Adhikarana 1 (1-2) · Śloka 2
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
आद्युत्पत्तौ ज्वरसन्तापाद्रक्तपित्तोत्पत्तेर्ज्वरचिकित्सितमनु रक्तपित्तचिकित्सितमभिधीयते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
आद्युत्पत्तौ ज्वरसन्तापाद्रक्तपित्तोत्पत्तेर्ज्वरचिकित्सितमनु रक्तपित्तचिकित्सितमभिधीयते||१-२||
Adhikarana 2 (3-4) · Śloka 4
विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम्| प्रणम्योवाच निर्मोहमग्निवेशोऽग्निवर्चसम्||३|| भगवन् रक्तपित्तस्य हेतुरुक्तः सलक्षणः| वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद्गुरो||४||
🔊 Audio coming soon
पञ्चगङ्गः देशविशेषः| वक्तव्यं यत् परमिति उक्तरक्तपित्तहेतुलक्षणातिरिक्तं चिकित्सितमित्यर्थः||३-४||
Adhikarana 3 (5-6) · Śloka 6
गुरुरुवाच- महागदं महावेगमग्निवच्छीघ्रकारि च| हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत्||५|| तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च| घर्मश्चान्नविदाहश्च हेतुः पूर्वं निदर्शितः||६||
🔊 Audio coming soon
निदाने यद्यपि रक्तपित्तस्य हेतुलक्षणानि प्रतिपादितान्येव, तथाऽपीह चिकित्सापरिकरतया प्रकरणवशाद्धेतवः सङ्क्षेपेण लक्षणानि च प्रायःप्रादुर्भावीनि पुनः कथ्यन्ते| घर्म आतपः| अन्नविदाहस्तु स्वरूपविदाहिद्रव्यभक्षणाद्भवति, तथा पित्तेनान्नवहस्रोतसो दुष्टत्वादविदाहिभोजनेनापि भवति| यदुक्तमन्यत्र- “स्रोतस्यन्नवहे पित्तं पक्तौ वा यस्य तिष्ठति| विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते” (सु.सू.अ.४६) इति||५-६||
Adhikarana 4 (7-8) · Śloka 8
तैर्हेतुभिः समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते| तद्योनित्वात् प्रपन्नं च वर्धते तत् प्रदूषयत्||७|| तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते| स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति||८||
🔊 Audio coming soon
तैर्हेतुभिरित्यादिना सम्प्राप्तिमाह| रक्तं प्रपद्यते रक्तं गच्छतीत्यर्थः| यद्यपि “पित्तं स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि, तत्राप्यामाशयो विशेषेण पित्तस्थानम्” (सू.अ.२०) इति वचनेन स्वभावादेव रक्तं याति, तथाऽपि रक्तपित्तसम्प्राप्तौ प्रधानस्थानादामाशयरूपात् पित्तस्येह रक्तगमनं ज्ञेयं; रक्तगमनं च पित्तस्य सम्प्राप्तिमहिम्ना भवति| तद्योनित्वादिति तद्योनित्वं हेतुः रक्तप्रपन्नस्य पित्तस्य वर्धने ज्ञेयं; तेन यस्माद्रक्तयोनि पित्तं तस्माद्रक्तं प्राप्य वर्धत इत्यर्थः| उक्तं हि- “असृजः पित्तं” (चि.अ.१५) इति| तदिति रक्तं प्रदूषयत्| द्रवो धातुरिति द्रवरूपोंऽशः| धातोर्धातोरिति मांसादेः| स्विद्यतः प्रसिच्यते अतिक्षरति; तेन पित्तोष्मणा स्विद्यमानधातुभ्यश्च्युतेन द्रवरूपेण धातुना युक्तं सपित्तं भूयोऽतितरां वृद्धिं गच्छतीति योजना||७-८||
Adhikarana 5 (9) · Śloka 9
संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः| रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||९||
🔊 Audio coming soon
रक्तपित्तसञ्ज्ञानिमित्तमाह- संयोगादित्यादि| रक्तस्य संयोगात्तथा रक्तस्य दूषणात्तथा रक्तस्य गन्धवर्णयोः पित्ते सामान्यात् पित्तं रक्तपित्तमुच्यते इति वाक्यार्थः||९||
Adhikarana 6 (10) · Śloka 10
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते| स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्||१०||
🔊 Audio coming soon
रक्तपित्तस्य स्थानमाह- प्लीहानं चेत्यादि| वर्तते ऊर्ध्वमधश्च याति; ‘वर्धते’ इति वा पाठः| कस्माद्यकृत्प्लीह्नोरेव तद्वर्तत इत्याह- स्रोतांसीत्यादि| यस्माद्रक्तस्यापि यकृत्प्लीहानावेव प्रधानं स्थानं, तेन रक्तसंयोगादिनिष्पन्नस्य रक्तपित्तस्य तदेव स्थानमिति भावः||१०||
Adhikarana 7 (11-12) · Śloka 13
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम्| श्यावारुणं सफेनं च तनु रूक्षं च वातिकम्||११|| रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम्| मेचकागारधूमाभमञ्जनाभं च पैत्तिकम्||१२|| संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्|१३|
🔊 Audio coming soon
तस्य दोषसम्बन्धविशेषेण लिङ्गान्याह- सान्द्रमित्यादि| कषायवदाभा यस्य तत् कषायाभं, पाटलमित्यर्थः| कृष्णस्य वस्त्रादेः ससारगन्धकादिभिर्मसृणीकृतस्य यो वर्णः स मेचकः| ननु पित्तमेव रक्तपित्तमित्युक्तं, तत् कथं श्लैष्मिकं भवति? उच्यते- सामान्यसम्प्राप्तौ पित्तमेव रक्तपित्तनिर्वर्तकं, यथा- सर्वगुल्मेषु वायुः, यथा- सर्वज्वरेषु पित्तमारम्भकं; तदेव यदोल्बणेन कफेन स्वलक्षणकारिणा युक्तं रक्तपित्तकरं भवति, तदा सामान्यसम्प्राप्तिसम्प्राप्तं पित्तमुत्सृज्य श्लेष्मणैव सान्द्रत्वादिस्वलक्षणकारिणा व्यपदिश्यते- श्लैष्मिकं रक्तपित्तमिति; यथा- श्लैष्मिके गुल्मे सामान्यसम्प्राप्त्यागतवातं परित्यज्य श्लेष्मणैव व्यपदेशो भवति, यथा वा कफज्वरे सर्वज्वरानपायिकारणमनादृत्य विशेषलक्षणकारिणा श्लेष्मणैव व्यपदेशो भवति; एवं वातिकेऽपि रक्तपित्ते व्याख्येयम्| यत्तु कफवातविरहितेन केवलेनैव पित्तेन बलवता जनितं रक्तपित्तं पैत्तिकरक्तपित्तलक्षणं भवति तत् पैत्तिकं रक्तपित्तमित्युच्यते| लक्षणेनैव दोषव्यपदेशो भवति; तेन यद्यद्दोषजनितलक्षणयुक्तं रक्तपित्तं भवति तत्तद्दोषजमिति व्यपदिश्यते| श्लैष्मिकादिरक्तपित्तापेक्षया पैत्तिके रक्तपित्तेऽत्युल्बणं पित्तं भवति, यतस्तत्रैव पित्तं स्वलक्षणानि करोति, नान्यत्र; एवं व्यवस्थिते यदुच्यते- केवलपैत्तिकस्य रक्तपित्तस्य मार्गो नास्ति, यतो वातरक्तमधो याति, कफारब्धमूर्ध्वमिति प्रतिपादितं; तदपि न, यतः पैत्तिकस्याप्यूर्ध्वगमनमधोगमनं वा भवत्येव; परं पैत्तिकं यदूर्ध्वं याति तन्मार्गमहिम्ना कफसंयुक्तं भवति, यच्चाधो याति तद्वातस्थानसम्बन्धाद्वातानुगतं भवति| मार्गसम्बन्धानुगतश्च दोषः स्वलक्षणकारकत्वान्नानुबन्धः, तेनासौ पैत्तिके रक्तपित्तेऽपि ‘एकदोषानुगं साध्यं’ इत्यादिवचनेषु न गृह्यते| यतः स्वतन्त्रो व्यक्तलिङ्गश्च दोषोऽनुबन्ध्यः; तद्विपरीतस्तु अनुबन्धः; तेन यथोक्तलक्षणकारिणा दोषेणानुबन्ध्येन वातिकत्वादिव्यपदेशो रक्तपित्तेषु, न मार्गसम्बन्धानुगतेनास्वलक्षणकारिणाऽनुबन्धरूपेणेति| अन्ये तु “प्रदेशान्तरचितेन पित्तेन यदोत्तरकालं रक्तपित्तस्य सम्बन्धो भवति तदैव पैत्तिकं रक्तपित्तं भवति” इति ब्रुवते||११-१२||-
Adhikarana 8 (13-14) · Śloka 14
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते||१३|| यत्त्रिदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत्| व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत्||१४||
🔊 Audio coming soon
सम्प्रति साध्यासाध्यविभागमाह- एकेत्यादि| एकदोषानुगमिति उक्तैकदोषलक्षणयुक्तम्, एवं द्विदोषमपि दोषद्वयलक्षणयुक्तम्, एवं त्रिदोषमपि ज्ञेयम्| न तु मार्गसम्बन्धानुगतमपि दोषं प्रक्षिप्य द्विदोषत्वं त्रिदोषत्वं वा गणनीयं, तथाहि सति केवलं रकपित्तं न स्यादेव; तथा सम्प्राप्तिसम्प्राप्तं दोषं गृहीत्वा मार्गसम्बन्धानुगतेन वायुना कफेन वा योगाद्द्विदोषजत्वमेव सर्वदा स्यात्, न ‘एकदोषानुगं साध्यं’ इति यदुक्तं तत् स्यात्; तस्माद्यथोक्तमेव साधु| मन्दाग्नेरतिवेगवदिति पृथगेवासाध्यलक्षणं, व्याधिभिः क्षीणदेहस्येत्यादि च पृथगेव||१३-१४||
Adhikarana 9 (15-21) · Śloka 21
गतिरूर्ध्वमधश्चैव रक्तपित्तस्य दर्शिता| ऊर्ध्वा सप्तविधद्वारा द्विद्वारा त्वधरा गतिः||१५|| सप्त च्छिद्राणि शिरसि द्वे चाधः, साध्यमूर्ध्वगम्| याप्यं त्वधोगं, मार्गौ तु द्वावसाध्यं प्रपद्यते||१६|| यदा तु सर्वच्छिद्रेभ्यो रोमकूपेभ्य एव च| वर्तते तामसङ्ख्येयां गतिं तस्याहुरान्तिकीम्||१७|| यच्चोभयाभ्यां मार्गाभ्यामतिमात्रं प्रवर्तते| तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव च||१८|| संसृष्टं कफवाताभ्यां कण्ठे सज्जति चापि यत्| यच्चाप्युपद्रवैः सर्वैर्यथोक्तैः समभिद्रुतम्||१९|| हारिद्रनीलहरितताम्रैर्वर्णैरुपद्रुतम्| क्षीणस्य कासमानस्य यच्च तच्च न सिध्यति||२०|| यद्विदोषानुगं यद्वा शान्तं शान्तं प्रकुप्यति| मार्गान्मार्गं चरेद्यद्वा याप्यं पित्तमसृक् च तत्||२१||
🔊 Audio coming soon
गतिकृतं साध्यादिभेदं दर्शयितुं गतिभेदमेवाह- गतिरूर्ध्वमित्यादि| गतिप्रकारान्तरमप्यसाध्यस्याह- यदा तु सर्वच्छिद्रेभ्य इत्यादि| यच्चोभयाभ्यामित्यादिना कृष्णमतीव चेत्यन्तेनासाध्यतालक्षणमाह| अत्र मार्गाभ्यामित्यनेन न यौगपद्येन मार्गप्रवृत्तिर्व्यवस्थिता, किन्तु प्रत्येकं, मार्गद्वयप्रवृत्तस्यासाध्यत्वेन पूर्वमेवोक्तत्वात्| कुणपगन्धेनेति शवगन्धेन| कण्ठे सज्जतीति कण्ठाद्बहिर्न याति| यथोक्तैरिति निदानोक्तैः; तत्र हि उपद्रवाः खलु दौर्बल्यारोचकादयः स्वरभेदान्ता उक्ताः| हारिद्रवर्णादिभिर्युक्तं क्षीणस्य कासिनो न सिध्यतीति ज्ञेयम्| यद्विदोषानुगमित्यनेनानुबन्धरूपदोषद्वययोगाद्याप्यत्वमुच्यते; यत्तु पूर्वं द्विदोषजं याप्यमित्युक्तं तदनुबन्ध्यदोषद्वयजन्याभिप्रायेणेति न पौनरुक्त्यम्| मार्गान्मार्गं चरेदिति ऊर्ध्वगं मुखं परित्यज्य नासां यातीत्यादि ज्ञेयम्, ऊर्ध्वगस्य त्वधोगमनेऽधोगत्वादेव याप्यत्वं भवति, अधोगं तु मार्गान्तरमगच्छदपि स्वत एव याप्यं; तस्मान्नोर्ध्वाधोमार्गपरिवर्तोऽत्र विवक्षितः||१५-२१||
Adhikarana 10 (22) · Śloka 22
एकमार्गं बलवतो नातिवेगं नवोत्थितम्| रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्||२२||
🔊 Audio coming soon
एकमार्गमित्यादिना साध्यलक्षणम्| एकमार्गमिति सामान्यवचनेऽप्यूर्ध्वमार्गमेव लभ्यते, अधोगस्यैकमार्गगस्यापि याप्यत्वात्| सुखे काले इति हेमन्ते शिशिरे च| अत्र मार्गेण तथा दोषेण तथा लक्षणेन साध्यासाध्ययाप्यभेदाः पृथगुक्ताः| तत्र च साध्यलक्षणयाप्यलक्षणमेलके याप्यत्वमेव; याप्यासाध्यमेलकेऽसाध्यत्वमेव, यथा- एकदोषं यदधोगतं तदेकदोषत्वात् साध्यं किन्त्वधोगतत्वाद्याप्यं; यत्त्रिदोषमधोगतं तदधोगतत्वेन याप्यं, किन्तु त्रिदोषत्वादसाध्यमेवेति ज्ञेयम्| यदुक्तं- “नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम्” (नि.अ.८) इति; “साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा” (नि.अ.८) इति च||२२||
Adhikarana 11 (23-24) · Śloka 24
स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम्| अधोगस्योत्तरं प्रायः, पूर्वं स्यादूर्ध्वगस्य तु||२३|| ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्| द्विमार्गं कफवाताभ्यामुभाभ्यामनुबध्यते||२४||
🔊 Audio coming soon
स्निग्धोष्णमित्यादि निदानोक्तमपि प्रायिकत्वाद्विशेषोपदर्शनार्थं पुनरिहोच्यते| प्रायःशब्देन कदाचिद्रूक्षोष्णमपि ऊर्ध्वगस्य हेतुर्भवति, तथा स्निग्धोष्णमपि अधोगस्येति दर्शयति| एवं च निदानमार्गानियमे सति ‘मार्गौ दोषानुबन्धं च निदानं प्रसमीक्ष्य च’ इत्यत्र मार्गादि पञ्च (यच्च) पठितं...| यद्यप्यधोगे रूक्षोष्णमेव परं हेतुस्तथाऽपि स्निग्धोष्णं कदाचित् कारणं भवति, स्निग्धकृतश्च कफोऽप्यधोगे भवति; एवमूर्ध्वगेऽपि चिन्तनीयम्| ऊर्ध्वगं कफसंसृष्टमित्यादावपि प्रायःशब्दसम्बन्धाद्व्यभिचारो ज्ञेयः||२३-२४||
Adhikarana 12 (25-28) · Śloka 28
अक्षीणबलमांसस्य रक्तपित्तं यदश्नतः| तद्दोषदुष्टमुत्क्लिष्टं नादौ स्तम्भनमर्हति||२५|| गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम्| गुल्मं प्लीहानमानाहं किलासं कृच्छ्रमूत्रताम्||२६|| कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम्| बुद्धीन्द्रियोपरोधं च कुर्यात् स्तम्भितमादितः||२७|| तस्मादुपेक्ष्यं बलिनो बलदोषविचारिणा | रक्तपित्तं प्रथमतः प्रवृद्धं सिद्धिमिच्छता||२८||
🔊 Audio coming soon
अश्नत इत्यनेन सन्तर्पणोत्थितं दर्शयति| उत्क्लिष्टमिति प्रवृत्त्युन्मुखम्, आमदोषाश्रितत्वात्| बलदोषविचारिणेति यदैव बलह्रासं सम्पश्येद्धीनदोषत्वं वा तदैव स्तम्भनं कार्यम्||२५-२८||
Adhikarana 13 (29-30) · Śloka 30
प्रायेण हि समुत्क्लिष्टमामदोषाच्छरीरिणाम्| वृद्धिं प्रयाति पित्तासृक्तस्मात्तल्लङ्घ्यमादितः||२९|| मार्गौ दोषानुबन्धं च निदानं प्रसमीक्ष्य च| लङ्घनं रक्तपित्तादौ तर्पणं वा प्रयोजयेत्||३०||
🔊 Audio coming soon
सम्प्रति कृत्स्नं लङ्घनहेतुमाह- मार्गावित्यादि| तत्रोर्ध्वमार्गः, सामं पित्तं, कफो दोषः, स्निग्धोष्णं च निदानं लङ्घनप्रयोजकं; तद्व्यतिरिक्तं तु मार्गादि भोजनरूपतर्पणप्रयोजकम्| तर्पयतीति तर्पणमशनम्| तेन यवागूस्तर्पणं च ग्राह्यम्| ये तु तर्पणशब्देन सक्तुतर्पणमेव ग्राहयन्ति तेषां यवागूदानपक्षो न सङ्गृहीतः स्यात्||२९-३०||
Adhikarana 14 (31-35) · Śloka 35
ह्रीबेरचन्दनोशीरमुस्तपर्पटकैः शृतम्| केवलं शृतशीतं वा दद्यात्तोयं पिपासवे||३१|| ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते| कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित्||३२|| जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः| शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम्||३३|| तर्पणं सघृतक्षौद्रं लाजचूर्णैः प्रदापयेत्| ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति||३४|| मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत्| दाडिमामलकैर्विद्वानम्लार्थं चानुदापयेत्||३५||
🔊 Audio coming soon
केवलमिति ह्रीबेरादिरहितं; जलमेवैकं केवलमौषधद्वेषिणे पुरुषाय देयम्| पूर्वमिति पदेन पश्चाद्बलह्रासकारकं निषेधयति| कालः हेमन्तादिः, अनुबन्धः दोषानुबन्धः| प्रकृतिः स्वाभाविकी द्रव्याणां गुरुलाघवादिरूपा, कल्पनं कल्पः संस्कार इत्यर्थः| एतेन कालं दोषानुबन्धं च ज्ञात्वा यस्य यत्स्वभावं द्रव्यं युक्तं भवति तेन तर्पणं यवागूर्वा कार्येत्यर्थः| खर्जूरादिना जलं षडङ्गविधानेनैव कर्तव्यम्| एतच्च जलमत्र मधुरमप्यूर्ध्वगे कफसंसृष्टेऽपि रक्तपित्ते यौगिकं भवति, रक्तपित्तव्याधिप्रत्यनीकत्वात्||३१-३५||
Adhikarana 15 (36-48) · Śloka 48
शालिषष्टिकनीवारकोरदूषप्रशान्तिकाः| श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम्||३६|| मुद्गा मसूराश्चणकाः समकुष्ठाढकीफलाः| प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम्||३७|| पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः| किराततिक्तकं शाकं गण्डीरः सकठिल्लकः||३८|| कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मलेः| अन्नपानविधौ शाकं यच्चान्यद्रक्तपित्तनुत्||३९|| शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम्| स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम्||४०|| पारावतान् कपोतांश्च लावान् रक्ताक्षवर्तकान्| शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान्||४१|| रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत्| ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान्||४२|| कफानुगे यूषशाकं दद्याद्वातानुगे रसम्| रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते||४३|| पद्मोत्पलानां किञ्जल्कः पृश्निपर्णी प्रियङ्गुकाः| जले साध्या रसे तस्मिन् पेया स्याद्रक्तपित्तिनाम्||४४|| चन्दनोशीरलोध्राणां रसे तद्वत् सनागरे| किराततिक्तकोशीरमुस्तानां तद्वदेव च||४५|| धातकीधन्वयासाम्बुबिल्वानां वा रसे शृता| मसूरपृश्निपर्ण्योर्वा स्थिरामुद्गरसेऽथ वा||४६|| रसे हरेणुकानां वा सघृते सबलारसे| सिद्धाः पारावतादीनां रसे वा स्युः पृथक्पृथक्||४७|| इत्युक्ता रक्तपित्तघ्न्यः शीताः समधुशर्कराः| यवाग्वः कल्पना चैषा कार्या मांसरसेष्वपि||४८||
🔊 Audio coming soon
शालीत्यादिनाऽन्नमाह| प्रशान्तिका जलमध्ये प्रायो भवति| प्रियङ्गुः कङ्गुः| कोरदूषस्य रक्तपित्तहेतुत्वं निष्पावमाषसूपादियुक्तस्यैव संयोगमहिम्ना निदाने प्रोक्तम्, अयं तु कषायमधुरलघुत्वात् कोरदूषः केवलो रक्तपित्तहर एवेतीह पठ्यते| एवं गण्डीरोऽपि निदाने सुरासौवीरकादियुक्त एव हेतुत्वेनोक्तः, स तु केवलो हित एव; किंवा स्थलजजलजभेदेन गण्डीरो द्विविधः; तत्र हरितवर्गपठितो यः स निदानं भवति, इतरस्तु जलजः शाकवर्गे पठितो यः स इह कफाधिके रक्तपित्ते ज्ञेयः| यूषवद्वा विपाचितमिति यूषो यथा दाडिमाद्यम्लद्रव्ययुक्तो जले विपाच्यते तथाऽयमपीत्यर्थ; किंवा यूषयुक्तं यथा भवति तथा विपाचितमित्यर्थः| रक्ताक्षः चकोरकः| यूषश्च शाकं चेति यूषशाकम्||३६-४८||
Adhikarana 16 (49-51) · Śloka 51
शशः सवास्तुकः शस्तो विबन्धे रक्तपित्तिनाम्| वातोल्बणे तित्तिरिः स्यादुदुम्बररसे शृतः||४९|| मयूरः प्लक्षनिर्यूहे न्यग्रोधस्य च कुक्कुटः| रसे बिल्वोत्पलादीनां वर्तकक्रकरौ हितौ||५०|| तृष्यते तिक्तकैः सिद्धं तृष्णाघ्नं वा फलोदकम्| सिद्धं विदारिगन्धाद्यैरथवा शृतशीतलम्||५१||
🔊 Audio coming soon
आवस्थिकं भोजनमाह- शश इत्यादि| अत्र शशः कषायत्वाद्रक्तपित्तहरो भवत्येव, विबन्धहरेण वास्तुकेन संस्कृतत्वाद्विबन्धहरोऽपि भवति| एवं तित्तिरिमयूरादयो यद्यप्युष्णत्वेन वातहरास्तथाऽपि रक्तपित्ते न हिता उष्णत्वेन; ततश्च तेषां साधने उदुम्बररसादयो रक्तपित्तहरा नियुज्यन्ते; तथा सति वातं रक्तपित्तं च घ्नन्ति| प्रतिनियतसाधकद्रव्योपन्यासात् संयोगमहिम्नैव कार्यकरा भवन्तीति ज्ञायते| न शशः कषायोऽपि विबन्धं करोति, वास्तुकसंस्कारात्; न तित्तिरिप्रभृतयो रक्तपित्तं कोपयन्ति, उदुम्बररसादिसंस्कारात्; एवं विपरीतफलसम्भवो नास्ति, संयोगशक्तेरचिन्त्यत्वात्| वास्तुकरसे एव शशस्य साधनप्रयोगः, इतरसाहचर्यात्| उक्तं हि- “विपचेत्तु वास्तुकरसे शशं विबन्धे पुरीषस्य” इति| सिद्धं विदारिगन्धाद्यैरिति शालिपर्ण्यादिपञ्चमूलशृतमुदकम्||४९-५१||
Adhikarana 17 (52) · Śloka 52
ज्ञात्वा दोषावनुबलौ बलमाहारमेव च| जलं पिपासवे दद्याद्विसर्गादल्पशोऽपि वा||५२||
🔊 Audio coming soon
सम्प्रति पानीयदानविषयप्रकारमाह- ज्ञात्वेत्यादि| दोषाविति वातकफौ, पित्तं तु नायकमेव नानुबलम्| विसर्गादिति विरतेः, यावदिच्छमित्यर्थः| पक्षान्तरमाह- अल्पशोऽपि वा, स्तोकं स्तोकमित्यर्थः| अत्र यदि बलवानग्निः शरीरं च महत्तदा विसर्गपर्यन्तं जलं देयं; विपर्यये तु पानीयं नातिपथ्यं, तेनाल्पशो देयम्||५२||
Adhikarana 18 (53) · Śloka 54
निदानं रक्तपित्तस्य यत्किञ्चित् सम्प्रकाशितम्| जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः||५३|| इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तनुत्|५४|
🔊 Audio coming soon
रक्तपित्तनिदानवर्जनार्थमाह- निदानमित्यादि||५३||-
Adhikarana 19 (54-61) · Śloka 61
वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत्||५४|| अक्षीणबलमांसस्य यस्य सन्तर्पणोत्थितम्| बहुदोषं बलवतो रक्तपित्तं शरीरिणः||५५|| काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम्| विरेचनेनोर्ध्वभागमधोगं वमनेन च||५६|| त्रिवृतामभयां प्राज्ञः फलान्यारग्वधस्य वा| त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा||५७|| विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम्| रसः प्रशस्यते तेषां रक्तपित्ते विशेषतः||५८|| वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः| सशर्करं वा सलिलमिक्षूणां रस एव वा||५९|| वत्सकस्य फलं मुस्तं मदनं मधुकं मधु| अधोवहे रक्तपित्ते वमनं परमुच्यते||६०|| ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिः क्रमो हितः| अधोगते यवाग्वादिर्न चेत्स्यान्मारुतो बली||६१||
🔊 Audio coming soon
वक्ष्यते इत्यादिना संशोधनानि प्रधानभेषजत्वादुच्यन्ते| अक्षीणबलमांसस्येत्यनेन सहजा बलाहानिरुच्यते, बलवत इत्यनेन कालकृतं बलमुच्यते| काले संशोधनयोग्येऽनत्युष्णशीतकाले| निरुपद्रवमिति क्रियाविशेषणं, किंवा रक्तपित्तविशेषणम्| विरेचनेनोर्ध्वभागमित्यादिना अनुलोमहरणं रक्तपित्ते निषेधयति| उक्तं च- “प्रतिमार्गं च हरणं रक्तपित्ते विधीयते” (नि.अ.२) इति| रक्तपित्ते विशेषत इत्यनेन रक्तपित्तादन्यत्र कल्कादयोऽप्येषां भवन्ति| वमनमिति वमनकारको योगो वमनमुच्यते| मदनस्य दोषाद्यपेक्षया कर्षादिका मात्रा कल्पे वक्ष्यमाणा ज्ञेया| सशर्करे सलिले तथेक्षुरसे मदनयोगादेव वमनकर्तृत्वं ज्ञेयम्| अधोवहे इत्यत्रापि शुद्धकोष्ठस्येति योज्यम्| न चेत् स्यान्मारुतो बलीत्यनेन यदि मारुतो बली स्यात्तदा मांसौदन एव देय इति ज्वरोक्तं विधिं सूचयति||५४-६१||
Adhikarana 20 (62-72) · Śloka 72
बलमांसपरिक्षीणं शोकभाराध्वकर्शितम्| ज्वलनादित्यसन्तप्तमन्यैर्वा क्षीणमामयैः||६२|| गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम्| अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम्||६३|| शोषेण सानुबन्धं वा तस्य संशमनी क्रिया| शस्यते रक्तपित्तस्य परं साऽथ प्रवक्ष्यते||६४|| अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः| मधुमिश्रः श्वासकासरक्तपित्तनिबर्हणः||६५|| अटरूषकनिर्यूहे प्रियङ्गुं मृत्तिकाञ्जने| विनीय लोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत्||६६|| पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम्| नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत्||६७|| प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे| यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे||६८|| विनीय रक्तपित्तघ्नं पेयं स्यात्तण्डुलाम्बुना| युक्तं वा मघुसर्पिर्भ्यां लिह्याद्गोश्वशकृद्रसम्||६९|| खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मलेः| पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिकः||७०|| शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि| लिह्याच्चूर्णानि मधुना पद्मानां केशरस्य च||७१|| धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम्| सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत्||७२||
🔊 Audio coming soon
संशमनविषयमाह- बलमांसेत्यादि| शोषेणेति राजयक्ष्मणा| अटरूषकमृद्वीकेत्यादि कामलाहरं केचिदाहुः| अटरूषकनिर्यूह इत्यादौ प्रियङ्ग्वादीनां मिलितानां कल्कः कर्षः, क्षौद्रस्य च कर्षो ग्राह्यः, परिभाषाबलात्| उक्तं चाग्निवेशेन- “कर्षश्चूर्णस्य कल्कस्य गुडिकानां च सर्वशः| मात्रा क्षौद्रघृतादीनां क्वाथस्नेहेषु चूर्णवत्” इति| अन्ये तु ब्रुवते- चूर्णादीनां कर्षमानत्वं स्वतन्त्रप्रयोगे भवति| अत्र चाटरूषक्वाथः क्वाथपरिभाषया कार्यः, कल्कश्च कल्कपरिभाषया कार्यः| प्रियङ्ग्वादीनां प्रत्येकं कर्षमानत्वे भेषजभूयस्त्वं भवति, तेनात्र मिलितैः कर्षमानस्य कर्तव्यता युक्ता| तेनैव विधिनेति अटरूषकनिर्यूहक्षौद्रयुतम्| खदिरस्येत्यादौ पुष्पचूर्णानीति बहुवचनत्वाद्रक्तपित्तनुदिति विशेषणं पुरुषस्य ज्ञेयम् | धन्वजानामिति जाङ्गलानाम्||६२-७२||
Adhikarana 21 (73-77) · Śloka 77
उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिकाः| पृथक् पृथक् चन्दनतुल्यभागिकाः सशर्करास्तण्डुलधावनाप्लुताः||७३|| रक्तं सपित्तं तमकं पिपासां दाहं च पीताः शमयन्ति सद्यः| किराततिक्तं क्रमुकं समुस्तं प्रपौण्डरीकं कमलोत्पले च||७४|| ह्रीबेरमूलानि पटोलपत्रं दुरालभा पर्पटको मृणालम्| धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक्||७५|| तुगालतावेतसतण्डुलीयं ससारिवं मोचरसः समङ्गा| पृथक् पृथक् चन्दनयोजितानि तेनैव कल्पेन हितानि तत्र||७६|| निशि स्थिता वा स्वरसीकृता वा कल्कीकृता वा मृदिताः शृता वा| एते समस्ता गणशः पृथग्वा रक्तं सपित्तं शमयन्ति योगाः||७७||
🔊 Audio coming soon
उशीरेत्यादौ पृथक् पृथगिति वीप्सायां, तेन प्रत्येकमुशीरादीनां चन्दनसमानां प्रयोगं दर्शयति; तथा चाष्टौ प्रयोगा भवन्ति| सशर्करा इति वचनेनात्र शर्करा समभागैव देया; उक्तं ह्यग्निवेशे- “माषिकं हिङ्गु, सिन्धूत्थलवणाद्यास्तु शाणिकाः| सितोपलागुडक्षाराः समा, एषा प्रकल्पना” इति| यत्र शर्करायाः प्रक्षेप्यत्वं तत्र प्रक्षेपन्यायेनैव शर्करा देया| किरातादिकेऽपि पृथक् पृथक् चन्दनयोजितानीत्यनेन समचन्दनत्वं प्रत्येकं द्रव्यप्रयोगाणाम्| तेनैव कल्पेनेत्यनेन सशर्करत्वं तण्डुलधावनाप्लुतत्वं चोच्यते| क्रमुकं पट्टिकालोध्रम्| धनञ्जयः अर्जुनः| लता प्रियङ्गुः| समङ्गा वराहक्रान्ता, ‘लज्जालुः’ इति लोके| निशिस्थिता इत्यादिना किराततिक्तादीनां कल्पनामाह| निशिस्थिता वेत्यनेन शीतकषाय उच्यते| मृदिता इति फाण्टीकृताः; कल्कग्रहणेन चूर्णस्यापि ग्रहणं क्रियते, यतः सुश्रुते षडेव कल्पाः पाठभेदात् पाठ्यन्ते- “क्षीरं रसः कल्कमथो कषायः शृतश्च शीतश्च तथैव फाण्टः| कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टाः” (सु.सू.अ.४४) इति| अन्ये तु चूर्णमपि फाण्टशब्देन गृह्यते इति ब्रुवते| यदा तत्र फाण्टग्रहणादेव स पाठः सुश्रुते प्रमाणं, तदा चूर्णशब्देन च कल्पान्तरमेवोच्यते (?)| इह तु फाण्टस्य श्रुतत्वात् कृष्णात्रेयादिपठित एव फाण्टो ग्राह्यः| यदुक्तं- “क्षुण्णस्य सलिले तप्ते मृदितस्योद्धृतस्य च| यो रसो गृह्यते तज्ज्ञैः स फाण्टः सम्प्रकीर्तितः” इति| तेनेह निर्द्रवः कल्क एव चूर्णशब्देनोच्यते| सम्प्रति व्यस्तसमस्तप्रयोगमेषामाह- एते इत्यादि| गणश इति उशीरादिगणशः, किराततिक्तादिगणशः, तुगादिगणशश्चेति| अत्र च प्रत्येकप्रत्योगे समचन्दनत्वं श्रुतं, यदा गणशः प्रयोगो भवति तदाऽपि चन्दनस्य समो भागो देय इति व्याख्यानयन्ति वृद्धाः||७३-७७||
Adhikarana 22 (78) · Śloka 78
मुद्गाः सलाजाः सयवाः सकृष्णाः सोशीरमुस्ताः सह चन्दनेन| बलाजले पर्युषिताः कषाया रक्तं सपित्तं शमयन्त्युदीर्णम्||७८||
🔊 Audio coming soon
बलाजल इति बलासाधितशीतजले| पर्युषिताः कषाया इति शीतकषायाः||७८||
Adhikarana 23 (79-81) · Śloka 81
वैदूर्यमुक्तामणिगैरिकाणां मृच्छङ्खहेमामलकोदकानाम्| मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्||७९|| उशीरपद्मोत्पलचन्दनानां पक्वस्य लोष्टस्य च यः प्रसादः| सशर्करः क्षौद्रयुतः सुशीतो रक्तातियोगप्रशमाय देयः||८०|| प्रियङ्गुकाचन्दनलोध्रसारिवामधूकमुस्ताभयधातकीजलम्| समृत्प्रसादं सह यष्टिकाम्बुना सशर्करं रक्तनिबर्हणं परम्||८१||
🔊 Audio coming soon
वैदूर्यादिभिः सह स्थितं जलं वैदूर्यादिजलं ज्ञेयम्| उशीरेत्यादौ शीतकषाये प्रसाद इति प्रसन्नं जलं ग्राह्यम्| प्रियङ्ग्वादौ अभयम् उशीरम्| समृत्प्रसादमित्यत्र मृत्प्रसादोऽप्यनन्तरं प्रक्षेप्यः; एवं यष्टिकाप्रयोगेऽपि||७९-८१||
Adhikarana 24 (72-84) · Śloka 84
कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते च| यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु तत्र कार्यम्||८२|| छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा| सशर्करं माक्षिकसम्प्रयुक्तं विदारिगन्धादिगणैः शृतं वा||८३|| द्राक्षाशृतं नागरकैः शृतं वा बलाशृतं गोक्षुरकैः शृतं वा| सजीवकं सर्षभकं ससर्पिः पयः प्रयोज्यं सितया शृतं वा||८४||
🔊 Audio coming soon
तत्रानिलः स्यादिति तत्र बलवान् वातः स्यात्| प्रयोग इति अभ्यासे| सजीवकमित्यादौ सजीवकं सर्षभकं च शृतं यत् पयस्तत् ससर्पिस्तथा सितया च युक्तं प्रयोज्यं पेयमिति ज्ञेयम्||७२-८४||
Adhikarana 25 (85) · Śloka 85
शतावरीगोक्षुरकैः शृतं वा शृतं पयो वाऽप्यथ पर्णिनीभिः| रक्तं निहन्त्याशु विशेषतस्तु यन्मूत्रमार्गात् सरुजं प्रयाति||८५||
🔊 Audio coming soon
पर्णिनीभिरिति पर्णिन्यः पर्णिनीचतुष्टयम्||८५||
Adhikarana 26 (83-87) · Śloka 87
विशेषतो विट्पथसम्प्रवृत्ते पयो मतं मोचरसेन सिद्धम्| वटावरोहैर्वटशुङ्गकैर्वा ह्रीबेरनीलोत्पलनागरैर्वा||८६|| कषाययोगान् पयसा पुरा वा पीत्वाऽनु चाद्यात् पयसैव शालीन्| कषाययोगैरथवा विपक्वमेतैः पिबेत् सर्पिरतिस्रवे च||८७||
🔊 Audio coming soon
वटशुङ्गा अविकसितनववटपल्लवाः| कषाययोगानिति अटरूषकादीन् कल्कीकृतान् पयसा पीत्वेत्यर्थः| एतैरिति वक्ष्यमाणैः; किंवा एतैरेव कषाययोगैर्यथायोग्यतया सर्पिः साधनीयम्| अतिस्रवे इति अतिमात्ररक्तपित्तस्रुतौ||८३-८७||
Adhikarana 27 (88) · Śloka 88
वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः| प्रदाय कल्कं विपचेद्घृतं तत् सक्षौद्रमाश्वेव निहन्ति रक्तम्||८८|| इति वासाघृतम्|
🔊 Audio coming soon
आर्द्राया एव वासाया विधानानुकथनान्न द्वैगुण्यम्| वासाकुसुमकल्के च केचित् पुष्पकल्कस्यातीव बाहुल्यं भवतीति कृत्वा प्रस्थे घृते चतुष्पलं पुष्पकल्कं वदन्ति| सक्षौद्रमिति वचनेन घृतात् पादिकत्वं तन्त्रान्तरप्रत्ययाज्ज्ञेयम्; उक्तं हि- “स्नेहपादः स्मृतः कल्कः कल्कवन्मधुशर्करे” इति| अग्निवेशेऽप्युक्तं- “मात्रा क्षौद्रघृतानां च स्नेहक्वाथेषु पूर्ववत्” इति| पूर्ववदिति पादिका||८८||
Adhikarana 28 (89-90) · Śloka 90
पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधुद्रवेण| लिह्याद्घृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिद्धम्||८९|| स्यात्त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे| सर्पींषि पित्तज्वरनाशनानि सर्वाणि शस्तानि च रक्तपित्ते||९०||
🔊 Audio coming soon
मधुद्रवेणेति पादिकेन मधुना द्रवीकृतम्| त्रायमाणाया एवं सर्पिः पूर्ववत् पक्तव्यम्; उदुम्बरपटोलपत्राभ्यां चापरम्| पित्तज्वरनाशनानीत्यनेन सकलचिकित्सितवाच्यानि पित्तज्वरहराणि ज्ञेयानि, ज्वरचिकित्सिते तु घृतानि जीर्णज्वरहन्तृतयोक्तानि न पित्तज्वरहन्तृतया; अन्ये तु यान्येव जीर्णज्वरहराणि घृतानि तान्येव पित्तज्वरहराणि भवन्ति, तेषां तु “रूक्षं तेज” (चि.अ.३) इत्यादिना ज्वरविषयतया समानत्वेन निर्दिष्टं पित्तविषयत्वम्| प्रदेशान्तरेऽपि “जले दशगुणे साध्यं त्रायमाणाचतुःपलम्” इत्यादि यावत् “पित्तरक्तभवं गुल्मं विसर्पं पैत्तिकं ज्वरम्” (चि.अ.५) इति, तथा “त्रायन्तिका” इत्यादि यावत् “वातरक्ते क्षतक्षीणे विसर्पे पैत्तिके ज्वरे” (चि.अ.२९) इत्यादीनि सकलचिकित्सिते पठितानि पित्तज्वरहरघृतानि कर्तव्यानि||८९-९०||
Adhikarana 29 (91-92) · Śloka 92
अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म| शीतो विधिर्बस्तिविधानमग्र्यं पित्तज्वरे यत् प्रशमाय दिष्टम्||९१|| तद्रक्तपित्ते निखिलेन कार्यं कालं च मात्रां च पुरा समीक्ष्य| सर्पिर्गुडा ये च हिताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः||९२||
🔊 Audio coming soon
अभ्यङ्गयोगा इत्यादिना सर्वे ये दाहज्वरहरा उक्ताः पित्तज्वरप्रशमनकत्वेन तानतिदिशति||९१-९२||
Adhikarana 30 (93-94) · Śloka 94
कफानुबन्धे रुधिरे सपित्ते कण्ठागते स्याद्ग्रथिते प्रयोगः| युक्तस्य युक्त्या मधुसर्पिषोश्च क्षारस्य चैवोत्पलनालजस्य||९३|| मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः| तथा मधूकस्य तथाऽसनस्य क्षाराः प्रयोज्या विधिनैव तेन||९४||
🔊 Audio coming soon
रुधिरे सपित्ते इति रक्तपित्ते| युक्त्या युक्तस्येति मात्रया युक्तस्य क्षारस्य प्रयोगः; युक्तिशब्दोऽत्र मात्रावचनः| यद्यपि क्षारस्तीक्ष्ण उक्तस्तथाऽपि कण्ठस्थकफविलयनार्थमुत्पलनालादिकृतगुणानुविधानात् क्षारो दीयत एव रक्तपित्ते; रक्तपित्तहरत्वप्रभावादुत्पलनालदिक्षारो भवत्येव रक्तपित्तहरः, येन तीक्ष्णानि द्रव्याणि परित्यज्योत्पलनालादीन्येव क्षारार्थमाह| ननु, उत्पलादीनामग्निदाहाच्छीतत्वमपयात्येव, उक्तं च वार्तिके क्षीरस्वामिदत्तेन- “शीतं जहति भूयिष्ठं दग्धं सपदि सोमताम्” इति चेद्दृष्टो हि भस्मन्यपि गुणोदय इति||९३-९४||
Adhikarana 31 (95-96) · Śloka 96
शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम्| पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः||९५|| कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात्| यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि||९६|| इति शतावर्यादिघृतम्|
🔊 Audio coming soon
फलपूरको बीजपूरकः| पञ्च पञ्चमूलानि रसायनोक्तानि| तदर्थकारीति अनन्तरोक्तशतावर्यादिघृतानुकारि||९५-९६||
Adhikarana 32 (97-101) · Śloka 101
कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्याः| घ्राणात् प्रवृत्तं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम्||९७|| रक्ते प्रदुष्टे ह्यवपीडबन्धे दुष्टप्रतिश्यायशिरोविकाराः| रक्तं सपूयं कुणपश्च गन्धः स्याद् घ्राणनाशः कृमयश्च दुष्टाः||९८|| नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात्तु सिताजलेन| नस्यं तथाऽऽम्रास्थिरसः समङ्गा सधातकीमोचरसः सलोध्रः||९९|| द्राक्षारसस्येक्षुरसस्य नस्यं क्षीरस्य दूर्वास्वरसस्य चैव| यवासमूलानि पलाण्डुमूलं नस्यं तथा दाडिमपुष्पतोयम्||१००|| प्रियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजिकं वा| आम्रास्थिपूर्वैः पयसा च नस्यं ससारिवैः स्यात् कमलोत्पलैश्च||१०१||
🔊 Audio coming soon
घ्राणप्रवृत्तरक्तपित्तचिकित्सितमाह- कषाययोगा इत्यादि| कषाययोगा इति उशीरकालीयकेत्यादिना ये कषाययोगा उक्तास्ते घ्राणप्रवृत्ते रक्तपित्ते प्रदेयाः| अवपीडश्च द्रव्यमापोथितं कृत्वा पीडयित्वा रसो दीयते यः स उच्यते; अयं च निःसृते रक्तदोषे सति देयः; विपर्यये दोषमाह- रक्त इत्यादि| सिताजलेनेति शर्कराजलेन| नीलोत्पलादीनि कल्कीकृत्य अवपीडो देयः| प्रियालतैलमित्यादौ मधुककल्केन पयसा द्रवेण साध्यं प्रियालतैलं घृतं माहिषमाजं वा| आम्रास्थिपूर्वैरिति ‘नस्यं तथाऽऽम्रास्थिरसः समङ्गा’ इत्यादियोगोक्तैः| सारिवाकमलोत्पलानि च कल्कः, पयो द्रव इति ज्ञेयम्||९७-१०१||
Adhikarana 33 (102-109) · Śloka 109
भद्रश्रियं लोहितचन्दनं च प्रपौण्डरीकं कमलोत्पले च| उशीरवानीरजलं मृणालं सहस्रवीर्या मधुकं पयस्या||१०२|| शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च| कुचन्दनं शैवलमप्यनन्ता कालानुसार्या तृणमूलमृद्धिः||१०३|| मूलानि पुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च| उदुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे||१०४|| प्रदेहकल्पे परिषेचने च तथाऽवगाहे घृततैलसिद्धौ| रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषक् प्रयुञ्ज्यात्||१०५|| धारागृहं भूमिगृहं सुशीतं वनं च रम्यं जलवातशीतम्| वैदूर्यमुक्तामणिभाजनानां स्पर्शाश्च दाहे शिशिराम्बुशीताः||१०६|| पत्राणि पुष्पाणि च वारिजानां क्षौमं च शीतं कदलीदलानि| प्रच्छादनार्थं शयनासनानां पद्मोत्पलानां च दलाः प्रशस्ताः||१०७|| प्रियङ्गुकाचन्दनरूषितानां स्पर्शाः प्रियाणां च वराङ्गनानाम्| दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानां च कलापवाताः||१०८|| सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्| मनोऽनुकूलाः शिशिराश्च सर्वाः कथाः सरक्तं शमयन्ति पित्तम्||१०९||
🔊 Audio coming soon
भद्रश्रियादीनि प्रलेपार्थमाह| वानीरम् उशीरभेद एव सुगन्धिमूलम्| कालानुसार्या शीतलम्| शिशिराश्च सर्वे इत्यन्तेन लेपविधानम्| पद्मोत्पलानां च कलापवाता इति पद्मोत्पलसमूहकृतवाता इत्यर्थः||१०२-१०९||
Adhikarana 34 (110-111) · Śloka 111
तत्र श्लोकौ- हेतुं वृद्धिं सञ्ज्ञां स्थानं लिङ्गं पृथक् प्रदुष्टस्य| मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव||११०|| पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च| गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य||१११||
🔊 Audio coming soon
हेतुमित्यादिनाऽध्यायार्थसङ्ग्रहो व्यक्त एव||११०-१११||
Adhikarana puShpikA · Śloka 4
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||४||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तकृतायायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः||४||