Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. vājīkaraṇā'dhyāyaḥ - pumāñjātabalādikō vājīkaraṇapādaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पारिशेष्यात् पुमाञ्जातबलादिक उच्यते| पुमाञ्जातबलादयः शब्दा अस्मिन् विद्यन्त इति पुमाञ्जातबलादिकः; आसिक्तक्षीरिकवच्छब्दसिद्धिः||१-२||

Adhikarana 2 (3-10) · Śloka 10

पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्| यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते||३|| न हि जातबलाः सर्वे नराश्चापत्यभागिनः| बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः||४|| सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः| प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः||५|| नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम्| गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः||६|| कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः| केचित् प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः||७|| तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्| सुखोपभोगान् बलिनां भूयश्च बलवर्धनान्||८|| पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः| बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान्||९|| घृततैलरसक्षीरशर्करामधुसंयुताः| बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम्||१०||

🔊 Audio coming soon

जातबलत्वे सत्यपि नावश्यमपत्यभागित्वं भवतीति कृत्वा ‘यथा जातबलः’ इत्युक्तेऽपि ‘यथा चापत्यवान् भवेत्’ इत्युक्तम्| तदेव शुक्रवैचित्र्यं स्फोटयति- न हीत्यादि| ‘न हि जातबलाः सर्वे’ इत्येकः पक्षः, तथा ‘नरा नापत्यभागिनः सर्वे’ इति द्वितीयः पक्षो ज्ञेयः| एतच्छुक्रबलभेदप्रसङ्गादपरानपि शुक्रबलविशेषानाह- बृहच्छरीरा इत्यादि| अल्पाश्रया अल्पशरीराः, एते च शुक्रसारत्वेन नारीषु बलवन्तो बहुप्रजाश्च भवन्ति| गजवत् प्रसिञ्चन्तीति शुक्रं बहु विसृजन्ति| कालयोगेन हेमन्तादिकालसम्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगबलाः| अभ्यसनध्रुवा इति व्यवायाभ्यासेनैव व्यवायसमर्था भवन्ति| एवं प्रयत्नैर्व्यज्यन्त इति वृष्यप्रयोगैः स्त्रीषु प्रवर्तन्ते| सुखोपभोगानिति सुखानुष्ठानान्| निरूहानुवासनशुद्धानां वृष्यप्रयोगाः फलदा भवन्तीति निरूहानुवासनाभिधानम्||३-१०||

Adhikarana 3 (11-14) · Śloka 14

पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे| कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ||११|| वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे| घृताढ्ये गन्धपिशुने दधिदाडिमसारिके||१२|| यथा न भिन्द्याद्गुलि(टि)कास्तथा तं साधयेद्रसम्| तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम्||१३|| मांसानामेवमन्येषां मेद्यानां कारयेद्भिषक्| गुटिकाः सरसास्तासं प्रयोगः शुक्रवर्धनः||१४|| (इति वृष्या मांसगुटिकाः)|

🔊 Audio coming soon

वर्तनस्तम्भिता इति वर्तनेन कठिनीकृताः| दधिदाडिमसाराभ्यां संस्कृतं दधिदाडिमसारिकम्| दाडिमसारश्च दाडिमरसः| मांसानामित्यादि अतिदेशयोगो द्वितीयः| मेद्यानामिति मेदुराणाम्||११-१४||

Adhikarana 4 (15-16) · Śloka 16

माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान्| घृताढ्ये माहिषरसे दधिदाडिमसारिके||१५|| प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः| भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम्||१६|| (इति वृष्यो माहिषरसः)|

🔊 Audio coming soon

अजडा शूकशिम्बी| भुक्तः पीतश्चेति पूर्वयोगवद्धनभागस्य भोजनं, द्रवस्य च पानं ज्ञेयम्||१५-१६||

Adhikarana 5 (17-18) · Śloka 18

आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभार्जिताः| तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम्||१७|| घृतभृष्टान् रसे च्छागे रोहितान् फलसारिके| अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत्||१८|| (इति वृष्यघृतभृष्टमत्स्यमांसानि)|

🔊 Audio coming soon

मत्स्यशब्देन प्रधानकल्पनया रोहितं वदन्ति| फलसारिक इति दाडिमामलकादिफलसारसंस्कृतम्||१७-१८||

Adhikarana 6 (19-22) · Śloka 22

कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः| युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत्||१९|| माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत्| रसे चानुगते मांसं पोथयेत्तत्र चावपेत्||२०|| मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्| माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्||२१|| एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ| हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ||२२|| (इति वृष्यौ पूपलिकायोगौ)|

🔊 Audio coming soon

कुट्टकमिति कुट्टनेनाणुशः कृतम्||१९-२२||

Adhikarana 7 (23-27) · Śloka 27

माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्| शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च||२३|| संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत्| पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम्||२४|| (इति वृष्या माषादिपूपलिकाः)| शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः| प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च||२५|| अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च| तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने||२६|| मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत्| एष वृष्यः परं योगो बल्यो बृंहण एव च||२७||

🔊 Audio coming soon

इक्षुरकः कोकिलाक्षः||२३-२७||

Adhikarana 8 (28-29) · Śloka 29

शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः| श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक् पृथक्||२८|| साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः| शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत्||२९|| (इत्यपत्यकरं घृतम्)|

🔊 Audio coming soon

शर्करामधुसंयुक्तमित्यत्र प्रक्षेपन्यायात् पादिकत्वं शर्करामधुनोः||२८-२९||

Adhikarana 9 (30-32) · Śloka 32

घृतपात्रं शतगुणे विदारीस्वरसे पचेत्| सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत्||३०|| शर्करायास्तुगाक्षीर्यां क्षौद्रस्येक्षुरकस्य च| पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम्||३१|| गुलि(टि)काः कारयेद्वैद्यो यथा स्थुलमुदुम्बरम्| तासां प्रयोगात् पुरुषः कुलिङ्ग इव हृष्यति||३२|| (इति वृष्यगुटिकाः)|

🔊 Audio coming soon

पादांशिकैरिति घृतापेक्षया पादप्रमाणैः||३०-३२||

Adhikarana 10 (33-35) · Śloka 35

सितोपलापलशतं तदर्धं नवसर्पिषः| क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम्||३३|| सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले| शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत्||३४|| शुद्धा उत्कारिकाः कार्यश्चन्द्रमण्डलसन्निभाः| तासां प्रयोगाद्गजवन्नारीः सन्तर्पयेन्नरः||३५|| (इति वृष्योत्कारिका)|

🔊 Audio coming soon

समुत्कीर्येति विस्तीर्य| उत्कारिकाः कार्या इत्यत्र पुनः पाकेनैवोत्कारिकाकरणम्||३३-३५||

Adhikarana 11 (36-45) · Śloka 45

यत् किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु| हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते||३६|| द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत्| आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३७|| गत्वा स्नात्वा पयः पीत्वा रसं वाऽनु शयीत ना| तथाऽस्याप्यायते भूयः शुक्रं च बलमेव च||३८|| यथा मुकुलपुष्पस्य सु(ख) गन्धो नोपलभ्यते| लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्||३९|| नर्ते वै षोडशाद्वर्षात् सप्तत्याः परतो न च| आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति||४०|| अतिबालो ह्यसम्पूर्णसर्वधातुः स्त्रियं व्रजन्| उपशुष्येत सहसा तडागमिव काजलम्||४१|| शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्| स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन्||४२|| जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात्| क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्||४३|| क्षयाद्भयादविश्रम्भाच्छोकात् स्त्रीदोषदर्शनात्| नारीणामरसज्ञत्वादविचारादसेवनात्||४४|| तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते| देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा||४५||

🔊 Audio coming soon

अनुक्तवाजीकरणं सङ्गृह्णन्नाह- यत्किञ्चिदित्यादि| भावित इति वचनात् प्रयोगेण शरीरभावनायां सत्यां स्त्रीसेवा सम्भवतीति दर्शयति| आत्मवेगेनेति सङ्कल्पजातेनात्मवेगेन| बालस्य तडागदृष्टान्तेन पुनरपि शुक्रसद्भावं कफप्राधान्यं च दर्शयति; वृद्धस्य तु जन्तुजग्धत्वादिदृष्टान्तेन विनष्टस्यापुनर्भावं शुक्रस्य तथाऽभूयिष्ठतां च दर्शयति| ननु तृप्तस्य शरीरबलं भवत्येव, तत् किं तृप्तस्य स्त्रियो गन्तुमसामर्थ्यमित्याह- देहेत्यादि| एतेन सत्यपि तृप्तिजनिते बले क्षयादिना देहमनसोरुपहतत्वाद्धर्षो न भवति, हर्षाभावाद् व्यवायशक्तिर्न भवतीत्युक्तं भवति||३६-४५||

Adhikarana 12 (46-49) · Śloka 49

रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा| सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा||४६|| तत् स्त्रीपुरुषसंयोगे चेष्टासङ्कल्पपीडनात्| शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात् पटादिव||४७|| हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद्गौरवादपि| अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य च||४८|| अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते| चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते||४९||

🔊 Audio coming soon

सम्प्रति, सम्भवति शुक्रं यथा देहे, स्थितं यथा च प्रवर्तते, तदाह- रस इत्यादि| इक्ष्वादिदृष्टान्तत्रयेणानतिप्रयत्नाल्पप्रयत्नमहाप्रयत्नवाह्यशुक्रान् पुरुषान् यथाक्रमं दर्शयति| संस्पर्शन इति संस्पर्शनवति, तेन केशादौ संस्पर्शनाव्याप्तेः शुक्रमपि नास्तीति दर्शयति| स्त्रीपुरुषसंयोगो मिश्रीभावः| चेष्टा व्यवायचेष्टा, सङ्कल्पो योषिदनुरागः, पीडनं नारीपुरुषयोः परस्परसम्मूर्च्छनम्; अत्र च नारीपुरुषसंयोगः प्रधानं कारणं, तत्सहकारिणि चेष्टादीनि| आर्द्रपटदृष्टान्तेनाश्रयानुपघातेन शुक्रस्रवणं दर्शयति| अपरमपि शुक्रप्रवृत्तिहेतुमाह- हर्षादित्यादि| हर्षः सङ्कल्पपूर्वकशुक्रोद्रेकध्वजोच्छ्रायादिकारीच्छा| तर्षः वनिताभिलाषः| सरत्वम् अस्थैर्यम्| अनुप्रवणभावः अणुत्वे सति बहिर्निर्गमनस्वभावः| द्रुतत्वान्मारुतस्य चेति शुक्रप्रेरकस्य वायोरभिद्रवणशीलत्वादित्यर्थः| एते च यद्यपि हेतवस्तथाऽपि प्राधान्यात् प्रथमप्रतिपादितस्त्रीपुरुषसंयोगादिरूपहेतूनां समष्टौ नैवामी गणिताः| चरत इति नानामानुषपश्वादिजातिषु भ्रमतः| विश्वरूपस्येति आत्मनः| तथा ह्यात्मपर्यायेषूक्तं- “स विश्वकर्मा स च विश्वरूपः” (शा.अ.२) इति| रूपद्रव्यमिति रूपप्राक्तनकारणम्| एतेन, अव्यक्तस्यात्मनो व्यक्तशरीरनिर्वृत्तौ शुक्रं हेतुरित्युक्तं भवति| शुक्रं चेह प्रकरणागतत्वेनोक्तं; तेन आर्तवमप्यात्मनो रूपद्रव्यं ज्ञेयम्||४६-४९||

Adhikarana 13 (50) · Śloka 50

बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम्| शुक्लं बहु च यच्छुक्रं फलवत्तदसंशयम्||५०||

🔊 Audio coming soon

प्रशस्तशुक्रगुणानाह- बहलमित्यादि||५०||

Adhikarana 14 (51) · Śloka 51

येन नारीषु सामर्थ्यं वाजीवल्लभते नरः| व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत्||५१||

🔊 Audio coming soon

वाजीकरणशब्दनिरुक्तिमाह- येनेत्यादि| व्रजेच्चाभ्यधिकमिति पुनः पुनर्गच्छेत्; ‘व्यज्यते’ इति वा पाठः, तत्रापि भूयो गमनेन नारीषु पुंस्त्वेन व्यज्यते| ‘व्यज्यात्’ इति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः| अनेन निरुक्तेन त्रिविधमपि वृष्यमवरुध्यते; यथा- शुक्रवृद्धिकरं च माषादि, तथा स्रुतिकरं सङ्कल्पादि, शुक्रस्रुतिवृद्धिकरं क्षीरादि| यदुक्तमन्यत्र- “शुक्रस्रुतिकरं किञ्चित् किञ्चिच्छुक्रविवर्धनम्| स्रुतिवृद्धिकरं किञ्चित् त्रिविधं वृष्यमुच्यते” इति| त्रिविधमपि हीदं व्यवाये बलवत्त्वं पुनः पुनर्व्यवायशक्तिं च करोति||५१||

Adhikarana 15 (52-53) · Śloka 53

तत्र श्लोकौ- हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः| यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु||५२|| यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः| निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके||५३||

🔊 Audio coming soon

हेतुरित्यादि| सङ्ग्रहो व्यक्तः||५२-५३||

Adhikarana puShpikA · Śloka 2

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः||४|| समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः||२||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः||४|| इति वाजीकरणाध्यायो द्वितीयः||२||