Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

22. pāṇḍurōgacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

ग्रहणीदोषचिकित्सिते क्रियामाणे तीक्ष्णादिना पित्तजननाद्ग्रहणीचिकित्सितानन्तरं पित्तप्रधानपाण्डुरोगचिकित्सितमुच्यते| पाण्डुना वक्ष्यमाणहरितादिवर्णेभ्यः प्रधानेन वर्णेनोपलक्षितो रोगः पाण्डुरोगः| उक्तं हि सुश्रुते- “सर्वेषु चैतेषु हि पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः” (सु.उ.अ.४४) इति| कामला-हलीमकादिचिकित्सा च पाण्डुरोगभेदत्वादेव तेषामिह वक्तव्या; किंवा ‘पाण्डुरोगादीनां चिकित्सितं पाण्डुरोगचिकित्सितम्’ इति परिग्रहात् कामलादिचिकित्सितमपि प्रतिज्ञातमेव||१-२||

Adhikarana 2 (3) · Śloka 3

पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः| चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः||३||

🔊 Audio coming soon

त्रिशोथीये यद्यपि पाण्डुरोगः पञ्चसङ्ख्याक उक्तस्तथाऽपीह पुनस्तदनुवादेन सुश्रुतोक्तचतुःसङ्ख्यात्वं निषेधयति| उक्तं हि सुश्रुते- “पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपञ्च दोषैः” (सु.उ.अ.४४) इति| तत्र हि मृद्भक्षणजः सन्निपातजे एवावरुद्धः||३||

Adhikarana 3 (4-6) · Śloka 6

दोषाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु| शैथिल्यं तस्य धातूनां गौरवं चोपजायते||४|| ततो वर्णबलस्नेहा ये चान्येऽप्योजसो गुणाः| व्रजन्ति क्षयमत्यर्थं दोषदूष्यप्रदूषणात्||५|| सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः| वैवर्ण्यं भजते, तस्य हेतुं शृणु सलक्षणम्||६||

🔊 Audio coming soon

दोषा इत्यादिना सम्प्राप्तिमाह| पित्तं प्रधानं ययोस्ते पित्तप्रधानाः; बहुवचनं च व्यक्तिबहुत्वापेक्षया, नतु पारमार्थिकम्| गौरवं क्रियास्वसामर्थ्यात्; गौरवं पाण्डुरोगिणो निःसारधातुत्वादिति ब्रुवते| ओजसो गुणा इति ओजसो रक्तधातुरूपस्य ये गुणाः; किंवा ओजस एव ये दशगुणाः क्षीरसमाना उक्तास्ते ज्ञेयाः| ओजसः क्षयेनैव स्नेहक्षये लब्धे पुनः स्नेहक्षयाभिधानं विशेषक्षयाभिधानार्थम्| दोषैर्दूष्याणां प्रकृष्टाद्दूषणादिति दोषदूष्यप्रदूषणात्| निःसारः अपगतधातुसारः; “अष्टौ साराः” (वि.अ.८) इत्यादिना प्रोक्तसारविरहित इत्यर्थः| शिथिलेन्द्रियः दुर्बलेन्द्रियः| स इति पुमान्| यद्यपि रक्तपित्तयोरेकयोनित्वात् पित्तेनेह रक्तवृद्धिर्भाव्या, तथाऽपीह रक्तक्षयो रक्तपोषकरसस्य पित्तेन क्षपणाद् रक्तपोषकसारभागानुत्पादाच्च| यद्यपि पित्तं तेजोरूपतया वर्णकरमिहोच्यते, यदुक्तं- “तेजोधातुरप्युदकान्तरीक्षधातुप्रायोऽवदातवर्णकरः” (शा.अ.८) इति, तथाऽपि विकृतत्वात् पित्तमिह विकृतवर्णकृदेव भवति||४-६||

Adhikarana 4 (7-11) · Śloka 12

क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्| निष्पावमाषपिण्याकतिलतैलनिषेवणात्||७|| विदग्धेऽन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा| प्रतिकर्मर्तुवैषम्याद्वेगानां च विधारणात्||८|| कामचिन्ताभयक्रोधशोकोपहतचेतसः| समुदीर्णं यदा पित्तं हृदये समवस्थितम्||९|| वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश| प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम्||१०|| प्रदूष्य कफवातासृक्त्वङ्मांसानि करोति तत्| पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि||११|| स पाण्डुरोग इत्युक्तः ...|१२|

🔊 Audio coming soon

क्षारेत्यादिना समानं हेतुमाह| निष्पावः शिम्बः| व्यायाममैथुने विदग्धेऽन्ने एव क्रियमाणे रोगहेतुनी| प्रतिकर्मणां वमनादीनामृतूनां च वैषम्यं प्रतिकर्मर्तुवैषम्यम्| धमनीर्दश इति हृदयाश्रिता दश धमनीः| केवलमिति कृत्स्नम्| ‘प्रदूष्य कफवातासृक्’ इति पाठे विक्षिप्तस्य वायोः पित्तेन दूषणं, यदा तु ‘कफपित्तासृक्’ इति पाठस्तदा पित्तेन हृदयस्थेन स्थानान्तरस्थस्य पित्तस्य दुष्टिर्जेया| समुदीर्णमित्यादिना चेयं सम्प्राप्तिः पूर्वोक्तसामान्यसम्प्राप्तेरेव प्रपञ्चः||७-११||-

Adhikarana 5 (12) · Śloka 12

... तस्य लिङ्गं भविष्यतः| हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा||१२||

🔊 Audio coming soon

तस्येत्यादिना पूर्वरूपमाह| ‘स्वेदाबाधः’ इति केचित् पठन्ति||१२||

Adhikarana 6 (13-16) · Śloka 16

सम्भूतेऽस्मिन् भवेत् सर्वः कर्णक्ष्वेडी हतानलः| दुर्बलः सदनोऽन्नद्विट् श्रमभ्रमनिपीडितः||१३|| गात्रशूलज्वरश्वासगौरवारुचिमान्नरः| मृदितैरिव गात्रैश्च पीडितोन्मथितैरिव||१४|| शूनाक्षिकूटो हरितः शीर्णलोमा हतप्रभः| कोपनः शिशिरद्वेषी निद्रालुः ष्ठीवनोऽल्पवाक्||१५|| पिण्डिकोद्वेष्टकट्यूरुपादरुक्सदनानि च| भवन्त्यारोहणायासैर्विशेषश्चास्य वक्ष्यते||१६||

🔊 Audio coming soon

सम्भूतेऽस्मिन्निति उत्पन्ने पाण्डुरोगे| कर्णक्ष्वेडीत्यादि सामान्यं लक्षणं; कर्णक्ष्वेडी कर्णनादवान्| अन्नद्विडित्यनेन अन्नाग्रह उच्यते, अरुचिमानित्यनेन प्रार्थितान्नभक्षणासामर्थ्यमुच्यते| शिशिरद्वेषीति शीतद्वेषी; शिशिरद्वेषिता च पित्तरोगेऽप्यस्मिन् रोगमहिम्ना भवति| पिण्डिकोद्वेष्टनं पिण्डिकापीडा| आरोहणेनायासैरिति केचिद्विभागं वर्णयन्ति| विशेषश्चास्य वक्ष्यते इति पाण्डुरोगस्य वातजत्वादिविशेषगतो हेतुलिङ्गविशेषो वक्ष्यत इत्यर्थः||१३-१६||

Adhikarana 7 (17-18) · Śloka 18

आहारैरुपचारैश्च वातलैः कुपितोऽनिलः| जनयेत्कृष्णपाण्डुत्वं तथा रूक्षारुणाङ्गताम्||१७|| अङ्गमर्दं रुजं तोदं कम्पं पार्श्वशिरोरुजम्| वर्चःशोषास्यवैरस्यशोफानाहबलक्षयान्||१८||

🔊 Audio coming soon

आहारैरित्यादिना वातजस्य हेतुलक्षणे प्राह| सामान्यलक्षणानि सर्वत्र भवन्ति, विशेषलक्षणैस्तु विशेषावगतिः||१७-१८||

Adhikarana 8 (19-22) · Śloka 22

पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपणैः| दूषयित्वा तु रक्तादीन् पाण्डुरोगाय कल्पते||१९|| स पीतो हरिताभो वा ज्वरदाहसमन्वितः| तृष्णामूर्च्छापिपासार्तः पीतमूत्रशकृन्नरः||२०|| स्वेदनः शीतकामश्च न चान्नमभिनन्दति| कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव च||२१|| उद्गारोऽम्लो विदाहश्च विदग्धेऽन्नेऽस्य जायते| दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव च||२२||

🔊 Audio coming soon

पित्तलस्येत्यादिना पैत्तिकमाह| सर्वोऽपि पाण्डुरोगः पित्तजः, तथाऽप्ययं विशेषेण दोषान्तरासम्पृक्तप्रबलपित्तजन्यत्वात् पैत्तिक इत्युच्यते; यथा पैत्तिकं रक्तपित्तम्; अत एवात्र पित्तातिप्रबलतोपदर्शनार्थं पित्तलस्येत्यनेन पित्तप्रकृतिताऽपि कारणत्वेनोक्ता, नान्यत्र ‘वातलस्य, श्लेष्मलस्य’ इति वा कृतम्| यथोक्तैरिति यो ह्यम्लेत्यादिनोक्तैरिहैव| रक्तादीनिति रक्तप्रकारान्, तेन बलवातादीनामपि ग्रहणम्| तृष्णामूर्च्छापिपासार्त इत्यत्र तृष्णानिमित्ता मूर्च्छा तृष्णामूर्च्छा, तेन पिपासया समं न पौनरुक्त्यम्; अन्ये तु तृष्णामिह क्षुधामाहुः, केचित् ‘तृष्णामूर्च्छापरीतस्य’ इति पठन्ति||१९-२२||

Adhikarana 9 (23-25) · Śloka 25

विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं स पूर्ववत्| करोति गौरवं तन्द्रा छर्दिं श्वेतावभासताम्||२३|| प्रसेकं लोमहर्षं च सादं मूर्च्छां भ्रमं क्लमम्| श्वासं कासं तथाऽऽलस्यमरुचिं वाक्स्वरग्रहम्||२४|| शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोष्णकामताम्| श्वयथुं मधुरास्यत्वमिति पाण्ड्वामयः कफात्||२५||

🔊 Audio coming soon

विवृद्ध इत्यादिना कफजमाह| पूर्ववदिति रक्तादीन् सन्दूष्य||२३-२५||

Adhikarana 10 (26) · Śloka 26

सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्| त्रिदोषलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम्||२६||

🔊 Audio coming soon

सर्वान्नेत्यादिना सान्निपातिकं व्याकरोति| त्रिदोषलिङ्गमिति प्रत्येकदोषलिङ्गसमुदाययुक्तम्||२६||

Adhikarana 11 (27-30) · Śloka 30

मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः| कषाया मारुतं, पित्तमूषरा, मधुरा कफम्||२७|| कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं विरूक्षयेत् | पूरयत्यविपक्वैव स्रोतांसि निरुणद्धि च||२८|| इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा| पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम्||२९|| शूनगण्डाक्षिकूटभ्रूः शूनपान्नाभिमेहनः| क्रिमिकोष्ठोऽतिसार्येत मलं सासृक् कफान्वितम्||३०||

🔊 Audio coming soon

मृत्तिकेत्यादिना मृद्भक्षणजमाह| अत्र च दोषसम्बन्धे सत्यपि मृदेव व्यपदेशिका न दोषाः, तस्या एव चिकित्साभेदलिङ्गभेदकर्तृत्वात्| कषाया मारुतमित्यादिना मृदोऽपि वातादिगतलिङ्गं दर्शयति| ऊषरेति क्षारानुरसा| रसादीन् भुक्तं च विरूक्षयेदिति योज्यम्| अविपक्वैवेति स्वरूपावस्थितैव केवलं स्रोतांसि पूरयति रुणद्धि च; स्रोतोविरोधेन रसादीनां न सम्यग्बलं भवति| बलवर्णाग्निनाशनमित्यनेन बलादिहानिं दर्शयति||२७-३०||

Adhikarana 12 (31-33) · Śloka 33

पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति| कालप्रकर्षाच्छूनो ना यश्च पीतानि पश्यति||३१|| बद्धाल्पविट्कं सकफं हरितं योऽतिसार्यते| दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्च्छातृषार्दितः||३२|| स नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्| इति पञ्चविधस्योक्तं पाण्डुरोगस्य लक्षणम्||३३||

🔊 Audio coming soon

पाण्डुरोग इत्यादिनाऽसाध्यलक्षणमाह| खरीभूत इति अत्यर्थरूक्षः| कालेत्यादिनाऽपरमसाध्यलक्षणम्| श्वेतातिदिग्धाङ्ग इति श्वेतवर्णलिप्ताङ्ग इत्यर्थः||३१-३३||

Adhikarana 13 (34-38) · Śloka 39

पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते| तस्य पित्तमसृग्मांसं दग्ध्वा रोगाय कल्पते||३४|| हारिद्रनेत्रः स भृशं हारिद्रत्वङ्नखाननः| रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः||३५|| दाहाविपाकदौर्बल्यसदनारुचिकर्षितः| कामला बहुपित्तैषा कोष्ठशाखाश्रया मता||३६|| कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला| कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः||३७|| सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति| दाहारुचितृषानाहतन्द्रामोहसमन्वितः||३८|| नष्टाग्निसञ्ज्ञः क्षिप्रं हि कामलावान् विपद्यते|३९|

🔊 Audio coming soon

पाण्डुरोगीत्यादिना कामलामाह| पाण्डुरोगीति वचनात् पाण्डुरोगस्यैव हेतुविशेषेण कामलादिरूपाऽवस्था उत्पद्यते; अत एव च हारीते कामलादीनामपि पाण्डुरोगत्वमेवोक्तम्| वचनं हि- “वातेन पित्तेन कफेन चैव त्रिदोषमृद्भक्षणसम्भवे च| द्वे कामले चैव हलीमकश्च स्मृतोऽष्टधैवं खलु पाण्डुरोगः” इति; अन्या तु सुश्रुतोक्ता कामला भिन्ना भवति, “यो ह्यामयान्ते सहसाऽम्लमन्नमद्यादपथ्यान्यपि तस्य पित्तम्| करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रिबलक्षयौ च” (सु. उ. अ. ४४) इत्यादिना पृथक्कामलाहेतुरुक्तः; वाग्भटेऽपि- “भवेत् पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च” (वा. नि. अ. १३) इति; इह तु पाण्डुरोगेऽपि भवेत् पाण्डुरोगाद्विनाऽपि भवेत्, यथा प्रमेहाश्रिताः पिडिकाः प्रमेहेषु भवन्ति विना प्रमेहमपि भवन्ति; तथा पाण्डुरोगिणोऽप्युक्ता कामला पृथगपि भवति| कोष्ठशाखाश्रया बहुपित्ता पाण्डुरोगपूर्विका भवति, या तु केवलं शाखाश्रया अल्पपित्ता च वक्तव्या सा स्वतन्त्राऽपि भवतीति केचित्, अत एव तस्या रूक्षशीतेत्यादिना पृथगेव हेतुं लिङ्गं चाध्यायशेषे वक्ष्यति| बहुपित्तेत्यनेन केवलं शाखाश्रयाया अल्पपित्तत्वं सूचयति; अम्लकटुतीक्ष्णोपयोगं शाखाश्रयिपित्तस्य कोष्ठानयनार्थं वक्ष्यति| खरीभूतेति कठोरतामुपगता| कुम्भकामलेति अवस्थाभेदेन कोष्ठगतकामलायाः सञ्ज्ञा; कुम्भः कोष्ठः, तदाश्रया कामला कुम्भकामला| अस्यां च शोथोऽपि लक्षणं भवति| उक्तं हि सुश्रुते- “भेदस्तु तस्याः खलु कुम्भसाह्वः शोथो महांस्तत्र च पर्वभेदः” (सु. उ. अ. ४४) इति||३४-३८||-

Adhikarana 14 (39-43) · Śloka 43

साध्यानामितरेषां तु प्रवक्ष्यामि चिकित्सितम्||३९|| तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्ध्वानुलोमिकैः| संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः||४०|| ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत्| शालीन् सयवगोधूमान् पुराणान् यूषसंहितान्||४१|| मुद्गाढकीमसूरैश्च जाङ्गलैश्च रसैर्हितैः| यथादोषं विशिष्टं च तयोर्भैषज्यमाचरेत्||४२|| पञ्चगव्यं महातिक्तं कल्याणकमथापि वा| स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे||४३||

🔊 Audio coming soon

तत्रेत्यादिना चिकित्सामाह| ऊर्ध्वानुलोमिकैरित्यनेन ऊर्ध्वहरानुलोमनवमनविरेचनयोरपि ग्रहणमुक्तं; यतः पाण्डुरोगेऽपि “कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां हरीतकीम्” इत्यादिना विरेचनं वक्ष्यति| ताभ्यामिति पाण्डुरोगकामलाभ्याम्| ‘ताभ्यां संशुद्धकोष्ठाय’ इति पाठपक्षे ताभ्यामिति वमनविरेचनाभ्याम्| विशिष्टमित्यादि विशिष्टभैषज्यमिहैव कामलायां पाण्डुरोगे च वक्ष्यमाणं ज्ञेयम्||३९-४३||

Adhikarana 15 (44-49) · Śloka 49

दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम्| चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा||४४|| तैः कल्कैर्विंशतिपलं घृतस्य सलिलाढके| सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत्||४५|| दीपनं श्वासकासघ्नं मूढवाते च शस्यते| दुःखप्रसविनीनां च वन्ध्यानां चैव गर्भदम्||४६|| इति दाडिमाद्यं घृतम्| कटुका रोहिणी मुस्तं हरिद्रे वत्सकात् पलम्| पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा||४७|| कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च| तैः कार्षिकैर्घृतप्रस्थः सिद्धः क्षीरचतुर्गुणः||४८|| रक्तपित्तं ज्वरं दाहं श्वयथुं स भगन्दरम्| अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा||४९|| इति कटुकाद्यं घृतम्|

🔊 Audio coming soon

दाडिमेत्यादौ अष्टमिका द्विकर्षमुक्तम्| उक्तं हि- “द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिकाऽपि च” (क.अ.१२) इति||४४-४९||

Adhikarana 16 (50) · Śloka 50

पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान्| प्रस्थः सिद्धो घृतात् पेयः स पाण्ड्वामयगुल्मनुत्||५०|| इति पथ्याघृतम्|

🔊 Audio coming soon

पथ्याशतेन क्वाथः कर्तव्यः; अत्र च तथा क्वाथार्थं जलं देयं यथा चतुर्भागावशिष्टं सद्घृतचतुर्गुणं भवति; अत एव द्रोणमानं जलं देयम्| पथ्यावृन्तार्धशतं हरीतकीफलबन्धानार्धशतम्; अन्ये तु पथ्यावृन्तचूर्णं हरीतकीफलस्यैव चूर्णं, तदस्थिशून्यमित्याहुः||५०||

Adhikarana 17 (51) · Śloka 51

दन्त्याश्चतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः| तद्वत्प्रस्थो घृतात्सिद्धः प्लीहपाण्ड्वर्तिशोफजित्||५१|| इति दन्तीघृतम्|

🔊 Audio coming soon

दन्तीत्यादौ दन्त्याः क्वाथो घृताच्चतुर्गुणः स्थाप्यः; तन्त्रान्तरदर्शनात् प्रस्थमान एवात्र क्वाथो भवति| उक्तं ह्यन्यत्र- “निकुम्भकुडवाक्वाथे प्रस्थे तत्कल्कसंयुतम्| सर्पिःप्रस्थं पचेत् प्लीहकामलापाण्डुरोगनुत्” इति||५१||

Adhikarana 18 (52) · Śloka 52

पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः| कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः||५२|| इति द्राक्षाघृतम्|

🔊 Audio coming soon

पुराणेत्यादौ जलमनुक्तद्रवत्वाद्भवति| द्राक्षाप्रस्थार्धं तु कल्कः||५२||

Adhikarana 19 (53) · Śloka 53

हरिद्रात्रिफलानिम्बबलामधुकसाधितम्| सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्||५३|| इति हरिद्रादिघृतम्|

🔊 Audio coming soon

हरिद्रेत्यादौ द्रवान्तराभावात् क्षीरमेव चतुर्गुणम्||५३||

Adhikarana 20 (54) · Śloka 55

गोमूत्रे द्विगुणे दार्व्याः कल्काक्षद्वयसाधितः| दार्व्याः पञ्चपलक्वाथे कल्के कालीयके परः||५४|| माहिषात् सर्पिषः प्रस्थः पूर्वः पूर्वे परे परः|५५|

🔊 Audio coming soon

दार्व्याः कल्काक्षद्वयसाधितो माहिषसर्पिषः प्रस्थ इति योज्यम्| दार्व्याः पञ्चपलक्वाथे इत्यत्रापि पूर्वघृतानुसारात् पञ्चपलदार्वीक्वाथोऽपि घृताद्द्विगुण एव कर्तव्यः| कालीयककल्कोऽपि पूर्ववदक्षद्वयमान एव| पूर्वः पूर्वे इति पूर्वे पाण्डुरोगे, दार्वीकल्कगोमूत्रसिद्धो घृतप्रस्थः; परे तु कामलाख्ये, परः दार्वीक्वाथकालीयकल्कसिद्धः; ‘देयः’ इति शेषः||५४||-

Adhikarana 21 (55-69) · Śloka 69

स्नेहैरेभिरुपक्रम्य स्निग्धं मत्वा विरेचयेत्||५५|| पयसा मूत्रयुक्तेन बहुशः केवलेन वा| दन्तीफलरसे कोष्णे काश्मर्याञ्जलिना शृतम्||५६|| द्राक्षाञ्जलिं मृदित्वा वा दद्यात् पाण्ड्वामयापहम्| द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिकः पिबेत्||५७|| कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां हरीतकीम्| आरग्वधं रसेनेक्षोर्विदार्यामलकस्य च||५८|| सत्र्यूषणं बिल्वपत्रं पिबेन्ना कामलापहम्| दन्त्यर्धपलकल्कं वा द्विगुडं शीतवारिणा||५९|| कामली त्रिवृतां वाऽपि त्रिफलाया रसैः पिबेत्| विशालात्रिफलामुस्तकुष्ठदारुकलिङ्गकान्||६०|| कार्षिकानर्धकर्षांशां कुर्यादतिविषां तथा| कर्षौ मधुरसाया द्वौ सर्वमेतत् सुखाम्बुना||६१|| मृदितं तं रसं पूतं पीत्वा लिह्याच्च मध्वनु| कासं श्वासं ज्वरं दाहं पाण्डुरोगमरोचकम्||६२|| गुल्मानाहामवातांश्च रक्तपित्तं च नाशयेत्| त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्||६३|| शीतं मधुयुतं प्रातः कामलार्तः पिबेन्नरः| क्षीरमूत्रं पिबेत् पक्षं गव्यं माहिषमेव वा||६४|| पाण्डुर्गोमूत्रयुक्तं वा सप्ताहं त्रिफलारसम्| तरुजान् ज्वलितान्मूत्रे निर्वाप्यामृद्य चाङ्कुरान्||६५|| मातुलुङ्गस्य तत् पूतं पाण्डुशोथहरं पिबेत्| स्वर्णक्षीरी त्रिवृच्छ्यामे भद्रदारु सनागरम्||६६|| गोमूत्राञ्जलिना पिष्टं मूत्रे वा क्वथितं पिबेत्| क्षीरमेभिः शृतं वाऽपि पिबेद्दोषानुलोमनम्||६७|| हरीतकीं प्रयोगेण गोमूत्रेणाथवा पिबेत्| जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा||६८|| सप्तरात्रं गवां मूत्रे भावितं वाऽप्ययोरजः| पाण्डुरोगप्रशान्त्यर्थं पयसा पाययेद्भिषक्||६९||

🔊 Audio coming soon

काश्मर्यं गम्भारीफलम्| शृतमिति फाण्टकषायविधिना प्रक्षिप्तं, द्राक्षाञ्जलिं मृदित्वेत्यनेन स्फुटमेव फाण्टकषायं दर्शयति| द्विशर्करमित्यादौ त्रिवृच्चूर्णं पलार्धं द्विशर्करयुक्तं सत् सार्धपलमानं भवति| गोमूत्रक्लिन्नयुक्तामिति गोमूत्रेण क्लिन्नां कल्कीकृतां तथा गोमूत्रेण युक्तामालोडितां पिबेत्| अन्ये तु आरग्वधरसेन हरीतकीं पिबेदिति योजयन्ति, इक्ष्वादिरसेन सत्रिकटुं बिल्वपत्रं पिबेदिति योजयन्ति| आरग्वधं सत्रिकटुकं विदार्या आमलकस्य च रसेन पिबेदित्यपरोऽर्थः| विशालेत्यादौ फाण्टकषायवद्द्रव्यात् पलमानात् चतुष्पलं द्रवं वदन्ति वृद्धाः||५५-६९||

Adhikarana 22 (70-71) · Śloka 71

त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः| नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा||७०|| भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शःकामलापहम्| नवायसमिदं चूर्णं कृष्णात्रेयेण भाषितम्||७१|| इति नवायसचूर्णम्|

🔊 Audio coming soon

नवायोरजसो भाग इति एकभागापेक्षया नवगुणत्वमयोरजसः; तेन त्र्यूषणादीनां मिलितानां चूर्णेन सममयोरजः||७०-७१||

Adhikarana 23 (72-79) · Śloka 80

गुडनागरमण्डूरतिलांशान्मानतः समान्| पिप्पलीद्विगुणां कुर्याद्गुटिकां पाण्डुरोगिणे||७२|| त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रकौ| दार्वीत्वङ्माक्षिको धातुर्ग्रन्थिकं देवदारु च||७३|| एतान् द्विपलिकान्भागांश्चूर्णं कुर्यात् पृथक् पृथक्| मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम्||७४|| गोमूत्रेऽष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्ततः| उदुम्बरसमान्कृत्वा वटकांस्तान् यथाग्नि ना||७५|| उपयुञ्जीत तक्रेण सात्म्यं जीर्णे च भोजनम्| मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम्||७६|| कुष्ठान्यजीर्णकं शोथमूरुस्तम्भं कफामयान्| अर्शांसि कामलां मेहं प्लीहानं शमयन्ति च||७७|| इति मण्डूरवटकाः| ताप्याद्रिजतुरूप्यायोमलाः पञ्चपलाः पृथक्| चित्रकत्रिफलाव्योषविडङ्गैः पलिकैः सह||७८|| शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाऽऽप्लुताः| अभ्यस्यास्त्वक्षमात्रा हि जीर्णे हितमिताशिना||७९|| कुलत्थकाकमाच्यादिकपोतपरिहारिणा|८०|

🔊 Audio coming soon

मण्डूरं पुराणं लोहकिट्टम्||७२-७९||-

Adhikarana 24 (80-86) · Śloka 86

त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च||८०|| भागश्चित्रकमूलस्य विडङ्गानां तथैव च| पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च||८१|| माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा| अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम्||८२|| माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे| उदुम्बरसमां मात्रां ततः खादेद्यथाग्नि ना||८३|| दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्| वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम्||८४|| योगराज इति ख्यातो योगोऽयममृतोपमः| रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम्||८५|| पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्| कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम्||८६|| विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च| इति योगराजः|

🔊 Audio coming soon

त्रिफलेत्यादौ रौप्यमलं रूप्यस्य यत् किट्टं भवति तज्ज्ञेयम्| माक्षिकस्येति माक्षिकधातोः| अश्मजत्वादीनां चतुर्णां पञ्चभागाः प्रत्येकं; किंवा पञ्चाश्मजतुनो भागाः, तथा रूप्यमलस्य चेति रूप्यमलस्येति शिलाजतुविशेषणं; तेन रूप्यमलरूपं यदुक्तं शिलाजतु “राजतं कटुकं” (चि.अ.१,पा.३) इत्यादिना, तदिह गृह्यते||८०-८६||-

Adhikarana 25 (87-99) · Śloka 99

कौटजत्रिफलानिम्बपटोलघननागरैः||८७|| भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा| शिलाजतुपलान्यष्टौ तावती सितशर्करा||८८|| त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्मिता| निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिगन्धकम्| चूर्णितं मधुनः कुर्यात् त्रिपलेनाक्षिकान् गुडान्| दाडिमाम्बुपयःपक्षिरसतोयसुरासवान्||९०|| तान् भक्षयित्वाऽनुपिबेन्निरन्नो भुक्त एव वा| पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान्||९१|| पूतिहृच्छुक्रमूत्राग्निदोषशोषगरोदरान् | कासासृग्दरपित्तासृक्शोथगुल्मगलामयान्||९२|| ते च सर्वव्रणान् हन्युः सर्वरोगहराः शिवाः| इति शिलाजतुवटकाः| पुनर्नवा त्रिवृद्व्योषविडङ्गं दारु चित्रकम्||९३|| कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकाः| पिप्पली पिप्पलीमूलं मुस्तं चेति पलोन्मितम्||९४|| मण्डूरं द्विगुणं चूर्णाद्गोमूत्रे द्व्याढके पचेत्| कोलवद्गुटिकाः कृत्वा तक्रेणालोड्य ना पिबेत्||९५|| ताः पाण्डुरोगान् प्लीहानमर्शांसि विषमज्वरम्| श्वयथुं ग्रहणीदोषं हन्युः कुष्ठं क्रिमींस्तथा||९६|| इति पुनर्नवामण्डूरम्| दार्वीत्वक् त्रिफला व्योषं विडङ्गमयसो रजः| मधुसर्पिर्युतं लिह्यात् कामलापाण्डुरोगवान्||९७|| तुल्या अयोरजःपथ्याहरिद्राः क्षौद्रसर्पिषा| चूर्णिताः कामली लिह्याद्गुडक्षौद्रेण वाऽभयाः||९८|| त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरजः| चूर्णितं क्षौद्रसर्पिर्भ्यां स लेहः कामलापहः||९९||

🔊 Audio coming soon

भावितानीत्यादि| द्विगुणत्रिगुणदशाहानि भावितानि| रसैरिति कौटजादिक्वाथैः| कौटजं कुटजफलम्| अत्र भावना शिलाजतूक्तेनैव विधिना कर्तव्या; क्वाथ्यक्वाथमाने च तन्त्रान्तरं- “तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम्| तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम्|| तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः” इति; एवं चान्यत्रापि भावनाविधौ क्वाथ्यक्काथमानौ ज्ञेयौ| फलमूलाभ्यां पलमिति मिलित्वा पलम्| युक्त्या त्रिगन्धकमिति यावता त्रिगन्धेन साधुगन्धो भवति तावन्मात्रं त्रिगन्धं ज्ञेयं; त्रिगन्धं च पत्रत्वगेला उच्यन्ते, “त्रिगन्धं तु समाख्यातं त्वगेलापत्रकैः समैः| तदेव तु समाख्यातं चातुर्जातं सकेसरम्” इति| पूत्यादिभिर्दोषशब्दः प्रत्येकं सम्बध्यते||८७-९९||

Adhikarana 26 (100-101) · Śloka 101

द्विपलांशां तुगाक्षीरीं नागरं मधुयष्टिकाम्| प्रास्थिकीं पिप्पलीं द्राक्षां शर्करार्धतुलां शुभाम्||१००|| धात्रीफलरसद्रोणे चूर्णितं लेहवत् पचेत्| शीतं मधुप्रस्थयुतं लिह्यात् पाणितलं ततः||१०१|| हन्त्येष कामलां पित्तं पाण्डुं कासं हलीमकम्| इति धात्र्यवलेहः|

🔊 Audio coming soon

द्विपलांशामित्यादौ द्राक्षा प्रास्थिकी| धात्रीफलरसः धात्रीस्वरसः||१००-१०१||-

Adhikarana 27 (102-104) · Śloka 104

त्र्यूषणं त्रिफला चव्यं चित्रको देवदारु च||१०२|| विडङ्गान्यथ मुस्तं च वत्सकं चेति चूर्णयेत्| मण्डूरतुल्यं तच्चूर्णं गोमूत्रेऽष्टगुणे पचेत्||१०३|| शनैः सिद्धास्तथा शीताः कार्याः कर्षसमा गुडाः| यथाग्नि भक्षणीयास्ते प्लीहपाण्ड्वामयापहाः||१०४|| ग्रहण्यर्शोनुदश्चैव तक्रवाट्याशिनः स्मृताः| इति मण्डूरवटकाः|

🔊 Audio coming soon

त्र्यूषणादीनामष्टाविंशतिपलानि, मण्डूरं च द्विगुणं, समुदितं चूर्णं चतुरधिकाशीतिपलमानं भवति| पृथगिति पाठान्मण्डूरचूर्णमेव पृथङ्मूत्रे पक्तव्यं, तस्मिन् सिध्यति त्र्यूषणादीनां चूर्णं प्रक्षेप्यम्| शुद्धमितिपदेन मण्डूरस्य ध्मापनगोमूत्रनिर्वापणादिना शुद्धिं दर्शयति| केचित्तु गोमूत्रमष्टगुणं प्रत्यासन्नमण्डूरादेव वदन्ति; अयमेव पक्षः साधु प्रतिभाति||१०२-१०४||-

Adhikarana 28 (105-110) · Śloka 110

मञ्जिष्ठा रजनी द्राक्षा बलामूलान्ययोरजः||१०५|| लोध्रं चैतेषु गौडः स्यादरिष्टः पाण्डुरोगिणाम्| इति गौडोऽरिष्टः| बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः||१०६|| द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे जलस्य तत्| साध्यं पादावशेषे तु पूतशेषे समावपेत्||१०७|| शर्करायास्तुलां प्रस्थं माक्षिकस्य च कार्षिकम्| व्योषं व्याघ्रनखोशीरं क्रमुकं सैलवालुकम्||१०८|| मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने| यवेषु दशरात्रं तद्ग्रीष्मे द्विः शिशिरे स्थितम्||१०९|| पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोथगुल्मनुत्| मूत्रकृच्छ्राश्मरीमेहकामलासन्निपातजित्||११०|| बीजकारिष्ट इत्येष आत्रेयेण प्रकीर्तितः| इति बीजकारिष्टः|

🔊 Audio coming soon

बीजकात् षोडशपलमित्यत्र केचित् ‘द्विर्बीजकपलान्यष्टौ’ इति पठन्ति, तत्रापि स एवार्थः| बीजकः असनः| व्याघ्रनखः नखीभेद एव| द्विः शिशिरे इति विंशतिरात्रस्थितम्||१०५-११०||-

Adhikarana 29 (111-113) · Śloka 113

धात्रीफलसहस्रे द्वे पीडयित्वा रसं तु तम्||१११|| क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च| शर्करार्धतुलोन्मिश्रं पक्षं स्निग्धघटे स्थितम्||११२|| प्रपिबेन्मात्रया प्रातर्जीर्णे हितमिताशनः| कामलापाण्डुहृद्रोगवातासृग्विषमज्वरान्||११३|| कासहिक्कारुचिश्वासांश्चैषोऽरिष्टः प्रणाशयेत्| इति धात्र्यरिष्टः|

🔊 Audio coming soon

धात्रीत्यादौ धात्रीफलसहस्रद्वयस्य स्वरस एव ग्राह्यः||१११-११३||-

Adhikarana 30 (114) · Śloka 115

स्थिरादिभिः शृतं तोयं पानाहारे प्रशस्यते||११४|| पाण्डूनां, कामलार्तानां मृद्वीकामलकीरसः|११५|

🔊 Audio coming soon

कामलार्तानां मृद्वीकामलकीरसः पानाहारे प्रशस्यत इत्यर्थः||११४||-

Adhikarana 31 (115-116) · Śloka 117

पाण्डुरोगप्रशान्त्यर्थमिति प्रोक्तं महर्षिणा||११५|| विकल्प्यमेतद्भिषजा पृथग्दोषबलं प्रति| वातिके स्नेहभूयिष्ठं, पैत्तिके तिक्तशीतलम्||११६|| श्लैष्मिके कटुतिक्तोष्णं , विमिश्रं सान्निपातिके|११७|

🔊 Audio coming soon

विकल्प्यमित्यनेनोक्तं विकल्पविधिमाह- वातिके इत्यादि||११५-११६||-

Adhikarana 32 (117-122) · Śloka 123

निपातयेच्छरीरात्तु मृत्तिकां भक्षितां भिषक्||११७|| युक्तिज्ञः शोधनैस्तीक्ष्णैः प्रसमीक्ष्य बलाबलम्| शुद्धकायस्य सर्पींषि बलाधानानि योजयेत्||११८|| व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे| मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च||११९|| वृश्चिकाली च भार्गी च सक्षीरैस्तैः समैर्घृतम्| साधयित्वा पिबेद्युक्त्या नरो मृद्दोषपीडितः||१२०|| तद्वत् केशरयष्ट्याह्वपिप्पलीक्षारशाद्वलैः| मृद्भक्षणादातुरस्य लौल्यादविनिवर्तिनः||१२१|| द्वेष्यार्थं भावितां कामं दद्यात्तद्दोषनाशनैः| विङ्गैलातिविषया निम्बपत्रेण पाठया||१२२|| वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाऽपि वा|१२३|

🔊 Audio coming soon

निपातयेदित्यादिना मृज्जपाण्डुरोगचिकित्सामाह| शाद्वलं दूर्वा| मृद्भक्षणादविनिवर्तिनः सक्तस्येत्यर्थः| भावितामिति तद्दोषनाशनैर्द्रव्यैः संस्कृताम्| मूर्वयाऽपि वेत्यन्तो ग्रन्थः पूर्वेण सम्बध्यते||११७-१२२||-

Adhikarana 33 (123) · Śloka 124

यथादोषं प्रकुर्वीत भैषज्यं पाण्डुरोगिणाम्||१२३|| क्रियाविशेष एषोऽस्य मतो हेतुविशेषतः|१२४|

🔊 Audio coming soon

पाण्डुरोगोक्तं दोषविशेषचिकित्सितं मृज्जेऽप्यतिदिशति- यथादोषमित्यादि| एष इति मृज्जे पाण्डुरोगे प्रोक्तः||१२३||-

Adhikarana 34 (124-127) · Śloka 128

तिलपिष्टनिभं यस्तु वर्चः सृजति कामली||१२४|| श्लेष्मणा रुद्धमार्गं तत् पित्तं कफहरैर्जयेत्| रूक्षशीतगुरुस्वादुव्यायामैर्वेगनिग्रहैः||१२५|| कफसम्मूर्च्छितो वायुः स्थानात् पित्तं क्षिपेद्बली| हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास्तदा नरः||१२६|| भवेत् साटोपविष्टम्भो गुरुणा हृदयेन च| दौर्बल्याल्पाग्निपार्श्वार्तिहिक्काश्वासारुचिज्वरैः||१२७|| क्रमेणाल्पेऽनुसज्येत पित्ते शाखासमाश्रिते|१२८|

🔊 Audio coming soon

तिलपिष्टनिभमित्यादिना शाखाश्रयकामलाचिकित्सितं लक्षणपूर्वकमाह| श्लेष्मणा रुद्धमार्गमिति कोष्ठस्थेन श्लेष्मणा शाखाश्रयि पित्तं कामलाजनकं रुद्धमार्गं कोष्ठगमनार्थं निषिद्धमार्गमिति यावत्| एतदेव रूक्षेत्यादिना विस्तरेणाह| श्वेतवर्चा इति कोष्ठस्थपित्तस्य मलरञ्जकस्य बहिर्निर्गमाद्वृद्धेन श्लेष्मणा श्वेतवर्चा भवति| क्रमेणेति ज्वरान्तैरनुषज्जते| अल्पे पित्ते शाखाश्रिते इति सम्बन्धः||१२४-१२७||-

Adhikarana 35 (128-129) · Śloka 130

बर्हितित्तिरिदक्षाणां रूक्षाम्लैः कटुकै रसैः||१२८|| शुष्कमूलककौलत्थैर्यूषैश्चान्नानि भोजयेत्| मातुलुङ्गरसं क्षौद्रपिप्पलीमरिचान्वितम्||१२९|| सनागरं पिबेत् पित्तं तथाऽस्यैति स्वमाशयम्|१३०|

🔊 Audio coming soon

बर्हीत्यादिना कफहरं पित्तवृद्धिकरं च समं चिकित्सितं प्राह, यतः शाखाश्रयदोषस्य वृद्धिः कोष्ठानयनार्थम्; उक्तं हि- “वृद्ध्याऽभिष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्| शाखां मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्” (सू.अ.२८) इति||१२८-१२९||-

Adhikarana 36 (130-131) · Śloka 132

कटुतीक्ष्णोष्णलवणैर्भृशाम्लैश्चाप्युपक्रमः||१३०|| आपित्तरागाच्छकृतो वायोश्चाप्रशमाद्भवेत्| स्वस्थानमागते पित्ते पुरीषे पित्तरञ्जिते||१३१|| निवृत्तोपद्रवस्य स्यात् पूर्वः कामलिको विधिः|१३२|

🔊 Audio coming soon

आपित्तरागाच्छकृत इति यावत् कोष्ठमार्गस्थो मलो न रञ्जते तावत् पित्तवर्धनम्| पूर्व इति पूर्वोक्तः| कामलिको विधिरिति कोष्ठाश्रयिकामलाचिकित्सितं कर्तव्यमित्यर्थः||१३०-१३१||-

Adhikarana 37 (132-133) · Śloka 134

यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः||१३२|| बलोत्साहक्षयस्तन्द्रा मन्द्राग्नित्वं मृदुज्वरः| स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासस्तृष्णाऽरुचिर्भ्रमः||१३३|| हलीमकं तदा तस्य विद्यादनिलपित्ततः|१३४|

🔊 Audio coming soon

यदेत्यादिना हलीमकमाह| अयमेव तन्त्रान्तरे लाघवसञ्ज्ञया अलससञ्ज्ञया चोच्यते| उक्तं हि सुश्रुते- “ज्वराङ्गमर्दभ्रमदाहतन्द्राक्षयान्वितो लाघवकोऽलसश्च| तं वातपित्ताद्धरिपीतनीलं हलीमकं केचिदुदाहरन्ति” (सु.उ.अ.४४) इति| यच्चापि तत्र भिन्नवर्चस्त्वं सा चापि कामलावस्थैव न पृथग्रोगः| उक्तं हि तन्त्रान्तरे- “सन्तापो भिन्नवर्चस्त्वं बहिरन्ते च पीनता| पाण्डुता नेत्ररागश्च पानकीलक्षणं मतम्” इति||१३२-१३३||-

Adhikarana 38 (134-137) · Śloka 138

गुडूचीस्वरसक्षीरसाधितं माहिषं घृतम्||१३४|| स पिबेत्त्रिवृतां स्निग्धो रसेनामलकस्य तु| विरिक्तो मधुरप्रायं भजेत् पित्तानिलापहम्||१३५|| द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च| यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्||१३६|| मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये| कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्||१३७|| पयसा च प्रयुञ्जीत यथादोषं यथाबलम्|१३८|

🔊 Audio coming soon

गुडूचीत्यादिना हलीमकचिकित्सामाह| द्राक्षालेहं च पूर्वोक्तमिति ‘द्विपलांशां तुगाक्षीरी’ इत्यादिग्रन्थोक्तमिहैव| यापनाबस्तयः सिद्धिस्थाने प्रोक्ताः| कासिकं चाभयालेहमिति अगस्त्यहरीतकीम्||१३४-१३७||-

Adhikarana 39 (138-139) · Śloka 139

तत्र श्लोकौ- पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम्||१३८|| कामला द्विविधा तेषां साध्यासाध्यत्वमेव च| तेषां विकल्पो यश्चान्यो महाव्याधिर्हलीमकः| तस्य चोक्तं समासेन व्यञ्जनं सचिकित्सितम्||१३९||

🔊 Audio coming soon

पाण्डोः पश्चविधस्येत्यादिना सङ्ग्रहमाह| स च व्यक्त एव||१३८-१३९||

Adhikarana puShpikA · Śloka 16

इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः||१६||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः||१६||