Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. rasāyanādhyāyaḥ - āyurvēdasamutthānīyō rasāyanapādaḥ

Adhikarana 1 (1-2) · Śloka 2

अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्यादुच्यते| आयुर्वेदसमुत्थानमस्मिन्नस्तीति मत्वर्थीयच्छप्रत्ययेणायुर्वेदसमुत्थानीयः||१-२||

Adhikarana 2 (3) · Śloka 3

ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः| ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||

🔊 Audio coming soon

ऋषीणां शालीनत्वं यायावरत्वं च कर्मविशेषपरिग्रहात्| सम्पन्नमनु उपयुज्यन्त इति साम्पन्निकाः| नातिकल्या इति नातिनीरोगाः| इतिकर्तव्यता व्यापारः| इन्द्रपर्यायकथनं स्तुत्यर्थं; स्तुतिश्चेयमिन्द्रस्यायुर्येदप्रकाशकत्वात्||३||

Adhikarana 3 (4-5) · Śloka 5

तानिन्द्रः सहस्रदृगमरगुरुरब्रवीत्- स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम्| अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयं मत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति||४|| तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||५||

🔊 Audio coming soon

असुखानुबन्धमिति रोगरूपमसुखमनुबध्नातीत्यसुखानुबन्धम् | मूलमिति कारणम्| कृतः प्रजानामनुग्रह इति ग्रामे स्थित्वा आयुर्वेदोक्तारोग्यसाधनधर्मादिप्रकाशनेन प्रजानुग्रहः कृत एवेत्यर्थः| अयं शब्द उभाभ्यां कालशब्दाभ्यां योजनीयः| प्रजापतये ब्रह्मेति च्छेदः| प्रजानामल्पादिकमायुर्मत्त्वेति योजना| अल्पत्वात् ‘आयुष’ इति शेषः| अल्पस्तपःप्रभृतीनां सञ्चयोऽस्मिन् अल्पे आयुषि तत् तथा| प्रतिशब्दो मैत्र्यादिभिः प्रत्येकं सम्बध्यते| अथशब्दश्चाधिकारे| तेन, मैत्रीकारुण्यादीन्यधिकृत्य यं ब्रह्मा प्रजापतयेऽदात्, तमनुश्रोतुमर्हतेति योजना| यद्यपि च ऋषयो भरद्वाजद्वारा इन्द्रादधिगतायुर्वेदाः, तथाऽपि ग्राम्यवासकृतमनोग्लान्या न तथा स्फुटार्थो वर्तत इति शङ्कया पुनरिन्द्रस्तानुपदिशति||४-५||

Adhikarana 4 (6) · Śloka 6

अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||६|| (इतीन्द्रोक्तं रसायनम्)|

🔊 Audio coming soon

महाश्रावणी अलम्बुषा| अतिच्छत्रा मधुरिका||६||

Adhikarana 5 (7) · Śloka 7

ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च, नारीनामौषधिः ‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा , काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं च भवति, गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति||७||

🔊 Audio coming soon

ब्रह्मसुवर्चलाप्रभृतयो यथोक्तलक्षणा दिव्यौषधयो नातिप्रसिद्धाः| आदित्यपर्णी सूर्यावर्तमेव देशविशेषजातं केचिद्वर्णयन्ति| अश्वबलेति ज्ञायत इति ऋषिभिरेवानेन नाम्ना ज्ञायते, न लौकिकैः, लोकाप्रसिद्धत्वात्| सोम इव वर्धते हीयत इति यथा सोमवृद्धिक्षयौ, तथा तत्कालमेव तस्य वृद्धिक्षयौ भवतः| प्रलीयत इति द्रुतो भवति, अन्ये तु मूर्च्छतीति वर्णयन्ति| प्रत्यवस्थापनमिति आहारसेवायां योज्यमित्यर्थः| सर्ववाचोगतानि सर्ववाक्यविशेषाः||७||

Adhikarana 6 (8-10) · Śloka 10

भवन्ति चात्र- दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः| शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८|| ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि| भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||९|| वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः| शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||

🔊 Audio coming soon

एताद्दिव्यं रसायनमृषिभिस्तद्विधैर्वा सेव्यमिति दर्शयन्नाह- दिव्यानामित्यादि| विषयाभिजा इति स्वोचितपुण्यदेशे जाता इत्यर्थः, अपुण्ये तु देशे दिव्यौषधिजन्मैव न भवति, भवन्त्योऽपि निर्वीर्या भवन्तीति भावः||८-१०||

Adhikarana 7 (11-12) · Śloka 12

यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा| मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु||११|| पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः| रसायनविधिस्तेषामयमन्यः प्रशस्यते||१२||

🔊 Audio coming soon

सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीर्यत्वं भवति, तदाह- यास्त्वित्यादि| क्षेत्रगुणैरिति हिमालयादिप्रशस्तदेशव्यतिरिक्तक्षेत्रधर्मैः| तेषामिति ऋषिव्यतिरिक्तानां वानप्रस्थादीनाम्| मध्यमेन च कर्मणेति असम्यक्प्रयोगेण; किंवा, अनतिमहताऽदृष्टेन||११-१२||

Adhikarana 8 (13-26) · Śloka 26

बल्यानां जीवनीयानां बृंहणीयाश्च या दश| वयसः स्थापनानां च खदिरस्यासनस्य च||१३|| खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च| मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च||१४|| शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च| ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च||१५|| त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च| इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च||१६|| रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव च| एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्||१७|| द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः| तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८|| तत्रामलकचूर्णानामाढकं शतभावितम्| स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च||१९|| शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्| तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं च तत्||२०|| सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते| मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्||२१|| हेमताम्रप्रवालानामयसः स्फटिकस्य च| मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च||२२|| प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्| जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा||२३|| सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्| सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्||२४|| परमूर्जस्करं चैव वर्णस्वरकरं तथा| विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्||२५|| सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके| प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्||२६|| (इतीन्द्रोक्तरसायनमपरम्)|

🔊 Audio coming soon

बल्यानामित्यादौ जोङ्गकम् अगुरु| द्वारदा शाकतरुः, कपिकच्छुर्वा| श्रीपर्णी गाम्भारी| पलाशक्षारः पलाशक्षारोदकम्| सुचौक्षे इति सुविशुद्धे| अग्निसमामिति अग्न्यनुरूपाम्| षोडशीं मात्रामिति आमलकादिचूर्णयुक्तघृतापेक्षया षोडशभागो हेमादिचूर्णाद्ग्राह्यः||१३-२६||

Adhikarana 9 (27-29) · Śloka 29

समर्थानामरोगाणां धीमतां नियतात्मनाम्| कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः||२७|| अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः| तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः||२८|| रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि| यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२९||

🔊 Audio coming soon

कुटीप्रावेशिकरसायनविषयान् वातातपिकरसायनविषयांश्च पुरुषानाह- समर्थानामित्यादि| क्षणिनामिति कृतक्षणानाम्| सूर्यमारुतसेवयाऽपि क्रियत इति सौर्यमारुतिकः||२७-२९||

Adhikarana 10 (30-35) · Śloka 35

सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्| अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||३०|| जपशौचपरं धीरं दाननित्यं तपस्विनम्| देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||३१|| आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् | समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||३२|| देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्| शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||३३|| उपासितारं वृद्धानामास्तिकानां जितात्मनाम्| धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||३४|| गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्| रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते||३५|| (इत्याचाररसायनम्)|

🔊 Audio coming soon

सामान्येन रसायनविषयपुरुषगुणानाह- सत्यवादिनमित्यादि| करुणया सत्त्वानि पश्यतीति करुणवेदी| असङ्कीर्णः असङ्कीर्णभोजी | नित्यं रसायनप्रयोगो यस्य स नित्यरसायनः||३०-३५||

Adhikarana 11 (36-38) · Śloka 38

यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्| रसायनगुणैर्जन्तुर्युज्यते न कदाचन||३६|| योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः| मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्||३७|| तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु| अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च||३८||

🔊 Audio coming soon

मनःशुद्ध्यैव प्रयतात्मतायां लब्धायां पुनस्तदभिधानमितरमानसगुणेषु प्रयतात्मताया अभ्यर्हिततोपदर्शनार्थम्| अरुजेभ्योऽद्विजातिभ्यो येषु च पुरुषेषु शुश्रूषा नास्ति तेषु चैतन्न वाच्यमिति योजना||३६-३८||

Adhikarana 12 (39-51) · Śloka 51

ये रसायनसंयोगा वृष्ययोगाश्च ये मताः| यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्||३९|| प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्| अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः||४०|| अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ| यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्||४१|| प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च| वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः||४२|| चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा| सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी||४३|| भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः| वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा||४४|| एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ| बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम्||४५|| ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च| धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः||४६|| प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते| सौत्रामण्यां च भगवानश्विभ्यां सह मोदते||४७|| इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः| स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८|| अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः| पूज्येते प्रयतैरेवमश्विनौ भिषजाविति||४९|| मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः| किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०|| शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः| प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||

🔊 Audio coming soon

सम्प्रति रसायनादिसिद्धिर्वैद्याधीना, तेन वैद्यस्तुतिमारभते- य इत्यादि| प्राणाचार्यमित्यत्र ‘प्राणिवर्यं’ इति वा पाठः; तत्र प्राणिनां वर्यः श्रेष्ठः प्राणिवर्यः| यज्ञं वहत इति यज्ञवाहौ| एतद्यज्ञवाहत्वमेव दर्शयति- दक्षस्य हीत्यादि| पूष्णः सूर्यस्य, भगोऽपि सूर्यभेदः| सोमाभिपतित इति सोमाभिपतनयोगेन पीडित इत्यर्थः; ‘सोमातिपचित’ इति वा पाठः, तत्राप्यतिपचनेन सोमपानातियोगं दर्शयति| ग्रहाः सोमपानपात्राणि| स्तोत्राणि स्तवाः स्तावकवा(ऋ)चः; शस्त्राणीति केचित्, संशस्यतेऽनेनेति कृत्वा सामऋग्व्यतिरिक्तं स्तोत्रमाहुः; शस्त्राणि अस्त्राण्येव, वषट्युक्तानि शस्त्राणि च यज्ञे कल्प्यन्त एव| धूम्राश्च पशव इति धूम्रवर्णपशवः; एवंवर्णाश्च पशवः श्रेष्ठा भवन्ति| सवन इति यज्ञस्थाने| सौत्रामणी यज्ञविशेषः| अतिशक्तित इति निजशक्तेरप्यतिरेकेण||३९-५१||

Adhikarana 13 (52-54) · Śloka 54

विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते| अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२|| विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा| ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३|| नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्| प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||

🔊 Audio coming soon

वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह- विद्येत्यादि| तेन विद्यायोगाद् वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना द्विजत्वं भवतीत्युक्तं भवति| ब्राह्मं वा आर्षं वा इति विकल्पो वैद्यविशेषाभिप्रायाद्भवति ; तयोर्यो नैष्ठिकचिकित्सार्थस्तस्य ब्राह्मम्, इतरस्य तु लोकानुग्राहिण आर्षमिति व्यवस्था||५२-५४||

Adhikarana 14 (55-62) · Śloka 62

चिकित्सितस्तु संश्रुत्य यो वाऽसंश्रुत्य मानवः| नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५|| भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्| आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६|| धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः| प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७|| नार्थार्थं नापि कामार्थमथ भूतदयां प्रति| वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८|| कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्| ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते||५९|| दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्| छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०|| धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते| न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१|| परो भूतदया धर्म इति मत्वा चिकित्सया| वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते||६२||

🔊 Audio coming soon

संश्रुत्येति प्रतिज्ञाय| चिकित्सैव पण्यं विक्रेतव्यमिति चिकित्सापण्यम्| ते हित्वेत्यादौ धर्मार्थं क्रियमाणचिकित्सा महाफलत्वेन काञ्चनराशितुल्या, इतरा त्वसारकल्पा पांशुराशितुल्या| वैवस्वतक्षयमिति यमगृहम्||५५-६२||

Adhikarana 15 (63-64) · Śloka 64

तत्र श्लोकौ- आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्| अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्||६३|| सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः| आयुर्वेदसमुत्थाने तत् सर्वं सम्प्रकाशितम्||६४||

🔊 Audio coming soon

सङ्ग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम्| आयुर्वेदसमुत्थाने प्रकाशिततया दिव्यौषधिविध्यादि यदुवाच ब्रह्मचारिभ्योऽमरेश्वरः, तत् सम्प्रकाशितमिति योजना||६३-६४||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः||४|| समाप्तश्चायं रसायनाध्यायः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः||४||