Adhikarana 1 (1-2) · Śloka 2
अथातो गुल्मचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
निदानोक्तक्रमानुरोधाद्रक्तपित्तमनु गुल्मचिकित्सितं ब्रूते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो गुल्मचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
निदानोक्तक्रमानुरोधाद्रक्तपित्तमनु गुल्मचिकित्सितं ब्रूते||१-२||
Adhikarana 2 (3) · Śloka 3
सर्वप्रजानां पितृवच्छरण्यः पुनर्वसुर्भूतभविष्यदीशः| चिकित्सितं गुल्मनिबर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः||३||
🔊 Audio coming soon
सर्वप्रजानामित्यादिना गुरोः स्तुतिर्धर्मजनकतया तथोत्तरग्रन्थश्रद्धेयतया| भूते भविष्ये चाव्याहतज्ञानतया प्रभुरेव भवतीति भूतभविष्यदीशः| सिद्धमिति साध्याव्यभिचारि सर्वमेव चिकित्सितं यद्यपि सिद्धमेव वक्तव्यं, तथाऽप्यत्र प्रकरणे स्तुत्यर्थं सिद्धपदं ज्ञेयम्||३||
Adhikarana 3 (4-5) · Śloka 5
विट्श्लेष्मपित्तातिपरिस्रवाद्वा तैरेव वृद्धैः परिपीडनाद्वा| वेगैरुदीर्णैर्विहतैरधो वा बाह्यभिघातैरतिपीडनैर्वा||४|| रूक्षान्नपानैरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा| विचेष्टितैर्वा विषमातिमात्रैः कोष्ठे प्रकोपं समुपैति वायुः||५||
🔊 Audio coming soon
अत्र यद्यपि निदाने एव गुल्मस्य हेतुलक्षणान्युक्तनि, तथाऽपि प्रकरणवशात् पुनस्तान्यभिधीयन्ते; निदानोक्ताद्विशेषश्च कश्चिदुच्यते| निदाने वायोरेव कोपेन वृद्धेर्हेतुभिरावरणमुक्तम्, अतिपीडनैर्वेत्यनेन तदेवोच्यते| तैरेवेति विट्श्लेष्मपित्तैः| मिथ्याप्रतिकर्म मिथ्याकृतं वमनादिकं पञ्चकर्म||४-५||
Adhikarana 4 (6-7) · Śloka 7
कफं च पित्तं च स दुष्टवायुरुद्धूय मार्गान् विनिबद्ध्य ताभ्याम्| हृन्नाभिपार्श्वोदरबस्तिशूलं करोत्यथो याति न बद्धमार्गः||६|| पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा| स्पर्शोपलभ्यः परिपिण्डितत्वाद्गुल्मो यथादोषमुपैति नाम||७||
🔊 Audio coming soon
कफं च पित्तं चेत्यादिना सम्प्राप्तिमाह| इयं च शोणितजगुल्मव्यतिरिक्तानां चतुर्णां सम्प्राप्तिः| तत्र कफं च पित्तं चेति कदाचित् पित्तं कदाचित् कफः| तत्र कफजे स्वतन्त्रो वृद्धः कफः, पित्तजे स्वहेतुवृद्धं स्वतन्त्रं पित्तं, सन्निपाते च यथोक्तगुणौ पित्तकफौ, उद्धूय वायुः गुल्मं करोति; वातगुल्मे तु स्वतन्त्रः प्रकुपितो वायुः प्रकृतिस्थौ पित्तकफावुद्धूय गुल्मं करोतीति ज्ञेयम्| मार्गानिति ऊर्ध्वाधस्तिर्यङ्मार्गान्| अधो न यातीति अत्र चकारो लुप्तनिर्दिष्टः; तेनोर्ध्वं न याति तिर्यक् च न यातीति ज्ञेयम्| किंवा वायोः कोष्ठस्याधोगमनमेव प्रायो भवति, तेन तन्निषेधः साक्षादुक्तः, इतरमार्गगमननिषेधस्तु समानन्यायतया लभ्यते| पक्वाशये इति पित्ताशयामाशययोरधोभागे एव| स्वतन्त्र इति वातगुल्मे, परसंश्रय इति पक्वाशये| पित्तकफाशययोः कफजः पैत्तिको निचयगुल्मश्च परसंश्रयो भवतीति ज्ञेयम्| परिपिण्डितत्वाद्गुल्म इत्यनेन यथा अज्ञा अपि लतासमूहादौ सङ्घातेनावस्थिते ‘गुल्म’ इति व्यपदिशन्ति, तथेहापि सङ्घातेनावस्थानाद्गुल्मेत्यभिधानं प्राप्नोति| यथादोषमिति यथोल्बणं दोषम्| नामेति च सञ्ज्ञा; वातजोऽयं, पित्तजोऽयमित्यादिका||६-७||
Adhikarana 5 (8) · Śloka 8
बस्तौ च नाभ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च|८|
🔊 Audio coming soon
गुल्मस्थानान्याह- बस्तावित्यादि| बस्तौ नाभ्यां हृदि पार्श्वयोर्वा गुल्मस्य पञ्च स्थानानि भवन्ति| यद्यपि बस्त्यादीनि पञ्चैव, तथाऽपि पञ्चग्रहणमधिकस्थाननिषेधार्थम्| रौधिरस्यापि गुल्मस्य गर्भाशयपार्श्वस्थितत्वेन पार्श्वे एवाशये भवतः| अन्ये तु रौधिरव्यतिरिक्तानामेतत् पञ्चस्थानत्वं, रौधिरस्य तु गर्भाशय एव विशिष्टं स्थानं भवति|८|
Adhikarana 6 (8-11) · Śloka 11
पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च||८|| रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च| शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः||९|| यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम्| श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च||१०|| करोति जीर्णेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च| वातात् स गुल्मो न च तत्र रूक्षं कषायतिक्तं कटु चोपशेते||११||
🔊 Audio coming soon
सम्प्रति पृथक्त्वेन हेतुलिङ्गचिकित्साभिधानं प्रतिजानीते- पञ्चात्मकस्येत्यादि| पञ्चात्मकस्य पञ्चस्वरूपस्य| प्रभवत्यस्मादिति प्रभवः कारणं; कारणानि पञ्च वातपित्तकफसन्निपातरूपाणि| तिष्ठत्यस्मिन्निति स्थानं बस्त्यादि, संस्थानमाकृतिः, रुजा पीडा, एषां विकल्पः क्षणे क्षणेऽन्यथात्वम्| शिशिरज्वरः शीतज्वरः| करोतीति पूर्वेण सम्बध्यते| जीर्णेऽभ्यधिकं प्रकोपं समुपैति यश्च| न चोपशेते इति न सुखं जनयति||८-११||
Adhikarana 7 (12-13) · Śloka 13
कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा| आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम्||१२|| ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च| स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम्||१३||
🔊 Audio coming soon
कट्वम्लेत्यादिना पित्तगुल्ममाह| आमाभिघातशब्देनामाभिघातः पित्तजनको ज्ञेयः| रुधिरं च दुष्टमित्यनेन दुष्टाद्रुधिरान्मलभूतस्य पित्तस्य जन्म दर्शयति||१२-१३||
Adhikarana 8 (14) · Śloka 14
शीतं गुरु स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च| गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दिष्टो निचयात्मकस्य||१४||
🔊 Audio coming soon
शीतमित्यादिना कफगुल्महेतुलक्षणकथनम्| अत्रान्तरे हेतुत्रयकथनावसाने दोषत्रयमेलकस्य कार्यमाह- सर्वस्तु दिष्टो निचयात्मकस्येति|- निचयात्मकः सान्निपातिकः| सान्निपातिकश्च निचयरूपगुल्मजन्मतया व्यपदेशेन विकृतिविषमसमवायात् संयोगमहिम्ना च दर्शयति||१४||
Adhikarana 9 (15) · Śloka 15
स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि| शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य||१५||
🔊 Audio coming soon
औत्पादिकं निचयगुल्ममभिधाय प्रकृतश्लेष्मगुल्मलक्षणमाह- स्तैमित्येत्यादि||१५||
Adhikarana 10 (16) · Śloka 16
निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च| व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्||१६||
🔊 Audio coming soon
द्विदोषजगुल्महेतुलिङ्गातिदेशार्थमाह- निमित्तेत्यादि| दोषबलाबलं चेत्यनेनैकोल्बणं द्वन्द्वं ग्राहयति| त्रीनिति च वातपित्तज-पित्तकफज-वातश्लेष्मजान्| औषधकल्पनार्थमित्यनेन प्रकृतिसमसमवायत्वात् स्वविलक्षणकार्याकर्तृतया प्रत्येकदोषे द्वन्द्वजगुल्मा अभिनिविष्टा एव, प्रत्येकोक्तचिकित्सामेलकेन चिकित्स्या इत्येतन्मात्रोपदर्शनार्थं तेषामभिधानम्| एतेनाष्टोत्तरीयोक्तपञ्चसङ्ख्याविरोधोऽपि न भवति, द्वान्द्विकगुल्मभेदस्याप्रयोजकत्वात्; सन्निपातगुल्मे तु प्रत्येकदोषजलक्षणादतिरिक्तानि लक्षणानि तत्प्रभावश्चासाध्यत्वादिर्वक्तव्य एवेति युक्तं तस्य भेदेनोपादानम्| ज्वरेऽपि द्वन्द्वज्वराणां पृथग्लक्षणयोगेन द्वान्द्विकत्वं युक्तमिति ज्ञेयम्||१६||
Adhikarana 11 (17) · Śloka 17
महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम्| मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत्||१७||
🔊 Audio coming soon
महारुजमित्यादिना सन्निपातजलक्षणान्याह| केचिदेतल्लक्षणव्यतिरिक्तलक्षणस्तु यः प्रत्येकदोषजोक्तसंसर्गमात्रलक्षणः प्रकृतिसमवायसन्निपातजन्यः स साध्य एव गुल्म इति वदन्ति||१७||
Adhikarana 12 (18-19) · Śloka 19
ऋतावनाहारतया भयेन विरूक्षणैर्वेगविनिग्रहैश्च| संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति||१८|| यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः| स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः||१९||
🔊 Audio coming soon
ऋतावित्यादिना शोणितगुल्ममाह| ऋताविति पुष्पदर्शनकाले| स्त्रियमित्यनेन कुमारीमतिवृद्धां च निषेधयति| पिण्डित एवेति गर्भस्त्वङ्गैः स्पन्दते| समगर्भलिङ्ग इति स्तनपीनत्वादि गर्भसमानं लिङ्गं भवति| स्त्रीभव एवेति अनेन पुरुषस्य रक्तगुल्मोत्पत्तिं निषेधयति| मासे व्यतीते दशमे चिकित्स्य इति प्रभावाद्दशममासातिक्रमे एवास्य सुखा चिकित्सा भवति, अर्वाक् चिकित्सायां तु शोणितातिस्रुतिगर्भाशयोपघातादि स्यात्| यदुच्यते- गर्भसमानलिङ्गत्वेनास्य दशममासादूर्ध्वं रुधिरगुल्मावधारणं भवति, तेनार्वाक्चिकित्साऽत्र नोक्तेति; तन्न, दशममासातिक्रमेऽपि गर्भावस्थानदर्शनात्| उक्तं हि- “पुष्टो यदा वर्षगणैरपि स्यात्” (शा.अ.२) तथा सम्पिण्डितत्वं गर्भलक्षणाद्विरुद्धलक्षणमुक्तं; तेन दशममासादर्वागपि शोणितगुल्मावधारणं भवत्येव; तस्मात् पूर्वोक्तमेव साधु||१८-१९||
Adhikarana 13 (20-26) · Śloka 26
क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम्| प्रवक्ष्याम्यत ऊर्ध्वं च योगान् गुल्मनिबर्हणान्||२०|| रूक्षव्यायामजं गुल्मं वातिकं तीव्रवेदनम्| बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत्||२१|| भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः| स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये||२२|| स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्| भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति||२३|| स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे| पक्वाशयगते बस्तिरुभयं जठराश्रये||२४|| दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः| बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रयोजयेत्||२५|| पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः| प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा||२६||
🔊 Audio coming soon
अत ऊर्ध्वमिति क्रियाक्रमाभिधानादुत्तरम्| स्नेहैरिति चतुर्भिरपि स्नेहैः| स्नेहोपयोगानाह- भोजनेत्यादि| विशेषेणेति वचनेन न सर्वं सर्वत्र; विशेषतस्तु स्नेहपानं नाभेरूर्ध्वं जाते गुल्मे| पक्वाशयगत इति पक्वाशयसङ्गताधोभागे| बस्तिरिति निरूहोऽनुवासनं च| जठराश्रय इति नाभिगते नाभिपार्श्वगते च| उभयमिति निरूहस्नेहबस्ती| वातगुल्मेष्विति वचनाद्वातप्रधानेषु गुल्मेष्वपि यथोक्तं कर्तव्यं दर्शयति| उक्तं हि “गुल्मिनामनिलशान्तिरुपायैः” (नि.अ.३) इत्यादि| कफपित्तानुरक्षिणेति तथा स्नेहः कर्तव्यो यथा कफपित्ते न वर्धेते||२०-२६||
Adhikarana 14 (27-28) · Śloka 28
कफो वाते जितप्राये पित्तं शोणितमेव वा| यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते||२७|| यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्| आदावन्ते च मध्ये च मारुतं परिरक्षता||२८||
🔊 Audio coming soon
वातचिकित्सया वृद्धकफपित्तरक्तचिकित्सामाह- कफो वाते इत्यादि| जितप्राय इति वचनात् कफाद्यवृद्ध्या वातो यथा जितप्रायो भवति तथा वातचिकित्सा कार्या| यथोल्बणस्येति वातचिकित्सया य उल्बणो दोषो भवति कफादिः, तस्य चिकित्सा कर्तव्या| तस्यामपि चिकित्सायां वातवृद्धिर्यथा न भवति तथा कर्तव्यमिति दर्शयन्नाह- आदावित्यादि||२७-२८||
Adhikarana 15 (29-31) · Śloka 31
वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि| हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम्||२९|| शूलानाहविबन्धेषु गुल्मे वातकफोल्बणे| वर्तयो गुटिकाश्चूर्णं कफवातहरं हितम्||३०|| पित्तं वा यदि संवृद्धं सन्तापं वातगुल्मिनः| कुर्याद्विरेच्यः स भवेत् सस्नेहैरानुलोमिकैः||३१||
🔊 Audio coming soon
गुल्मे यद्यपि वमनं निषिद्धं, तथाऽप्यवस्थायां वमनं तदपवादरूपं दर्शयन्नाह- वातगुल्म इत्यादि| वर्तय इति फलवर्तयः| आनुलौमिकैरिति वचनेन तीव्रविरेचनं वातकोपनं निषेधयति||२९-३१||
Adhikarana 16 (32) · Śloka 32
गुल्मो यद्यनिलादीनां कृते सम्यग्भिषग्जिते| न प्रशाम्यति रक्तस्य सोऽवसेकात् प्रशाम्यति||३२||
🔊 Audio coming soon
रक्तस्रावणं गुल्मप्रदेशे एव शृङ्गादिना, रक्ताधिष्ठानत्वाद्गुल्मस्य; बाहुसिराव्यधेन रक्तस्रावणं गुल्मस्येतरचिकित्सयाऽप्रशमे ज्ञेयम्| रक्ताधिष्ठानत्वं च गुल्मपाकप्रस्तावे दर्शनीयम्||३२||
Adhikarana 17 (33-35) · Śloka 35
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्| रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम्||३३|| पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम्| कालविन्निर्हरेत् सद्यः सतिक्तैः क्षीरबस्तिभिः||३४|| पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत्| भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा||३५||
🔊 Audio coming soon
रूक्षोष्णेन तु सम्भूते पैत्तिके इति योज्यम्| रूक्षोष्णतयैव पित्तं वृद्धं भवति| तैल्वकं सर्पिरुदरे वक्तव्यम||३३-३५||
Adhikarana 18 (36-37) · Śloka 37
तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवे| गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत्||३६|| छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम्| रक्तं हि व्यम्लतां याति, तच्च नास्ति न चास्ति रुक्||३७||
🔊 Audio coming soon
तृष्णाज्वरेत्यादिना गुल्मविदाहे उपक्रममाह| रक्तावसेचनं कृतं चेच्छिन्नमूला गुल्मा न विदह्यन्ते; छिन्नमूला इति च्छिन्नशोणिता इत्यर्थः| छिन्नमूलत्वमेव स्फोरयति- रक्तं हीत्यादि| व्यम्लतां विदाहम्| तच्च नास्तीति शोणितमवसेकान्नास्तीत्यर्थः| तस्य रक्तस्याभावाद्रुगपि नास्ति||३६-३७||
Adhikarana 19 (38) · Śloka 38
हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः| समाश्वस्तं सशेषार्तिं सर्पिरभ्यासयेत् पुनः||३८||
🔊 Audio coming soon
हृतदोषमिति शोणितावसेकेन हृतदोषं, परिम्लानमिति क्षीणकायम्||३८||
Adhikarana 20 (39) · Śloka 39
रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य च| यदि गुल्मो विदह्येत शस्त्रं तत्र भिषग्जितम्||३९||
🔊 Audio coming soon
क्रियामिति शोणितावसेकरूपां क्रियाम्| विदह्येत पच्यते||३९||
Adhikarana 21 (40) · Śloka 40
गुरुः कठिनसंस्थानो गूढमांसान्तराश्रयः| अविवर्णः स्थिरश्चैव ह्यपक्वो गुल्म उच्यते||४०||
🔊 Audio coming soon
गुरुः कठिनेत्यादिनाऽपक्वपच्यमानपक्वगुल्मलक्षणमाह| गूढमांसश्चासौ अन्तराश्रयश्चेति गूढमांसान्तराश्रयः| स्थिर इति उन्नतः||४०||
Adhikarana 22 (41) · Śloka 41
दाहशूलार्तिसङ्क्षोभस्वप्ननाशारतिज्वरैः| विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्||४१||
🔊 Audio coming soon
तमुपनाहयेदिति उष्णद्रव्यकृतं लेपं पाचनार्थं दद्यादित्यर्थः||४१||
Adhikarana 23 (42-45) · Śloka 45
विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते| श्यावे सरक्तपर्यन्ते संस्पर्शे बस्तिसन्निभे||४२|| निपीडितोन्नते स्तब्धे सुप्ते तत्पार्श्वपीडनात्| तत्रैव पिण्डिते शूले सम्पक्वं गुल्ममादिशेत्||४३|| तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ| वैद्यानां कृतयोग्यानां व्यधशोधनरोपणे||४४|| अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम्| हृत्क्रोडशूनताऽन्तःस्थे बहिःस्थे पार्श्वनिर्गतिः||४५||
🔊 Audio coming soon
विदाहलक्षणे इति दाहादिष्वित्यर्थः| बहिस्तुङ्गे इति बाह्यत उन्नते| समुन्नते इति समत्वेनोन्नते, न निम्नोच्चविभागेन| निपीडितानन्तरमुन्नते निपीडितोन्नते| स्तब्धे इति वर्तुले| सुप्ते इति मन्दवेदने इत्यर्थः| धान्वन्तरीयाणामिति धन्वन्तरितन्त्राध्यायिनां शल्यविदामित्यर्थः| कृता शस्त्रकर्मणि योग्या यैस्ते कृतयोग्याः| गुल्मस्य च पाकः सुश्रुते निषिद्धः- “स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः| अन्तःसरति यस्माच्च न पाकमुप्नयात्यतः” (उ.तं.अ.४२) इति; तथाऽपीह कृतवास्तुपरिग्रहस्य गुल्मस्य पाक उच्यते, यस्तु अकृतवास्तुपरिग्रहः स न पच्यत इतीहाप्यनुमतं; यस्तु कृतवास्तुपरिग्रहतया पच्यत इति उच्यते तस्य विद्रधित्वेन पाको जायत इति सञ्ज्ञामात्रेण विसंवादः| अन्तर्भागस्येति कोष्ठमध्यस्थितस्य| यद्यपि सर्व एव गुल्मः कोष्ठस्थस्तथाऽपीह यो बहिरुन्नतश्चितो न भवति स इह तत्स्थोऽभिप्रेतः| हृत्क्रोडशूनताऽन्तःस्थे इति अन्तःस्थपाके हृत्क्रोडस्य शूनता भवति; बहिःस्थे पार्श्वनिर्गतिः, पार्श्वनिर्गतिर्गुल्म एव दृश्यते| केचित्तु श्लोकमेनं न पठन्ति||४२-४५||
Adhikarana 24 (46-47) · Śloka 48
पक्वः स्रोतांसि सङ्क्लेद्य व्रजत्यूर्ध्वमधोऽपि वा| स्वयम्प्रवृत्तं तं दोषमुपेक्षेत हिताशनैः ||४६|| दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान्| अत ऊर्ध्वं हितं पानं सर्पिषः सविशोधनम्||४७|| शुद्धस्य तिक्तं सक्षौद्रं प्रयोगे सर्पिरिष्यते|४८|
🔊 Audio coming soon
व्रजत्यूर्ध्वमिति सशब्देनान्तःस्थेनाभिप्रेतः| उपेक्षेत हिताशनैरिति हिताशनस्तिष्ठेत् न किञ्चिद्भेषजं कुर्यात्| रक्षन्नुपद्रवानिति उपद्रवेभ्यो ज्वरादिभ्यो रक्षन्नित्यर्थः| सविशोधनमिति विशेषेण शोधनं सर्पिःपानम्| तिक्तमिति तिक्तद्रव्यसाधितम्||४६-४७||-
Adhikarana 25 (48-55) · Śloka 56
शीतलैर्गुरुभिः स्निग्धैर्गुल्मे जाते कफात्मके||४८|| अवम्यस्याल्पकायाग्नेः कुर्याल्लङ्घनमादितः| मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता||४९|| सोत्क्लेशा चारुचिर्यस्य स गुल्मी वमनोपगः| उष्णैरेवोपचर्यश्च कृते वमनलङ्घने||५०|| योज्यश्चाहारसंसर्गो भेषजैः कटुतिक्तकैः| सानाहं सविबन्धं च गुल्मं कठिनमुन्नतम्||५१|| दृष्ट्वाऽऽदौ स्वेदयेद्युक्त्या स्विन्नं च विलयेद्भिषक्| लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ सम्प्रधुक्षिते||५२|| कफगुल्मी पिबेत् काले सक्षारकटुकं घृतम्| स्थानादपसृतं ज्ञात्वा कफगुल्मं विरेचनैः||५३|| सस्नेहैर्बस्तिभिर्वाऽपि शोधयेद्दाशमूलिकैः| मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम्||५४|| गुटिकाचूर्णनिर्यूहाः प्रयोज्याः कफगुल्मिनाम्| कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम्||५५|| जयेत्कफकृतं गुल्मं क्षारारिष्टाग्निकर्मभिः|५६|
🔊 Audio coming soon
शीतलैरित्यादिना कफगुल्ममनुसृत्य चिकित्साक्रममाह| सक्षारकटुकमिति क्षारकटुद्रव्यसाधितम्| अपसृतमिति चलितम्| दाशमूलिकैरिति दशमूलकृतबस्तयो बस्तिसूत्रीये (सि.अ.३) वक्तव्याः| मूढे इति सम्मूर्च्छिते, आवृते इति यावत्| गुटिकाचूर्णनिर्यूहा इति वक्तव्या गुटिकादयः| क्षारारिष्टाग्निकर्मभिरित्यत्र क्षारस्यात्राप्रस्तुतया शल्यतन्त्रे एव तावद्विस्तरेणाभिधानम्, अत्रापि च ग्रहण्यध्याये क्षारा वक्तव्याः; अग्निकर्मात्रापि सङ्क्षेपेण गुल्मस्थाने वक्तव्यं, पराधिकारे विस्तारानभिधानात्||४८-५५||-
Adhikarana 26 (56-59) · Śloka 60
दोषप्रकृतिगुल्मर्तुयोगं बुद्ध्वा कफोल्बणे||५६|| बलदोषप्रमाणज्ञः क्षारं गुल्मे प्रयोजयेत्| एकान्तरं द्व्यन्तरं वा त्र्यहं विश्रम्य वा पुनः||५७|| शरीरबलदोषाणां वृद्धिक्षपणकोविदः| श्लेष्माणं मधुरं स्निग्धं मांसक्षीरघृताशिनः||५८|| छित्त्वा छित्त्वाऽऽशयात् क्षारः क्षरत्वात क्षारयत्यधः| मन्देऽग्नावरुचौ सात्म्ये मद्ये सस्नेहमश्नताम्||५९|| प्रयोज्या मार्गशुद्ध्यर्थमरिष्टाः कफगुल्मिनाम्|६०|
🔊 Audio coming soon
क्षारस्य महात्ययत्वेन दोषादिज्ञानपूर्विकामन्तराऽन्तरा प्रवृत्तिमाह- दोषेत्यादि| तत्र क्षारानुगुणो दोषः कफः, प्रकृतिः श्लैष्मिकी, गुल्मश्च स्थिरः, ऋतुर्हेमन्तः शिशिरो वा| एकान्तरमित्यादि| दोषादिषु सर्वेषु क्षारानुगुणेष्वेकान्तरं विश्रम्य, अन्यतमानुगुण्ये द्व्यन्तरं त्र्यहं वा विश्रम्य; बलदोषापेक्षया वा विकल्पः| शरीरबलदोषाणां वृद्धिक्षपणकोविद इति शरीरबलवृद्धौ दोषस्य च क्षपणे पण्डितः| मांसक्षीरघृताशिन इत्यनेन मांसादिभोजनेन क्षारप्रयोगे शरीरबलरक्षा कर्तव्येति दर्शयति||५६-५९||-
Adhikarana 27 (60-63) · Śloka 64
लङ्घनोल्लेखनैः स्वेदैः सर्पिःपानैर्विरेचनैः||६०|| बस्तिभिर्गुटिकाचूर्णक्षारारिष्टगणैरपि| श्लैष्मिकः कृतमूलत्वाद्यस्य गुल्मो न शाम्यति||६१|| तस्य दाहो हृते रक्ते शरलोहादिभिर्हितः| औष्ण्यात्तैक्ष्ण्याच्च शमयेदग्निर्गुल्मे कफानिलौ||६२|| तयोः शमाच्च सङ्घातो गुल्मस्य विनिवर्तते| दाहे धान्वन्तरीयाणामत्रापि भिषजां बलम्||६३|| क्षारप्रयोगे भिषजां क्षारतन्त्रविदां बलम्|६४|
🔊 Audio coming soon
शरलोहादिभिरित्यनेन रूक्षदाहं दर्शयति| दाहश्च गुल्मदेशे एव कर्तव्यः| दाहक्षारयोः पराधिकारत्वेन परबलस्याभिप्रेयस्त्वं, तेन तत्परेणैव दाहक्षारयोगमाह- दाह इत्यादि| क्षारतन्त्रस्याष्टाङ्गे पृथगनभिधानाच्छल्यतन्त्रमेवानुशस्त्रक्षारविधायकं क्षारतन्त्रमुच्यते||६०-६३||-
Adhikarana 28 (64) · Śloka 64
व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रमः||६४||
🔊 Audio coming soon
व्यामिश्रदोषे इति संसर्गजे सन्निपातजे च व्यामिश्रः||६४||
Adhikarana 29 (65) · Śloka 65
सिद्धानतः प्रवक्ष्यामि योगान् गुल्मनिबर्हणान्| त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः||६५|| कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत्| इति त्र्यूषणादिघृतम्|
🔊 Audio coming soon
सम्प्रति सिद्धान् योगानाह- सिद्धानित्यादि| सिद्धानिति वक्ष्यमाणयोगस्तुतिः शिष्यप्रवर्तिका| त्र्यूषणाद्ये द्रवान्तरानभिधानात् क्षीरमेव चतुर्गुणं भवति||६५||-
Adhikarana 30 (66-68) · Śloka 68
एत एव च कल्काः स्युः कषायः पाञ्चमूलिकः ||६६|| द्विपञ्चमूलिको वाऽपि तद्घृतं गुल्मनुत् परम्| इति त्र्यूषणादिघृतमपरम्| (षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि)||६७|| प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा| दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत्||६८||
🔊 Audio coming soon
एत एवेति त्र्यूषणेत्याद्युक्ताः| प्रसन्ना मद्यविशेषः| क्षीरार्थमिति क्षीरस्थाने प्रसन्ना देया, एवं स्वरसादिभिरपि क्षीरार्थो व्याख्येयः||६६-६८||
Adhikarana 31 (69-70) · Śloka 70
हिङ्गुसौवर्चलाजाजीबिडदाडिमदीप्यकैः| पुष्करव्योषधन्याकवेतसक्षारचित्रकैः||६९|| शटीवचाजगन्धैलासुरसैश्च विपाचितम्| शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम्||७०|| इति हिङ्गुसौवर्चलाद्यं घृतम्|
🔊 Audio coming soon
हिङ्ग्वाद्ये हिङ्ग्वादीनां कल्कः; दधि चतुर्गुणं, द्रवत्वात्||६९-७०||
Adhikarana 32 (71-73) · Śloka 73
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः| साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम्||७१|| सकोलमूलकरसं सक्षीरदधिदाडिमम्| तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम्||७२|| योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान्| बस्तिहृत्पार्श्वशूलं च घृतमेतद्व्यपोहति||७३|| इति हपुषाद्यं घृतम्|
🔊 Audio coming soon
हपुषादिकल्कः, कोलरसादीनि पञ्चद्रवाणि स्नेहसमानि, “पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ| तत्र स्नेहसमानि” इति वचनात्; दाडिमस्यापि रसान्तरसान्निध्याद्द्रव एव ग्राह्यः; उक्तं हि विश्वामित्रे- “पृथ्वीकाजीरकव्योषहपुषाजाजिसैन्धवैः| सचव्यपिप्पलीमूलर्वह्निदीप्यकसंयुतैः|| दाडिमकोलमूलानां रसे दध्नि पयस्यपि| सिद्धं घृतं जयेद्गुल्मं वह्निसन्दीपनं परम्” इति||७१-७३||
Adhikarana 33 (74-75) · Śloka 75
पिप्पल्या पिचुरध्यर्धो दाडिमाद्द्विपलं पलम्| धान्यात्पञ्च घृताच्छुण्ठ्याः कर्षः क्षीरं चतुर्गुणम्||७४|| सिद्धमेतैर्घृतं सद्यो वातगुल्मं व्यपोहति| योनिशूलं शिरःशूलमर्शांसि विषमज्वरम्||७५|| इति पिप्पल्याद्यं घृतम्|
🔊 Audio coming soon
पिचुः कर्षः, तेनाध्यर्धपिचुरिति सार्धः कर्षः| अत्र च घृते क्ल्कभूयस्त्वं भवन्नपि कल्पनीयं, वचनादेव| उक्तं हि न्यायविद्भिः- “निर्देशः श्रूयते नूनं द्रव्याणां यत्र यादृशः| तस्मिन् स संविधातव्यः शब्दाभावे प्रसिद्धितः” इति| अत्र पुनर्घृतं सिद्धमिति पिप्पल्यादीनां लेहत्वेन प्रयोगनिरासार्थं घृतसाधनार्थं चोक्तम्||७४-७५||
Adhikarana 34 (76-78) · Śloka 78
घृतानामौषधगणा य एते परिकीर्तिताः| ते चूर्णयोगा वर्त्यस्ताः कषायास्ते च गुल्मिनाम्||७६|| कोलदाडिमघर्माम्बुसुरामण्डाम्लकाञ्जिकैः| शूलानाहहरी पेया बीजपूररसेन वा||७७|| चूर्णानि मातुलुङ्गस्य भावितानि रसेन वा| कुर्याद्वर्तीः सगुटिका गुल्मानाहार्तिशान्तये||७८||
🔊 Audio coming soon
घृतोक्तभेषजानां चूर्णादिष्वपि प्रयोगमाह- घृतानामित्यादि| वर्त्य इति फलवर्त्यः| उक्तद्रव्याणां चूर्णत्वे कृतेऽनुपानार्थं द्रवाण्याह- कोलेत्यादि| कषायकरणपक्षे विशेषविधानानुक्तेः सामान्यविधिनैव कषायकरणं ज्ञेयम्||७६-७८||
Adhikarana 35 (79-84) · Śloka 84
हिङ्गु त्रिकटुकं पाठां हपुषामभयां शटीम्| अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ||७९|| दाडिमं पुष्करं धान्यमजाजीं चित्रकं वचाम्| द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत्||८०|| चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम्| प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा||८१|| पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके| आनाहे मूत्रकृच्छ्रे च शूले च गुदयोनिजे ||८२|| ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ| उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे||८३|| भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा| बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकम्||८४|| इति हिङ्ग्वादिचूर्णं गुटिका च|
🔊 Audio coming soon
हिङ्ग्वादौ अजमोदादीनि ख्यातानि| द्वौ क्षारौ सर्जिकायावशूकजौ| प्राग्भक्तमिति भोजनस्य प्राक्; परिणामेन वा यथा भोजनात् प्रत्यासन्नं भवति| बहुश इति सप्ताहं, “सप्ताहं तेन भावना” इति वचनात्| कार्मुका इति कर्मणि समर्थाः||७९-८४||
Adhikarana 36 (85-93) · Śloka 93
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवे| सुरामण्डेन पातव्यं वातगुल्मरुजापहम्||८५|| शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान्| धान्यकं च यवानीं च विडङ्गं सैन्धवं वचाम्||८६|| सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्| अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत्||८७|| रसेन मातुलुङ्गस्य मधुशुक्तेन वा पुनः| भावितं गुटिकां कृत्वा सुपिष्टां कोलसम्मिताम्||८८|| गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम्| हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम्||८९|| पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम्| पार्श्वहृद्बस्तिशूलं च गुटिकैषा व्यपोहति||९०|| नागरार्धपलं पिष्ट्वा द्वे पले लुञ्चितस्य च| तिलस्यैकं गुडपलं क्षीरेणोष्णेन ना पिबेत्||९१|| वातगुल्ममुदावर्तं योनिशूलं च नाशयेत्| पिबेदेरण्डजं तैलं वारुणीमण्डमिश्रितम्||९२|| तदेव तैलं पयसा वातगुल्मी पिबेन्नरः| श्लेष्मण्यनुबले पूर्वं हितं पित्तानुगे परम्||९३||
🔊 Audio coming soon
लुञ्चितस्येति निस्तुषीकृतस्य| अत्र चौषधयोगो व्याधिमहिम्नैव भवतीति ज्ञेयम्| पूर्वमिति पूर्वयोगोक्तमेरण्डतैलम्| परमिति उत्तरयोगोक्तमेरण्डतैलं पयोयुक्तं पाययेदित्यर्थः||८५-९३||
Adhikarana 37 (94-95) · Śloka 95
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्| क्षीरोदकेऽष्टगुणिते क्षीरशेषं च ना पिबेत्||९४|| वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्| हृद्रोगं विद्रधिं शोथं साधयत्याशु तत्पयः||९५|| इति लशुनक्षीरम्|
🔊 Audio coming soon
साधयेदित्यादौ शुद्धशुष्कस्य निस्तुषीकृतस्य आपूर्णवीर्यस्य च क्षीरोदकेऽष्टगुणिते इत्यत्र “भागेऽनुक्ते समानं” इति वचनात् क्षीरं चतुर्गुणं (षोडशपलानि) जलं च चतुर्गुणमिति मिलित्वाऽष्टगुणितं क्षीरावशिष्टं साधयेत्; गुल्मस्य बहुभेषजसाध्यतया षोडशपलक्षीरमानं न दोषावहं भवति| क्षीररसोनयोश्च यद्यपि सहोपयोगो विरुद्धः, तथाऽपि व्याधिमहिम्ना महर्षिवचनादविवादः||९४-९५||
Adhikarana 38 (96) · Śloka 96
तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजम्| गुल्मं जठरमानाहं पीतमेकत्र साधयेत्||९६|| इति तैलपञ्चकम्|
🔊 Audio coming soon
तैलं प्रसन्नेत्यादौ यौगिकत्वाज्जतूकर्णसंवादाच्चैरण्डतैलं ज्ञेयम्| उक्तं हि- “आरनालमूत्रक्षारैः संयोज्य तैलमैरण्डम्” इत्यादि||९६||
Adhikarana 39 (97) · Śloka 97
पञ्चमूलीकषायेण सक्षारेण शिलाजतु| पिबेत्तस्य प्रयोगेण वातगुल्मात् प्रमुच्यते||९७|| इति शिलाजतुप्रयोगः|
🔊 Audio coming soon
पञ्चमूलीत्यत्र प्रथमकल्पनया शालपर्ण्यादिपञ्चमूलीग्रहणं ज्ञेयम्||९७||
Adhikarana 40 (98) · Śloka 98
वाट्यं पिप्पलीयूषेण मूलकानां रसेन वा| भुक्त्वा स्निग्धमुदावर्ताद्वातगुल्माद्विमुच्यते||९८||
🔊 Audio coming soon
पिप्पलीप्रधानो यूषः पिप्पलीयूषः||९८||
Adhikarana 41 (99-101) · Śloka 102
शूलानाहविबन्धार्तं स्वेदयेद्वातगुल्मिनम्| स्वेदैः स्वेदविधावुक्तैर्नाडीप्रस्तरसङ्करैः||९९|| बस्तिकर्म परं विद्याद्गुल्मघ्नं तद्धि मारुतम्| स्वे स्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति||१००|| तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः| प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः||१०१|| गुल्मघ्ना विविधा दिष्टाः सिद्धाः सिद्धिषु बस्तयः|१०२|
🔊 Audio coming soon
नाडीप्रस्तरसङ्करैरित्यनेन गुल्मे स्वेदान्तरस्यायौगिकत्वं सूचयति||९९-१०१||-
Adhikarana 42 (102-104) · Śloka 104
गुल्मघ्नानि च तैलानि वक्ष्यन्ते वातरोगिके||१०२|| तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनैः| प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित्परम् ||१०३|| नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव| समलाय प्रदातव्यं शोधनं वातगुल्मिने||१०४||
🔊 Audio coming soon
आशु सिध्यन्तीति शीघ्रं गुल्मं जयन्ति| तत्र हेतुमाह- तैलं ह्यनिलजित् परमिति; यस्मात्तैलं वातजित् तस्माद्वातगुल्मं वातविकारं शीघ्रं जयति| अन्ये तु तैलं त्वनिलजित्वरं नीलिनीचूर्णसंयुक्तं समलाय दातव्यं, तथा पूर्वोक्तं च त्र्यूषणाद्यं घृतं नीलिनीचूर्णसंयुक्तं दातव्यमिति योजयन्ति| प्रथमव्याख्याने तु घृतमेवेत्यनेन पूर्वोक्तत्र्यूषणघृतादिकं नीलिनीचूर्णसंयुक्तं देयमित्यर्थो ज्ञेयः||१०२-१०४||
Adhikarana 43 (105-109) · Śloka 109
नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह| शोधनार्थं घृतं देयं सबिडक्षारनागरम्||१०५|| नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्| पचेद्विडङ्गं व्याघ्रीं च पलिकानि जलाढके||१०६|| तेन पादावशेषेण घृतप्रस्थं विपाचयेत्| दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च||१०७|| ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्| जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम्||१०८|| गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्| श्वित्रं प्लीहानमुन्मादं घृतमेतद्व्यपोहति||१०९|| इति नीलिन्याद्यं घृतम्|
🔊 Audio coming soon
नीलिनीत्यादौ कल्को न श्रूयते, कल्काभावे च पाकज्ञानं नास्ति, पाकस्य हि मृद्वादिना त्रैविध्यमुक्तं, तस्मात् कल्कानभिधानेऽपि पाकज्ञानार्थमपि कल्को देयः; स च क्वाथद्रव्यैरेव योग्यतया सान्निध्याच्च देय इति वदन्ति| मैवं, विचित्रत्वाद्घृतादिसाधनशक्तेः यथोक्ते यथोक्तमेव परं ज्ञे(दे)यं नत्वनुक्तं कल्पनीयं; कल्पनायां च युक्तिर्नास्त्येव, यतो विनाऽपि कल्कदानं क्वाथादिद्रवेण स्नेहपाको भवत्येव, विनाऽपि कल्कं स्नेहपाकज्ञानस्योक्तत्वात्; तस्मादाचार्येण यथोक्तं तथैव कार्यम्| अत्र विरिक्तस्य पेयादिक्रममौत्सर्गिकं बाधयित्वा रसभोजनं प्रयोगसात्म्यत्वादुच्यते; यथा- आवर्तकीघृतविरिक्तस्य काञ्जिककोद्रवान्नभोजनम् (अ. सं. चि. अ. २१)||१०५-१०९||
Adhikarana 44 (110-113) · Śloka 113
कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः| शालयो मदिरा सर्पिर्वातगुल्मभिषग्जितम्||११०|| हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्| समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम्||१११|| मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति| तस्मान्ना नातिसौहित्यं कुर्यान्नातिविलङ्घनम्||११२|| सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते| या क्रिया क्रियते सिद्धिं सा याति न विरूक्षिते||११३||
🔊 Audio coming soon
कुक्कुटेत्यादिना गुल्मिनेऽन्नपानं विधीयते| अतिसौहित्यमतिलङ्घनं चोभयोरप्यग्निवधहेतुतया वर्जितम्| यदुक्तं- “नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्” (चि.अ.१५) इत्यादि||११०-११३||
Adhikarana 45 (114-117) · Śloka 117
भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत्| वैरेचनिकसिद्धेन सर्पिषा तिक्तकेन वा||११४|| रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः| कर्षांशास्त्रायमाणा च पटोलत्रिवृतोः पले||११५|| द्वे पले च मसूराणां साध्यमष्टगुणेऽम्भसि| शृताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम्||११५|| पिबेत् सम्मूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः| ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छाऽरुचिस्तथा||११७|| इति रोहिण्याद्यं घृतम्|
🔊 Audio coming soon
रोहिणी कटुका कटुरोहिणी| कर्षांशा इति कर्षप्रमाणाः| पटोलत्रिवृतोः पले इति वचनात् प्रत्येकं पलम्| अष्टगुणे इति घृतादष्टगुणे| घृतसममिति घृतं चतुष्पलमत्रोक्तं; तेन क्वाथघृताभ्यामष्टपलं पेयम्; अष्टपली च मात्रा गुल्मोक्तत्वादेव भवति| यदुक्तं- “गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये| तेषां मात्रा विनिर्दिष्टा पलान्यष्टौ विशेषतः” इति||११४-११७||
Adhikarana 46 (118-121) · Śloka 121
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्| पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः||११८|| रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा| कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः||११९|| रसस्यामलकानां च क्षीरस्य च घृतस्य च| पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्||१२०|| पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्| हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्||१२१|| इति त्रायमाणाद्यं घृतम्|
🔊 Audio coming soon
चतुष्पलायां त्रायमाणायां दशगुणं जलं चत्वारिंशत्पलानि देयम्| कल्कैरिति तामलक्यादिकल्कैः, कटुरोहिण्यादीनां च कल्कैरिति योजनीयम्||११८-१२१||
Adhikarana 47 (122) · Śloka 122
रसेनामलकेक्षूणां घृतपादं विपाचयेत्| पथ्यापदं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्||१२२|| इत्यामलकाद्यं घृतम्|
🔊 Audio coming soon
घृतपादमिति समुदितामलकेक्षुरसापेक्षया घृतस्य पादिकत्वम्| पथ्यापादमित्यत्र हरीतक्या गुरुत्वेन घृतापेक्षया पादत्वेनाष्टमो भागो भवति; एके तु “यतश्च पादनिर्देशश्चतुर्भागस्ततस्तु सः” (क.अ.१२) इति वचनाच्चतुर्थमेव भागं प्रस्थे घृतेऽष्टपलरूपं वदन्ति||१२२||
Adhikarana 48 (123-125) · Śloka 125
द्राक्षां मधूकं खर्जूरं विदारीं सशतावरीम्| परूषकाणि त्रिफलां साधयेत्पलसम्मितम्||१२३|| जलाढके पादशेषे रसमामलकस्य च| घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम्||१२४|| साधयेत्तद्घृतं सिद्धं शर्कराक्षौद्रपादिकम्| प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत्||१२५|| इति द्राक्षाद्यं घृतम्|
🔊 Audio coming soon
द्राक्षां मधूकमित्यादौ क्वाथशेषस्य प्रस्थस्य साहचर्याद्घृतादीनामपि प्रस्थमानत्वम्||१२३-१२५||
Adhikarana 49 (126-127) · Śloka 127
वृषं समूलमापोथ्य पचेदष्टगुणे जले| शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत्||१२६|| तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत्| रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम्||१२७|| इति वासाघृतम्|
🔊 Audio coming soon
वृषं समूलमित्यादौ क्वाथस्याष्टगुणजलदानेऽष्टभागशेषत्वमिति रक्तपित्तोक्तवासाघृताद्विशेषः| तत्र हि सामान्यपरिभाषया वृषाच्चतुर्गुणं जलं चतुर्भागावशिष्टं च गृह्यते| तेन प्रयोगान्तरत्वाद्रक्तपित्तोक्तवासाघृतातिदेशो न कृतः| सक्षौद्रमित्यनेन प्रक्षेपन्यायात् पादिकत्वं मधुनः||१२६-१२७||
Adhikarana 50 (128-129) · Śloka 129
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्| अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्||१२८|| पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्| तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः||१२९||
🔊 Audio coming soon
यथाबलमिति यथा विरेचनातियोगो न भवति||१२८-१२९||
Adhikarana 51 (130) · Śloka 130
द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिबेत्| लिह्यात्कम्पिल्लकं वाऽपि विरेकार्थं मधुद्रवम्||१३०||
🔊 Audio coming soon
कम्पिल्लकं गुण्डारोचनिकाम्||१३०||
Adhikarana 52 (131) · Śloka 131
दाहप्रशमनोऽभ्यङ्गः सर्पिषा पित्तगुल्मिनाम्| चन्दनाद्येन तैलेन तैलेन मधुकस्य वा||१३१||
🔊 Audio coming soon
तैलेन मधुकस्य वेति मधुकसाधितेन तैलेन||१३१||
Adhikarana 53 (132-136) · Śloka 136
ये च पित्तज्वरहराः सतिक्ताः क्षीरबस्तयः| हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये च सिद्धिषु||१३२|| शालयो जाङ्गलं मांसं गव्याजे पयसी घृतम्| खर्जूरामलकं द्राक्षां दाडिमं सपरूषकम्||१३३|| आहारार्थं प्रयोक्तव्यं पानार्थं सलिलं शृतम्| बलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम्||१३४|| आमान्वये पित्तगुल्मे सामे वा कफवातिके| यवागूभिः खडैर्यूषैः सन्धुक्ष्योऽग्निर्विलङ्घिते||१३५|| शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ| तस्मादग्निं सदा रक्षेन्निदानानि च वर्जयेत्||१३६||
🔊 Audio coming soon
ये च पित्तज्वरहरा इत्यादौ यद्यपि पित्तज्वरहरत्वेन साक्षाद्बस्तयो नोक्ताः, तथाऽपि पटोलादय एव ये तिक्ता बस्तय उक्तास्त एव पित्तज्वरहरा भवन्तीति कृत्वेहोक्तं- पित्तज्वरहरा इति| पित्तहरा ये च सिद्धौ वक्तव्यास्तेऽप्यत्र ज्ञेयाः||१३२-१३६||
Adhikarana 54 (137-141) · Śloka 141
वमनं वमनार्हाय प्रदद्यात् कफगुल्मिने| स्निग्धस्विन्नशरीराय गुल्मे शैथिल्यमागते||१३७|| परिवेष्ट्य प्रदीप्तांस्तु बल्वजानथवा कुशान्| भिषक्कुम्भे समावाप्य गुल्मं घटमुखे न्यसेत्||१३८|| सङ्गृहीतो यदा गुल्मस्तदा घटमथोद्धरेत्| वस्त्रान्तरं ततः कृत्वा भिन्द्याद्गुल्मं प्रमाणवित्||१३९|| विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्| मृद्नीयाद्गुल्ममेवैकं न त्वन्त्रहृदयं स्पृशेत्||१४०|| तिलैरण्डातसीबीजसर्षपैः परिलिप्य च| श्लेष्मगुल्ममयःपात्रैः सुखोष्णैः स्वेदयेद्भिषक्||१४१||
🔊 Audio coming soon
शैथिल्यमागत इति शिथिलदोषतया शस्त्रनिर्हार्यदोषतामापन्ने गुल्मे तं घटमुखे न्यसेत्| घटमन्थनयन्त्रेण सम्यग्गृहीत्वा प्रपीडयेद् भिन्द्यादिति योजना| अन्त्रहृदयस्य त्यागः स्फुटनादिभयात्||१३७-१४१||
Adhikarana 55 (142-146) · Śloka 146
सव्योषक्षारलवणं दशमूलीशृतं घृतम्| कफगुल्मं जयत्याशु सहिङ्गुबिडदाडिमम्||१४२|| इति दशमूलीघृतम्| भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्| साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके||१४३|| पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम्| विडङ्गं सैन्धवं हिङ्गु यावशूकं बिडं शटीम्||१४४|| चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक्| प्रस्थं च पयसो दत्त्वा घृतप्रस्थं विपाचयेत्||१४५|| एतद्भल्लातकघृतं कफगुल्महरं परम्| प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासनुत्||१४६|| इति भल्लातकाद्यं घृतम्|
🔊 Audio coming soon
सव्योषेत्यादौ दशमूलस्य क्वाथे व्योषादीनां शेषाणां कल्कैः साधितं घृतं कफगुल्मं जयतीत्यर्थः||१४२-१४६||
Adhikarana 56 (147-148) · Śloka 148
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः| पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत्||१४७|| क्षीरप्रस्थं च तत् सर्पिहन्ति गुल्मं कफात्मकम्| ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम्||१४८|| इति क्षीरषट्पलकं घृतम्|
🔊 Audio coming soon
पिप्पल्याद्युक्तं षट्पलं घृतं समेनैव दुग्धेन श्रपणीयम्| “चतुर्गुणे द्रवे साध्यं” इति वचनादत्र त्रिगुणं जलं ज्ञेयम्||१४७-१४८||
Adhikarana 57 (149-151) · Śloka 151
त्रिवृतां त्रिफलां दन्तीं दशमूलं पलोन्मितम्| जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम्||१४९|| सर्पिरेरण्डजं तैलं क्षीरं चैकत्र साधयेत्| स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत्||१५०|| कफवातविबन्धेषु कुष्ठप्लीहोदरेषु च| प्रयोज्यो मिश्रकः स्नेहो योनिशूलेषु चाधिकम्||१५१|| इति मिश्रकः स्नेहः|
🔊 Audio coming soon
त्रिवृतामित्यादौ पञ्चदशपलानि क्वाथ्यानि; तत्र चतुर्गुणं जलं देयं, पलोल्लेखविहितत्वात् षष्टिपलानि भवन्ति; क्षीरमपि साहचर्यात् पञ्चदशपलम्; एतदुभयद्रवपादः स्नेहोऽत्र पक्तव्यः| किंवा “स्नेहसमं क्षीरं” इति वचनात् स्नेहसमेन क्षीरेण क्वाथेन च पञ्चदशपलेन पञ्चपलः स्नेहो द्रवपादिकः कर्तव्यः| जतूकर्णाभिप्रायात्तु त्रिवृतादिपञ्चदशपले प्रस्थमानोल्लेखेन प्रस्थचतुष्टयं जलस्य देयम्| यतस्तेन सामान्येनैवोक्तं- “त्रिवृतादन्तीत्रिफलादशमूलैः समैरुरुबूकतैलं सर्पिश्च शृतं पयसा सममुदावर्तशूलादौ” इति||१४९-१५१||
Adhikarana 58 (152-153) · Śloka 153
यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्| द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्||१५२|| सुधाक्षीरद्रवे चूर्णं त्रिवृतायाः सुभावितम्| कार्षिकं मधुसर्पिभ्यां लीढ्वा साधु विरिच्यते||१५३||
🔊 Audio coming soon
द्विगुणमिति द्विपलप्रमाणं, तत्र हि घृतपलं पेयमुक्तम्||१५२-१५३||
Adhikarana 59 (154-160) · Śloka 160
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः| दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च||१५४|| अष्टभागावशेषं तु रसं पूतमधिक्षिपेत्| दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः||१५५|| तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम्| चूर्णितं पलमेकं तु पिप्पलीविश्वभेषजम्||१५६|| तत् साध्यं लेहवच्छीते तस्मिंस्तैलसमं मधु| क्षिपेच्चूर्णपलं चैकं त्वगेलापत्रकेशरात्||१५७|| ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम्| सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयम्||१५८|| गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम्| हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम्||१५९|| कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता| निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः||१६०|| इति दन्तीहरीतकी|
🔊 Audio coming soon
तैलार्धकुडवमिति तैलं चतुष्पलम्| लेहवदिति लेहपाकलक्षणेन पक्तव्यमित्यर्थः| इह चतुर्जातकान्मिलितात् पलम्| दोषप्रस्थमिति सार्धत्रयोदशपलं; उक्तं हि भोजेन- “वमने च विरेके च तथा शोणितमोक्षणे| सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः” इति||१५४-१६०||
Adhikarana 60 (161-168) · Śloka 168
सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्| अरिष्टयोगाः सिद्धाश्च ग्रहण्यर्शश्चिकित्सिते||१६१|| यच्चूर्णं गुटिका याश्च विहिता वातगुल्मिनाम्| द्विगुणक्षारहिङ्ग्वम्लवेतसास्ताः कफे हिताः||१६२|| य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम्| सिद्धा निरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते||१६३|| प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः| कौलत्थो मुद्गयूषश्च पिप्पल्या नागरस्य च||१६४|| शुष्कमूलकयूषश्च बिल्वस्य वरुणस्य च| चिरबिल्वाङ्कुराणां च यवान्याश्चित्रकस्य च||१६५|| बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः| तक्रेण तैलसर्पिर्भ्यां व्यञ्जनान्युपकल्पयेत्||१६६|| पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम्| कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा||१६७|| यवानीचूर्णितं तक्रं बिडेन लवणीकृतम्| पिबेत् सन्दीपनं वातकफमूत्रानुलोमनम् ||१६८||
🔊 Audio coming soon
ग्रहण्यर्शश्चिकित्सिते निर्दिष्टा इत्यर्थः| दाहस्त्वन्ते इति वचनेन दाहस्य क्रियान्तरासिद्धावन्ते एव कर्तव्यतामाह||१६१-१६८||
Adhikarana 61 (169-171) · Śloka 171
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः| कृतमूलः सिरानद्धो यदा कूर्म इवोन्नतः||१६९|| दौर्बल्यारुचिहृल्लासकासवम्यरतिज्वरैः | तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति||१७०|| गृहीत्वा सज्वरश्वासं वम्यतीसारपीडितम्| हृन्नाभिहस्तपादेषु शोफः कर्षति गुल्मिनम्||१७१||
🔊 Audio coming soon
सञ्चित इत्यादिना क्रमादसाध्यताप्राप्तं गुल्ममाह| महावास्तुपरिग्रह इति भूरिदेशव्यापकः||१६९-१७१||
Adhikarana 62 (172-182) · Śloka 182
रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे| स्निग्धस्विन्नशरीरायै दद्यात् स्नेहविरेचनम्||१७२|| पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः| गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्||१७३|| प्रभिद्येत न यद्येवं दद्याद्योनिविशोधनम् | क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः||१७४|| आभ्यां वा भावितान् दद्याद्योनौ कटुकमत्स्यकान्| वराहमत्स्यपित्ताभ्यां लक्तकान् वा सुभावितान्||१७५|| अधोहरैश्चोर्ध्वहरैर्भावितान् वा समाक्षिकैः| किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम्||१७६|| रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा| लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत्||१७७|| बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्| अदृश्यमाने रुधिरे दद्याद्गुल्मप्रभेदनम्||१७८|| प्रवर्तमाने रुधिरे दद्यान्मांसरसौदनम्| घृततैलेन चाभ्यङ्गं पानार्थं तरुणीं सुराम्||१७९|| रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरीः क्रियाः| कार्या वातरुगार्तायाः सर्वा वातहरीः पुनः||१८०|| घृततैलावसेकांश्च तित्तिरींश्चरणायुधान्| सुरां समण्डां पूर्वं च पानमम्लस्य सर्पिषः||१८१|| प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा| अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम्||१८२||
🔊 Audio coming soon
गर्भकालव्यतिक्रमे इति दशममासरूपस्य गर्भकालस्य व्यतिक्रमे| क्षारपात्रे इति क्षारोदकस्याढकद्वयम्| मात्रामिति योग्यप्रमाणम्| पललं तिलपिष्टम्| क्षारश्चात्र पलाशक्षार एव, प्रकृतत्वात्| ताभ्यामिति क्षारसुधाक्षीराभ्याम्| कटुकमत्स्यः शफरी शुष्कमत्स्यः| लक्तकान् वस्त्रावयवान्| किण्वं सुराबीजम्| रक्तपित्तहरं क्षारमिति नीलोत्पलक्षारम्| अम्लस्य सर्पिषः अम्लद्रव्यसाधितस्य घृतस्य| उत्तरं भोजनोत्तरकालं पानं, किंवोत्तरबस्तिः| जीवनीयं सर्पिर्वातरक्ते वक्तव्यम्| सतिक्तेन तिक्तद्रव्यसाधितेनानुवासनमिति||१७२-१८२||
Adhikarana 63 (183-189) · Śloka 189
तत्र श्लोकाः- स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः| वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३|| सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च| रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४|| उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य| संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५|| स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च| सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६|| गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य| गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७|| पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च| नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८|| हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च| गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||
🔊 Audio coming soon
स्नेह इत्यादिना पुनः सङ्क्षेपेण सङ्ग्रहं करोति| योगाश्चेत्यनेन प्रत्येकं वातादिगुल्मचिकित्सिते सङ्गृहीता अपि पुनः सङ्ग्रहाभिधानेन सङ्गृहीताः||१८३-१८९||
Adhikarana puShpikA · Śloka 5
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सितस्थाने गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||