताद्यैर्लोको वातरवीन्दुभिः|
पीड्यते धार्यते चैव विकृताविकृतैस्तथा||२९२||
वातादीनामेव विकृताविकृतानां देहपीडकधारकत्वं सदृष्टान्तमाह- अध्यात्मेत्यादि| अध्यात्मलोकः चेतनलोकः| लोक इति जगत्| अत्र दृष्टान्ते इन्दुस्थानीयः श्लेष्मा, रविस्थानीयं पित्तम्| विकृतैः पीड्यते, अविकृतैर्धार्यते इति व्यवस्था||२९२||
Adhikarana 57 (293) · Śloka 293
विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्|
दोषाः सहजसात्म्यत्वाद्विषं घोरमहीनिव||२९३||
दोषाणां परस्परगुणविरोधात् सम्भूय कार्यकरणे यथा विरोधो न भवति तदाह- विरुद्धैरपीति|- परस्परविरुद्धैरपि, यथा- श्लेष्मणः स्नेहपैच्छिल्यगौरवादीनां वातगुणै रौक्ष्यलाघवादिभिर्विपरीतानां च परस्परोपघातकत्वं यद्दृष्टं तदिह दोषसंसर्गे न भवति| कुतो न घ्नन्तीत्याह- सहजसात्म्यत्वादिति; स्वाभाविकसात्म्यीभावादित्यर्थः, सात्म्यीभावोऽनुपघातकत्वम्| अयं च स्वभावः कर्मजन्यो वा भवतु वस्तुस्वभावाधीनो वा उभयथा वा भवतु, तथाऽप्यचिन्त्य एव; दृष्टत्वाच्च नात्र युक्तिबाधा प्रभवति; तेन परस्परगुणोपघातव्यभिचारश्चन्द्रिकाकृता सुश्रुते प्रपञ्चितः स न भवति| विरुद्धस्याप्यनुपघाते दृष्टान्तमाह- घोरं विषमहीनिवेति||२९३||
Adhikarana 58 (294) · Śloka 294
तत्र श्लोकः- त्रिमर्मजानां रोगाणां निदानाकृतिभेषजम्|
विस्तरेण पृथग्दिष्टं त्रिमर्मीये चिकित्सिते||२९४||
त्रिमर्मजानामिति सङ्ग्रहो व्यक्तः||२९४||
Adhikarana puShpikA · Śloka 26
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने त्रिमर्मीयचिकित्सितं नाम षड्विंशोऽध्यायः||२६||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने त्रिमर्मीयचिकित्सितं नाम षड्विंशोऽध्यायः||२६||