Adhikarana 1 (1-2) · Śloka 2
अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पाण्डुरोगकारणत्वाद्धिक्काश्वासयोः पाण्डुरोगानन्तरमभिधानम्| वक्ष्यति हि- “पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ” इति| हिक्काश्वासौ च समानकारणचिकित्सितत्वादेकाध्याये एवोक्तौ||१-२||
Adhikarana 2 (3-7) · Śloka 7
वेदलोकार्थतत्त्वज्ञमात्रेयमृषिमुत्तमम्|
अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः||३||
य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः|
रोगा नानात्मकास्तेषां कस्को भवति दुर्जयः||४||
अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः|
उवाच परमप्रीतः परमार्थविनिश्चयम्||५||
कामं प्राणहरा रोगा बहवो न तु ते तथा|
यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः||६||
अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः|
अन्ते सञ्जायते हिक्का श्वासो वा तीव्रवेदनः||७||
वैदिकं लौकिकं च अर्थतत्त्वं जानातीति वेदलोकार्थतत्त्वज्ञः| द्विविधा इति सामान्यासामान्यभेदेन; किंवा मृदुदारुणभेदेन, निजानिजभेदेन च| त्रिदोषा इति वातादिभिः पृथङ्मिलितैर्वा| त्रिप्रकोपणा इति असात्म्येन्द्रियार्थसंयोगपरिणामप्रज्ञापराधकारणकाः| काममिति अनुमतौ| बहव इति ज्वर-शङ्खक-रोहिण्यादयः| यथा श्वासश्च हिक्का चेत्यनेन शीघ्रं प्राणहारित्वं हिक्काश्वासयोर्दर्शयति| अन्ते इति मरणसमये| सञ्जायते इति अवश्यं हिक्काश्वासयोरन्यतरो जायते||३-७||
Adhikarana 3 (8-9) · Śloka 9
कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ|
हृदयस्य रसादीनां धातूनां चोपशोषणौ||८||
तस्मात् साधारणावेतौ मतौ परमदुर्जयौ|
मिथ्योपचरितौ क्रुद्धौ हत आशीविषाविव||९||
पित्तस्थानसमुद्भवावित्यनेन पित्तस्योर्ध्वस्थानसम्बन्ध एव, नतु वातकफवदारम्भकत्वमिति दर्शयति; पित्तस्थानशब्देनामाशयोऽभिप्रेतः| साधारणाविति प्रायस्तुल्यचिकित्स्यत्वात्| आशीविषाविव दृष्टिनिःश्वासविषसर्पाविव| मिथ्योपरितोऽन्योऽपि रोगो हन्ति, तदिहाशीविषदृष्टान्तेन मिथ्योपचारे सति शीघ्रहन्तृत्वमाह||८-९||
Adhikarana 4 (10-16) · Śloka 16
पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसङ्ग्रहे|
तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम्||१०||
रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात्|
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात्||११||
आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात्|
दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः||१२||
अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात्|
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि||१३||
पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ|
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||१४||
पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात्|
जलजानूपपिशितदध्यामक्षीरसेवनात्||१५||
अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात्|
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः||१६||
पृथगिति प्रत्येकं पञ्चविधौ| रोगसङ्ग्रहे इति अष्टोदरीये| अत्र च रजसेत्यादिना प्रायो वातप्रकोपकगणो विच्छिद्योक्तः प्रवर्तेति गदाविमावित्यन्तेन, निष्पावेत्यादिना कफकारणतया हिक्काश्वासयोः कफप्रकोपकहेतुगणोऽभिहितः; तदनेन वातजनककफजनकहेतुवर्गद्वयविच्छेदपाठेन वातकफयोरत्र स्वहेतुकुपितत्वेन स्वातन्त्र्यं दर्शयति, नानुबन्धरूपत्वम्||१०-१६||
Adhikarana 5 (17) · Śloka 18
मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति|
उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः||१७||
घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च|१८|
मारुतः प्राणवाहीनित्यादिना सम्प्ताप्तिमाह| इयं हिक्काश्वासयोः साधारणी सम्प्राप्तिः, वैशेषिकीं चाग्रे वक्ष्यति| प्राणोपरोधायेति प्रायः प्राणहरणायेति प्रायः प्राणहरणायेत्यर्थः| पञ्च पञ्च चेति हिक्काः पश्च, श्वासाः पञ्च, इत्यर्थः||१७||-
Adhikarana 6 (18-20) · Śloka 20
उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम्||१८||
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता|
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च||१९||
आनाहः पार्श्वशूलं च पीडनं हृदयस्य च|
प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम्||२०||
लक्षणग्रहणगृहीतं पूर्वरूपं हिक्कानां ‘कण्ठोरसोः’ इत्यादिना, श्वासानाम् ‘आनाहः’ इत्यादिनाऽऽह| विलोमत्वमिति पर्याकुलत्वम्||१८-२०||
Adhikarana 7 (21-26) · Śloka 26
प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः|
हिक्काः करोति संरुध्य तासां लिङ्गं पृथक् शृणु||२१||
क्षीणमांसबलप्राणतेजसः सकफोऽनिलः|
गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम्||२२||
करोति सततं हिक्कामेकद्वित्रिगुणं तथा|
प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च||२३||
सञ्ज्ञां मुष्णाति गात्राणां स्तम्भं सञ्जनयत्यपि|
मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः||२४||
साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः|
सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः||२५||
महामूला महावेगा महाशब्दा महाबला|
महाहिक्केति सा नॄणां सद्यः प्राणहरा मता||२६||
इति महाहिक्का|
प्राणोदकेत्यादिना विशिष्टहिक्कासम्प्राप्तिमाह| क्षीणमांसबलप्राणतेजस इति अत्र प्राणो वायुः, उत्साहो वा; तेजोऽग्निः| उच्चैर्गृहीत्वा घोषवतीमिति योज्यम्| द्विसन्ततां त्रिसन्ततामनेकगुणां वा करोति; तत्र द्विसन्तता एकोपक्रमे वारद्वयं भवति| संरुध्योष्माणमिति देहोष्माणम्| संसक्तवचनतया प्रलापो यस्य स सक्तजल्पप्रलापः| महामूलेति गम्भीराश्रयदोषमूला| महाशब्दत्वं च उच्चैर्घोषवतीमित्यनेनैवोक्तमपि महाहिक्कासञ्ज्ञोपादानार्थमिह पुनरुक्तं, तेन ‘महाहिक्का’ इति सञ्ज्ञा||२१-२६||
Adhikarana 8 (27-30) · Śloka 30
हिक्कते यः प्रवृद्धस्तु कृशो दीनमना नरः|
जर्जरेणोरसा कृच्छ्रं गम्भीरमनुनादयन्||२७||
सञ्जृम्भन् सङ्क्षिपंश्चैव तथाऽङ्गानि प्रसारयन्|
पार्श्वे चोभे समायम्य कूजन् स्तम्भरुगर्दितः||२८||
नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते|
क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः||२९||
रुणद्ध्युच्छ्वासमार्गं तु प्रनष्टबलचेतसः|
गम्भीरा नाम सा तस्य हिक्का प्राणान्तिकी मता||३०||
इति गम्भीरा हिक्का|
तत्र हिगिति कायति शब्दं करोतीति हिक्का| गम्भीरमनुनादयन्निति हिक्काया अनु गम्भीरं शब्दं कुर्वन्| सङ्क्षिपन्नङ्गानीति योज्यम्| गम्भीरदेशभवत्वाद् ‘गम्भीरा’ इति सञ्ज्ञा||२७-३०||
Adhikarana 9 (31-33) · Śloka 33
व्यपेता जायते हिक्का याऽन्नपाने चतुर्विधे|
आहारपरिणामान्ते भूयश्च लभते बलम्||३१||
प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः|
जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनः||३२||
पर्याध्मातस्य हिक्का या जत्रुमूलादसन्तता|
सा व्यपेतेति विज्ञेया हिक्का प्राणोपरोधिनी||३३||
इति व्यपेता हिक्का|
व्यपेता परिणतेत्यर्थः| आहारपरिणामान्ते इति आहारपरिणामे वृत्ते; एतेनाहारेऽपि उत्पद्यते, अन्ते बलवती भवति तां ‘व्यपेता’ इति सञ्ज्ञया दर्शयति| विनामिन इति शरीरविनामकस्य| असन्ततेति अनतिदीर्घा||३१-३३||
Adhikarana 10 (34-37) · Śloka 37
क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः|
कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः||३४||
अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी|
न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति||३५||
वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम्|
यतः प्रवर्तते पूर्वं तत एव निवर्तते||३६||
हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता|
मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता||३७||
इति क्षुद्रहिक्का|
क्षुद्रेत्यादिना क्षुद्रहिक्कामाह| क्षुद्रवातः अल्पवातः; केचित् क्षुद्रवातमुदानमाहुः| आयस्यत इति आयासं कुर्वतः मार्दवं यातीति सम्बन्धः| यतः प्रवर्तते पूर्वं तत एव निवर्तत इति उत्पद्यमानैव निवर्तमानवेगा भवति; महाहिक्कादिवदनुबद्धा न भवति; उत्पादकहेतोर्व्यायामादेरेव निवर्तते, व्यायामादिना हिक्काजनकवातस्य क्षुद्रस्य विक्षेपात् सम्प्राप्तिभङ्गेनेति भावः| क्षुद्रवातजनितात्वात् क्षुद्रा हिक्का||३४-३७||
Adhikarana 11 (38-41) · Śloka 41
सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः|
ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः||३८||
तथाऽतिरोषभाष्याध्वहास्यभारातिवर्तनैः|
वायुः कोष्ठगतो धावन् पानभोज्यप्रपीडितः||३९||
उरःस्रोतः समाविश्य कुर्याद्धिक्कां ततोऽन्नजाम्|
तथा शनैरसम्बन्धं क्षुवंश्चापि स हिक्कते||४०||
न मर्मबाधाजननी नेन्द्रियाणां प्रबाधिनी|
हिक्का पीते तथा भुक्ते शमं याति च साऽन्नजा||४१||
इत्यन्नजा हिक्का|
सहसेत्यादिनाऽन्नजामाह| इयं च यद्यपि अन्नजा उक्ता, तथाऽपि दोषादिजनितैव| पानभोज्यप्रपीडित इत्यनेनान्नस्य कारणत्वेनोक्तत्वादियम् ‘अन्नजा’ इतिसञ्ज्ञा||३८-४१||
Adhikarana 12 (42-44) · Śloka 44
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च|
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः||४२||
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्|
यमिका च प्रलापार्तितृष्णामोहसमन्विता||४३||
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः|
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा||४४||
अतीत्यादिना साध्यासाध्यविभागमाह| अतिशयेन सञ्चिता दोषा यस्य स तथा| भक्तच्छेदकृशस्येति अभोजनदुर्बलस्य| आसां पञ्चानां या हिक्का अतीत्यादिना प्रोक्तलक्षणस्य पुरुषस्य भवति सा जीवितं हन्ति| यमिका चेत्यनेन क्षुद्रा अन्नजा च या साध्यत्वेनोक्ता सा यमलवेगेन जायमाना यमिका ज्ञेया; पूर्वोक्तानुवेगेन या जायमाना सा महाहिक्का, सा स्वरूपेणैवासाध्या, तस्या अतीत्यादियोगेनासाध्यताविधानमनर्थकम्| तथा महत्यादिहिक्कानां तिसॄणामसम्पूर्णलक्षणानां साध्यत्वं, क्षुद्रान्नजयोस्तु सम्पूर्णलक्षणयोरपि साध्यत्वं, महाहिक्कादित्रयं निसर्गत एवासाध्यम्| अन्ये तु ब्रुवते- महाहिक्कादयोऽपि कदाचित् साध्या भवन्त्येव, तत्र प्राणान्तिकेति वचनं प्रायः प्राणहरा इत्यभिप्रायेणोक्तम्| तथाहि जतूकर्णे- “आद्या दुःसाध्या, यमिका तृष्णामोहवतां सद्यःप्राणहृत्, गम्भीरा व्यपेते च” इत्युक्तम्| अक्षीण इति अक्षीणमांसः||४२-४४||
Adhikarana 13 (45) · Śloka 45
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः|
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः||४५||
यदेत्यादिना श्वाससम्प्राप्तिमाह| स्रोतांसीति प्रकृतत्वात् प्राणोदकवाहीनि स्रोतांसि| कफपूर्वक इति कफप्रधानः| विष्वग्व्रजति सर्वतो गच्छति||४५||
Adhikarana 14 (46-48) · Śloka 48
उद्धूयमानवातो यः शब्दवहुःखितो नरः|
उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम्||४६||
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः|
विकृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक्||४७||
दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्|
महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते||४८||
इति महाश्वासः|
उद्धूयमानेत्यादिना महाश्वासलक्षणमाह| उद्धूयमान इति ऊर्ध्वं धूयमानवातः| उच्चैरिति दीर्घम्| मत्तर्षभः मत्तबलीवर्दः| दीन इति दीनवत्| ‘दीनं प्रश्वसितं’ इति वा पाठः; तदा हि प्रश्वसितस्य दीनत्वे ‘दूराद्विज्ञायते’ इति यद्वक्ष्यति तदनुपपन्नं स्यात्||४६-४८||
Adhikarana 15 (49-51) · Śloka 51
दीर्घं श्वसिति यस्तूर्ध्वं न च प्रत्याहरत्यधः|
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः||४९||
ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः|
प्रमुह्यन् वेदनार्तश्च शुष्कास्योऽरतिपीडितः||५०||
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते|
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून्||५१||
इत्यूर्ध्वश्वासः|
दीर्घमित्यादिनोर्ध्वश्वासमाह| दीर्घं श्वसिति श्वासस्य बहिर्निर्गमनं दीर्घकालं करोति| न च प्रत्याहरत्यध इति श्वासमधो न नयति| क्रुद्धगन्धवहः दुष्टवायुः| श्वासस्य दीर्घकालमुद्धूयने अधोऽनयने चोक्ते हेतुमाह- ऊर्ध्वश्वासे इत्यादिना||४९-५१||
Adhikarana 16 (52-54) · Śloka 54
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः|
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः||५२||
आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना|
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः||५३||
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः|
छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून्||५४||
इति छिन्नश्वासः|
यस्त्वित्यादिना छिन्नश्वासलक्षणमाह| श्वसिति विच्छिन्नमिति निःश्वस्य पुनः क्षणान्तेन श्वसिति| न वा श्वसिति न श्वासं लभते| मर्मच्छेदरूपा रुक्| बस्तिनिरोधः मूत्रनिरोध इत्यर्थः| रक्तैकलोचनत्वमिह व्याधिप्रभावात्| विच्छिन्नः विमुक्तसन्धिबन्धः| एते त्रयः श्वासा निसर्गतोऽसाध्याः||५२-५४||
Adhikarana 17 (55-62) · Śloka 62
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते|
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च||५५||
करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा|
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम्||५६||
प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते|
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः||५७||
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः|
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम्||५८||
अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्|
न चापि निद्रां लभते शयानः श्वासपीडितः||५९||
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः|
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति||६०||
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्|
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते||६१||
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते|
स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः||६२||
इति तमकश्वासः|
प्रतिलोममित्यादिना तमकश्वासमाह| श्लेष्माणं समुदीर्य चेत्यनेन सामान्यसम्प्राप्त्युक्तस्यापि श्लेष्मणः पुनरभिधानादिह विशेषेण कारणत्वं दर्शयति| घुर्घुरुकमिति कण्ठे घुर्घुरुकशब्दम्| सन्निरुध्यते इति निश्चेष्टो भवति| तस्यैव चेति ‘श्लेष्मणः’ इति शेषः| आसीन उपविष्टः| उच्छ्रिताक्ष इति उच्छूनाक्षः| मुहुश्चैवावधम्यते इति क्षणं क्षणं श्वसनेन वायुनाऽवधम्यते||५५-६२||
Adhikarana 18 (63-64) · Śloka 64
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम्|
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः||६३||
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति|
मज्जतस्तमसीवाऽस्य विद्यात् सन्तमकं तु तम्||६४||
इति प्रतमकसन्तमकश्वासौ|
पित्तसम्बन्धाज्ज्वरादियोगेन तमकस्यैव प्रतमकसञ्ज्ञां दर्शयन्नाह- ज्वरेत्यादि| उदावर्तेत्यादिना प्रतमकहेतुलक्षणे प्राह| प्रतमक एव सन्तमकः| रजो धूलिः, कायनिरोधो वेगानां निरोधः; किंवा क्लिन्नकायो वृद्धः, निरोधः वेगनिरोधः| तमसेति अन्धकारेण, किंवा तमसा तमोगुणेन| यद्यपि तमकस्य शीतेन वृद्धिरुक्ता, तथाऽपि प्रतमकस्य पित्तसम्बन्धत्वात् ‘शीतैश्चाशु प्रशाम्यति’ इति यदुक्तं तदुपपन्नं भवति; किंवा यथा मद्योत्थविकारस्य मद्यं प्रशमनं भवति, तथा शीतसमुत्थस्यापि तदात्वमात्रे शीतैः प्रशमनं ज्ञेयम्| प्रतमकस्तमकभेद एवेति कृत्वा श्वासानां पञ्चसङ्ख्यासिद्धिः||६३-६४||
Adhikarana 19 (65-67) · Śloka 68
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्|
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः||६५||
हिनस्ति न स गात्राणि न च दुःखो यथेतरे|
न च भोजनपानानां निरुणद्ध्युचितां गतिम्||६६||
नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम्|
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः||६७||
इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः|६८|
रूक्षेत्यादिना क्षुद्रश्वासमाह| रूक्षादायासाच्च उद्भवो यस्य स रूक्षायासोद्भवः| क्षुद्रवात इति स्वल्पवातः| न सोऽत्यर्थमिति नात्यर्थं दुःखकरः| न दुःख इति न दुःखसाध्यः| सर्वे चाव्यक्तलक्षणा इत्यनेन साध्यत्वेनोक्तानां महाश्वासादीनां व्यक्तसर्वलक्षणताव्यतिरिक्तायामेवावस्थायां साध्यतां प्रतिपादयति||६५-६७||-
Adhikarana 20 (68-69) · Śloka 69
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः||६८||
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत्|
उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः||६९||
प्राणहरा महाश्वासादयः सम्पूर्णलक्षणा वर्ज्याः| साध्ययाप्यानिति बहुवचनं साध्ययाप्यभेदबहुत्वाज्ज्ञेयम्||६८-६९||
Adhikarana 21 (70-76) · Śloka 76
कारणस्थानमूलैक्यादेकमेव चिकित्सितम्|
द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत||७०||
हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत्|
आक्तं लवणतैलेन नाडीप्रस्तरसङ्करैः||७१||
तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते|
खानि मार्दवमायान्ति ततो वातानुलोमता||७२||
यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम्|
श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा||७३||
स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम्|
मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा||७४||
ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम्|
पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत्||७५||
निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे|
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः||७६||
सम्प्रति भिन्नयोरपि हिक्काश्वासयोर्यथा समानं चिकित्सितं भवति तथा दर्शयन् समानं चिकित्सितमाह- कारणेत्यादि| कारणं बाह्यकारणं, स्थानं नाभ्यादि, मूलं दोषः| स्निग्धैरिति स्वेदैरित्यस्य विशेषणम्; अन्ये तु स्निग्धमिति पठन्ति| लवणवत्तैलं लवणतैलम्| कुञ्जेष्विति विटपेषु | मत्स्यादीनामित्यादौ मत्स्यादीनामपि रसः स्वरसः कल्केन कर्तव्यः| दध्युत्तरं दधिसरः| ईदृशं च भोजनं वमनानुगुणकफवृद्ध्यर्थम्| उक्तं हि- “श्लेष्मोत्तरश्छर्दयति ह्यदुःखम्” (सि.अ.१) इति| वाताविरोधीत्यनेन अन्नं रूक्षं, तीक्ष्णं च वमनं, निषेधयति| दुष्टः विग्रहो यस्य स दुष्टविग्रहः||७०-७६||
Adhikarana 22 (77-80) · Śloka 80
लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः|
हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम्||७७||
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्|
तां घृताक्तां पिबेद्धूमं यवैर्वा घृतसंयुतैः||८७||
मधूच्छिष्टं सर्जरसं घृतं मल्लकसम्पुटे|
कृत्वा धूमं पिबेच्छृङ्गं बालं वा स्नायु वा गवाम्||७९||
स्योनाकवर्धमानानां नाडीं शुष्कां कुशस्य वा|
पद्मकं गुग्गुलुं लोहं शल्लकीं वा घृताप्लुतम्||८०||
वमनशेषदोषहरणार्थं धूममाह- लीन इत्यादिना| एतेन धूमो वमनं विनाऽपि स्वल्पदोषे कर्तव्य एव, तत्रापि धूमविषयदोषस्य विद्यमानत्वात्| अलं हरितालम्| धूमवर्तिस्तु तस्याशीतीयोक्तधूमवर्तिविधानेन कर्तव्या| अत्र च धूमपाननलिकामानं वक्ष्यमाणकासहरधूमनलिकामानसमानमिच्छन्ति, हिक्काश्वासयोरपि काससमानत्वात्| मधूच्छिष्टं सिक्थकम्| मल्लकसम्पुटे चात्रानुक्तमपि पातव्यधूमनिर्गमार्थमूर्ध्वं च्छिद्रं कर्तव्यम्| पद्मकादिष्वपि मल्लकेत्याद्यनुवर्तते| वर्धमान एरण्डः| लोहः अगरुः| शल्लकी स्वनामख्याता||७७-८०||
Adhikarana 23 (81) · Śloka 81
स्वरक्षीणातिसारासृक्पित्तदाहानुबन्धजान्|
मधुरस्निग्धशीताद्यैर्हिक्काश्वासानुपाचरेत्||८१||
शीताद्यैरित्यादिशब्देन पित्तहरपिच्छिलादिग्रहणम्||८१||
Adhikarana 24 (82-87) · Śloka 87
न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः|
क्षीणधातुबला रूक्षा गर्भिण्यश्चापि पित्तलाः||८२||
कोष्णैः काममुरःकण्ठं स्नेहसेकैः सशर्करैः|
उत्कारिकोपनाहैश्च स्वेदयेन् मृदुभिः क्षणम्||८३||
तिलोमामाषगोधूमचूर्णैर्वातहरैः सह|
स्नेहैश्चोत्कारिका साम्लैः सक्षीरैर्वा कृता हिता||८४||
नवज्वरामदोषेषु रूक्षस्वेदं विलङ्घनम्|
समीक्ष्योल्लेखनं वाऽपि कारयेल्लवणाम्बुना||८५||
अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिषक्|
रसाद्यैर्नातिशीतोष्णैरभ्यङ्गैश्च शमं नयेत्||८६||
उदावर्ते तथाऽऽध्माने मातुलुङ्गाम्लवेतसैः|
हिङ्गुपीलुबिडैश्चान्नं युक्तं स्यादनुलोमनम्||८७||
पित्तदाहार्ता इति पित्तार्ता दाहार्ताश्च| रक्तं स्वेदश्चातिवर्तमानौ येषां ते रक्तस्वेदातिवर्तिनः| पित्तलाः पित्तप्रकृतयः| कोष्णैरित्यादिना स्वेद्यानां स्थानविशिष्टं स्वेदमाह| काममिति इच्छायां सत्याम्, उत्कारिकोपनाहैः स्वेदयेत्| उल्लेखनं वमनम्| अतियोगोद्धतमिति वमनाद्यतियोगवृद्धं; किंवा अतियोगेन अतिमात्रोद्धतम्||८२-८७||
Adhikarana 25 (88-90) · Śloka 90
हिक्काश्वासामयी ह्येको बलवान् दुर्बलोऽपरः|
कफाधिकस्तथैवैको रूक्षो बह्वनिलोऽपरः||८८||
ककाधिके बलस्थे च वमनं सविरेचनम्|
कुर्यात् पथ्याशिने धूमलेहादिशमनं ततः||८९||
वातिकान् दुर्बलान् बालान् वृद्धांश्चानिलसूदनैः|
तर्पयेदेव शमनैः स्नेहयूषरसादिभिः||९०||
चिकित्साभेदार्थं हिक्काश्वासिनोऽवस्थाभेदमाह- हिक्केत्यादि| एताश्चतस्रोऽवस्थाः साक्षादुक्ताः- बलवान्, दुर्बलः, वाताधिकः, कफाधिकश्चेति; रूक्षबह्वनिलविशेषणेनापि रूक्षस्निग्धावस्थाद्वयम्| तत्र बहुकफे बलरूपसूचिते चावस्थाद्वये क्रियां ब्रूते- कफाधिके इत्यादि| तत इति वमनविरेचनानन्तरम्| तथा चापरेऽवस्थाद्वये समानचिकित्सितमाह- वातिकानित्यादि| बालवृद्धयोश्चात्रासम्पूर्णक्षीणधातुत्वेन दुर्बलयोर्दुर्बलोदाहरणार्थमेवोपादानम्| एतच्च सङ्क्षेपेण चिकित्सासूत्रमुक्तम्| तेन बलवान् वाताधिक इत्याद्यवस्थायां मिश्रितायामुक्तचिकित्साया अपि मिश्रणं कल्पनीयं; यथा- प्रत्येकदोषोक्तचिकित्सा दोषसंसर्गे विकल्प्यते||८८-९०||
Adhikarana 26 (91-93) · Śloka 93
अनुत्क्लिष्टकफास्विन्नदुर्बलानां विशोधनात्|
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्||९१||
दृढान् बहुकफांस्तस्माद्रसैरानूपवारिजैः|
तृप्तान्विशोधयेत्स्विन्नान् बृंहयेदितरान् भिषक्||९२||
बर्हितित्तिरिदक्षाश्च जाङ्गलाश्च मृगद्विजाः|
दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः||९३||
अविषयप्रविष्टशोधने दोषमाह- अनुत्क्लिष्टेत्यादिना| मर्म इति हृदयादीनि| दृढानिति बलवतः| रसैरानूपवारिजैस्तृप्तानित्यनेन कफोत्क्लेशकरणे तृप्तिं दर्शयति| स्विन्नानिति स्वेदितान्| इतरानिति दुर्बलान् बहुवातांश्च| कफाधिकायामवस्थायां तर्पणरूपविपरीतक्रियाकरणेऽनुक्तेऽपि कफवृद्ध्या दोषोत्क्लेश एव ज्ञेयः| इह दशमूलरसादौ बर्हितित्तिरादीनां सिद्धिः रसविधानेनैव ज्ञेया||९१-९३||
Adhikarana 27 (94-104) · Śloka 104
निदिग्धिकां बिल्वमध्यं कर्कटाख्यां दुरालभाम्|
त्रिकण्टकं गुडूचीं च कुलत्थांश्च सचित्रकान्||९४||
जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः|
सनागरः सलवणः स्याद्यूषो भोजने हितः||९५||
रास्नां बलां पञ्चमूलं ह्रस्वं मुद्गान् सचित्रकान्|
पक्त्वाऽम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत्||९६||
पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च|
पक्त्वा मुद्गांश्च सव्योषान् क्षारयूषं विपाचयेत्||९७||
दत्त्वा सलवणं क्षारं शिग्रूणि मरिचानि च|
युक्त्या संसाधितो यूषो हिक्काश्वासविकारनुत्||९८||
कासमर्दकपत्राणां यूषः शोभाञ्जनस्य च|
शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः||९९||
सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः|
शालिषष्टिकगोधूमयवान्नान्यनवानि च||१००||
हिङ्गुसौवर्चलाजाजीबिडपौष्करचित्रकैः|
सिद्धा कर्कटशृङ्ग्या च यवागूः श्वासहिक्किनाम्||१०१||
दशमूलीशटीरास्नापिप्पलीमूलपौष्करैः|
शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः||१०२||
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः|
कासहृद्ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये||१०३||
पुष्कराह्वशटीव्योषमातुलुङ्गाम्लवेतसैः|
योजयेदन्नपानानि ससर्पिर्बिडहिङ्गुभिः||१०४||
निदिग्धिकामित्यादि| यूषविधानसामान्यपठितस्यापि कुलत्थस्य यूषप्रकृतित्वाद्यूषसाधनोपयौगिकं मानं गृह्यते; शेषद्रव्यं तु यूषसाधनमानेन गृह्यते| पिप्पलीसाधिते घृते पिप्पलीयुक्ते घृते वा भर्जित इति पिप्पलीघृतभर्जितः| एवं रास्नामित्यादौ रसस्य प्राधान्यम्| पूर्ववदित्यनेन पिप्पलीघृतभर्जनादिकमतिदिशति| क्षारेण युक्तो यूषः क्षारयूषः, क्षारः अपामार्गादिः| कासमर्दादीनां यथायोग्यतया प्रक्षेपः| जलमानादिना संस्कार उन्नेयः| दशमूलीत्यादौ कषायशब्दः पानीयस्थानविहितत्वादर्धशृते जले एव वर्तते||९४-१०४||
Adhikarana 28 (105-120) · Śloka 120
दशमूलस्य वा क्वाथमथवा देवदारुणः|
तृषितो मदिरां वाऽपि हिक्काश्वासी पिबेन्नरः||१०५||
पाठां मधुरसां रास्नां सरलं देवदारु च|
प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत्||१०६||
तं मन्दलवणं कृत्वा भिषक् प्रसृतसम्मितम्|
पाययेत्तु ततो हिक्का श्वासश्चैवोपशाम्यति||१०७||
हिङ्गु सौवर्चलं कोलं समङ्गां पिप्पलीं बलाम्|
मातुलुङ्गरसे पिष्टमारनालेन वा पिबेत्||१०८||
सौवर्चलं नागरं च भार्गीं द्विशर्करायुतम्|
उष्णाम्बुना पिबेदेतद्धिक्काश्वासविकारनुत्||१०९||
भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा|
पीतद्रुचित्रकास्फोतामूर्वाणां चाम्बुना पिबेत्||११०||
मधूलिका तुगाक्षीरी नागरं पिप्पली तथा|
उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे||१११||
श्वाविधं शशमांसं च शल्लकस्य च शोणितम्|
पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे||११२||
सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम्|
शाल्योदनस्यानुपानं वातपित्तानुगे हितम्||११३||
शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः|
पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः||११४||
मधुकं पिप्पलीमूलं गुडो गोश्वशकृद्रसः |
घृतं क्षौद्रं कासश्वासहिक्काभिष्यन्दिनां शुभम्||११५||
खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च|
शकृद्रसं बहुकफे चैकैकं मधुना पिबेत्||११६||
क्षारं चाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसर्पिषा|
मयूरपादनालं वा शकलं शल्लकस्य वा||११७||
श्वाविज्जाण्डकचाषाणां रोमाणि कुररस्य वा|
शृङ्ग्येकद्विशफानां वा चर्मास्थीनि खुरांस्तथा||११८||
सर्वाण्येकैकशो वाऽपि दग्ध्वा क्षौद्रघृतान्वितम्|
चूर्णं लीढ्वा जयेत् कासं हिक्कां श्वासं च दारुणम्||११९||
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः |
तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे||१२०||
आस्फोता अपरमल्लिकेति ख्याता| मधूलिका अल्पगोधूमाः| श्वाविधमिति शल्लकस्य मांसम्| मयूरपादनालमिति नालं मयूरपिच्छस्यैव नालम्| घृतमत्र प्रस्थमानम्| शकलमिति मत्स्यशकलाकारम्| जाण्डकः मरुदेशोद्भवः प्राणी पृष्ठमात्रे सङ्कोचमुपयाति| एकोऽद्विविधाभिन्नः शफो येषां ते एकशफा अश्वादयः, द्विशफा हरिणादयः| तन्मार्गशुद्ध्यर्थमिति प्राणमार्गशुद्ध्यर्थम्||१०५-१२०||
Adhikarana 29 (121-122) · Śloka 122
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्|
वातश्लेष्महरैर्युक्तं तमके तु विरेचनम्||१२१||
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्|
यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत्||१२२||
कासिन इति हिक्काश्वासयुक्त एव कासी| उदीर्यत इत्यादौ अनिलः कफमार्गनिरोधादुदीर्यत इति दर्शयति||१२१-१२२||
Adhikarana 30 (123-124) · Śloka 124
शटीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम्|
सुरसं तामलक्येला पिप्पल्यगुरु नागरम्||१२३||
वालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम्|
सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत्||१२४||
शटीत्यादिके समं चूर्णमिति वालकान्तं द्रव्यं समम्| अष्टगुणशर्करमिति एकभागापेक्षयाऽष्टगुणशर्करम्| सर्वथेति पानभोजनलेहादिषु||१२३-१२४||
Adhikarana 31 (125-128) · Śloka 128
मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम्|
ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् ||१२५||
ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम् |
जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः||१२६||
एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा|
हिक्कां श्वासं च कासं च लीढमाशु नियच्छति||१२७||
अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः|
मल्यं कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत्||१२८||
इति मुक्ताद्यं चूर्णम्|
मुक्तेत्यादौ ससारः स्फटिक एव| लवणद्वयं सौवर्चलं सैन्धवं च| सौगन्ध्यं माणिक्यभेदः| सीसकं सौवीराञ्जनं, केचित् कसेरुकमिषन्नीलपीतमणिमाहुः| पाणितलं कर्षः| मल्यमिति मलदिग्धाक्षिताम्||१२५-१२८||
Adhikarana 32 (129-134) · Śloka 134
शटीपुष्करमूलानां चूर्णमामलकस्य च|
मधुना संयुतं लेह्यं चूर्णं वा काललोहजम्||१२९||
सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम्|
तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा||१३०||
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा|
नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम्||१३१||
सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम्|
नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा||१३२||
नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि|
पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति||१३३||
सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः|
पाने नस्तःक्रियायां वा शर्करामधुसंयुतम्||१३४||
काललोहो लोह एव, केचित्तीक्ष्णं लोहं वर्णयन्ति| गृञ्जनकं लोहितपलाण्डुः| माक्षिकीमिति मक्षिकाभवाम्| मधुरकैरिति जीवनीयैः| सकृदिति कदाचित्| व्यत्यासादिति विपर्यासात्; उष्णं पयः कृत्वा शीतं कर्तव्यम्| मधुसंयोगश्चात्र विरुद्धत्वादुष्णे न कर्तव्यः||१२९-१३४||
Adhikarana 33 (135-140) · Śloka 141
अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति|
पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः||१३५||
लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान्|
लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा||१३६||
शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम्|
क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः||१३७||
हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम्|
वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः||१३८||
हिक्काश्वासानुबन्धा ये शुष्कोरःकण्ठतालुकाः|
प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत्||१३९||
दशमूलरसे सर्पिर्दधिमण्डे च साधयेत्|
कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः||१४०||
कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत्|१४१|
अधोभागैरिति विरेचनद्रव्यैः| दशमूलीत्यादौ दधिमण्डः मस्तुः| दशमूलक्वाथदधिमण्डानां च मिलित्वा चातुर्गुण्यम्| वयस्था ब्राह्मी| कायस्था सुरसा||१३५-१४०||-
Adhikarana 34 (141-144) · Śloka 144
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी||१४१||
भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी|
सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका||१४२||
तालीसपत्रं जीवन्ती वचा तैरक्षसम्मितैः|
हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे||१४३||
एतद्यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः|
शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च||१४४||
इति तेजोवत्यादिघृतम्|
तेजोवत्यादौ तेजोवती चविका| हिङ्गुपादैरित्यत्र हिङ्गुपादशब्देन हिङ्गु एककर्षापेक्षया शाणमानं गृह्यते| तथाहि अयमेव योगो हारीतेन “तेजोवती” इत्यादिना पठित्वा उक्तः- “कल्कैस्तैरक्षसम्मितैः| हिङ्गुशाणेन संयुक्तैर्घृतप्रस्थं विपाचयेत्” इत्यादि||१४१-१४४||
Adhikarana 35 (145-146) · Śloka 146
मनःशिलासर्जरसलाक्षारजनिपद्मकैः|
मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः||१४५||
जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्धृतम्|
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा||१४६||
इति मनःशिलादिघृतम्|
वासाघृतमिति गुल्मोक्तम्| त्र्यूषणमिति “त्र्यूषणं त्रिफलां” (चि.अ.१८) इत्यादिना त्र्यूषणसञ्ज्ञयैव कासचिकित्सिते वक्ष्यमाणम्||१४५-१४६||
Adhikarana 36 (147-150) · Śloka 150
यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम्|
भेषजं पानमत्रं वा तद्धितं श्वासहिक्किने||१४७||
वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्|
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्||१४८||
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्|
नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्शने||१४९||
तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि|
हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत्||१५०||
अनुक्तचिकित्सापक्षग्रहणार्थमाह- यत्किञ्चिदित्यादि| अनैकान्तिकं कर्तव्यविधिमाह- वातकृदित्यादि| अत्र हिक्काश्वासयोश्चिकित्सिते विधित्रयं- तत्र तावत् कफवातहरं प्रधानमेवोक्तं, यत्तु अवशिष्टं तत्र दोषस्य विद्यमानतया अनैकान्तेन करणं ज्ञेयम्, एवमुक्तेऽपि अनैकान्तेन चिकित्साद्वयकरणे वातहरस्यैव प्राधान्यं ज्ञेयम्| ताभ्यामित्यादि| अनिलापहं च बृंहणं समानं भवति| तत्रोपपत्तिमाह- सर्वेषामित्यादिना| गदान्तरानपि ज्वरादीन् हिक्काश्वासवद्बृंहणार्हानाह- बृंहणे क्रियमाणे ह्यल्पोऽपायो भवति; शक्यः प्रतीकारो भवति, बृंहणजनितबलानां सुखजयव्यापत्तिकत्वादिति भावः| शमने तु नात्यर्थमपायो भवति| कर्शने तु क्रियमाणेऽशक्योऽपायो भवति भृशश्च भवति| अशक्य इति असाध्यः| एतदपि कर्शनेन अल्पबले पुरुषे भेषजादिना रोगजयस्य दुःशकत्वादिति ज्ञेयम्| अत एव शमनैर्बृहणैरिति उपसंहारं करिष्यति| किंवा बृंहणरूपे शमने क्रियमाणे नावश्यमपायो भवति, भवन्नपि अल्पः शक्यश्च भवति, कर्शने तु क्रियमाणे अपायो भवतीति योज्यम्| न्यायोपपादितं बृंहणशमनं बृंहणं वा प्रायः कर्तव्यतयोपसंहरन्नाह- तस्मादित्यादि| अत्र शमनमशुद्धविषयं, बृंहणं च शुद्धविषयं केचिदाहुः; शमनस्यैव तु बृंहणत्वं केचिदुदाहरन्ति||१४७-१५०||
Adhikarana 37 (151) · Śloka 151
तत्र श्लोकः- दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम्|
लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम्||१५१||
दुर्जय इत्यादिकोऽध्यायार्थसङ्ग्रहो व्यक्तः||१५१||
Adhikarana puShpikA · Śloka 17
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः||१७||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः||१७||