Adhikarana 1 (1-2) · Śloka 2
अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पारिशेष्यात् पुमाञ्जातबलादिक उच्यते| पुमाञ्जातबलादयः शब्दा अस्मिन् विद्यन्त इति पुमाञ्जातबलादिकः; आसिक्तक्षीरिकवच्छब्दसिद्धिः||१-२||
Adhikarana 2 (3-10) · Śloka 10
पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्|
यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते||३||
न हि जातबलाः सर्वे नराश्चापत्यभागिनः|
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः||४||
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः|
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः||५||
नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम्|
गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः||६||
कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः|
केचित् प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः||७||
तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्|
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान्||८||
पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः|
बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान्||९||
घृततैलरसक्षीरशर्करामधुसंयुताः|
बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम्||१०||
जातबलत्वे सत्यपि नावश्यमपत्यभागित्वं भवतीति कृत्वा ‘यथा जातबलः’ इत्युक्तेऽपि ‘यथा चापत्यवान् भवेत्’ इत्युक्तम्| तदेव शुक्रवैचित्र्यं स्फोटयति- न हीत्यादि| ‘न हि जातबलाः सर्वे’ इत्येकः पक्षः, तथा ‘नरा नापत्यभागिनः सर्वे’ इति द्वितीयः पक्षो ज्ञेयः| एतच्छुक्रबलभेदप्रसङ्गादपरानपि शुक्रबलविशेषानाह- बृहच्छरीरा इत्यादि| अल्पाश्रया अल्पशरीराः, एते च शुक्रसारत्वेन नारीषु बलवन्तो बहुप्रजाश्च भवन्ति| गजवत् प्रसिञ्चन्तीति शुक्रं बहु विसृजन्ति| कालयोगेन हेमन्तादिकालसम्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगबलाः| अभ्यसनध्रुवा इति व्यवायाभ्यासेनैव व्यवायसमर्था भवन्ति| एवं प्रयत्नैर्व्यज्यन्त इति वृष्यप्रयोगैः स्त्रीषु प्रवर्तन्ते| सुखोपभोगानिति सुखानुष्ठानान्| निरूहानुवासनशुद्धानां वृष्यप्रयोगाः फलदा भवन्तीति निरूहानुवासनाभिधानम्||३-१०||
Adhikarana 3 (11-14) · Śloka 14
पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे|
कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ||११||
वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे|
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके||१२||
यथा न भिन्द्याद्गुलि(टि)कास्तथा तं साधयेद्रसम्|
तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम्||१३||
मांसानामेवमन्येषां मेद्यानां कारयेद्भिषक्|
गुटिकाः सरसास्तासं प्रयोगः शुक्रवर्धनः||१४||
(इति वृष्या मांसगुटिकाः)|
वर्तनस्तम्भिता इति वर्तनेन कठिनीकृताः| दधिदाडिमसाराभ्यां संस्कृतं दधिदाडिमसारिकम्| दाडिमसारश्च दाडिमरसः| मांसानामित्यादि अतिदेशयोगो द्वितीयः| मेद्यानामिति मेदुराणाम्||११-१४||
Adhikarana 4 (15-16) · Śloka 16
माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान्|
घृताढ्ये माहिषरसे दधिदाडिमसारिके||१५||
प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः|
भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम्||१६||
(इति वृष्यो माहिषरसः)|
अजडा शूकशिम्बी| भुक्तः पीतश्चेति पूर्वयोगवद्धनभागस्य भोजनं, द्रवस्य च पानं ज्ञेयम्||१५-१६||
Adhikarana 5 (17-18) · Śloka 18
आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभार्जिताः|
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम्||१७||
घृतभृष्टान् रसे च्छागे रोहितान् फलसारिके|
अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत्||१८||
(इति वृष्यघृतभृष्टमत्स्यमांसानि)|
मत्स्यशब्देन प्रधानकल्पनया रोहितं वदन्ति| फलसारिक इति दाडिमामलकादिफलसारसंस्कृतम्||१७-१८||
Adhikarana 6 (19-22) · Śloka 22
कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः|
युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत्||१९||
माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्|
रसे चानुगते मांसं पोथयेत्तत्र चावपेत्||२०||
मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्|
माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्||२१||
एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ|
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ||२२||
(इति वृष्यौ पूपलिकायोगौ)|
कुट्टकमिति कुट्टनेनाणुशः कृतम्||१९-२२||
Adhikarana 7 (23-27) · Śloka 27
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्|
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च||२३||
संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्|
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम्||२४||
(इति वृष्या माषादिपूपलिकाः)|
शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः|
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च||२५||
अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च|
तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने||२६||
मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्|
एष वृष्यः परं योगो बल्यो बृंहण एव च||२७||
इक्षुरकः कोकिलाक्षः||२३-२७||
Adhikarana 8 (28-29) · Śloka 29
शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः|
श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक् पृथक्||२८||
साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः|
शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत्||२९||
(इत्यपत्यकरं घृतम्)|
शर्करामधुसंयुक्तमित्यत्र प्रक्षेपन्यायात् पादिकत्वं शर्करामधुनोः||२८-२९||
Adhikarana 9 (30-32) · Śloka 32
घृतपात्रं शतगुणे विदारीस्वरसे पचेत्|
सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत्||३०||
शर्करायास्तुगाक्षीर्यां क्षौद्रस्येक्षुरकस्य च|
पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम्||३१||
गुलि(टि)काः कारयेद्वैद्यो यथा स्थुलमुदुम्बरम्|
तासां प्रयोगात् पुरुषः कुलिङ्ग इव हृष्यति||३२||
(इति वृष्यगुटिकाः)|
पादांशिकैरिति घृतापेक्षया पादप्रमाणैः||३०-३२||
Adhikarana 10 (33-35) · Śloka 35
सितोपलापलशतं तदर्धं नवसर्पिषः|
क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम्||३३||
सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले|
शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत्||३४||
शुद्धा उत्कारिकाः कार्यश्चन्द्रमण्डलसन्निभाः|
तासां प्रयोगाद्गजवन्नारीः सन्तर्पयेन्नरः||३५||
(इति वृष्योत्कारिका)|
समुत्कीर्येति विस्तीर्य| उत्कारिकाः कार्या इत्यत्र पुनः पाकेनैवोत्कारिकाकरणम्||३३-३५||
Adhikarana 11 (36-45) · Śloka 45
यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु|
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते||३६||
द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत्|
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३७||
गत्वा स्नात्वा पयः पीत्वा रसं वाऽनु शयीत ना|
तथाऽस्याप्यायते भूयः शुक्रं च बलमेव च||३८||
यथा मुकुलपुष्पस्य सु(ख) गन्धो नोपलभ्यते|
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्||३९||
नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो न च|
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति||४०||
अतिबालो ह्यसम्पूर्णसर्वधातुः स्त्रियं व्रजन्|
उपशुष्येत सहसा तडागमिव काजलम्||४१||
शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्|
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्||४२||
जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्|
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्||४३||
क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्|
नारीणामरसज्ञत्वादविचारादसेवनात्||४४||
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते|
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा||४५||
अनुक्तवाजीकरणं सङ्गृह्णन्नाह- यत्किञ्चिदित्यादि| भावित इति वचनात् प्रयोगेण शरीरभावनायां सत्यां स्त्रीसेवा सम्भवतीति दर्शयति| आत्मवेगेनेति सङ्कल्पजातेनात्मवेगेन| बालस्य तडागदृष्टान्तेन पुनरपि शुक्रसद्भावं कफप्राधान्यं च दर्शयति; वृद्धस्य तु जन्तुजग्धत्वादिदृष्टान्तेन विनष्टस्यापुनर्भावं शुक्रस्य तथाऽभूयिष्ठतां च दर्शयति| ननु तृप्तस्य शरीरबलं भवत्येव, तत् किं तृप्तस्य स्त्रियो गन्तुमसामर्थ्यमित्याह- देहेत्यादि| एतेन सत्यपि तृप्तिजनिते बले क्षयादिना देहमनसोरुपहतत्वाद्धर्षो न भवति, हर्षाभावाद् व्यवायशक्तिर्न भवतीत्युक्तं भवति||३६-४५||
Adhikarana 12 (46-49) · Śloka 49
रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा|
सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा||४६||
तत् स्त्रीपुरुषसंयोगे चेष्टासङ्कल्पपीडनात्|
शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात् पटादिव||४७||
हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद्गौरवादपि|
अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य च||४८||
अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते|
चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते||४९||
सम्प्रति, सम्भवति शुक्रं यथा देहे, स्थितं यथा च प्रवर्तते, तदाह- रस इत्यादि| इक्ष्वादिदृष्टान्तत्रयेणानतिप्रयत्नाल्पप्रयत्नमहाप्रयत्नवाह्यशुक्रान् पुरुषान् यथाक्रमं दर्शयति| संस्पर्शन इति संस्पर्शनवति, तेन केशादौ संस्पर्शनाव्याप्तेः शुक्रमपि नास्तीति दर्शयति| स्त्रीपुरुषसंयोगो मिश्रीभावः| चेष्टा व्यवायचेष्टा, सङ्कल्पो योषिदनुरागः, पीडनं नारीपुरुषयोः परस्परसम्मूर्च्छनम्; अत्र च नारीपुरुषसंयोगः प्रधानं कारणं, तत्सहकारिणि चेष्टादीनि| आर्द्रपटदृष्टान्तेनाश्रयानुपघातेन शुक्रस्रवणं दर्शयति| अपरमपि शुक्रप्रवृत्तिहेतुमाह- हर्षादित्यादि| हर्षः सङ्कल्पपूर्वकशुक्रोद्रेकध्वजोच्छ्रायादिकारीच्छा| तर्षः वनिताभिलाषः| सरत्वम् अस्थैर्यम्| अनुप्रवणभावः अणुत्वे सति बहिर्निर्गमनस्वभावः| द्रुतत्वान्मारुतस्य चेति शुक्रप्रेरकस्य वायोरभिद्रवणशीलत्वादित्यर्थः| एते च यद्यपि हेतवस्तथाऽपि प्राधान्यात् प्रथमप्रतिपादितस्त्रीपुरुषसंयोगादिरूपहेतूनां समष्टौ नैवामी गणिताः| चरत इति नानामानुषपश्वादिजातिषु भ्रमतः| विश्वरूपस्येति आत्मनः| तथा ह्यात्मपर्यायेषूक्तं- “स विश्वकर्मा स च विश्वरूपः” (शा.अ.२) इति| रूपद्रव्यमिति रूपप्राक्तनकारणम्| एतेन, अव्यक्तस्यात्मनो व्यक्तशरीरनिर्वृत्तौ शुक्रं हेतुरित्युक्तं भवति| शुक्रं चेह प्रकरणागतत्वेनोक्तं; तेन आर्तवमप्यात्मनो रूपद्रव्यं ज्ञेयम्||४६-४९||
Adhikarana 13 (50) · Śloka 50
बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम्|
शुक्लं बहु च यच्छुक्रं फलवत्तदसंशयम्||५०||
प्रशस्तशुक्रगुणानाह- बहलमित्यादि||५०||
Adhikarana 14 (51) · Śloka 51
येन नारीषु सामर्थ्यं वाजीवल्लभते नरः|
व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत्||५१||
वाजीकरणशब्दनिरुक्तिमाह- येनेत्यादि| व्रजेच्चाभ्यधिकमिति पुनः पुनर्गच्छेत्; ‘व्यज्यते’ इति वा पाठः, तत्रापि भूयो गमनेन नारीषु पुंस्त्वेन व्यज्यते| ‘व्यज्यात्’ इति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः| अनेन निरुक्तेन त्रिविधमपि वृष्यमवरुध्यते; यथा- शुक्रवृद्धिकरं च माषादि, तथा स्रुतिकरं सङ्कल्पादि, शुक्रस्रुतिवृद्धिकरं क्षीरादि| यदुक्तमन्यत्र- “शुक्रस्रुतिकरं किञ्चित् किञ्चिच्छुक्रविवर्धनम्| स्रुतिवृद्धिकरं किञ्चित् त्रिविधं वृष्यमुच्यते” इति| त्रिविधमपि हीदं व्यवाये बलवत्त्वं पुनः पुनर्व्यवायशक्तिं च करोति||५१||
Adhikarana 15 (52-53) · Śloka 53
तत्र श्लोकौ- हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः|
यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु||५२||
यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः|
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके||५३||
हेतुरित्यादि| सङ्ग्रहो व्यक्तः||५२-५३||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः||४||
समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः||२||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः||४|| इति वाजीकरणाध्यायो द्वितीयः||२||