Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

29. viṣacikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातो विषचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| प्रागुत्पत्तिं गुणान् योनिं वेगाँल्लिङ्गान्युपक्रमान्| विषस्य ब्रुवतः सम्यगग्निवेश निबोध मे||३||

🔊 Audio coming soon

शीतोपशमप्राधान्यसामान्यात्तृष्णाचिकित्सितमनु विषचिकित्सितमुच्यते- प्रागित्यादि| प्रागुत्पत्तिः आद्योत्पत्तिः| योनिरिति अधिष्ठानम्| लिङ्गानीति देहसम्बन्धिविषस्य लिङ्गानि, तथा अन्नादिगतस्य च लिङ्गानि| अत्र नापृष्टा गुरवो वदन्तीति न्यायाच्छिष्यप्रश्न उन्नेयः| विषं च यद्यपि रोगाधिकारे न सूत्रितं साक्षात्, तथाऽपि विषजमदाभिधानात्तत्कारणतया सूत्रितमेव रोगाधिकारे ज्ञेयं; तेन नोत्सूत्रमिह विषाभिधानमिति||१-३||

Adhikarana 2 (4-5) · Śloka 5

अमृतार्थं समुद्रे तु मथ्यमाने सुरासुरैः| जज्ञे प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः||४|| दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः| जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसञ्ज्ञितः||५||

🔊 Audio coming soon

अमृतार्थमित्यादिना प्रागुत्पत्त्यभिधानं विषस्य महाप्रभावदर्शनार्थम्| हरिकेश इति पिङ्गलकेशः| स पुरुषः विषमुच्यते विषादनाद्धेतोः; एवं च विषशब्दनिरुक्तिरुक्ता भवति||४-५||

Adhikarana 3 (6) · Śloka 7

जङ्गमस्थावरायां तद्योनौ ब्रह्मा न्ययोजयत्| तदम्बुसम्भवं तस्माद्द्विविधं पावकोपमम्||६|| अष्टवेगं दशगुणं चतुर्विंशत्युपक्रमम्|७|

🔊 Audio coming soon

तदम्बुसम्भवं तस्माद् द्विविधमिति तदम्बुसम्भवं समुद्रोत्पन्नं, तस्मात् समुद्रत उत्पन्नत्वादम्बुसम्भवं, तथा तस्माद् ब्रह्मणा योनिद्वयनियुक्तत्वाद् द्विविधमित्यर्थः| अम्बुसम्भवत्वेन चास्य वर्षाप्रकोपित्वं वक्ष्यमाणं युक्तम्; अम्बुयोनिभूतत्वेन चास्य जलेन प्रभावात् प्रशमनं क्रियत इति ज्ञेयम्| उक्तं हि भगवता व्यासेन- “अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्| तस्मात् सर्वत्रगं तेजः स्वासु योनिषु शाम्यति” इति| अष्टवेगमिति मनुष्यापेक्षयाऽष्टवेगम् | दशगुणाद्यग्रे वक्ष्यमाणम्| उपक्रमाः चिकित्सानुष्ठानभेदाः||६||-

Adhikarana 4 (7-8) · Śloka 8

तद्वर्षास्वम्बुयोनित्वात् सङ्क्लेदं गुडवद्गतम्||७|| सर्पत्यम्बुधरापाये तदगस्त्यो हिनस्ति च| प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये||८||

🔊 Audio coming soon

विषस्य वर्षासु विशेषप्रकोपे शरदि चोपशमे हेतुमाह- तद्वर्षास्वित्यादि| गुडो यथा पिण्डितोऽम्बुयोनित्वाद्वर्षासु सङ्क्लेदं याति, तथा विषमपि क्लिन्नं विसर्पति उत्क्लिष्टशक्तिकं च भवति, अत एव दूषीविषार्ता अतिपीडिता भवन्ति; अम्बुधराणां वृद्धिकारणं वर्षागमः; अगस्त्यप्रभावश्च तं हिनस्ति||७-८||

Adhikarana 5 (9-10) · Śloka 10

सर्पाः कीटोन्दुरा लूता वृश्चिका गृहगोधिकाः| जलौकामत्स्यमण्डूकाः कणभाः सकृकण्टकाः||९|| श्वसिंहव्याघ्रगोमायुतरक्षुनकुलादयः| दंष्ट्रिणो ये विषं तेषां दंष्ट्रोत्थं जङ्गमं मतम्||१०||

🔊 Audio coming soon

पराधिकारत्वाद्विषस्य सर्पा इत्यादिना जङ्गमस्थावरयोनिद्वयं सङ्क्षेपादेवाह| यद्यपि विषगुणा अग्रे उद्दिष्टाः, तथाऽपि गुणानां गुण्यपेक्षत्वादग्रे विषस्य गुणिनः स्थावरजङ्गमभेदभिन्नस्याभिधानम्; उद्देशे तु प्रथमं गुणाभिधानं विषस्य कार्यकरणे गुणप्राधान्यख्यापनार्थम्| सर्पादीनां भेदा अग्रे एव वक्तव्याः, तेन तत्रैव व्याकर्तव्याः| आदिग्रहणादुच्चिटिङ्गादीनां तन्त्रान्तरोक्तानां ग्रहणम्| अत्र अदंष्ट्रिणोऽपि दंष्ट्रिसर्पप्राधान्याद्दंष्ट्रिण इत्युक्ताः; तथा दंष्ट्रोत्थमिति दंष्ट्रोत्थस्य सर्वविषप्राधान्याददंष्ट्रोत्थानामपि उन्दुरुविषादीनां ग्रहणम्| उक्तं ह्यन्यत्र “जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश| तत्र दृष्टिदंष्ट्रानिःश्वासनखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंशविशर्धितगुदास्थिपित्तशूकशवानि” (सु.क.अ.३) इति| तथाऽन्यत्रापि “शुक्रमूत्रपुरीषाणि देहे निपतितानि तु| दारुणं गरमित्याहुः” इति||९-१०||

Adhikarana 6 (11-13) · Śloka 13

मुस्तकं पौष्करं क्रौञ्चं वत्सनाभं बलाहकम्| कर्कटं कालकूटं च करवीरकसञ्ज्ञकम्||११|| पालकेन्द्रायुधं तैलं मेघकं कुशपुष्पकम्| रोहिषं पुण्डरीकं च लाङ्गलक्यञ्जनाभकम्||१२|| सङ्कोचं मर्कटं शृङ्गीविषं हालाहलं तथा| एवमादीनि चान्यानि मूलजानि स्थिराणि च||१३||

🔊 Audio coming soon

स्थावरजे विषे मूलजानीति पदं मूलजस्य बहुत्वात् प्राधान्याच्च| तेन पत्रपुष्पादिजानामपि विषाणां ग्रहणं; यदुक्तं सुश्रुते- “मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च|| निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः” (सु.क.अ.२) इति| कन्दस्त्विह मूलविशेषत्वान्मूलशब्देनैव गृहीतः| एतेषां च सञ्ज्ञासम्बन्धे शबरकिरातादय एव तद्विद्याः प्रमाणं, ते हि गुरुपरम्परया व्याख्यानयन्ति||११-१३||

Adhikarana 7 (14) · Śloka 14

गरसंयोगजं चान्यद्गरसञ्ज्ञं गदप्रदम्| कालान्तरविपाकित्वान्न तदाशु हरत्यसून्||१४||

🔊 Audio coming soon

स्थावरजङ्गमारब्धमेव तृतीयं विषमाह- गरसंयोगजमित्यादि| गरार्थः संयोगो येषां ते गरसंयोगा द्रव्यभेदाः, तेभ्यो जातं गरसंयोगजम्| ‘गर’ इति तन्त्रे सञ्ज्ञा यस्य तद् गरसञ्ज्ञम्| तच्च चिरकारिरोगजनकमप्राणहरम् | एतदेवाह- कालान्तरेत्यादि| सुश्रुतेऽपि त्रिविधमेव विषमुक्तं- “स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्” (सु.क.अ.२) इत्यनेन| यत्तु दूषीविषमग्रे वक्ष्यति तत् त्रिविधान्तर्गतं दर्शयिष्यामः| गरं तु द्विविधं- निर्विषद्रव्यसंयोगकृतं, तथा सविषद्रव्यसंयोगकृतं च; तत्राद्यं गरसञ्ज्ञम्, उत्तरं तु कृत्रिममिति व्यवस्था| तेनेमामेव व्यवस्थां गृहीत्वोक्तं रसायने- “दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे” (चि.अ.१,पा.) इति| तथा वृद्धकाश्यपेऽप्युक्तं- “संयोगजं च द्विविधं तृतीयं विषमुच्यते| गरं स्यादविषं तत्र सविषं कृत्रिमं मतम्” इति||१४||

Adhikarana 8 (15-17) · Śloka 17

निद्रां तन्द्रां क्लमं दाहं सपाकं लोमहर्षणम्| शोफं चैवातिसारं च जनयेज्जङ्गमं विषम्||१५|| स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम्| फेनवम्यरुचिश्वासमूर्च्छाश्च जनयेद्विषम् ||१६|| जङ्गमं स्यादधोभागमूर्ध्वभागं तु मूलजम्| तस्माद्दंष्ट्राविषं मौलं हन्ति मौलं च दंष्ट्रजम् ||१७||

🔊 Audio coming soon

निद्रामित्यादिना जङ्गमविषस्य तथा ज्वरमित्यादिना स्थावरविषस्य लिङ्गानि सर्ववेगगतानि प्राह| जङ्गमस्थावरयोः परस्परोपघातात्मकधर्ममभिधातुं हेतुमत्परस्परोपघातकत्वमेवाहजङ्गममित्यादि| तस्मादिति परस्परं विरुद्धमार्गगामित्वात्| एतेन च यद्वक्ष्यति- “विषपानं दष्टानां विषपीते दंशनं चान्ते” इति, तदुपपन्नं भवति| ननु “विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणाम्” (सू.अ.२६) इति आत्रेयभद्रकाप्यीये प्रभावेण विषस्य विषहरणाभिधानोपपत्तिवर्णनं तद्विरुध्यते; मैवं, यदि द्रव्यप्रभावः कारणं न स्यात् तदा यत्किञ्चिदूर्ध्वभागं मदनफलादि तद्दंष्ट्राविषहरं स्यात्, यच्चाधोभागं त्रिवृतादि तन्मौलविषं निहन्यात्; नचैतद्दृष्टं, तस्मात् प्रभावस्यैवात्मगुणतामात्रकारणमेतदधोभागत्वमूर्ध्वभागत्वं चेति||१५-१७||

Adhikarana 9 (18-23) · Śloka 23

तृण्मोहदन्तहर्षप्रसेकवमथक्लमा भवन्त्याद्ये| वेगे रसप्रदोषादसृक्प्रदोषाद्द्वितीये तु||१८|| वैवर्ण्यभ्रमवेपथुमूर्च्छाजृम्भाङ्गचिमिचिमातमकाः | दुष्टपिशितात्तृतीये मण्डलकण्डूश्वयथुकोठाः||१९|| वातादिजाश्चतुर्थे दाहच्छर्द्यङ्गशूलमूर्च्छाद्याः| नीलादीनां तमसश्च दर्शनं पञ्चमे वेगे||२०|| षष्ठे हिक्का, भङ्गः स्कन्धस्य तु सप्तमेऽष्टमे मरणम्| नॄणां, चतुष्पदां स्याच्चतुर्विधः, पक्षिणां त्रिविधः||२१|| सीदत्याद्ये भ्रमति च, चतुष्पदो वेपते, ततः शून्यः | मन्दाहारो म्रियते श्वासेन हि चतुर्थवेगे तु||२२|| ध्यायति विहगः प्रथमे वेगे, प्रभ्राम्यति द्वितीये तु| स्रस्ताङ्गश्च तृतीये विषवेगे याति पञ्चत्वम्||२३||

🔊 Audio coming soon

तृण्मोहेत्यादिना क्रमेणाष्टविषवेगलक्षणमाह| सुश्रुते एकैककलातिक्रमेण सप्तवेगा उदीरिताः; इह कलालङ्घनेनैव सप्तवेगाः, अष्टमे तु सप्तकलालङ्घनोत्तरकालं मारको वेगो दष्टस्य दंशदेशगमनाय पीतविषस्य हृदयगमनाय भवतीति सुश्रुतेन सममविरोधः| वातादिजा इति यथायोग्यतया उद्धतान्यतरैकदोषद्विदोषत्रिदोषजाः| मूर्च्छाद्या इत्यत्रादिशब्दः प्रकारवाची| चतुर्थादिवेगेष्वनुक्तमपि मेदआदिदूष्यमुन्नेतव्यं, सुश्रुतवचनात्| नीलादीनामित्यत्र आदिशब्देन प्रधानवाचिना नीलप्रधानेतरवर्णदर्शनं भवति| षष्ठे हिक्केति च्छेदः| विषवेगप्रस्तावाच्चतुष्पादपक्षिणोऽपि विषवेगानाह| एतद्विषवेगाभिधाने च प्रयोजनं- यद्विषवेगमृतस्यापि मांसमुपयोज्यं पीतविषस्य हृदयं दष्टस्य च दंशदेशं मुक्त्वेत्याद्युक्तविधानेन, वेगज्ञानेनाप्राप्तनैष्ठिकवेगस्य यथोक्तविधिना मांसं नोपादेयं, यतस्तस्य विषार्दितस्य सर्वं शरीरं विषवद्भवति| चतुष्पदादीनामल्पवेगत्वं सत्त्वाल्पत्वात्| अवसीदतीत्यादि| द्वितीये, शून्य इत्यादि तृतीये||१८-२३||

Adhikarana 10 (24-27) · Śloka 27

लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकासि सूक्ष्मं च| उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः||२४|| रौक्ष्याद्वातमशैत्यात्पित्तं सौक्ष्म्यादसृक् प्रकोपयति| कफमव्यक्तरसत्वादन्नरसांश्चानुवर्तते शीघ्रम्||२५|| शीघ्रं व्यवायिभावादाशु व्याप्नोति केवलं देहम्| तीक्ष्णत्वान्मर्मघ्नं प्राणघ्नं तद्विकासित्वात्||२६|| दुरुपक्रमं लघुत्वाद्वैशद्यात् स्यादसक्तगतिदोषम्| दोषस्थानप्रकृतीः प्राप्यान्यतमं ह्युदीरयति||२७||

🔊 Audio coming soon

विषगुणानाह- लघ्वित्यादि| प्रत्येकं गुणानां कार्यमाह रौक्ष्यादित्यादि| अशैत्यादिति उष्णत्वात्| सौक्ष्म्यादसृक्प्रकोपणमसृजोऽपि सूक्ष्ममार्गानुसारित्वात्| अव्यक्तरसत्वं च कफकोपनाय अव्यक्तरसत्वकफयोरेकजलरूपकार्यत्वाद्धवति| अन्नरसांश्चानुवर्तते इति अव्यक्तरसत्वेन जलं यथा गन्धग्रहणे योगवाहि भवति, तथा विषमपि अन्नरसान् झटित्यनुगतं भवति, ततः शीघ्रं तेन भावितमन्नं भवति| शीघ्रेत्यादौ शीघ्रत्वादाशु व्याप्नोति, व्यवायित्वात् केवलं देहं व्याप्नोतीति ज्ञेयम्| व्यवायित्वं सर्वतः प्रसरणशीलत्वं पानीयपतितत्तैलवत्| तीक्ष्णत्वान्मर्मघ्नमिति मर्मणां सौम्यानां मृदूनां तीक्ष्णेन विरुद्धत्वं बोद्धव्यम्| विकासित्वादिति हिंसनशीलत्वात्; विपूर्वो हि कसतिर्हिंसार्थः| लघुत्वादिति अनवस्थितत्वात्; यस्य चानवस्थितत्वं तस्य भेषजेनासम्बन्धादुपक्रमणमकिञ्चित्करम्| असक्ता अविश्रान्ता दोषेषु गतिर्यस्य तत् असक्तगतिदोषं, विशदं हि पिच्छाभागरहितत्वात् क्वचिन्न सज्जति| अत्र च गुणानां प्रतिनियमेन विरुद्धकर्मकरणे विषस्याशिवत्वमेव नियामकं ज्ञेयं; तेन रौक्ष्यादिभिः श्लेष्मक्षयादि नाशङ्कनीयम्| सुश्रुते च विषगुणे यत् पाकित्वमुक्तं, तदाशुकारिविषे निष्प्रयोजनमिति नेहोक्तं; तथाहि- विषं नैतावन्तं कालमपेक्षते येन यावत्तस्य पाको भवत्यविचार्यः| सुश्रुते च कालान्तरप्रकोपित्वमपि दूषीविषगोचरतयोक्तं, तदिहापि दूषीविषे चिन्तनीयमिति||२४-२७||

Adhikarana 11 (28-30) · Śloka 30

स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु| तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि ||२८|| पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत्| तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि ||२९|| कफदेशगं कफस्य च दर्शयेद्वातपित्तयोश्चेषत्| लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि||३०||

🔊 Audio coming soon

सम्प्रति स्थानविशेषेण प्रकृतिविशेषप्राप्त्या च लिङ्गविशेषानाह- वातिकस्येत्यादि| विषं मद्यं च यद्यपि त्रिदोषकोपनं, तथाऽपि स्थानप्रकृतिविशेषप्राप्त्या तदनुगुणदोषप्रकोपमधिकं करोति, शेषयोस्तु मनागित्यर्थः| वातिकस्येति वातप्रकृतेः| वातस्थाने पक्वाशयादौ| कफपित्तलिङ्गमीषदिति वचनाद् वातलिङ्गं बलवद्भवति, तच्च तृण्मूर्च्छेत्यादिनोक्तं ज्ञेयम्; एवमुत्तरत्रापि योज्यम्| कफवातयोस्तद्वदिति ईषदित्यर्थः; तृडादि तु बलवल्लिङ्गं, तत् पित्तस्येत्यर्थः| कफेत्यादौ चकारात् कफप्रकृतेरित्यर्थः| ईषद्वातपित्तयोरिति योज्यम्||२८-३०||

Adhikarana 12 (31) · Śloka 31

दूषीविषं तु शोणितदुष्ट्यारुःकिटिमकोठलिङ्गं च| विषमेकैकं दोषं सन्दूष्य हरत्यसूनेवम्||३१||

🔊 Audio coming soon

दूषीविषलक्षणमाह- दूषीत्यादि| कोठः वरटीदंशशोथाकारः| कालान्तरप्रकोपि विषं दूषीविषम्| उक्तं चान्यत्र “दूषितं देशकालादिदिवास्वप्नैरभीक्ष्णशः| यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम्” इति| एवम्भूतं च गरमेव प्रायो भवति, तथा स्थावरं जङ्गमं च भवति| यदुक्तं सुश्रुते- “जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा| स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति” (सु.क.अ.२) इति| इहापि दूषीविषाः कीटा हीनवीर्यविषा वक्तव्याः| विषमेकैकमित्यादिना स्याद्वातिकस्येत्यादिना यदुक्तं तस्यैकैकदोषस्यात्यर्थकोपमाह| सन्दूष्येति अत्यर्थं दूषयित्वा||३१||

Adhikarana 13 (32) · Śloka 32

क्षरति विषतेजसाऽसृक् तत् खानि निरुध्य मारयति जन्तुम्| पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोर्दंशदेशे स्यात्||३२||

🔊 Audio coming soon

अनुक्तप्राणहरणसामग्रीमाह- क्षरतीत्यादिना| पीतं विषं विशेषेण मृतस्य हृदि तिष्ठति| दष्टविद्धयोश्च दंशदेशे विषं स्यात्| विद्धः दिग्धविद्धः| अत्र कश्चिन्मृत इव भवति, कश्चिच्च पवनादमृत इव| यदुक्तं काश्यपे- “मृत इव चेन्मर्त्यः स्यादसाध्यलिङ्गैर्विहीनश्च| स जीवयितुं शक्यः कृता चैतस्य हृदयरक्षा चेत्” इति||३२||

Adhikarana 14 (33-34) · Śloka 34

नीलौष्ठदन्तशैथिल्यकेशपतनाङ्गभङ्गविक्षेपाः| शिशिरैर्न लोमहर्षो नाभिहते दण्डराजी स्यात्||३३|| क्षतजं क्षताच्च नायात्येतानि भवन्ति मरणलिङ्गानि| एभ्योऽन्यथा चिकित्स्यास्तेषां चोपक्रमाञ्छृणु मे||३४||

🔊 Audio coming soon

एतद्विशेषज्ञानार्थं लक्षणमाह- नीलौष्ठेत्यादि| दण्डराजिः दण्डाकारा रेखा ||३३-३४||

Adhikarana 15 (35-37) · Śloka 37

मन्त्रारिष्टोत्कर्तननिष्पीडनचूषणाग्निपरिषेकाः| अवगाहरक्तमोक्षणवमनविरेकोपधानानि||३५|| हृदयावरणाञ्जननस्यधूमलेहौषधप्रशमनानि | प्रतिसारणं प्रतिविषं सञ्ज्ञासंस्थानपनं लेपः||३६|| मृतसञ्जीवनमेव च विंशतिरेते चतुर्भिरधिकाः| स्युरुपक्रमा यथा ये यत्र योज्याः शृणु तथा तान्||३७||

🔊 Audio coming soon

मन्त्रेत्यादि| मन्त्रस्य विषहरेषु श्रेष्ठत्वादग्रेऽभिधानं; यदुक्तं “विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः| यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः” (सु.क.अ.५) इति| अरिष्टा द्विविधा- मन्त्रेण रज्ज्वादिभिर्वा विषोपरिबन्धः| उपधानं विषसङ्क्रमणार्थं मस्तके भेषजदानम्| हृदयावरणं हृदयरक्षाकरमौषधम्| प्रतिविषं विषान्तरप्रयोगः| मृतसञ्जीवनं विषेण मृतस्यामृत इव सञ्जीवनकरं भेषजम्| शेषं व्यक्तं विवरणग्रन्थेन स्फुटं भविष्यति||३५-३७||

Adhikarana 16 (38) · Śloka 39

दंशात्तु विषं दष्टस्याविसृतं वेणिकां भिषग्बद्ध्वा| निष्पीडयेद्भृशं दंशमुद्धरेन्मर्मवर्जं वा||३८|| तं दंशं वा चूषेन्मुखेन यवचूर्णपांशुपूर्णेन|३९|

🔊 Audio coming soon

अविसृतमिति अव्याप्तशरीरम्| वेणिकां बद्ध्वेति विषवा(धा)रणिकां बद्ध्वा| अनेन च सामान्याभिधानेन मन्त्रव्यापारोऽप्यरिष्टानां कथितः, मन्त्राद्भिन्ना चारिष्टोक्ता| उक्तं चान्यत्र- “अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः| सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता” (सु.क.अ.५) इति| निष्पीडयेदिति निष्पीडनेन विषं गालयेत्| उद्धरेदिति उत्कृत्यापहरेत्| मर्मवर्ज्यमिति मर्मण्युपघातं निषेधयत्यव्रणे| यवचूर्णेन पांशुना वा मुखपूरणं विषसम्बन्धपरिहारार्थम्||३८||-

Adhikarana 17 (39-43) · Śloka 43

प्रच्छनशृङ्गजलौकाव्यधनैः स्राव्यं ततो रक्तम्||३९|| रक्ते विषप्रदुष्टे दुष्येत् प्रकृतिस्ततस्त्यजेत् प्राणान्| तस्मात् प्रघर्षणैरसृगवर्तमानं प्रवर्त्यं स्यात्||४०|| त्रिकटुगृहधूमरजनीपञ्चलवणरोचनाः सवार्ताकाः| घर्षणमतिप्रवृत्ते वटादिभिः शीतलैर्लेपः||४१|| रक्तं हि विषाधानं वायुरिवाग्नेः प्रदेहसेकैस्तत्| शीतैः स्कन्दति तस्मिन् स्कन्ने व्यपयाति विषवेगः||४२|| विषवेगान्मदमूर्च्छाविषादहृदयद्रवाः प्रवर्तन्ते| शीतैर्निवर्तयेत्तान् वीज्यश्चालोमहर्षात् स्यात्||४३||

🔊 Audio coming soon

प्रच्छनादिभी रक्तमोक्षणमुपक्रममाह| उपक्रमाणां च व्यतिक्रमाभिधानेन नियमेन क्रमयोगं निषेधयति| रक्तस्रावणोपपत्तिमाह- रक्ते इत्यादि| प्रकृतिरिति देहधात्वादिस्वभावः| प्रघर्षणैरिति प्रघर्षणैरपि, प्रच्छनादिभिः प्रघर्षणेन चेत्यर्थः| प्रघर्षणं पत्रादिभिः| प्रघर्षणेन प्रतिसारणमुपक्रमेषूक्तम्| घर्षणमिति छेदः| विषाधानमिति विषस्य प्रसारकम्| स्कन्दति स्थिरं भवति| स्कन्ने इति स्थिरे| वीज्यः व्यजनपवनैः||३९-४३||

Adhikarana 18 (44-45) · Śloka 45

तरुरिव मूलच्छेदाद्दंशच्छेदान्न वृद्धिमेति विषम्| आचूषणमानयनं जलस्य सेतुर्यथा तथाऽरिष्टाः||४४|| त्वङ्मांसगतं दाहो दहति विषं स्रावणं हरति रक्तात्| पीतं वमनैः सद्यो हरेद्विरेकैर्द्वितीये तु||४५||

🔊 Audio coming soon

तरुरिवेत्यादिना छेदादीनां विषहरणोपपत्तिमाह| सेतुर्यथेति प्रसरनिरोधक इत्यर्थः| द्वितीये ‘वेगे’ इति शेषः||४४-४५||

Adhikarana 19 (46-50) · Śloka 50

आदौ हृदयं रक्ष्यं तस्यावरणं पिबेद्यथालाभम्| मधुसर्पिर्मज्जपयोगैरिकमथ गोमयरसं वा||४६|| इक्षुं सुपक्वमथवा काकं निष्पीड्य तद्रसं वरणम्| छागादीनां वाऽसृग्भस्म मृदं वा पिबेदाशु||४७|| क्षारागदस्तृतीये शोफहरैर्लेखनं समध्वम्बु| गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पिः||४८|| काकाण्डशिरीषाभ्यां स्वरसेनाश्च्योतनाञ्जने नस्यम्| स्यात्पञ्चमेऽथ षष्ठे सञ्ज्ञायाः स्थापनं कार्यम्||४९|| गोपित्तयुता रजनी मञ्जिष्ठामरिचपिप्पलीपानम्| विषपानं दष्टानां विषपीते दंशनं चान्ते||५०||

🔊 Audio coming soon

आदाविति सर्वोपक्रमादौ| तस्येति हृदयस्य| यथालाभमिति वक्ष्यमाणहृदयावरणयोगेषु यथाप्राप्तिहृदयावरणम्| क्षारागदो वक्ष्यमाणः| तृतीये ‘वेगे’ इति शेषः| काकाण्डा शिम्बीभेदः| गोपित्तयुता रजनी आश्चोतनादिषु ज्ञेया| अन्ते इति सर्वोपक्रमशेषे सप्तमे वेगे सर्पेण दंशनं कार्यम्||४६-५०||

Adhikarana 20 (51-53) · Śloka 53

शिखिपित्तार्धयुतं स्यात् पलाशबीजमगदो मृतेषु वरः| वार्ताकुफाणितागारधूमगोपित्तनिम्बं वा||५१|| गोपित्तयुतैर्गुटिकाः सुरसाग्रन्थिद्विरजनीमधुककुष्ठैः | शस्ताऽमृतेन तुल्या शिरीषपुष्पकाकाण्डकरसैर्वा||५२|| काकाण्डसुरसगवाक्षीपुनर्नवावायसीशिरीषफलैः| उद्बन्धविषजलमृते लेपौपधिनस्यपानानि ||५३||

🔊 Audio coming soon

अष्टमे तु वेगे शिखिपित्तेत्यादिना मृतसञ्जीवनयोगानाह| मृत इति मृत इव| उद्बन्धेत्यादौ मृते इति उद्बन्धादिभिस्त्रिभिः सम्बध्यते| लेपौपधिनस्यपानानीति लेपादयश्चामी उद्बन्धादिषु यथायोग्यतया ज्ञेयाः| लेपौपधीत्यादौ उपधिर्यो मूर्ध्नि काकपदं कृत्वा विषहरणाय दीयते||५१-५३||

Adhikarana 21 (54-60) · Śloka 60

स्पृक्काप्लवस्थौणेयकाङ्क्षीशैलेयरोचनातगरम्| ध्यामककुङ्कुममांसीसुरसाग्रैलालकुष्ठघ्नम्||५४|| बृहती शिरीषपुष्पं श्रीवेष्टकपद्मचारटिविशालाः| सुरदारुपद्मकेशरसावरकमनःशिलाकौन्त्यः||५५|| जात्यर्कपुष्परसरजनीद्वयहिङ्गुपिप्पलीलाक्षाः| जलमुद्गपर्णिचन्दनमधुकमदनसिन्धुवाराश्च||५६|| शम्पाकलोध्रमयूरकगन्धफलानाकुलीविडङ्गाश्च| पुष्ये संहृत्य समं पिष्ट्वा गुटिका विधेयाः स्युः||५७|| सर्वविषघ्नो जयकृद्विषमृतसञ्जीवनो ज्वरनिहन्ता| घ्रेयविलेपनधारणधूमग्रहणैर्गृहस्थश्च||५८|| भूतविषजन्त्वलक्ष्मीकार्मणमन्त्राग्न्यशन्यरीन् हन्यात्| दुःस्वप्नस्त्रीदोषानकालमरणाम्बुचौरभयम्||५९|| धनधान्यकार्यसिद्धिः श्रीपुष्ट्यायुर्विवर्धनो धन्यः| मृतसञ्जीवन एष प्रागमृताद्ब्रह्मणा विहितः||६०|| इति मृतसञ्जीवनोऽगदः|

🔊 Audio coming soon

स्पृक्केत्यादौ काङ्क्षी सौराष्ट्रिका| कुष्ठघ्नः खदिरः| सावरकं लोध्रम्| कौन्ती रेणुका| मयूरकः अपामार्गः, गन्धफला प्रियङ्गुः, नाकुली रास्ना| धारणशब्देन शरीरे धारणं ब्रूते; धारणं चौषधशब्देनोपक्रमेषु प्रविशति| गृहस्थ इति गृहेऽवतिष्ठन्| कार्मणः परद्रोहार्थो मन्त्रादियोगः, मन्त्रः अभिचारमन्त्रः| स्त्रीदोषानिति स्त्रीदत्तगरादिदोषान्| प्रागमृतादिति अमृतोत्पत्तेः प्राक्; एतेन चामृतसमानत्वमस्य दर्श्यते||५४-६०||

Adhikarana 22 (61-64) · Śloka 64

मन्त्रैर्धमनीबन्धोऽवमार्जनं कार्यमात्मरक्षा च| दोषस्य विषं यस्य स्थाने स्यात्तं जयेत्पूर्वम्||६१|| वातस्थाने स्वेदो दध्ना नतकुष्ठकल्कपानं च| घृतमधुपयोऽम्बुपानावगाहसेकाश्च पित्तस्थे||६२|| क्षारागदः कफस्थानगते स्वेदस्तथा सिराव्यधनम्| दूषीविषेऽथ रक्तस्थिते सिराकर्म पञ्चविधम्||६३|| भेषजमेवं कल्प्यं भिषग्विदाऽऽलक्ष्य सर्वदा सर्वम्| स्थानं जयेद्धि पूर्वं स्थानस्थस्याविरुद्धं च||६४||

🔊 Audio coming soon

मन्त्रैरित्यादौ अवमार्जनमिति विषस्य प्रतिलोमेन मार्जनं मन्त्रैरेव कार्यम्| आत्मरक्षा भूतावेशनिषेधार्थम्| जयेदिति स्थानिनं दोषं जयेत्| स्वेदो यद्यपि प्रतिषिद्धः स्वेदाध्याये, तथाऽप्यवस्थाविशेषे ‘वातस्थाने’ इत्यादिना विधीयते| स्वेदस्तु पेयादिभोजनादिविधानवदस्य प्रयोगाच्चतुर्विंशत्युपक्रमेषु नोक्तः; किंवा अग्निशब्देन स्वेदोऽपि गृह्यते, पेयादि चोपशमनशब्देनावश्यं बोद्धव्यम्| पित्तस्थे इति पित्तस्थानस्थे| दूषीविष इत्यादौ सिरा इति सिराव्यधः, कर्म पञ्चविधं वमनादि; किंवा सिराकर्म पञ्चविधमिति पञ्चसिराव्यधः| स्थानमिति स्थानगतवातादि| स्थानस्थस्येति स्थानगतविषस्याविरुद्धं च ‘कुर्यात्’ इति शेषः||६१-६४||

Adhikarana 23 (65-76) · Śloka 76

विषदूषितकफमार्गः स्रोतःसंरोधरुद्धवायुस्तु| मृत इव श्वसेन्मर्त्यः स्यादसाध्यलिङ्गैर्विहीनश्च||६५|| चर्मकषायाः कल्कं बिल्वसमं मूर्ध्नि काकपदमस्य| कृत्वा दद्यात्कटभीकटुकट्फलप्रधमनं च||६६|| छागं गव्यं माहिषं वा मांसं कौक्कुटमेव वा| दद्यात् काकपदे तस्मिंस्ततः सङ्क्रमते विषम्||६७|| नासाक्षिकर्णजिह्वाकण्ठनिरोधेषु कर्म नस्तः स्यात्| वार्ताकुबीजपूरज्योतिष्मत्यादिभिः पिष्टैः||६८|| अञ्जनमक्ष्युपरोधे कर्तव्यं बस्तमूत्रपिष्टैस्तु| दारुव्योषहरिद्राकरवीरकरञ्जनिम्बसुरसैस्तु||६९|| श्वेता वचाऽश्वगन्धा हिङ्ग्वमृता कुष्ठसैन्धवे लशुनम्| सर्षपकपित्थमध्यं टुण्टुककरञ्जबीजानि ||७०|| व्योषं शिरीषपुष्पं द्विरजन्यौ वंशलोचनं च समम्| पिष्ट्वाऽजस्य मूत्रेण गोश्वपित्तेन सप्ताहम्||७१|| व्यत्यासभावितोऽयं निहन्ति शिरसि स्थितं विषं क्षिप्रम्| सर्वज्वरभूतग्रहविसूचिकाजीर्णमूर्च्छार्तीः||७२|| उन्मादापस्मारौ काचपटलनीलिकाशिरोदोषान्| शुष्काक्षिपाकपिल्लार्बुदार्मकण्डूतमोदोषान्||७३|| क्षयदौर्बल्यमदात्ययपाण्डुगदांश्चाञ्जनात्तथा मोहान्| लेपाद्विषदिग्धक्षतलीढदष्टपीतविषघाती||७४|| अर्शःस्वानद्धेषु च गुदलेपो योनिलेपनं स्त्रीणाम्| मूढे गर्भे दुष्टे ललाटलेपः प्रतिश्याये||७५|| वृद्धौ किटिमे कुष्ठे श्वित्रविचर्चिकादिषु लेपः| गज इव तरून् विषगदान्निहन्त्यगदगन्धहस्त्येषः||७६|| इति गन्धहस्तीनामाऽगदः|

🔊 Audio coming soon

स्रोतःसंरोधेन रुद्धो वायुरुच्छ्वासनिश्वासलक्षणो यस्य स तथा| असाध्यलिङ्गैरिति प्रागुक्तनीलौष्ठादिभिः| चर्मकषाया इति चर्मचटिकायाः, किंवा सप्तलायाः| काकपदमिति काकपदाकारं व्रणम्| कटभीत्यादौ कटुकफला तिक्तालाबुः, किंवा कटु त्रिकटु| ज्योतिष्मतीत्यादीनि षट्विरेचनशताश्रितायोक्तानि शिरोविरेचनानि| दार्वीत्यादौ श्वेता कटभी| व्यत्यासभावित इति गोपित्तेन भावयित्वा अश्वपित्तेन भावितः, तथा अश्वपित्तेन भावयित्वा गोपित्तेन भावितः||६५-७६||

Adhikarana 24 (77-104) · Śloka 104

पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं स्पृक्का| त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखाः||७७|| सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम्| पञ्चाङ्गानि शिरीषाद्व्योषालमनःशिलाजाज्यः||७८|| श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी| सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासाः||७९|| वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा| मधुमधुकसोमराजीवचारुहारोचनातगरम्||८०|| अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्गः| अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति||८१|| पित्तेन गवां पेष्यो गुटिकाः कार्यास्तु पुष्ययोगेन| पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि||८२|| पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम्| हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम्||८३|| विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम्| विषमूषिकलूतानां सर्वेषां पन्नगानां च| आशु विषं नाशयति समूलजमथ कन्दजं सर्वम्||८४|| एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम्| कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः||८५|| आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम्| मूर्च्छार्तिषु च ललाटे प्रलेपनमाहुः प्रधानतमम्||८६|| भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताकाः| लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान्||८७|| यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांसि| न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्राः||८८|| सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः| लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति||८९|| पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत्| ‘मम माता जया नाम जयो नामेति मे पिता||९०|| सोऽहं जयजयापुत्रो विजयोऽथ जयामि च| नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे||९१|| सनातनाय कृष्णाय भवाय विभवाय च| तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे||९२|| यथाऽहं नाभिजानामि वासुदेवपराजयम्| मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम्||९३|| अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम्| हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा ||९४|| इति महागन्धहस्तीनामाऽगदः| ऋषभकजीवकभार्गीमधुकोत्पलधान्यकेशराजाज्यः| ससितगिरिकोलमध्याः पेयाः श्वासज्वरादिहराः||९५|| हिङ्गु च कृष्णायुक्तं कपित्थरसयुक्तमग्र्यलवणं च| समधुसितौ पातव्यौ ज्वरहिक्काश्वासकासघ्नौ||९६|| लेहः कोलास्थ्यञ्जनलाजोत्पलमधुघृतैर्वम्याम्| बृहतीद्वयाढकीपत्रधूमवर्तिस्तु हिक्काघ्नी||९७|| शिखिबर्हिबलाकास्थीनि सर्षपाश्चन्दनं च घृतयुक्तम्| धूमो गृहशयनासनवस्त्रादिषु शस्यते विषनुत्||९८|| घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च| धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च||९९|| जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्जरसाः| श्वेता च धूम उरगाखुकीटवस्त्रक्रिमिनुदग्र्यः||१००|| तरुणपलाशक्षारं स्रुतं पचेच्चूर्णितैः सह समांशैः| लोहितमृद्रजनीद्वयशुक्लसुरसमञ्जरीमधुकैः||१०१|| लाक्षासैन्धवमांसीहरेणुहिङ्गुद्विसारिवाकुष्ठैः| सव्योषैर्बाह्लीकैर्दर्वीविलेपनं घट्टयेद्यावत्||१०२|| सर्वविषशोथगुल्मत्वग्दोषार्शोभगन्दरप्लीह्नः| शोथापस्मारक्रिमिभूतस्वरभेदपाण्डुगदान्||१०३|| मन्दाग्नित्वं कासं सोन्मादं नाशयेयुरथ पुंसाम्| गुटिकाश्छायाशुष्काः कोलसमास्ताः समुपयुक्ताः||१०४|| इति क्षारागदः|

🔊 Audio coming soon

ऋषभकेत्यादिना विषोपद्रवश्वासादिचिकित्सोच्यते| सितगिरिः श्वेताऽपराजिता, कोलमध्यं बदरमज्जा| भुजगपतिशिर इति द्विमुखसर्पशिरः| वस्त्रकृमिः यूका| पलाशक्षारं स्रुतमिति सुश्रुतोक्तक्षारपरिस्रावणविधिना स्रावितम्| लोहितमृत् गैरिकम्| सुरसमञ्जरी पर्णासभेदः||७७-१०४||

Adhikarana 25 (95-122) · Śloka 123

विषपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम्| सामान्यतः, पृथक्त्वान्निर्देशमतः शृणु यथावत्||१०५|| रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्योऽथवा भयं नृपतेः| आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत||१०६|| अत्यर्थशङ्कितः स्याद्बहुवागथवाऽल्पवाग्विगतलक्ष्मीः| प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञेयः||१०७|| दृष्ट्वैवं न तु सहसा भोज्यं कुर्यात्तदन्नमग्नौ तु| सविषं हि प्राप्यान्नं बहून्विकारान् भजत्यग्निः||१०८|| शिखिबर्हविचित्रार्चिस्तीक्ष्णाक्षमरूक्षकुणपधूमश्च | स्फुटति च सशब्दमेकावर्तो विहतार्चिरपि च स्यात्||१०९|| पात्रस्थं च विवर्णं भोज्यं स्यान्मक्षिकांश्च मारयति| क्षामस्वरांश्च काकान् कुर्याद्विरजेच्चकोराक्षि||११०|| पाने नीला राजी वैवर्ण्यं स्वां च नेक्षते छायाम्| पश्यति विकृतामथवा लवणाक्ते फेनमाला स्यात्||१११|| पानान्नयोःसविषयोर्गन्धेन शिरोरुग्घृदि च मूर्च्छा च| स्पर्शेन पाणिशोथः सुप्त्यङ्गुलिदाहतोदनखभेदाः||११२|| मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च| द्विजहर्षहनुस्तम्भास्यदाहलालागलविकाराः||११३|| आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेदः| दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम्||११४|| पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशाः| तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात्||११५|| दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च| केशच्युतिः शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे||११६|| दुष्टेऽञ्जनेऽक्षिदाहस्रावात्युपदेहशोथरागाश्च| खाद्यैरादौ कोष्ठः स्पृश्यैस्त्वग्दूष्यते दुष्टैः||११७|| स्नानाभ्यङ्गोत्सादनवस्त्रालङ्कारवर्णकैर्दुष्टैः| कण्ड्वर्तिकोठपिडकारोमोद्गमचिमिचिमा शोथाः||११८|| एते करचरणदाहतोदक्लमाविपाकाश्च| भूपादुकाश्वगजवर्मकेतुशयनासनैर्दुष्टैः||११९|| माल्यमगन्धं म्लायति शिरोरुजालोमहर्षकरम् | स्तम्भयति खानि नासामुपहन्ति दर्शनं च धूमः||१२०|| कूपतडागादिजलं दुर्गन्धं सकलुषं विवर्णं च| पीतं श्वयथुं कोठान् पिडकाश्च करोति मरणं च||१२१|| आदावामाशयगे वमनं त्वक्स्थे प्रदेहसेकादि| कुर्याद्भिषक् चिकित्सां दोषबलं चैव हि समीक्ष्य||१२२|| इति मूलविषविशेषाः प्रोक्ताः ...|१२३|

🔊 Audio coming soon

पृथक्त्वान्निर्देशमतः शृण्विति नानाविधविषस्य लक्षणं भेषजस्य पृथङ्निर्देशं च शृण्विति| रिपुयुक्तेभ्य इति शत्रुप्रयुक्तेभ्यः| स्त्रीभ्य इति सौभाग्यार्थमभक्ष्यदानेऽप्यज्ञानात् प्रवृत्ताभ्यः स्त्रीभ्यः| आहारविहारगत इति आहारविहारौ सेवमानः| प्रेष्यानिति सूपकारादीन्| परीक्षोपायमाह- अत्यर्थेत्यादि| विगतलक्ष्मीः निःशोभः| भोज्यमिति भोक्तव्यम्| कुर्यात् तदन्नमग्नौ प्रक्षिपेत्| पात्रस्थमित्यादावपि ‘सविषं’ इत्यनुवर्तते| विरज्येत चकोराक्षीति सविषमन्नं दृष्ट्वा चकोराक्षि विरज्यते| काकांश्च क्षामस्वरान् दर्शनेनैव कुर्यादिति ज्ञेयम्| पाने इति मद्यादौ पेये| छायामिति प्रतिबिम्बम्| लवणाक्ते इति पानविशेषणम्| मुखगे इत्यादिना मुखादिसम्बन्धिविषलक्षणम्| बिन्दुः बिन्द्वाकारा त्वग्विकृतिः| दन्तेत्यादिना दन्तधावनकूर्चादीनां विषदुष्टानामेव लक्षणं प्रकारणाज्ज्ञेयम्| दन्तपवनस्य कूर्चः दन्तमलशोधनकूर्चः| विशीर्यत इति शीर्णः स्यात्| खाद्यैरिति भोज्यैः| स्पृश्यैरिति अभ्यङ्गादिभिः| माल्यमिति विषदुष्टं माल्यम्| नासामुपहन्तीति च्छेदः| दर्शनमिति चक्षुः| किंवा स्तम्भयतीत्यादि धूमस्यैव कार्यम्||९५-१२२||-

Adhikarana 26 (123-129) · Śloka 129

... शृणु जङ्गमस्यातः| सविशेषचिकित्सितमेवादौ तत्रोच्यते तु सर्पाणाम्||१२३|| इह दर्वीकरः सर्पो मण्डली राजिमानिति| त्रयो यथाक्रमं वातपित्तश्लेष्मप्रकोपणाः||१२४|| दर्वीकरः फणी ज्ञेयो मण्डली मण्डलाफणः| बिन्दुलेखविचित्राङ्गः पन्नगः स्यात्तु राजिमान्||१२५|| विशेषाद्रूक्षकटुकमम्लोष्णं स्वादु शीतलम्| विषं यथाक्रमं तेषां तस्माद्वातादिकोपनम्||१२६|| दर्वीकरकृतो दंशः सूक्ष्मदंष्ट्रापदोऽसितः| निरुद्धरक्तः कूर्माभो वातव्याधिकरो मतः||१२७|| पृथ्वर्पितः सशोथश्च दंशो मण्डलिना कृतः| पीताभः पीतरक्तश्च सर्वपित्तविकारकृत्||१२८|| कृतो राजिमता दंशः पिच्छिलः स्थिरशोफकृत्| स्निग्धः पाण्डुश्च सान्द्रासृक् श्लेष्मव्याधिसमीरणः||१२९||

🔊 Audio coming soon

मण्डलीति मण्डलयुक्तः| बिन्दुना लेखया च विचित्रमङ्गं यस्य स बिन्दुलेखविचित्राङ्गः| दर्वीकरादीनां प्रपञ्चस्त्विह पराधिकारत्वेन न कृतः| विशेषादित्यादौ रूक्षमधिकं दर्वीकराणाम्, अम्लोष्णं मण्डलिनां, स्वादुशीतं राजिमतां, त्रिदोषकोपनत्वेऽपि वातादिकोपनं विशेषादिह ज्ञेयम्| विषं च यद्यप्यव्यक्तरसयुक्तं, तथाऽपीह कटुकादिरसाभिधानमनुरसाभिप्रायेण ज्ञेयं, यथा- आतपे कटुकत्वं, तद्वदिहापि; किंवा अव्यक्तरसतायामेव मनाक्कटुकादीनामधिकत्वं ज्ञेयम्| पृथ्वर्पित इति अवगाढदंष्ट्रापदः ||१२३-१२९||

Adhikarana 27 (130-135) · Śloka 135

वृत्तभोगो महाकायः श्वसन्नूर्ध्वेक्षणः पुमान्| स्थूलमूर्धा समाङ्गश्च स्त्री त्वतः स्याद्विपर्ययात्||१३०|| क्लीबस्त्रसत्यधोदृष्टिः स्वरहीनः प्रकम्पते| स्त्रिया दष्टो विपर्यस्तैरेतैः पुंसा नरो मतः||१३१|| व्यामिश्रलिङ्गैरेतैस्तु क्लीबदष्टं नरं वदेत्| इत्येतदुक्तं सर्पाणां स्त्रीपुङ्क्लीबनिदर्शनम्||१३२|| पाण्डुवक्त्रस्तु गर्भिण्या शूनौष्ठोऽप्यसितेक्षणः| जृम्भाक्रोधोपजिह्वार्तः सूतया रक्तमूत्रवान्||१३३|| सर्पो गौधेर(य)को नाम गोधायां स्याच्चतुष्पदः| कृष्णसर्पेण तुल्यः स्यान्नाना स्युर्मिश्रजातयः||१३४|| गूढसम्पादितं वृत्तं पीडितं लम्बितार्पितम्| सर्पितं च भृशाबाधं, दंशा येऽन्ये न ते भृशाः||१३५||

🔊 Audio coming soon

वृत्तभोग इत्यादिना सर्पाणां पुरुषादिभेदं विषतीव्रतादिज्ञानार्थं तत्कृतचिकित्साभेदज्ञानार्थं चाह| स च भेद इहानुक्तोऽपि तन्त्रान्तराज्ज्ञेयः| तथाहि- “सावित्रे पच्यते, रात्रौ स्त्रियस्तीव्रविषाः, तथाऽह्नि पुरुषाः सदा” इति| तथा- “स्त्रीदष्टे भिषजा कार्यः सूपचारस्त्वनारम्भे” इति| महाकायः बहुलशरीरः| क्लीबः नपुंसकः| गाढसम्पादितम् अतिमात्रावगाढम्| उर्ध्वं परिवृत्तमुद्वृत्तम्| पीडितम् अतिमात्ररुजाकरम्| लम्बितार्पितम् अर्पितसकलदंष्ट्राप्राप्तलक्षणम्||१३०-१३५||

Adhikarana 28 (136) · Śloka 136

तरुणाः कृष्णसर्पास्तु गोनसाः स्थविरास्तथा| राजिमन्तो वयोमध्ये भवन्त्याशीविषोपमाः||१३६||

🔊 Audio coming soon

वयोभेदेन दर्वीकरादीनां तीव्रतामाह- तरुणा इत्यादि| सर्पितं यदनतिमग्नदंष्ट्रापदम्| आशीविषोपमा इति आशीविषा दृष्टिनिःश्वासविषाः||१३६||

Adhikarana 29 (137-139) · Śloka 139

सर्पदंष्ट्राश्चतस्रस्तु तासां वामाधरा सिता| पीता वामोत्तरा दंष्ट्रा रक्तश्यावाऽधरोत्तरा ||१३७|| यन्मात्रः पतते बिन्दुर्गोबालात् सलिलोद्धृतात्| वामाधरायां दंष्ट्रायां तन्मात्रं स्यादहेर्विषम्||१३८|| एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तराः| सवर्णास्तत्कृता दंशा बहूत्तरविषा भृशाः||१३९||

🔊 Audio coming soon

सर्पदंष्ट्रा इत्यादिना दंष्ट्राभेदं दंशविषज्ञानार्थमाह| रक्तश्यावाऽधरोत्तरेति दक्षिणाधरा रक्ता, दक्षिणोत्तरा तु श्यावा| एकद्वित्रिचतुर्वृद्धविषभागोत्तरोत्तरा इति एकद्वित्रिचतूरूपेण वृद्धो विषभाग उत्तरोत्तरं यास्विति वाक्यार्थः| सवर्णा यथास्वदंष्ट्रासमानवर्णाः| बहूत्तरविषा इति उत्तरोत्तरं बहुविषाः| भृशा इति दुःखसाध्याः| दुःखसाध्यत्वमपि यथोत्तरं ज्ञेयम्| ननु, पूर्वं दर्वीकरादीनां दंशस्य वर्णभेद उक्तः, इदानीं तु दंष्ट्राभेदेन वर्णभेद उच्यते, तेन सर्वत्रैव दर्वीकरादौ सर्ववर्णोपपत्तिः, ततश्च पूर्वोक्तदंशवर्णविरोधः; उक्तं चात्रैवार्थे आषाढवर्मणा यत्- “दर्वीकरमण्डलिनोरसितः पीतश्च वर्णतो दंशः” इति लक्षणेन, यस्मादनेकवर्णास्तु दंशाः” (?)| अत्रोच्यते- दंष्ट्रानुकारिवर्णता दंशमात्रस्थिते विषे भवति, दर्वीककराद्युल्लेखविहितस्तु यो वर्णो दोषकृतः स प्रविसृते विषे भवतीति अवस्थाभेदान्न विरोधः| उक्तं च परिहारवार्तिके “दंशे त्वेते वर्णाः, सावर्ण्यं दोषजे विसृते” इति||१३७-१३९||

Adhikarana 30 (140-143) · Śloka 143

सर्पाणामेव विण्मूत्रात् कीटाः स्युः कीटसम्मताः| दूषीविषाः प्राणहरा इति सङ्क्षेपतो मताः||१४०|| गात्रं रक्तं सितं कृष्णं श्यावं वा पिडकान्वितम्| सकण्डूदाहवीसर्पपाकि स्यात् कुथितं तथा||१४१|| कीटैर्दूषीविषैर्दष्टं लिङ्गं प्राणहरं शृणु| सर्पदष्टे यथा शोथो वर्धते सोग्रगन्ध्यसृक्||१४२|| दंशोऽक्षिगौरवं मूर्च्छा स रुगार्तः श्वसित्यपि| तृष्णारुचिपरीतश्च भवेद्दूषीविषार्दितः||१४३||

🔊 Audio coming soon

कीटान् व्याकर्तुमाह - सर्पाणामित्यादि| विण्मूत्रादिति कीटशब्दनिरुक्त्यर्थमनयोरुपादानं, तेनान्यान्यपि सर्पशुक्रशवपूत्यण्डानि कीटकारणानि भवन्तीति ज्ञेयम्| उक्तं हि सुश्रुते- “सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः| वाय्वग्न्यम्बुप्रकृतयः कीटास्तु वि(त्रि)विधाः स्मृताः” (सु.क.अ.८) इति| कीटाश्च यद्यपि सुश्रुते वातपित्तकफसन्निपातकोपनाः कुम्भीनसादयः सप्तषष्टिः प्रतिपादिताः, तथाऽपीह सञ्ज्ञेयाभिधित्सया दूषीविषप्राणहरभेदेनैवोच्यन्ते; एवं लूतादिष्वपि सञ्ज्ञेयभेदाद्द्वैविध्योक्तिर्ज्ञेया| दूषीविषाः चिरकारिविषाः, प्राणहराः झटिति प्राणहरविषाः| सह उग्रगन्ध्यसृजा वर्तत इति सोग्रगन्ध्यसृक् सोग्रगन्धि लोहितम्||१४०-१४३||

Adhikarana 31 (144-146) · Śloka 146

दंशस्य मध्ये यत् कृष्णं श्यावं वा जालकावृतम्| दग्धाकृति भृशं पाकि क्लेदशोथज्वरान्वितम्||१४४|| दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्दिशेत्| सर्वासामेव तासां च दंशे लक्षणमुच्यते||१४५|| शोफः श्वेतासिता रक्ताः पीता वा पिडका ज्वरः| प्राणान्तिको भवेच्छ्वासो दाहहिक्काशिरोग्रहाः||१४६||

🔊 Audio coming soon

दंशस्य मध्य इत्यादिना दूषीविषलूतादष्टलक्षणम्| लूताश्चान्यत्राष्टौ साध्या असाध्याश्चाष्टौ त्रिमण्डलासौवर्णिकादय उक्तास्तासां तथा मूषिककृकण्टकवृश्चिकोच्चिटिङ्गमण्डूकमत्स्यजलौकाशतपदीमशकमक्षिकाणां सुश्रुतादिषु प्रपञ्चार्थिभिः प्रपञ्चोऽनुसरणीयः; इह तु तन्त्रकारेण पराधिकारत्वात् प्रपञ्चो न क्रियते||१४४-१४६||

Adhikarana 32 (147-158) · Śloka 158

आदंशाच्छोणितं पाण्डु मण्डलानि ज्वरोऽरुचिः| लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्दिते||१४७|| मूर्च्छाङ्गशोथवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः| शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यमूषिकैः||१४८|| श्यावत्वमथ कार्ष्ण्यं वा नानावर्णत्वमेव वा| मोहः पुरीषभेदश्च दष्टे स्यात् कृकलासकैः||१४९|| दहत्यग्निरिवादौ तु भिनत्तीवोर्ध्वमाशु च| वृश्चिकस्य विषं याति दंशे पश्चात्तु तिष्ठति||१५०|| दष्टोऽसाध्यस्तु दृग्घ्राणरसनोपहतो नरः| मांसैः पतद्भिरत्यर्थं वेदनार्तो जहात्यसून्||१५१|| विसर्पः श्वयथुः शूलं ज्वरश्छर्दिरथापि च| लक्षणं कणभैर्दष्टे दंशश्चैव विशीर्यते||१५२|| हृष्टरोमोच्चिटिङ्गेन स्तब्धलिङ्गो भृशार्तिमान्| दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते||१५३|| एकदंष्ट्रार्दितः शूनः सरुक् स्यात् पीतकः सतृट्| छर्दिर्निद्रा च मण्डूकैः सविषैर्दष्टलक्षणम्||१५४|| मत्स्यास्तु सविषाः कुर्युर्दाहशोफरुजस्तथा| कण्डूं शोथं ज्वरं मूर्च्छां सविषास्तु जलौकसः||१५५|| दाहतोदस्वेदशोथकरी तु गृहगोधिका | दंशे स्वेदं रुजं दाहं कुर्याच्छतपदीविषम्||१५६|| कण्डूमान्मशकैरीषच्छोथः स्यान्मन्दवेदनः| असाध्यकीटसदृशमसाध्यमशकक्षतम्||१५७|| सद्यःप्रस्राविणी श्यावा दाहमूर्च्छाज्वरान्विता| पीडका मक्षिकादंशे तासां तु स्थगिकाऽसुहृत्||१५८||

🔊 Audio coming soon

आदंशादित्यादि आखुविषलक्षणम्| कणभश्च कीटविशेष इति सुश्रुते कीटमध्ये एव पठितः| एकदंष्ट्रार्पित इति एकयैव दंष्ट्रया कृत इत्यर्थः| मत्स्यास्तु पित्तास्थ्यारविषा उक्ताः| जलौकसश्च षट् सविषाः कृष्णाकर्बुरादय उक्ताः सन्दंशविषाः| गृहगोधिकां ज्येष्ठामित्याहुः; अन्ये तु सरटमाहुः| शतपदी कारुण्डा| असाध्यमशकक्षतमिति पञ्चसु मशकेषु पार्वतीयकृतमसाध्यमाहुः| उक्तं हि सुश्रुते “पार्वतीयस्तु कीटैः प्राणहरै स्तुल्यलक्षणः” (सु.क.अ.८) इति| स्थगिकाऽसुहृदिति कान्तारिकादिषु सुश्रुतोक्तषणमक्षिकासु स्थगिकाख्या मक्षिका प्राणहरीत्यर्थः||१४७-१५८||

Adhikarana 33 (159-160) · Śloka 161

श्मशानचैत्यवल्मीकयज्ञाश्रमसुरालये| पक्षसन्धिषु मध्याह्ने सार्धरात्रेऽष्टमीषु च||१५९|| न सिद्ध्यन्ति नरा दष्टाः पाषण्डायतनेषु च| दृष्टिश्वासमलस्पर्शविषैराशीविषैस्तथा||१६०|| विनश्यन्त्याशु सम्प्राप्ता दष्टाः सर्वेषु मर्मसु|१६१|

🔊 Audio coming soon

सम्प्रति स्थानकालस्वभावप्रदेशैः सर्पदष्टानामसाध्यतामाह- श्मशानेत्यादि| चैत्यः ग्रामदेवताश्रयो महातरुः| पक्षसन्धिष्विति अमावास्यापौर्णमासीषु| पाषण्डाः कापालिकादयः| आशीविषैरित्यस्यैव लक्षणं- दृष्टिश्वासमलस्पर्शविषैरिति| उक्तं हि तन्त्रान्तरे- “दृष्टिश्वासादिभिर्दिव्याः सर्पा आशीविषाः, आशुघातित्वात्” इति||१५९-१६०||-

Adhikarana 34 (161-164) · Śloka 164

(येन केनापि सर्पेण सम्भवः सर्व एव च)||१६१|| भीतमत्ताबलोष्णक्षुत्तृषार्ते वर्धते विषम्| विषं प्रकृतिकालौ च तुल्यौ प्राप्याल्पमन्यथा ||१६२|| वारिविप्रहताः क्षीणा भीता नकुलनिर्जिताः| वृद्धा बालास्त्वचो मुक्ताः सर्पा मन्दविषाः स्मृताः||१६३|| सर्वदेहाश्रितं क्रोधाद्विषं सर्पो विमुञ्चति| तदेवाहारहेतोर्वा भयाद्वा न प्रमुञ्चति||१६४||

🔊 Audio coming soon

विषवृद्धिहेतुमाह- भीतेत्यादि| प्रकृतिकालौ तुल्यौ विषस्य, यथा- प्रबलपित्तप्रकृतिरुष्णश्च काल इति ज्ञेयम्| अल्पमन्यथेति भीतत्वादिविपर्यये अल्पं विषं भवति| वारीत्यादौ वृद्धा इति गोनसवर्जं ज्ञेयाः, गोनस्य तु वार्धक्ये एव वृद्धविषत्वं प्रागुक्तम्| सर्वदेहाश्रितं क्रोधादिति सर्वदेहाश्रितमपि दंष्ट्रास्वेव विषं विशेषेण ज्ञेयं; यथा- शुक्रं सर्वशरीरगमपि वृषणयोरेव विशेषेणावतिष्ठति||१६१-१६४||

Adhikarana 35 (165-169) · Śloka 169

वातोल्बणविषाः प्राय उच्चिटिङ्गाः सवृश्चिकाः| वातपित्तोल्बणाः कीटाः श्लैष्मिकाः कणभादयः||१६५|| यस्य यस्य हि दोषस्य लिङ्गाधिक्यानि लक्षयेत्| तस्य तस्यौषधैः कुर्याद्विपरीतगुणैः क्रियाम्||१६६|| हृत्पीडोर्ध्वानिलः स्तम्भः सिरायामोऽस्थिपर्वरुक्| घूर्णनोद्वेष्टनं गात्रश्यावता वातिके विषे||१६७|| सञ्ज्ञानाशोष्णनिश्वासौ हृद्दाहः कटुकास्यता| दंशावदरणं शोथो रक्तपीतश्च पैत्तिके||१६८|| वम्यरोचकहृल्लासप्रसेकोत्क्लेशगौरवैः| सशैत्यमुखमाधुर्यैर्विद्याच्छ्लेष्माधिकं विषम्||१६९||

🔊 Audio coming soon

चिकित्सार्थं वातोल्बणविषत्वादिभेदेनोच्चिटिङ्गादीनाह- वातोल्बणेत्यादि| हृत्पीडेत्यादिना विषगताधिकवातादिलिङ्गमाह||१६५-१६९||

Adhikarana 36 (170-174) · Śloka 174

खण्डेन च व्रणालेपस्तैलाभ्यङ्गश्च वातिके| स्वेदो नाडीपुलाकाद्यैर्बृंहणश्च विधिर्हितः||१७०|| सुशीतैः स्तम्भयेत् सेकैः प्रदेहैश्चापि पैत्तिकम्| लेखनच्छेदनस्वेदवमनैः श्लैष्मिकं जयेत्||१७१|| विषेष्वपि च सर्वेषु सर्वस्थानगतेषु च| अवृश्चिकोच्चिटिङ्गेषु प्रायः शीतो विधिर्हितः||१७२|| वृश्चिके स्वेदमभ्यङ्गं घृतेन लवणेन च| सेकांश्चोष्णान् प्रयुञ्जीत भोज्यं पानं च सर्पिषः||१७३|| एतदेवोच्चिटिङ्गेऽपि प्रतिलोमं च पांशुभिः| उद्वर्तनं सुखाम्बूष्णैस्तथाऽवच्छादनं घनैः||१७४||

🔊 Audio coming soon

वातादिभेदेन चिकित्सामाह- खण्डेनेत्यादि| पुलाकः तुच्छधान्यम्| घनैरिति पांसुभिरेव घनैः||१७०-१७४||

Adhikarana 37 (175-188) · Śloka 188

श्वा त्रिदोषप्रकोपात्तु तथा धातुविपर्ययात्| शिरोऽभितापी लालास्राव्यधोवक्त्रस्तथा भवेत्||१७५|| अन्येऽप्येवंविधा व्यालाः कफवातप्रकोपणाः| हृच्छिरोरुग्ज्वरस्तम्भतृषामूर्च्छाकरा मताः||१७६|| कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदोपशोषणम्| विदाहरागरुक्पाकाः शोफो ग्रन्थिनिकुञ्चनम्||१७७|| दंशावदरणं स्फोटाः कर्णिका मण्डलानि च| ज्वरश्च सविषे लिङ्गं विपरीतं तु निर्विषे||१७८|| तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः| पूर्वोक्ता विधिमन्यं च यथावद्ब्रुवतः शृणु||१७९|| हृद्विदाहे प्रसेके वा विरेकवमनं भृशम्| यथावस्थं प्रयोक्तव्यं शुद्धे संसर्जनक्रमः||१८०|| शिरोगते विषे नस्तः कुर्यान्मूलानि बुद्धिमान्| बन्धुजीवस्य भार्ग्याश्च सुरसस्यासितस्य च||१८१|| दक्षकाकमयूराणां मांसासृङ्मस्तके क्षते| उपधेयमधोदष्टस्योर्ध्वदष्टस्य पादयोः||१८२|| पिप्पलीमरिचक्षारवचासैन्धवशिग्रुकाः| पिष्टा रोहितपित्तेन घ्नन्त्यक्षिगतमञ्जनात्||१८३|| कपित्थमामं ससिताक्षौद्रं कण्ठगते विषे| लिह्यादामाशयगते ताभ्यां चूर्णपलं नतात्||१८४|| विषे पक्वाशयगते पिप्पलीं रजनीद्वयम्| मञ्जिष्ठां च समं पिष्ट्वा गोपित्तेन नरः पिबेत्||१८५|| रक्तं मांसं च गोधायाः शुष्कं चूर्णीकृतं हितम्| विषे रसगते पानं कपित्थरससंयुतम्||१८६|| शेलोर्मूलत्वगग्राणि बादरौदुम्बराणि च| कटभ्याश्च पिबेद्रक्तगते, मांसगते पिबेत्||१८७|| सक्षौद्रं खदिरारिष्टं कौटजं मूलमम्भसा| सर्वेषु च बले द्वे तु मधूकं मधुकं नतम्||१८८||

🔊 Audio coming soon

श्वा त्रिदोषेत्यादि सविषकुक्कुरादिलक्षणम्| यत्रैव च शुनस्त्रिदोषकोपो भवति दैवादलर्कग्रहावेशात् तत्रैव सविषशिरोभितापित्वादि भवतीति ज्ञेयम्| केचित्तु शिरोभितापादि यथोक्तं कुक्कुरे तथा तद्दष्टे च भवतीति वदन्ति| विस्तरश्चास्य सुश्रुत एव| अन्येऽप्येवंविधा इति अन्येऽपि शृगालतरक्ष्वादय एवंविधाः सन्तः कृच्छ्रशिरोरोगादिकरा भवन्तीत्यर्थः| उक्तं हि सुश्रुते- “श्वशृगालतरक्ष्वर्क्षव्याघ्रादीनां यदाऽनिलः| श्लेष्मप्रदुष्टो मुष्णाति सञ्ज्ञां सञ्ज्ञावहाश्रितः” (सु.क.अ.७) इति| कण्डूनिस्तोद इत्यादिना सामान्येन सविषकीटादिदंशलिङ्गमविषप्राणिदंशलिङ्गं चोच्यते| कर्णिका मांसकन्दी| सर्वे इति चतुर्विंशतिरपि यथोक्तोपक्रमाः| पूर्वोक्तमित्यत्र वक्ष्यमाणचिकित्सितं पूर्वोक्तविधावपि अवस्थाविशेषविधेयतया कर्तव्यमित्यर्थः; यदा ‘पूर्वोक्ता’ इति पाठः, तदा उपक्रमा इत्यस्य विशेषणमेतत्| ऊर्ध्वं दष्टस्य पादयोरित्यत्रापि क्षतयोरेव पादयोर्विषसङ्क्रमणार्थं मांसासृग्दानं ज्ञेयम्| ताभ्यामिति सिताक्षौद्राभ्याम्| नतं तगरम्| शेलुः श्लेष्मातकः| मांसगते इत्युत्तरेण सम्बध्यते| खदिरश्चारिष्टश्चेति खदिरारिष्टः, किंवा खदिरकृतोऽरिष्टः| समधुकं नतमिति च्छेदः||१७५-१८८||

Adhikarana 38 (189-198) · Śloka 199

पिप्पलीं नागरं क्षारं नवनीतेन मूर्च्छितम्| कफे भिषगुदीर्णे तु विदध्यात्प्रतिसारणम्||१८९|| मांसीकुङ्कुमपत्रत्वग्रजनीनतचन्दनैः| मनःशिलाव्याघ्रनखसुरसैरम्बुपेषितैः||१९०|| पाननस्याञ्जनालेपाः सर्वशोथविषापहाः| चन्दनं तगरं कुष्ठं हरिद्रे द्वे त्वगेव च||१९१|| मनःशिला तमालश्च रसः कैशर एव च| शार्दूलस्य नखश्चैव सुपिष्टं तण्डुलाम्बुना||१९२|| हन्ति सर्वविषाण्येव वज्रिवज्रमिवासुरान्| रसे शिरीषपुष्पस्य सप्ताहं मरिचं सितम्||१९३|| भावितं सर्पदष्टानां नस्यपानाञ्जने हितम्| द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रचतुष्पलम्||१९४|| अपि तक्षकदष्टानां पानमेतत् सुखप्रदम्| सिन्धुवारस्य मूलं च श्वेता च गिरिकर्णिका||१९५|| पानं दर्वीकरैर्दष्टे नस्यं समधु पाकलम्| मञ्जिष्ठा मधुयष्टी च जीवकर्षभकौ सिता||१९६|| काश्मर्यं वटशुङ्गानि पानं मण्डलिनां विषे| व्योषं सातिविषं कुष्ठं गृहधूमो हरेणुका||१९७|| तगरं कटुका क्षौद्रं हन्ति राजीमतां विषम्| गृहधूमं हरिद्रे द्वे समूलं तण्डुलीयकम्||१९८|| अपि वासुकिना दष्टः पिबेन्मधुघृताप्लुतम् |१९९|

🔊 Audio coming soon

पिप्पलीत्यादिप्रतिसारणं दंशे एव| मरिचं सितमिति शोभाञ्जनकबीजम्| श्वेता चेति गिरिकर्णिकाविशेषणं, तेन श्वेताऽपराजिता गृह्यते| केचिद्गिरिकर्णिकां स्यन्दनामाहुः| पाकलं कुष्ठम्||१८९-१९८||-

Adhikarana 39 (199-211) · Śloka 211

क्षीरिवृक्षत्वगालेपः शुद्धे कीटविषापहः||१९९|| मुक्तालेपो वरः शोथदाहतोदज्वरापहः| चन्दनं पद्मकोशीरं शिरीषः सिन्धुवारिका||२००|| क्षीरशुक्ला नतं कुष्ठं पाटलोदीच्यसारिवाः| शेलुस्वरसपिष्टोऽयं लूतानां सार्वकार्मिकः||२०१|| (यथायोगं प्रयोक्तव्यः समीक्ष्यालेपनादिषु)| मधूकं मधुकं कुष्ठं शिरीषोदीच्यपाटलाः| सनिम्बसारिवाक्षौद्राः पानं लूताविषापहम्||२०२|| कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट्| दन्ती त्रिवृत्सैन्धवं च कर्णिकापातनं तयोः||२०३|| कटभ्यर्जुनशैरीषशेलुक्षीरिद्रुमत्वचः| कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः||२०४|| त्वचं च नागरं चैव समांशं श्लक्ष्णपेषितम्| पेयमुष्णाम्बुना सर्वं मूषिकाणां विषापहम्||२०५|| कुटजस्य फलं पिष्टं तगरं जालमालिनी| तिक्तेक्ष्वाकुश्च योगोऽयं पानप्रधमनादिभिः||२०६|| वृश्चिकोन्दुरुलूतानां सर्पाणां च विषं हरेत्| समानो ह्यमृतेनायं गराजीर्णं च नाशयेत्||२०७|| सर्वेऽगदा यथादोषं प्रयोज्याः स्युः कृकण्टके| कपोतविण्मातुलुङ्गं शिरीषकुसुमाद्रसः||२०८|| शङ्खिन्यार्कं पयः शुण्ठी करञ्जो मधु वार्श्चिके| शिरीषस्य फलं पिष्टं स्नुहीक्षीरेण दार्दुरे||२०९|| मूलानि श्वेतभण्डीनां व्योषं सर्पिश्च मत्स्यजे| कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम्||२१०|| वातपित्तहरी चापि क्रिया प्रायः प्रशस्यते| वार्श्चिको ह्युच्चिटिङ्गस्य कणभस्यौन्दुरोऽगदः ||२११||

🔊 Audio coming soon

मुक्ता मौक्तिकम्| क्षीरशुक्ला विदारी| कर्णिकापतनं तयोरिति अनन्तरोक्तकीटलूतादंशयोर्या कर्णिका तस्याः पातनमित्यर्थः| जालमालिनी देवताडकः| तिक्तेक्ष्वाकुः कटुकालाबूः| वार्श्चिके इति वृश्चिकविषे| दुर्दुरः भेकः| श्वेतभण्डी अपराजिता| वार्श्चिके इत्यादि उच्चिटिङ्गस्य विषे वार्श्चिके यो योग उक्तः स कर्तव्यः| एवं कणभस्यापि विषे औन्दुरे यो योग उक्तः स कर्तव्यः||१९९-२११||

Adhikarana 40 (212-218) · Śloka 218

वचां वंशत्वचं पाठां नतं सुरसमञ्जरीम्| द्वे बले नाकुलीं कुष्ठं शिरीषं रजनीद्वयम्||२१२|| गुहामतिगुहां श्वेतामजगन्धां शिलाजतु| कत्तृणं कटभीं क्षारं गृहधूमं मनःशिलाम्||२१३|| रोहीतकस्य पित्तेन पिष्ट्वा तु परमोऽगदः| नस्याञ्जनादिलेपेषु हितो विश्वम्भरादिषु||२१४|| स्वर्जिकाऽजशकृत्क्षारः सुरसाऽथाक्षिपीडकः | मदिरामण्डसंयुक्तो हितः शतपदीविषे||२१५|| कपित्थमक्षिपीडोऽर्कबीजं त्रिकटुकं तथा| करञ्जो द्वे हरिद्रे च गृहगोधाविषं जयेत्||२१६|| काकाण्डरससंयुक्तो विषाणां तण्डुलीयकः| प्रधानो बर्हिपित्तेन तद्वद्वायसपीलुकः||२१७|| शिरीषफलमूलत्वक्पुष्पपत्रैः समैर्धृतैः| श्रेष्ठः पञ्चशिरीषोऽयं विषाणां प्रवरो वधे||२१८|| इति पञ्चशिरीषोऽगदः|

🔊 Audio coming soon

नाकुली रास्ना| गुहा पृश्निपर्णी, अतिगुहा शालपर्णी| अजगन्धा फोफान्धेति ख्याता| पित्तेनेति गोपित्तेन| विश्वम्भरादयः कीटा एव श्लेष्मकोपनाः सुश्रुतोक्ताः| अक्षपीडकः श्वेतपीतशिम्बीभेदः| वायसी काकमाची| श्रेष्ठः पञ्चशिरीषोऽयमिति पदं त्रिशिरीषाद्यपेक्षया पञ्चशिरीषस्य श्रेष्ठत्वं ब्रूते, प्रवर इति पदं विषहरयोगान्तरेषु श्रेष्ठतामाह, तेन न पुनरुक्तिः; किंवा श्रेष्ठ इति श्रेष्ठशिरीषफलादिकृतः||२१२-२१८||

Adhikarana 41 (219-220) · Śloka 220

चतुष्पद्भिर्द्विपद्भिर्वा नखदन्तक्षतं तु यत्| शूयते पच्यते चापि स्रवति ज्वरयत्यपि||२१९|| सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपद्यपि| रजन्यौ गैरिकं लेपो नखदन्तविषापहः||२२०||

🔊 Audio coming soon

द्विपदा वनमानुषमर्कटादयः| अश्वकर्णः सर्जभेदः||२१९-२२०||

Adhikarana 42 (221-223) · Śloka 223

दुरन्धकारे विद्धस्य केनचिद्विषशङ्कया| विषोद्वेगाज्ज्वरशछर्दिर्मूर्च्छा दाहोऽपि वा भवेत्||२२१|| ग्लानिर्मोहोऽतिसारश्चाप्येतच्छङ्काविषं मतम्| चिकित्सितमिदं तस्य कुर्यादाश्वासयन् बुधः||२२२|| सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु| पानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम्||२२३||

🔊 Audio coming soon

दुरन्धकारे इत्यादिना शङ्काविषमाह| केनचिदिति निर्विषेणापि| विषशङ्कया विषोद्वेगादिति विषशङ्कयैव विषप्रादुर्भावादित्यर्थः; शङ्का चेयं प्रभावादेव विषजनिका| वैगन्धिकः गन्धक एव शोधितः||२२१-२२३||

Adhikarana 43 (224-228) · Śloka 228

शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः| भोजनार्थे प्रशस्यन्ते लवणार्थे च सैन्धवम्||२२४|| तण्डुलीयकजीवन्तीवार्ताकसुनिषण्णकाः| चुच्चूर्मण्डूकपर्णी च शाकं च कुलकं हितम्||२२५|| धात्री दाडिममम्लार्थे यूषा मुद्गहरेणुभिः| रसाश्चैणशिखिश्वाविल्लावतैत्तिरपार्षताः||२२६|| विषघ्नौषधसंयुक्ता रसा यूषाश्च संस्कृताः| अविदाहीनि चान्नानि विषार्तानां भिषग्जितम्||२२७|| विरुद्धाध्यशनक्रोधक्षुद्भयायासमैथुनम्| वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः||२२८||

🔊 Audio coming soon

कोरदूषः कोद्रवः| कुलकं कारवेल्लकम्; अन्ये पटोलभेदमाहुः||२२४-२२८||

Adhikarana 44 (229-241) · Śloka 242

मुहुर्मुहुः शिरोन्यासः शोथः स्रस्तौष्ठकर्णाता | ज्वरः स्तब्धाक्षिगात्रत्वं हनुकम्पोऽङ्गमर्दनम्||२२९|| रोमापगमनं ग्लानिररतिर्वेपथुर्भ्रमः| चतुष्पदां भवत्येतद्दष्टानामिह लक्षणम्||२३०|| देवदारु हरिद्रे द्वे सरलं चन्दनागुरु| रास्ना गोरोचनाऽजाजी गुग्गुल्विक्षुरसो नतम्||२३१|| चूर्णं ससैन्धवानन्तं गोपित्तमधुसंयुतम्| चतुष्पदानां दष्टानामगदः सार्वकार्मिकः||२३२|| सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान्मलान्| शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान्||२३३|| तैः स्यात् पाण्डुः कृशोऽल्पाग्निर्गरश्चास्योपजायते| मर्मप्रधमनाध्मानं श्वयथुं हस्तपादयोः||२३४|| जठरं ग्रहणीदोषो यक्ष्मा गुल्मः क्षयो ज्वरः | एवंविधस्य चान्यस्य व्याधेर्लिङ्गानि दर्शयेत्||२३५|| स्वप्ने मार्जारगोमायुव्यालान् सनकुलान् कपीन्| प्रायः पश्यति नद्यादीञ्छुष्कांश्च सवनस्पतीन्||२३६|| कालश्च गौरमात्मानं स्वप्ने गौरश्च कालकम्| विकर्णनासिकं वाऽपि प्रपश्येद्विहतेन्द्रियः ||२३७|| तमवेक्ष्य भिषक् प्राज्ञाः पृच्छेत् किं कैः कदा सह| जग्धमित्यवगम्याशु प्रदद्याद्वमनं भिषक्||२३८|| सूक्ष्मं ताम्ररजस्तस्मै सक्षौद्रं हृद्विशोधनम्| शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्||२३९|| हेम सर्वविषाण्याशु गरांश्च विनियच्छति| न सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत्||२४०|| नागदन्तीत्रिवृद्दन्तीद्रवन्तीस्नुक्पयःफलैः| साधितं माहिषं सर्पिः सगोमूत्राढकं हितम्||२४१|| सर्पकीटविषार्तानां गरार्तानां च शान्तये|२४२|

🔊 Audio coming soon

अन्नमिश्रितानिति भक्ष्यमिश्रितान्| गरश्चास्योपजायत इति वक्ष्यमाणमर्मप्रधमानादिलक्षणो व्याधिर्जायते| विहतेन्द्रिय इति रोगोपहतेन्द्रियः| पृच्छेदित्यादौ पृच्छायां गरावधारणमेव फलमवगम्यते| अवगम्येति गरकारणमवगम्य| सूक्ष्ममित्यादौ अमृतताम्रचूर्णं माषमानं यावद्देयम्, अमृतेनैव वमनं भवति| हेमप इति हेम यः पिबतीति स हेमपः| नागदन्ती दन्तीभेदः| फलं मदनफलं, नतु ‘पलैः’ इति पाठः| अयं योगो जतुकर्णे पठ्यते- “नागदन्तीस्नुक्क्षीरफलैर्गोमूत्रसिद्धं माहिषं घृतं पाययेत्” इति||२२९-२४१||-

Adhikarana 45 (242-249) · Śloka 249

शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले||२४२|| द्वे बले सारिवास्फोतासुरभीनिम्बपाटलाः| बन्धुजीवाढकीमूर्वावासासुरसवत्सकान्||२४३|| पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान्| विशालां बृहतीं लाक्षां कोविदारं शतावरीम्||२४४|| कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम्| श्वेतभण्डाश्वखुरकौ कुष्ठदारुप्रियङ्गुकान्||२४५|| विदारीं मधुकात् सारं करञ्जस्य फलत्वचौ| रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्||२४६|| तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम्| अपस्मारक्षयोन्मादभूतग्रहगरोदरम्||२४७|| पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामलाः| हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः||२४८|| हन्यात् सञ्जीवयेच्चापि विबोद्बन्धमृतान्नरान्| नाम्नेदममृतं सर्वविषाणां स्याद्धृतोत्तमम्||२४९|| इत्यमृतघृतम्|

🔊 Audio coming soon

शिरीषत्वगित्यादौ आस्फोता अपरमल्लिका| सुरभी पर्णासभेदः| बन्धुजीवः पुत्रजीवकः| अश्वखुरकः स्यन्दनः; किंवा कोकिलाक्षः||२४२-२४९||

Adhikarana 46 (250-253) · Śloka 253

भवन्ति चात्र- छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा| तच्छायाशब्दवित्रस्ताः प्रणश्यन्त्याशु पन्नगाः||२५०|| दष्टमात्रो दशेदाशु तं सर्पं लोष्टमेव वा| उपर्यरिष्टां बध्नीयाद्दंशं छिन्द्याद्दहेत्तथा||२५१|| वज्रं मरकतः सारः पिचुको विषमूषिका| कर्केतनः सर्पमणिर्वैदूर्यं गजमौक्तिकम्||२५२|| धार्यं गरमणिर्याश्च वरौषध्यो विषापहाः| खगाश्च शारिकाक्रौञ्चशिखिहंसशुकादयः||२५३||

🔊 Audio coming soon

छत्रीत्यादौ छत्री दिवा, रात्रौ झर्झरपाणिश्चरेदिति वदन्ति; अन्ये तूभयत्राप्युभयं ब्रुवते| झर्झरकः ‘खुर्खुरक’ इति ख्यातः| छायाशब्दौ यथासङ्ख्यं छत्रझर्झरयोः| ताभ्यां तदात्वे वित्रस्ताः| दंशकाले कर्तव्यमाह- दष्टमात्र इत्यादि| धारणादेव विषापहमाह- वज्रमित्यादि| सार इति सरजूविशेषणम्(?)| पिचुको मणिरुत्तरापथे प्रसिद्धः| विषमूषिका विषमणिः| कर्केतनमणिः पद्मरागः| गरमणिशब्देन नानामणीनां ग्रहणम्| वरौषध्य इति तन्त्रान्तरोक्ताः अक्षीवजातपिप्पलाजरुहाकायोषी (?) प्रभृतयः; उक्तं च- “अक्षीवजातस्य पिप्पलस्य मणिः सर्वविषापहः” इत्यादि||२५०-२५३||

Adhikarana 47 (254) · Śloka 254

तत्र श्लोकः- इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम्| अधीत्य विज्ञाय तथा प्रयोजयन् व्रजेद्विषाणामविषह्यतां बुधः||२५४||

🔊 Audio coming soon

इतीदमित्यादिसङ्ग्रहः| व्रजेद्विषाणामविषह्यतामिति विषाणि तं सोढुं न पारयन्तीति भावः||२५४||

Adhikarana puShpikA · Śloka 23

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने विषचिकित्सितं नाम त्रयोविंशोऽध्यायः||२३||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने विषचिकित्सितं नाम त्रयोविंशोऽध्यायः||२३||