Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

23. hikkāśvāsacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पाण्डुरोगकारणत्वाद्धिक्काश्वासयोः पाण्डुरोगानन्तरमभिधानम्| वक्ष्यति हि- “पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ” इति| हिक्काश्वासौ च समानकारणचिकित्सितत्वादेकाध्याये एवोक्तौ||१-२||

Adhikarana 2 (3-7) · Śloka 7

वेदलोकार्थतत्त्वज्ञमात्रेयमृषिमुत्तमम्| अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः||३|| य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः| रोगा नानात्मकास्तेषां कस्को भवति दुर्जयः||४|| अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः| उवाच परमप्रीतः परमार्थविनिश्चयम्||५|| कामं प्राणहरा रोगा बहवो न तु ते तथा| यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः||६|| अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः| अन्ते सञ्जायते हिक्का श्वासो वा तीव्रवेदनः||७||

🔊 Audio coming soon

वैदिकं लौकिकं च अर्थतत्त्वं जानातीति वेदलोकार्थतत्त्वज्ञः| द्विविधा इति सामान्यासामान्यभेदेन; किंवा मृदुदारुणभेदेन, निजानिजभेदेन च| त्रिदोषा इति वातादिभिः पृथङ्मिलितैर्वा| त्रिप्रकोपणा इति असात्म्येन्द्रियार्थसंयोगपरिणामप्रज्ञापराधकारणकाः| काममिति अनुमतौ| बहव इति ज्वर-शङ्खक-रोहिण्यादयः| यथा श्वासश्च हिक्का चेत्यनेन शीघ्रं प्राणहारित्वं हिक्काश्वासयोर्दर्शयति| अन्ते इति मरणसमये| सञ्जायते इति अवश्यं हिक्काश्वासयोरन्यतरो जायते||३-७||

Adhikarana 3 (8-9) · Śloka 9

कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ| हृदयस्य रसादीनां धातूनां चोपशोषणौ||८|| तस्मात् साधारणावेतौ मतौ परमदुर्जयौ| मिथ्योपचरितौ क्रुद्धौ हत आशीविषाविव||९||

🔊 Audio coming soon

पित्तस्थानसमुद्भवावित्यनेन पित्तस्योर्ध्वस्थानसम्बन्ध एव, नतु वातकफवदारम्भकत्वमिति दर्शयति; पित्तस्थानशब्देनामाशयोऽभिप्रेतः| साधारणाविति प्रायस्तुल्यचिकित्स्यत्वात्| आशीविषाविव दृष्टिनिःश्वासविषसर्पाविव| मिथ्योपरितोऽन्योऽपि रोगो हन्ति, तदिहाशीविषदृष्टान्तेन मिथ्योपचारे सति शीघ्रहन्तृत्वमाह||८-९||

Adhikarana 4 (10-16) · Śloka 16

पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसङ्ग्रहे| तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम्||१०|| रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात्| व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात्||११|| आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात्| दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः||१२|| अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात्| रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि||१३|| पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ| निष्पावमाषपिण्याकतिलतैलनिषेवणात्||१४|| पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात्| जलजानूपपिशितदध्यामक्षीरसेवनात्||१५|| अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात्| कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः||१६||

🔊 Audio coming soon

पृथगिति प्रत्येकं पञ्चविधौ| रोगसङ्ग्रहे इति अष्टोदरीये| अत्र च रजसेत्यादिना प्रायो वातप्रकोपकगणो विच्छिद्योक्तः प्रवर्तेति गदाविमावित्यन्तेन, निष्पावेत्यादिना कफकारणतया हिक्काश्वासयोः कफप्रकोपकहेतुगणोऽभिहितः; तदनेन वातजनककफजनकहेतुवर्गद्वयविच्छेदपाठेन वातकफयोरत्र स्वहेतुकुपितत्वेन स्वातन्त्र्यं दर्शयति, नानुबन्धरूपत्वम्||१०-१६||

Adhikarana 5 (17) · Śloka 18

मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति| उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः||१७|| घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च|१८|

🔊 Audio coming soon

मारुतः प्राणवाहीनित्यादिना सम्प्ताप्तिमाह| इयं हिक्काश्वासयोः साधारणी सम्प्राप्तिः, वैशेषिकीं चाग्रे वक्ष्यति| प्राणोपरोधायेति प्रायः प्राणहरणायेति प्रायः प्राणहरणायेत्यर्थः| पञ्च पञ्च चेति हिक्काः पश्च, श्वासाः पञ्च, इत्यर्थः||१७||-

Adhikarana 6 (18-20) · Śloka 20

उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम्||१८|| कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता| हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च||१९|| आनाहः पार्श्वशूलं च पीडनं हृदयस्य च| प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम्||२०||

🔊 Audio coming soon

लक्षणग्रहणगृहीतं पूर्वरूपं हिक्कानां ‘कण्ठोरसोः’ इत्यादिना, श्वासानाम् ‘आनाहः’ इत्यादिनाऽऽह| विलोमत्वमिति पर्याकुलत्वम्||१८-२०||

Adhikarana 7 (21-26) · Śloka 26

प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः| हिक्काः करोति संरुध्य तासां लिङ्गं पृथक् शृणु||२१|| क्षीणमांसबलप्राणतेजसः सकफोऽनिलः| गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम्||२२|| करोति सततं हिक्कामेकद्वित्रिगुणं तथा| प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च||२३|| सञ्ज्ञां मुष्णाति गात्राणां स्तम्भं सञ्जनयत्यपि| मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः||२४|| साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः| सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः||२५|| महामूला महावेगा महाशब्दा महाबला| महाहिक्केति सा नॄणां सद्यः प्राणहरा मता||२६|| इति महाहिक्का|

🔊 Audio coming soon

प्राणोदकेत्यादिना विशिष्टहिक्कासम्प्राप्तिमाह| क्षीणमांसबलप्राणतेजस इति अत्र प्राणो वायुः, उत्साहो वा; तेजोऽग्निः| उच्चैर्गृहीत्वा घोषवतीमिति योज्यम्| द्विसन्ततां त्रिसन्ततामनेकगुणां वा करोति; तत्र द्विसन्तता एकोपक्रमे वारद्वयं भवति| संरुध्योष्माणमिति देहोष्माणम्| संसक्तवचनतया प्रलापो यस्य स सक्तजल्पप्रलापः| महामूलेति गम्भीराश्रयदोषमूला| महाशब्दत्वं च उच्चैर्घोषवतीमित्यनेनैवोक्तमपि महाहिक्कासञ्ज्ञोपादानार्थमिह पुनरुक्तं, तेन ‘महाहिक्का’ इति सञ्ज्ञा||२१-२६||

Adhikarana 8 (27-30) · Śloka 30

हिक्कते यः प्रवृद्धस्तु कृशो दीनमना नरः| जर्जरेणोरसा कृच्छ्रं गम्भीरमनुनादयन्||२७|| सञ्जृम्भन् सङ्क्षिपंश्चैव तथाऽङ्गानि प्रसारयन्| पार्श्वे चोभे समायम्य कूजन् स्तम्भरुगर्दितः||२८|| नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते| क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः||२९|| रुणद्ध्युच्छ्वासमार्गं तु प्रनष्टबलचेतसः| गम्भीरा नाम सा तस्य हिक्का प्राणान्तिकी मता||३०|| इति गम्भीरा हिक्का|

🔊 Audio coming soon

तत्र हिगिति कायति शब्दं करोतीति हिक्का| गम्भीरमनुनादयन्निति हिक्काया अनु गम्भीरं शब्दं कुर्वन्| सङ्क्षिपन्नङ्गानीति योज्यम्| गम्भीरदेशभवत्वाद् ‘गम्भीरा’ इति सञ्ज्ञा||२७-३०||

Adhikarana 9 (31-33) · Śloka 33

व्यपेता जायते हिक्का याऽन्नपाने चतुर्विधे| आहारपरिणामान्ते भूयश्च लभते बलम्||३१|| प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः| जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनः||३२|| पर्याध्मातस्य हिक्का या जत्रुमूलादसन्तता| सा व्यपेतेति विज्ञेया हिक्का प्राणोपरोधिनी||३३|| इति व्यपेता हिक्का|

🔊 Audio coming soon

व्यपेता परिणतेत्यर्थः| आहारपरिणामान्ते इति आहारपरिणामे वृत्ते; एतेनाहारेऽपि उत्पद्यते, अन्ते बलवती भवति तां ‘व्यपेता’ इति सञ्ज्ञया दर्शयति| विनामिन इति शरीरविनामकस्य| असन्ततेति अनतिदीर्घा||३१-३३||

Adhikarana 10 (34-37) · Śloka 37

क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः| कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः||३४|| अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी| न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति||३५|| वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम्| यतः प्रवर्तते पूर्वं तत एव निवर्तते||३६|| हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता| मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता||३७|| इति क्षुद्रहिक्का|

🔊 Audio coming soon

क्षुद्रेत्यादिना क्षुद्रहिक्कामाह| क्षुद्रवातः अल्पवातः; केचित् क्षुद्रवातमुदानमाहुः| आयस्यत इति आयासं कुर्वतः मार्दवं यातीति सम्बन्धः| यतः प्रवर्तते पूर्वं तत एव निवर्तत इति उत्पद्यमानैव निवर्तमानवेगा भवति; महाहिक्कादिवदनुबद्धा न भवति; उत्पादकहेतोर्व्यायामादेरेव निवर्तते, व्यायामादिना हिक्काजनकवातस्य क्षुद्रस्य विक्षेपात् सम्प्राप्तिभङ्गेनेति भावः| क्षुद्रवातजनितात्वात् क्षुद्रा हिक्का||३४-३७||

Adhikarana 11 (38-41) · Śloka 41

सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः| ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः||३८|| तथाऽतिरोषभाष्याध्वहास्यभारातिवर्तनैः| वायुः कोष्ठगतो धावन् पानभोज्यप्रपीडितः||३९|| उरःस्रोतः समाविश्य कुर्याद्धिक्कां ततोऽन्नजाम्| तथा शनैरसम्बन्धं क्षुवंश्चापि स हिक्कते||४०|| न मर्मबाधाजननी नेन्द्रियाणां प्रबाधिनी| हिक्का पीते तथा भुक्ते शमं याति च साऽन्नजा||४१|| इत्यन्नजा हिक्का|

🔊 Audio coming soon

सहसेत्यादिनाऽन्नजामाह| इयं च यद्यपि अन्नजा उक्ता, तथाऽपि दोषादिजनितैव| पानभोज्यप्रपीडित इत्यनेनान्नस्य कारणत्वेनोक्तत्वादियम् ‘अन्नजा’ इतिसञ्ज्ञा||३८-४१||

Adhikarana 12 (42-44) · Śloka 44

अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च| व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः||४२|| आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्| यमिका च प्रलापार्तितृष्णामोहसमन्विता||४३|| अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः| तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा||४४||

🔊 Audio coming soon

अतीत्यादिना साध्यासाध्यविभागमाह| अतिशयेन सञ्चिता दोषा यस्य स तथा| भक्तच्छेदकृशस्येति अभोजनदुर्बलस्य| आसां पञ्चानां या हिक्का अतीत्यादिना प्रोक्तलक्षणस्य पुरुषस्य भवति सा जीवितं हन्ति| यमिका चेत्यनेन क्षुद्रा अन्नजा च या साध्यत्वेनोक्ता सा यमलवेगेन जायमाना यमिका ज्ञेया; पूर्वोक्तानुवेगेन या जायमाना सा महाहिक्का, सा स्वरूपेणैवासाध्या, तस्या अतीत्यादियोगेनासाध्यताविधानमनर्थकम्| तथा महत्यादिहिक्कानां तिसॄणामसम्पूर्णलक्षणानां साध्यत्वं, क्षुद्रान्नजयोस्तु सम्पूर्णलक्षणयोरपि साध्यत्वं, महाहिक्कादित्रयं निसर्गत एवासाध्यम्| अन्ये तु ब्रुवते- महाहिक्कादयोऽपि कदाचित् साध्या भवन्त्येव, तत्र प्राणान्तिकेति वचनं प्रायः प्राणहरा इत्यभिप्रायेणोक्तम्| तथाहि जतूकर्णे- “आद्या दुःसाध्या, यमिका तृष्णामोहवतां सद्यःप्राणहृत्, गम्भीरा व्यपेते च” इत्युक्तम्| अक्षीण इति अक्षीणमांसः||४२-४४||

Adhikarana 13 (45) · Śloka 45

यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः| विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः||४५||

🔊 Audio coming soon

यदेत्यादिना श्वाससम्प्राप्तिमाह| स्रोतांसीति प्रकृतत्वात् प्राणोदकवाहीनि स्रोतांसि| कफपूर्वक इति कफप्रधानः| विष्वग्व्रजति सर्वतो गच्छति||४५||

Adhikarana 14 (46-48) · Śloka 48

उद्धूयमानवातो यः शब्दवहुःखितो नरः| उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम्||४६|| प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः| विकृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक्||४७|| दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्| महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते||४८|| इति महाश्वासः|

🔊 Audio coming soon

उद्धूयमानेत्यादिना महाश्वासलक्षणमाह| उद्धूयमान इति ऊर्ध्वं धूयमानवातः| उच्चैरिति दीर्घम्| मत्तर्षभः मत्तबलीवर्दः| दीन इति दीनवत्| ‘दीनं प्रश्वसितं’ इति वा पाठः; तदा हि प्रश्वसितस्य दीनत्वे ‘दूराद्विज्ञायते’ इति यद्वक्ष्यति तदनुपपन्नं स्यात्||४६-४८||

Adhikarana 15 (49-51) · Śloka 51

दीर्घं श्वसिति यस्तूर्ध्वं न च प्रत्याहरत्यधः| श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः||४९|| ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः| प्रमुह्यन् वेदनार्तश्च शुष्कास्योऽरतिपीडितः||५०|| ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते| मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून्||५१|| इत्यूर्ध्वश्वासः|

🔊 Audio coming soon

दीर्घमित्यादिनोर्ध्वश्वासमाह| दीर्घं श्वसिति श्वासस्य बहिर्निर्गमनं दीर्घकालं करोति| न च प्रत्याहरत्यध इति श्वासमधो न नयति| क्रुद्धगन्धवहः दुष्टवायुः| श्वासस्य दीर्घकालमुद्धूयने अधोऽनयने चोक्ते हेतुमाह- ऊर्ध्वश्वासे इत्यादिना||४९-५१||

Adhikarana 16 (52-54) · Śloka 54

यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः| न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः||५२|| आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना| विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः||५३|| विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः| छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून्||५४|| इति छिन्नश्वासः|

🔊 Audio coming soon

यस्त्वित्यादिना छिन्नश्वासलक्षणमाह| श्वसिति विच्छिन्नमिति निःश्वस्य पुनः क्षणान्तेन श्वसिति| न वा श्वसिति न श्वासं लभते| मर्मच्छेदरूपा रुक्| बस्तिनिरोधः मूत्रनिरोध इत्यर्थः| रक्तैकलोचनत्वमिह व्याधिप्रभावात्| विच्छिन्नः विमुक्तसन्धिबन्धः| एते त्रयः श्वासा निसर्गतोऽसाध्याः||५२-५४||

Adhikarana 17 (55-62) · Śloka 62

प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते| ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च||५५|| करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा| अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम्||५६|| प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते| प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः||५७|| श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः| तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम्||५८|| अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्| न चापि निद्रां लभते शयानः श्वासपीडितः||५९|| पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः| आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति||६०|| उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्| विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते||६१|| मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते| स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः||६२|| इति तमकश्वासः|

🔊 Audio coming soon

प्रतिलोममित्यादिना तमकश्वासमाह| श्लेष्माणं समुदीर्य चेत्यनेन सामान्यसम्प्राप्त्युक्तस्यापि श्लेष्मणः पुनरभिधानादिह विशेषेण कारणत्वं दर्शयति| घुर्घुरुकमिति कण्ठे घुर्घुरुकशब्दम्| सन्निरुध्यते इति निश्चेष्टो भवति| तस्यैव चेति ‘श्लेष्मणः’ इति शेषः| आसीन उपविष्टः| उच्छ्रिताक्ष इति उच्छूनाक्षः| मुहुश्चैवावधम्यते इति क्षणं क्षणं श्वसनेन वायुनाऽवधम्यते||५५-६२||

Adhikarana 18 (63-64) · Śloka 64

ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम्| उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः||६३|| तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति| मज्जतस्तमसीवाऽस्य विद्यात् सन्तमकं तु तम्||६४|| इति प्रतमकसन्तमकश्वासौ|

🔊 Audio coming soon

पित्तसम्बन्धाज्ज्वरादियोगेन तमकस्यैव प्रतमकसञ्ज्ञां दर्शयन्नाह- ज्वरेत्यादि| उदावर्तेत्यादिना प्रतमकहेतुलक्षणे प्राह| प्रतमक एव सन्तमकः| रजो धूलिः, कायनिरोधो वेगानां निरोधः; किंवा क्लिन्नकायो वृद्धः, निरोधः वेगनिरोधः| तमसेति अन्धकारेण, किंवा तमसा तमोगुणेन| यद्यपि तमकस्य शीतेन वृद्धिरुक्ता, तथाऽपि प्रतमकस्य पित्तसम्बन्धत्वात् ‘शीतैश्चाशु प्रशाम्यति’ इति यदुक्तं तदुपपन्नं भवति; किंवा यथा मद्योत्थविकारस्य मद्यं प्रशमनं भवति, तथा शीतसमुत्थस्यापि तदात्वमात्रे शीतैः प्रशमनं ज्ञेयम्| प्रतमकस्तमकभेद एवेति कृत्वा श्वासानां पञ्चसङ्ख्यासिद्धिः||६३-६४||

Adhikarana 19 (65-67) · Śloka 68

रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्| क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः||६५|| हिनस्ति न स गात्राणि न च दुःखो यथेतरे| न च भोजनपानानां निरुणद्ध्युचितां गतिम्||६६|| नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम्| स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः||६७|| इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः|६८|

🔊 Audio coming soon

रूक्षेत्यादिना क्षुद्रश्वासमाह| रूक्षादायासाच्च उद्भवो यस्य स रूक्षायासोद्भवः| क्षुद्रवात इति स्वल्पवातः| न सोऽत्यर्थमिति नात्यर्थं दुःखकरः| न दुःख इति न दुःखसाध्यः| सर्वे चाव्यक्तलक्षणा इत्यनेन साध्यत्वेनोक्तानां महाश्वासादीनां व्यक्तसर्वलक्षणताव्यतिरिक्तायामेवावस्थायां साध्यतां प्रतिपादयति||६५-६७||-

Adhikarana 20 (68-69) · Śloka 69

एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः||६८|| भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत्| उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः||६९||

🔊 Audio coming soon

प्राणहरा महाश्वासादयः सम्पूर्णलक्षणा वर्ज्याः| साध्ययाप्यानिति बहुवचनं साध्ययाप्यभेदबहुत्वाज्ज्ञेयम्||६८-६९||

Adhikarana 21 (70-76) · Śloka 76

कारणस्थानमूलैक्यादेकमेव चिकित्सितम्| द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत||७०|| हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत्| आक्तं लवणतैलेन नाडीप्रस्तरसङ्करैः||७१|| तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते| खानि मार्दवमायान्ति ततो वातानुलोमता||७२|| यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम्| श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा||७३|| स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम्| मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा||७४|| ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम्| पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत्||७५|| निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे| स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः||७६||

🔊 Audio coming soon

सम्प्रति भिन्नयोरपि हिक्काश्वासयोर्यथा समानं चिकित्सितं भवति तथा दर्शयन् समानं चिकित्सितमाह- कारणेत्यादि| कारणं बाह्यकारणं, स्थानं नाभ्यादि, मूलं दोषः| स्निग्धैरिति स्वेदैरित्यस्य विशेषणम्; अन्ये तु स्निग्धमिति पठन्ति| लवणवत्तैलं लवणतैलम्| कुञ्जेष्विति विटपेषु | मत्स्यादीनामित्यादौ मत्स्यादीनामपि रसः स्वरसः कल्केन कर्तव्यः| दध्युत्तरं दधिसरः| ईदृशं च भोजनं वमनानुगुणकफवृद्ध्यर्थम्| उक्तं हि- “श्लेष्मोत्तरश्छर्दयति ह्यदुःखम्” (सि.अ.१) इति| वाताविरोधीत्यनेन अन्नं रूक्षं, तीक्ष्णं च वमनं, निषेधयति| दुष्टः विग्रहो यस्य स दुष्टविग्रहः||७०-७६||

Adhikarana 22 (77-80) · Śloka 80

लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः| हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम्||७७|| सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्| तां घृताक्तां पिबेद्धूमं यवैर्वा घृतसंयुतैः||८७|| मधूच्छिष्टं सर्जरसं घृतं मल्लकसम्पुटे| कृत्वा धूमं पिबेच्छृङ्गं बालं वा स्नायु वा गवाम्||७९|| स्योनाकवर्धमानानां नाडीं शुष्कां कुशस्य वा| पद्मकं गुग्गुलुं लोहं शल्लकीं वा घृताप्लुतम्||८०||

🔊 Audio coming soon

वमनशेषदोषहरणार्थं धूममाह- लीन इत्यादिना| एतेन धूमो वमनं विनाऽपि स्वल्पदोषे कर्तव्य एव, तत्रापि धूमविषयदोषस्य विद्यमानत्वात्| अलं हरितालम्| धूमवर्तिस्तु तस्याशीतीयोक्तधूमवर्तिविधानेन कर्तव्या| अत्र च धूमपाननलिकामानं वक्ष्यमाणकासहरधूमनलिकामानसमानमिच्छन्ति, हिक्काश्वासयोरपि काससमानत्वात्| मधूच्छिष्टं सिक्थकम्| मल्लकसम्पुटे चात्रानुक्तमपि पातव्यधूमनिर्गमार्थमूर्ध्वं च्छिद्रं कर्तव्यम्| पद्मकादिष्वपि मल्लकेत्याद्यनुवर्तते| वर्धमान एरण्डः| लोहः अगरुः| शल्लकी स्वनामख्याता||७७-८०||

Adhikarana 23 (81) · Śloka 81

स्वरक्षीणातिसारासृक्पित्तदाहानुबन्धजान्| मधुरस्निग्धशीताद्यैर्हिक्काश्वासानुपाचरेत्||८१||

🔊 Audio coming soon

शीताद्यैरित्यादिशब्देन पित्तहरपिच्छिलादिग्रहणम्||८१||

Adhikarana 24 (82-87) · Śloka 87

न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः| क्षीणधातुबला रूक्षा गर्भिण्यश्चापि पित्तलाः||८२|| कोष्णैः काममुरःकण्ठं स्नेहसेकैः सशर्करैः| उत्कारिकोपनाहैश्च स्वेदयेन् मृदुभिः क्षणम्||८३|| तिलोमामाषगोधूमचूर्णैर्वातहरैः सह| स्नेहैश्चोत्कारिका साम्लैः सक्षीरैर्वा कृता हिता||८४|| नवज्वरामदोषेषु रूक्षस्वेदं विलङ्घनम्| समीक्ष्योल्लेखनं वाऽपि कारयेल्लवणाम्बुना||८५|| अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिषक्| रसाद्यैर्नातिशीतोष्णैरभ्यङ्गैश्च शमं नयेत्||८६|| उदावर्ते तथाऽऽध्माने मातुलुङ्गाम्लवेतसैः| हिङ्गुपीलुबिडैश्चान्नं युक्तं स्यादनुलोमनम्||८७||

🔊 Audio coming soon

पित्तदाहार्ता इति पित्तार्ता दाहार्ताश्च| रक्तं स्वेदश्चातिवर्तमानौ येषां ते रक्तस्वेदातिवर्तिनः| पित्तलाः पित्तप्रकृतयः| कोष्णैरित्यादिना स्वेद्यानां स्थानविशिष्टं स्वेदमाह| काममिति इच्छायां सत्याम्, उत्कारिकोपनाहैः स्वेदयेत्| उल्लेखनं वमनम्| अतियोगोद्धतमिति वमनाद्यतियोगवृद्धं; किंवा अतियोगेन अतिमात्रोद्धतम्||८२-८७||

Adhikarana 25 (88-90) · Śloka 90

हिक्काश्वासामयी ह्येको बलवान् दुर्बलोऽपरः| कफाधिकस्तथैवैको रूक्षो बह्वनिलोऽपरः||८८|| ककाधिके बलस्थे च वमनं सविरेचनम्| कुर्यात् पथ्याशिने धूमलेहादिशमनं ततः||८९|| वातिकान् दुर्बलान् बालान् वृद्धांश्चानिलसूदनैः| तर्पयेदेव शमनैः स्नेहयूषरसादिभिः||९०||

🔊 Audio coming soon

चिकित्साभेदार्थं हिक्काश्वासिनोऽवस्थाभेदमाह- हिक्केत्यादि| एताश्चतस्रोऽवस्थाः साक्षादुक्ताः- बलवान्, दुर्बलः, वाताधिकः, कफाधिकश्चेति; रूक्षबह्वनिलविशेषणेनापि रूक्षस्निग्धावस्थाद्वयम्| तत्र बहुकफे बलरूपसूचिते चावस्थाद्वये क्रियां ब्रूते- कफाधिके इत्यादि| तत इति वमनविरेचनानन्तरम्| तथा चापरेऽवस्थाद्वये समानचिकित्सितमाह- वातिकानित्यादि| बालवृद्धयोश्चात्रासम्पूर्णक्षीणधातुत्वेन दुर्बलयोर्दुर्बलोदाहरणार्थमेवोपादानम्| एतच्च सङ्क्षेपेण चिकित्सासूत्रमुक्तम्| तेन बलवान् वाताधिक इत्याद्यवस्थायां मिश्रितायामुक्तचिकित्साया अपि मिश्रणं कल्पनीयं; यथा- प्रत्येकदोषोक्तचिकित्सा दोषसंसर्गे विकल्प्यते||८८-९०||

Adhikarana 26 (91-93) · Śloka 93

अनुत्क्लिष्टकफास्विन्नदुर्बलानां विशोधनात्| वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्||९१|| दृढान् बहुकफांस्तस्माद्रसैरानूपवारिजैः| तृप्तान्विशोधयेत्स्विन्नान् बृंहयेदितरान् भिषक्||९२|| बर्हितित्तिरिदक्षाश्च जाङ्गलाश्च मृगद्विजाः| दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः||९३||

🔊 Audio coming soon

अविषयप्रविष्टशोधने दोषमाह- अनुत्क्लिष्टेत्यादिना| मर्म इति हृदयादीनि| दृढानिति बलवतः| रसैरानूपवारिजैस्तृप्तानित्यनेन कफोत्क्लेशकरणे तृप्तिं दर्शयति| स्विन्नानिति स्वेदितान्| इतरानिति दुर्बलान् बहुवातांश्च| कफाधिकायामवस्थायां तर्पणरूपविपरीतक्रियाकरणेऽनुक्तेऽपि कफवृद्ध्या दोषोत्क्लेश एव ज्ञेयः| इह दशमूलरसादौ बर्हितित्तिरादीनां सिद्धिः रसविधानेनैव ज्ञेया||९१-९३||

Adhikarana 27 (94-104) · Śloka 104

निदिग्धिकां बिल्वमध्यं कर्कटाख्यां दुरालभाम्| त्रिकण्टकं गुडूचीं च कुलत्थांश्च सचित्रकान्||९४|| जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः| सनागरः सलवणः स्याद्यूषो भोजने हितः||९५|| रास्नां बलां पञ्चमूलं ह्रस्वं मुद्गान् सचित्रकान्| पक्त्वाऽम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत्||९६|| पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च| पक्त्वा मुद्गांश्च सव्योषान् क्षारयूषं विपाचयेत्||९७|| दत्त्वा सलवणं क्षारं शिग्रूणि मरिचानि च| युक्त्या संसाधितो यूषो हिक्काश्वासविकारनुत्||९८|| कासमर्दकपत्राणां यूषः शोभाञ्जनस्य च| शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः||९९|| सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः| शालिषष्टिकगोधूमयवान्नान्यनवानि च||१००|| हिङ्गुसौवर्चलाजाजीबिडपौष्करचित्रकैः| सिद्धा कर्कटशृङ्ग्या च यवागूः श्वासहिक्किनाम्||१०१|| दशमूलीशटीरास्नापिप्पलीमूलपौष्करैः| शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः||१०२|| यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः| कासहृद्ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये||१०३|| पुष्कराह्वशटीव्योषमातुलुङ्गाम्लवेतसैः| योजयेदन्नपानानि ससर्पिर्बिडहिङ्गुभिः||१०४||

🔊 Audio coming soon

निदिग्धिकामित्यादि| यूषविधानसामान्यपठितस्यापि कुलत्थस्य यूषप्रकृतित्वाद्यूषसाधनोपयौगिकं मानं गृह्यते; शेषद्रव्यं तु यूषसाधनमानेन गृह्यते| पिप्पलीसाधिते घृते पिप्पलीयुक्ते घृते वा भर्जित इति पिप्पलीघृतभर्जितः| एवं रास्नामित्यादौ रसस्य प्राधान्यम्| पूर्ववदित्यनेन पिप्पलीघृतभर्जनादिकमतिदिशति| क्षारेण युक्तो यूषः क्षारयूषः, क्षारः अपामार्गादिः| कासमर्दादीनां यथायोग्यतया प्रक्षेपः| जलमानादिना संस्कार उन्नेयः| दशमूलीत्यादौ कषायशब्दः पानीयस्थानविहितत्वादर्धशृते जले एव वर्तते||९४-१०४||

Adhikarana 28 (105-120) · Śloka 120

दशमूलस्य वा क्वाथमथवा देवदारुणः| तृषितो मदिरां वाऽपि हिक्काश्वासी पिबेन्नरः||१०५|| पाठां मधुरसां रास्नां सरलं देवदारु च| प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत्||१०६|| तं मन्दलवणं कृत्वा भिषक् प्रसृतसम्मितम्| पाययेत्तु ततो हिक्का श्वासश्चैवोपशाम्यति||१०७|| हिङ्गु सौवर्चलं कोलं समङ्गां पिप्पलीं बलाम्| मातुलुङ्गरसे पिष्टमारनालेन वा पिबेत्||१०८|| सौवर्चलं नागरं च भार्गीं द्विशर्करायुतम्| उष्णाम्बुना पिबेदेतद्धिक्काश्वासविकारनुत्||१०९|| भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा| पीतद्रुचित्रकास्फोतामूर्वाणां चाम्बुना पिबेत्||११०|| मधूलिका तुगाक्षीरी नागरं पिप्पली तथा| उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे||१११|| श्वाविधं शशमांसं च शल्लकस्य च शोणितम्| पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे||११२|| सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम्| शाल्योदनस्यानुपानं वातपित्तानुगे हितम्||११३|| शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः| पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः||११४|| मधुकं पिप्पलीमूलं गुडो गोश्वशकृद्रसः | घृतं क्षौद्रं कासश्वासहिक्काभिष्यन्दिनां शुभम्||११५|| खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च| शकृद्रसं बहुकफे चैकैकं मधुना पिबेत्||११६|| क्षारं चाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसर्पिषा| मयूरपादनालं वा शकलं शल्लकस्य वा||११७|| श्वाविज्जाण्डकचाषाणां रोमाणि कुररस्य वा| शृङ्ग्येकद्विशफानां वा चर्मास्थीनि खुरांस्तथा||११८|| सर्वाण्येकैकशो वाऽपि दग्ध्वा क्षौद्रघृतान्वितम्| चूर्णं लीढ्वा जयेत् कासं हिक्कां श्वासं च दारुणम्||११९|| एते हि कफसंरुद्धगतिप्राणप्रकोपजाः | तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे||१२०||

🔊 Audio coming soon

आस्फोता अपरमल्लिकेति ख्याता| मधूलिका अल्पगोधूमाः| श्वाविधमिति शल्लकस्य मांसम्| मयूरपादनालमिति नालं मयूरपिच्छस्यैव नालम्| घृतमत्र प्रस्थमानम्| शकलमिति मत्स्यशकलाकारम्| जाण्डकः मरुदेशोद्भवः प्राणी पृष्ठमात्रे सङ्कोचमुपयाति| एकोऽद्विविधाभिन्नः शफो येषां ते एकशफा अश्वादयः, द्विशफा हरिणादयः| तन्मार्गशुद्ध्यर्थमिति प्राणमार्गशुद्ध्यर्थम्||१०५-१२०||

Adhikarana 29 (121-122) · Śloka 122

कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्| वातश्लेष्महरैर्युक्तं तमके तु विरेचनम्||१२१|| उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्| यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत्||१२२||

🔊 Audio coming soon

कासिन इति हिक्काश्वासयुक्त एव कासी| उदीर्यत इत्यादौ अनिलः कफमार्गनिरोधादुदीर्यत इति दर्शयति||१२१-१२२||

Adhikarana 30 (123-124) · Śloka 124

शटीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम्| सुरसं तामलक्येला पिप्पल्यगुरु नागरम्||१२३|| वालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम्| सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत्||१२४||

🔊 Audio coming soon

शटीत्यादिके समं चूर्णमिति वालकान्तं द्रव्यं समम्| अष्टगुणशर्करमिति एकभागापेक्षयाऽष्टगुणशर्करम्| सर्वथेति पानभोजनलेहादिषु||१२३-१२४||

Adhikarana 31 (125-128) · Śloka 128

मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम्| ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् ||१२५|| ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम् | जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः||१२६|| एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा| हिक्कां श्वासं च कासं च लीढमाशु नियच्छति||१२७|| अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः| मल्यं कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत्||१२८|| इति मुक्ताद्यं चूर्णम्|

🔊 Audio coming soon

मुक्तेत्यादौ ससारः स्फटिक एव| लवणद्वयं सौवर्चलं सैन्धवं च| सौगन्ध्यं माणिक्यभेदः| सीसकं सौवीराञ्जनं, केचित् कसेरुकमिषन्नीलपीतमणिमाहुः| पाणितलं कर्षः| मल्यमिति मलदिग्धाक्षिताम्||१२५-१२८||

Adhikarana 32 (129-134) · Śloka 134

शटीपुष्करमूलानां चूर्णमामलकस्य च| मधुना संयुतं लेह्यं चूर्णं वा काललोहजम्||१२९|| सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम्| तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा||१३०|| लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा| नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम्||१३१|| सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम्| नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा||१३२|| नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि| पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति||१३३|| सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः| पाने नस्तःक्रियायां वा शर्करामधुसंयुतम्||१३४||

🔊 Audio coming soon

काललोहो लोह एव, केचित्तीक्ष्णं लोहं वर्णयन्ति| गृञ्जनकं लोहितपलाण्डुः| माक्षिकीमिति मक्षिकाभवाम्| मधुरकैरिति जीवनीयैः| सकृदिति कदाचित्| व्यत्यासादिति विपर्यासात्; उष्णं पयः कृत्वा शीतं कर्तव्यम्| मधुसंयोगश्चात्र विरुद्धत्वादुष्णे न कर्तव्यः||१२९-१३४||

Adhikarana 33 (135-140) · Śloka 141

अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति| पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः||१३५|| लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान्| लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा||१३६|| शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम्| क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः||१३७|| हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम्| वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः||१३८|| हिक्काश्वासानुबन्धा ये शुष्कोरःकण्ठतालुकाः| प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत्||१३९|| दशमूलरसे सर्पिर्दधिमण्डे च साधयेत्| कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः||१४०|| कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत्|१४१|

🔊 Audio coming soon

अधोभागैरिति विरेचनद्रव्यैः| दशमूलीत्यादौ दधिमण्डः मस्तुः| दशमूलक्वाथदधिमण्डानां च मिलित्वा चातुर्गुण्यम्| वयस्था ब्राह्मी| कायस्था सुरसा||१३५-१४०||-

Adhikarana 34 (141-144) · Śloka 144

तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी||१४१|| भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी| सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका||१४२|| तालीसपत्रं जीवन्ती वचा तैरक्षसम्मितैः| हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे||१४३|| एतद्यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः| शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च||१४४|| इति तेजोवत्यादिघृतम्|

🔊 Audio coming soon

तेजोवत्यादौ तेजोवती चविका| हिङ्गुपादैरित्यत्र हिङ्गुपादशब्देन हिङ्गु एककर्षापेक्षया शाणमानं गृह्यते| तथाहि अयमेव योगो हारीतेन “तेजोवती” इत्यादिना पठित्वा उक्तः- “कल्कैस्तैरक्षसम्मितैः| हिङ्गुशाणेन संयुक्तैर्घृतप्रस्थं विपाचयेत्” इत्यादि||१४१-१४४||

Adhikarana 35 (145-146) · Śloka 146

मनःशिलासर्जरसलाक्षारजनिपद्मकैः| मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः||१४५|| जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्धृतम्| त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा||१४६|| इति मनःशिलादिघृतम्|

🔊 Audio coming soon

वासाघृतमिति गुल्मोक्तम्| त्र्यूषणमिति “त्र्यूषणं त्रिफलां” (चि.अ.१८) इत्यादिना त्र्यूषणसञ्ज्ञयैव कासचिकित्सिते वक्ष्यमाणम्||१४५-१४६||

Adhikarana 36 (147-150) · Śloka 150

यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम्| भेषजं पानमत्रं वा तद्धितं श्वासहिक्किने||१४७|| वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्| कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्||१४८|| सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्| नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्शने||१४९|| तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि| हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत्||१५०||

🔊 Audio coming soon

अनुक्तचिकित्सापक्षग्रहणार्थमाह- यत्किञ्चिदित्यादि| अनैकान्तिकं कर्तव्यविधिमाह- वातकृदित्यादि| अत्र हिक्काश्वासयोश्चिकित्सिते विधित्रयं- तत्र तावत् कफवातहरं प्रधानमेवोक्तं, यत्तु अवशिष्टं तत्र दोषस्य विद्यमानतया अनैकान्तेन करणं ज्ञेयम्, एवमुक्तेऽपि अनैकान्तेन चिकित्साद्वयकरणे वातहरस्यैव प्राधान्यं ज्ञेयम्| ताभ्यामित्यादि| अनिलापहं च बृंहणं समानं भवति| तत्रोपपत्तिमाह- सर्वेषामित्यादिना| गदान्तरानपि ज्वरादीन् हिक्काश्वासवद्बृंहणार्हानाह- बृंहणे क्रियमाणे ह्यल्पोऽपायो भवति; शक्यः प्रतीकारो भवति, बृंहणजनितबलानां सुखजयव्यापत्तिकत्वादिति भावः| शमने तु नात्यर्थमपायो भवति| कर्शने तु क्रियमाणेऽशक्योऽपायो भवति भृशश्च भवति| अशक्य इति असाध्यः| एतदपि कर्शनेन अल्पबले पुरुषे भेषजादिना रोगजयस्य दुःशकत्वादिति ज्ञेयम्| अत एव शमनैर्बृहणैरिति उपसंहारं करिष्यति| किंवा बृंहणरूपे शमने क्रियमाणे नावश्यमपायो भवति, भवन्नपि अल्पः शक्यश्च भवति, कर्शने तु क्रियमाणे अपायो भवतीति योज्यम्| न्यायोपपादितं बृंहणशमनं बृंहणं वा प्रायः कर्तव्यतयोपसंहरन्नाह- तस्मादित्यादि| अत्र शमनमशुद्धविषयं, बृंहणं च शुद्धविषयं केचिदाहुः; शमनस्यैव तु बृंहणत्वं केचिदुदाहरन्ति||१४७-१५०||

Adhikarana 37 (151) · Śloka 151

तत्र श्लोकः- दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम्| लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम्||१५१||

🔊 Audio coming soon

दुर्जय इत्यादिकोऽध्यायार्थसङ्ग्रहो व्यक्तः||१५१||

Adhikarana puShpikA · Śloka 17

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः||१७||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः||१७||