Adhikarana 1 (1-2) · Śloka 2
अथातो माषपर्णभृतीयं वाजीकरणपादं व्यख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
माषर्णभृतीयसम्बन्धोऽपि पूर्ववत्||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो माषपर्णभृतीयं वाजीकरणपादं व्यख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
माषर्णभृतीयसम्बन्धोऽपि पूर्ववत्||१-२||
Adhikarana 2 (3-5) · Śloka 5
माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम्| समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्||३|| रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम्| इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्||४|| केवलं तु पयस्तस्याः शृतं वाऽशृतमेव वा| शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम्||५||
🔊 Audio coming soon
गृष्टिम् एकवारप्रसूताम्| चतुःस्तनीमित्यनेन सम्पूर्णचतुःस्तनीं दर्शयति| रोहिणीमिति लोहितवर्णाम्| ऊर्ध्वशृङ्गत्वं विशुद्धबहुक्षीराया एव भवतीति वचनाज्ज्ञेयम्| इक्ष्वादेति इक्षुदण्डभक्षा| अर्जुनादा अर्जुनवृक्षपत्रभक्षा| इक्ष्वादा वा, अर्जुनादा वा, माषपर्णभृता वेति विकल्पत्रयम्| पयः शृतमशृतं वेति द्वौ योगौ| शर्कराक्षौद्रसर्पिर्भिर्युक्तं तदिति तृतीयः| एतत्प्रयोगोऽपि जतूकर्णे- “तस्याः क्षीरं शर्कराक्षौद्रयुक्तं वा केवलं शृतमशृतं वा” इति||३-५||
Adhikarana 3 (6-7) · Śloka 7
शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनैः| क्षीरसञ्जननैश्चैव पयः सिद्धं पृथक् पृथक्||६|| युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्| पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम्||७||
🔊 Audio coming soon
पर्यायेणेति पृथक् पृथक् प्रयोक्तव्यं; तेन पञ्चभिर्गणैः पञ्च योगा भवन्ति||६-७||
Adhikarana 4 (8-10) · Śloka 10
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्| श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान्||८|| पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते| विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा||९|| युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा| विपुलं लभतेऽपत्यं युवेव च स हृष्यति||१०||
🔊 Audio coming soon
विवर्जयेदिति मेदादिकल्कं वर्जयेत्| वृद्धः सप्ततेरर्वागिति ज्ञेयम्| सप्ततिकस्य तु यद्यपि शुक्रनिवृत्तिरुक्ता, तथाऽपि वृष्यप्रभावाद्भवतीति विज्ञेयम्||८-१०||
Adhikarana 5 (11) · Śloka 11
मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्| अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्||११||
🔊 Audio coming soon
जातरूपस्येति सुवर्णस्य; मण्डलरूपाऽऽकृतिरिह सुवर्णस्य प्रभावाद्वृष्यप्रयोगोपकारिणी भवतीति वचनाज्ज्ञेयम्| तस्या एवेति माषपर्णभृतधेन्वाः||११||
Adhikarana 6 (12-14) · Śloka 14
त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः| भृष्टाः सशर्कराक्षौद्राः क्षीरधारावदोहिताः||१२|| पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा| भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत्||१३|| (इति वृष्यः पिप्पलीयोगः)| श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे| घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः||१४|| (इति वृष्यपायसयोगः)|
🔊 Audio coming soon
प्रकुञ्चं पलम्| क्षीरधारावदोहिता इति पिप्पलीकल्कादुपरि क्षीरधारावदोहः कर्तव्यः; क्षीरं च तावद्दोह्यं यावता पानयोग्याः पिप्पल्यो भवन्ति||१२-१४||
Adhikarana 7 (15-17) · Śloka 17
फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्| कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च||१५|| कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः| गोधूमशालिचूर्णानां कुडवः कुडवो भवेत्||१६|| सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् | पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः||१७|| (इति वृष्यपूपलिकाः)|
🔊 Audio coming soon
फलानामित्यादि| फलानामिति जीवनीयानामित्यादिभिस्त्रिभिः प्रत्येकमभिसम्बध्यते| जीवनीयानामिति षट्ककषायवर्गोक्तानां जीवकर्षभादीनां दशानाम्| स्निग्धानामिति स्नेहोपगानां मृद्वीकादीनां दशानां सप्तककषायवर्गोक्तानाम्| तथा रुचिकारिणामिति चतुष्ककषायवर्गोक्तानामाम्रादीनां हृद्यानां दशानामिति| एषां जीवनीयप्रभृतीनां फलानां चूर्णितानां मिलित्वा कुडवो ग्राह्यः| अन्यदतिरोहितार्थम्| तथा ह्ययं प्रयोगो जतूकर्णे च पठ्यते- “द्राक्षाखर्जूरमाषाजडागोधूमशालिघृतानां कुडवः, तिलमुद्गौ द्विकौडविकौ चूर्णयित्वा” इत्यादि||१५-१७||
Adhikarana 8 (18) · Śloka 18
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्| शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम्||१८|| (इति वृष्यं शतावरीघृतम्)|
🔊 Audio coming soon
घृतं शतावरीत्यादौ शर्करादीनां प्रक्षेप्याणामन्यतोदृष्टन्यायाद्घृतात् पादिकत्वं (घृतस्य प्रास्थिकत्वम् )||१८||
Adhikarana 9 (19) · Śloka 19
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् | प्रयुङ्क्ते यः पयश्चानु नित्यवेगः स ना भवेत्||१९|| (इति वृष्यमधुकयोगः)|
🔊 Audio coming soon
कर्षमित्यादिकान्ताः पञ्चदश प्रयोगाः||१९||
Adhikarana 10 (20-25) · Śloka 25
घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा| सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०|| कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः| कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१|| कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः| ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२|| ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः| तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३|| अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः| गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४|| विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः| संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||
🔊 Audio coming soon
घृतक्षीराशन इत्यादिना तु वृष्यत्वार्थिन आहाराचाराभिधानम्| नित्यमित्यनेन व्यवायनित्यतया शुक्रमार्गानवरोधेन व्यवायशक्तिं दर्शयति| कृतमेकं कृत्यं यैस्ते तथा, एतच्च अन्योऽन्यार्थरागकारणम्| सिद्धार्था इति सिद्धसाध्याः, अकृतार्था हि व्याकुलमनसो न कामक्षमाः| वृषायत इति उपचितप्रवृत्त्युन्मुखशुक्रो भवति||२०-२५||
Adhikarana 11 (26-28) · Śloka 28
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः| जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६|| नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः| उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७|| वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः| रतिभोगक्षमा रात्र्यः सङ्कोचागुरुवल्लभाः||२८||
🔊 Audio coming soon
‘मत्तद्विरेफाचरिताः’ इत्यादि ‘गृहणि च’ इत्यन्तं योग्यतया ऋतुविभागेनानुक्तमपि ग्रीष्म एव ज्ञेयं, तथा ‘मेघानां’ इत्यन्तं प्रावृषि, तथा ‘गन्धिनः’ इत्यन्तं शरदि, ‘वल्लभाः’ इत्यन्तं च विधानं हेमन्तशिशिरयोर्ज्ञेयम्| सङ्कोचं कुङ्कुमं, सङ्कोचागुरुणोः समालभनार्थं वल्लभा यासु निशासु तास्तथा||२६-२८||
Adhikarana 12 (29-31) · Śloka 31
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः| गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९|| सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य| वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०|| तत्र श्लोकः- प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च| माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ||३१||
🔊 Audio coming soon
सुखा इत्यादिग्रन्थविधानं तु वसन्ताभिप्रायविहितमन्यत्राप्यविरुद्धम्| आत्मजस्येति मन्मथस्य| जातमदः कालो वसन्तादिः||२९-३१||
Adhikarana puShpikA · Śloka 3
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः||३||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम तृतीयः पादः||३||