Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. vājīkaraṇā'dhyāyaḥ - saṁyōgaśaramūlīyō vājīkaraṇapādaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

स्वस्थोजस्करत्वसामान्यात् रसायनमनु वाजीकरणं वाच्यं, तत्रापि वाजीकरणे प्रवृत्त्युपदर्शकप्रकरणयुक्तत्वादादौ संयोगशरमूलीय उच्यते| संयोगः शरमूलानामस्मिन्नस्तीति संयोगशरमूलीयः||१-२||

Adhikarana 2 (3) · Śloka 4

वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्| तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च||३|| पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः|४|

🔊 Audio coming soon

अवाजी वाजीवात्यर्थं मैथुने शक्तः क्रियते येन तद्वाजीकरणम्| उक्तं हि- “वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियम्” इत्यादि| अन्विच्छेदिति रसायनान्महाफलात् तदपेक्षयाऽल्पफलं वाजीकरणं पश्चादिच्छेत्| पुरुष इति पदेन तरुणपुरुषग्राहिणा बालवृद्धौ निषिद्धव्यवायौ निराकरोति| उक्तं हि- “अतिबालो ह्यसम्पूर्णसर्वधातुः स्त्रियो व्रजन्| उपतप्येत सहसा तडागमिव काजलम्|| शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम्| स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्” इति| नित्यमित्यनेन न रसायनवत् सकृत्प्रयोगो वृष्यस्य, किन्त्वाहारवत् सर्वदोपयोग इति दर्शयति| आत्मवानित्यनेन दुरात्मनो वृष्यकरणं निषेधति, स हि वृष्योपयोगादुपचितधातुः सन्नगम्यागमनमपि कुर्यात्| धर्मादयो वृषयायत्ता एव यथा भवन्ति तदाह- पुत्रस्येत्यादि| आयतनं कारणम्| एते गुणा इति धर्मादयः; वृष्यप्रयोगजनितः पुत्रो धर्मादीन् पितुः सम्पादयतीत्यर्थः| वाजीकरणसेवया चेह युक्त्यैव ऋतुकाले च मैथुनं प्राधान्येनाभिप्रेतं, तेन तिस्रैषणीये त्रय उपस्तम्भाः (सू.अ.११) इत्यादिग्रन्थेन ब्रह्मचर्यं यदुक्तं, तद् ऋतुकाले यथाविधिकृतमैथुनाप्रतिषेधकमिति न विरोधः||३||-

Adhikarana 3 (4-7) · Śloka 8

वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी||४|| इष्टा ह्योकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः| किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||५|| (सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते)| स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्| स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्||६|| धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः| सुरूपा यौवनस्था या लक्षणैर्या विभूषिता||७|| या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता|८|

🔊 Audio coming soon

सर्ववाजीकरणेभ्यः प्रधानरूपं वाजीकरणमाह- वाजीत्यादि| क्षेत्रमिव क्षेत्रं, तत्र शुक्ररूपबीजप्ररोहणात्| अर्था इति शब्दादयः, ते च स्त्रीगताधररस-कलविङ्करुत-रूपादयः प्रसिद्धा एव| धर्मार्थौ स्त्रीष्विति सहैव पत्न्या धर्मश्चर्य इत्याद्युपदेशाद्धर्मः, तथाऽनुरक्ता गृहिणी अर्थरक्षणादि करोतीत्यर्थ इत्यर्थः| स्त्रिया लक्ष्म्याः संयोगे धनसम्पद्भवतीति स्त्रीषु लक्ष्मीः प्रतिष्ठितेत्यर्थः| वश्या आयत्ता| शिक्षितेति कामशास्त्रोक्तगीतवादित्रलास्यादिचतुःषष्टिकलाशिक्षिता||४-७||-

Adhikarana 4 (8-15) · Śloka 16

नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम्||८|| तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः| वयोरूपवचोहावैर्या यस्य परमाङ्गना||९|| प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा| हृदयोत्सवरूपा या या समानमनःशया||१०|| समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः| या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः||११|| यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्| यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः||१२|| शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते| याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम्||१३|| अपूर्वामिव यां याति नित्यं हर्षातिवेगतः| गत्वा गत्वाऽपि बहुशो यां तृप्तिं नैव गच्छति||१४|| सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः| अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम्||१५|| शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः|१६|

🔊 Audio coming soon

रूपादिव्यतिरेकेणापि काचित् कस्यचित् कर्मवशाद्वृष्या स्त्री भवतीति दर्शयन्नाह- नानेत्यादि| दैवयोगादिति प्राक्तनकर्मवशात्| विवर्धन्त इति वृष्यत्वं सम्पादयन्ति| हावो नरं प्रति स्त्रीणां शृङ्गारचेष्टाविशेषः| उक्तं च भरतेन- “प्रकाशरूपकं सत्त्वं सत्त्वोत्प्लवाः समुद्गताः| तेभ्यो हावादिनिष्पत्तिरित्याहुः परमर्षयः” इति| दैवादिति प्राक्तनकर्मणः| कर्मण इति ऐहिकाद्वशीकरणादिकर्मणः| मनःशयः कामः| पाशभूतेति मन-इन्द्रियबन्धहेतुत्वात्| ‘नानाभावा हि मानवाः’ इत्यनेन रूपादिगुणयोगेन (न) सर्वपुरुषान् प्रति स्त्रीणां प्रियत्वमिति दर्शयति||८-१५||-

Adhikarana 5 (16-23) · Śloka 24

अच्छायश्चैकशाखश्च निष्फलश्च यथा द्रुमः||१६|| अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः| चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः||१७|| निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः| अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना||१८|| मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते| बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः||१९|| बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः| मङ्गल्येऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम्||२०|| बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः| प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं कुलम्||२१|| यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः| तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान्||२२|| वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च| उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान्||२३|| वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम्|२४|

🔊 Audio coming soon

सम्प्रति वृष्यप्रयोगसाध्यस्य पुत्रस्योपादेयतां दर्शयन्नाह- अच्छाय इत्यादि| एकशाख इति एकस्वरूप इत्यर्थः| चित्रलिखितो दीपश्चित्रदीपः| अधातुर्धातुसन्निभ इति असुवर्णादिरूपः सुवर्णादिवदाभासते यो जातुषकङ्कणादिः| पूली नपुंसकधर्मित्वात्| तृणपूली पुरुषाकृतिरिति भाषया पुरुषार्थक्रियाविरहित्वं दर्शयति| कामसुखानि चेत्यनेन पुत्रोत्पादारिक्तं नातिश्लाघ्यं फलं दर्शयति| कामसुखानि हि ऐहिकान्येव परं न पुत्रवदुभयलोकोपकारकाणि| उपभोगे मैथुने सुखं कुर्वन्तीत्युपभोगसुखाः; किंवा, उपभोक्तुं सुखा उपभोगसुखाः| वीर्यं शुक्रम्||१६-२३||-

Adhikarana 6 (24-32) · Śloka 33

शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुवालिका||२४|| शतावरी पयस्या च विदारी कण्टकारिका| जीवन्ती जीवको मेदा वीरा चर्षभको बला||२५|| ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा| एषां त्रिपलिकान् भागान् माषाणामाढकं नवम्||२६|| विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्| तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली||२७|| आत्मगुप्ता मधुकानि खर्जूराणि शतावरी| विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक्||२८|| सर्पिषश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक्| साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः||२९|| शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मितैः पृथक्| पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च||३०|| त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मितैः| मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक्||३१|| पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत्| एष वृष्यः परं योगो बृंहणो बलवर्धनः||३२|| अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्|३३| (इति बृंहणीगुटिका)|

🔊 Audio coming soon

काण्डेक्षुः बृहदिक्षुः| इक्षुवालिका खग्गालिका| पयस्या क्षीरविदारी| वीरा क्षीरकाकोली| फल्गुः काष्ठोदुम्बरिका| शतावरीत्यन्तेन कल्कच्छेदः| वंशरोचना तुगाक्षीरी, अन्ये वंशरोचनानुकारि पार्थिवद्रव्यं तालधीति वदन्ति| स्त्याना इति घनाः||२४-३२||-

Adhikarana 7 (33-37) · Śloka 38

माषाणामात्मगुप्ताया बीजानामाढकं नवम्||३३|| जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्| मधुकं चाश्वगन्धां च साध्येत् कुडवोन्मिताम्||३४|| रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः| विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च||३५|| दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्| शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक्||३६|| भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम्| पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत्||३७|| य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम्|३८| (इति वाजीकरणं घृतम्)|

🔊 Audio coming soon

द्वितीयप्रयोगे रसे इति क्वाथे||३३-३७||-

Adhikarana 8 (38-41) · Śloka 41

शर्करा माषविदलास्तुगाक्षीरी पयो घृतम्||३८|| गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्| तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे||३९|| सुगन्धे प्रक्षिपेदुष्णे यथा सान्द्रीभवेद्रसः| एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः||४०|| अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्| शिखितित्तिरिहंसानामेवं पिण्डरसो मतः| बलवर्णस्वरकरः पुमांस्तेन वृषायते||४१|| (इति वाजीकरणपिण्डरसाः )|

🔊 Audio coming soon

उत्कारिका मूषिकोत्कराकारा (?)| शिखितित्तिरिहंसानां पिण्डरसैर्व्यस्तसमस्ताश्चत्वारः पिण्डरसाः||३८-४१||

Adhikarana 9 (42-49) · Śloka 49

घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे| भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि||४२|| ईषत्सलवणं युक्तं धान्यजीरकनागरैः| एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः||४३|| (इति वृष्यमाहिषरसः)| चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे| कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च||४४|| नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद्रसान्| मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान्||४५|| (इत्यन्ये वृष्यरसाः)| तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः| न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि||४६|| (इति वृष्यमांसम्)| माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्| पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्||४७|| (इति वृष्यमाषयोगः)| न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा| तृप्तः कुक्कुटमांसाना भृष्टानां नक्ररेतसि||४८|| (इति वृष्यः कुक्कुटमांसप्रयोगः)| निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्| हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्||४९|| (इति वृष्योऽण्डरसः)|

🔊 Audio coming soon

निशीत्यनेन सकलनिशामैथुनेऽपिति दर्शयति| हंसेत्यादि हंसबर्हिदक्षाणामण्डप्रयोगा यद्यपि भिन्नाः, तथाऽपि प्रयोगापेक्षया एक एवायं प्रयोगः| एवं सङ्ग्रहोक्ताः हंसबर्हिदक्षाणामेकप्रयोगेण पञ्चदशप्रयोगाः पूर्यन्ते||४२-४९||-

Adhikarana 10 (50-51) · Śloka 51

भवतश्चात्र- स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले| वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च||५०|| तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः| सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः||५१||

🔊 Audio coming soon

वृष्ययोगाश्च शुद्धदेहैरेव कर्तव्या इति दर्शयन्नाह- स्रोतःस्वित्यादि| मितमिति मात्रावत्| क्लिष्टे इति म्लाने||५०-५१||

Adhikarana 11 (52-53) · Śloka 53

तत्र श्लोकौ- वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या| ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये||५२|| दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः| उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः||५३||

🔊 Audio coming soon

सङ्ग्रहे यस्य चैव येति यस्य या वृष्येत्यर्थः||५२-५३||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सितस्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः||१||