Adhikarana 1 (1-2) · Śloka 2
अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
विसर्पे प्रायेण तृष्णा उपद्रवरूपा भवतीति विसर्पानन्तरं तृष्णाचिकित्सितमुच्यते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
विसर्पे प्रायेण तृष्णा उपद्रवरूपा भवतीति विसर्पानन्तरं तृष्णाचिकित्सितमुच्यते||१-२||
Adhikarana 2 (3) · Śloka 3
ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः| तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम्||३||
🔊 Audio coming soon
ज्ञानेत्यादौ ज्ञानं तत्त्वज्ञानं, प्रशमः शान्तिः, तपः चान्द्रायणादि| चिकित्सितं चिकित्साविधायको ग्रन्थः, निदानाद्यभिधानं च चिकित्सार्थमेव, निदानादिज्ञानपूर्वकत्वाच्चिकित्सायाः | पञ्चानामिति वचनेन पञ्चानामपि चिकित्साविषयत्वं दर्शयति, नहि कासश्वासवदस्यासाध्यत्वं कस्याश्चिदत्रेत्यर्थः, तथा सुश्रुतोक्तातिरिक्ततृष्णाद्वयान्तर्भावं पञ्चस्वेव सूचयति| उक्तं हि सुश्रुते- “तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्यामसमुद्भवा च| स्यात् सप्तमी भक्तनिमित्तजा च” (सु.उ.अ.४८) इति||३||
Adhikarana 3 (4-7) · Śloka 7
क्षोभाद्भयाच्छ्रमादपि शोकात्क्रोधाद्विलङ्घनान्मद्यात्| क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः||४|| धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसन्तापैः| पित्तानिलौ प्रवृद्धौ सौम्यान्धातूंश्च शोषयतः||५|| रसवाहिनीश्च नालीर्जिह्वामूलगलतालुकक्लोम्नः | संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ||६|| पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम्| घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा||७||
🔊 Audio coming soon
क्षोभादित्याद्युक्तनिदानस्य यथायोग्यतया वातकर्तृत्वं वातपित्तकर्तृत्वं चोन्नेयम्| पित्तानिलावित्यादिः सर्वतृष्णासम्प्राप्तिग्रन्थः| सौम्यान् धातूनिति कफरसोदकानि सोमगुणातिरिक्तानि| प्रदूषयत इति शोषणेन दूषयतः| क्लोम्न इति द्वितीयाबहुवचनान्तम्| देहे इत्यनेन एतासां तृष्णानां शारीरत्वं दर्शयति| या हि मानसी तृष्णा सा शारीरे “इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते” (शा.अ.१) इत्यादावुक्ता; इयं तु देहाश्रयदोषकारणा सती देहजैवेति भावः| स्वाभाविकतृष्णायामपि वातपित्ते आरम्भके एव तत् किं साऽप्यत्र न गृह्यते? मैवं, तस्या उचितद्रवपानेनैवाभिप्रेतेन प्रशमादिह अस्वाभाविकव्याधिप्रकरणे नाधिकार इति हृदि कृत्वा| स्वाभाविकतृष्णाकरवातपित्ताभ्यां वक्ष्यमाणतृष्णारम्भकवातपित्तयोर्विशेषमाह- पीतं पीतमित्यादि| प्रकृततृष्णारम्भकौ पित्तवातौ पीतं पीतं जलं शोषयतः, अतो जलशोषणत्वाद्धेतोर्न शमं याति पुरुषः; स्वाभाविक्यां जलं पीत्वा शान्तिमधिगच्छतीति भावः| उपद्रवरूपतृष्णोत्पादमाह- घोरेत्यादि| उपसर्गभूता इति उपद्रवरूपा||४-७||
Adhikarana 4 (8) · Śloka 8
प्राग्रूपं मुखशोषः, स्वलक्षणं सर्वदाऽम्बुकामित्वम्| तृष्णानां सर्वासां लिङ्गानां लाघवमपायः||८||
🔊 Audio coming soon
तृष्णाप्राग्रूपमाह- प्राग्रूपमित्यादि| प्राग्रूपकथने एव मध्ये तृष्णानामव्यभिचारिलक्षणमाह- स्वलक्षणमित्यादि| स्वलक्षणमिति अव्यभिचारिलक्षणं; यथा- ज्वरस्य सन्तापः, श्वयथोरुत्सेधः| पुनः प्रकृतं प्राग्रूपमाह- लिङ्गानां लाघवमपाय इति|- लिङ्गानां वक्ष्यमाणवातादिजतृष्णालिङ्गानां लाघवमल्पत्वं केषाञ्चिच्चाभावः पूर्वरूपं तृष्णानामित्यर्थः| तेन पूर्वरूपावस्थायां वक्ष्यमाणलक्षणानि कानिचिन्न भवन्त्येव, यानि च भवन्ति तान्यल्पतयाऽस्फुटानि भवन्ति| उक्तं च- “अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्” (चि.अ.११) इति| किंवा यदेतत् प्राग्रूपं मुखशोषः, स्वलक्षणं सर्वदाम्बुकामित्वं, एतत् प्राग्रूपं स्वलक्षणं च तृष्णानां; तेन मुखशोषाम्बुकामित्वे स्वलक्षणे तथा पूर्वरूपे च भवतः, पूर्वरूपावस्थायां त्वप्रबले मुखशोषाम्बुकामित्वे ज्ञेये| ये तु ‘प्राग्रूपं मुखशोषः स्वरक्षयः सर्वदाऽम्बुकामित्वम्’ इति पठन्ति, तेषां मते तृष्णायाः स्वलक्षणं नोक्तं स्यात्| उक्तं च हारीतेऽपि तृष्णास्वलक्षणं- “स्वलक्षणं तु तृष्णानां सर्वदाऽम्बुपिपासिता” इति| किंवा मुखशोषस्वरक्षये एव पूर्वरूपं, सर्वदाऽम्बुकामित्वं च स्वलक्षणं, लिङ्गानां च लाघवं रोगरूपायास्तृष्णाया अपायो गमनमित्यर्थः; अयमेव तृष्णाव्युपरमो यद्वक्ष्यमाणलिङ्गानामल्पत्वं, सर्वथोच्छेदो हि तृष्णालक्षणानां न भवत्येव, सहजतृष्णाग्रस्तत्वेनैतल्लक्षणानामल्पमात्रतयाऽवस्थानात्| कैश्चित्तु लिङ्गानां लाघवमाशूत्पादः, स च अपायो मरणमिति कृत्वा तृष्णानामसाध्यतालक्षणमिदमुच्यते, तन्नातिमनोहरम्||८||
Adhikarana 5 (9-10) · Śloka 10
मुखशोषस्वरभेदभ्रमसन्तापप्रलापसंस्तम्भान्| ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च||९|| जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम्| तृष्णोद्भूता कुरुते, पञ्चविधां लिङ्गतः शृणु ताम्||१०||
🔊 Audio coming soon
सर्वतृष्णानामुपद्रवानाह- मुखशोषेत्यादि| उद्भूतेति वृद्धा| ये तु मुखशोषादीनि लक्षणान्याहुस्तन्मते तृष्णोपद्रवानामभिधानं न स्यात्, उपद्रवाश्चाध्यायसङ्ग्रहे सङ्गृहीताः; तेनातिशयवृद्धा मुखशोषादय उपद्रवाः, वृद्धास्तु लिङ्गमिति व्यवस्था||९-१०||
Adhikarana 6 (11) · Śloka 11
अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति| तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन्||११||
🔊 Audio coming soon
अब्धातुमित्यादिना पञ्चानां सम्प्राप्त्याद्याह| देहस्थमिति देहे नानारसादिरूपतया स्थितम्| शुष्केऽब्धातौ शुष्यतीति योज्यम्||११||
Adhikarana 7 (12) · Śloka 12
निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतोऽवरोध इति च स्याल्लिङ्गं वाततृष्णायाः||१२||
🔊 Audio coming soon
स्रोतोवरोध इति अत्युपघातः ||१२||
Adhikarana 8 (13-14) · Śloka 14
पित्तं मतमाग्नेयं कुपितं चेत्तापयत्यपां धातुम्| सन्तप्तः स हि जनयेत्तृष्णां दाहोल्बणां नॄणाम्||१३|| तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्च्छा| पीताक्षिमूत्रवर्चस्त्वमाकृतिः पित्ततृष्णायाः||१४||
🔊 Audio coming soon
पित्तमित्यादिना पित्तजामाह| शरीरसङ्ख्याशारीरे पित्तमाप्यमुक्तं “यद्द्रवसरस्निग्धमन्दमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि तदाप्यं रसो रसनं च” (शा.अ.७) इत्यनेन, तथा तत्रैव “यत् पित्तमूष्मा यो, या च शरीरे भाः, तत् सर्वमाग्नेयम्” इत्यनेन द्वयात्मकत्वं पित्तस्य यद्यप्युक्तं, तथाऽप्याग्नेयाकारत्वाद् बाहुल्यात् पित्तमाग्नेयमेवेति दर्शयन्नाह- पित्तं मतमाग्नेयमिति; द्वयात्मकत्वेऽपि च पित्तस्याग्नेयांशप्राधान्यादन्यत्रापि सौम्याग्नेयवायव्यविकारभेदे पैत्तिकविकारा आग्नेयत्वेन गृहीता एव | सन्तप्तः स हीति अब्धातुः सन्तप्तः| ‘सन्तप्तं हि’ इति पाठपक्षे पित्तमेव जनयेदिति योज्यम्| यदाऽब्धातुर्जनयति तदा पित्तसन्तप्त एव जनयतीति पित्तस्यैव कर्तृत्वम्||१३-१४||
Adhikarana 9 (15) · Śloka 15
तृष्णा याऽऽमप्रभवा साऽप्याग्नेयाऽऽमपित्तजनितत्वात् | लिङ्गं तस्याश्चारुचिराध्मानकफप्रसेकौ च||१५||
🔊 Audio coming soon
तृष्णेत्यादिनाऽऽमजामाह| आमशब्देन चेह लक्षणया आमसमानचिकित्सित आमसमानलक्षणश्च कफोऽपि गृह्यते| तेनामप्रभवाया व्युत्पादनेन कफजाऽपि सुश्रुतोक्ता गृहीतैवेह| साऽप्याग्नेयेत्यनेन पूर्वपरिज्ञातं सर्वासां वातपित्तजन्यत्वं समुन्नयति| वातश्च तृष्णाकारणत्वेनोक्तोऽप्यत्राप्रधानं, पित्तमेव तु प्रधानमितीह वाताकथनादुन्नीयते| अन्यत्राप्युक्तं- “दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्| प्रभाप्रसादौ मेधा च पित्तकर्माविकारजम्” (सू.अ.१८) इति| आमपित्तजनितत्वादिति आमावरोधवृद्धपित्तजनितत्वादित्यर्थः||१५||
Adhikarana 10 (16) · Śloka 16
देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि| दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ||१६||
🔊 Audio coming soon
देहो रसज इत्यादिना क्षयजामाह| आहाररसात् सर्वधातुपोषको धातुरस उत्पद्यते, स च रसो देहपोषकोऽम्बुभव इति आप्य इत्यर्थः| तस्य क्षयादिति रसक्षयात् तृष्यते; रसक्षयादम्बुक्षयो भवति, तेन चाम्बुक्षयेण पुरुषः पानीयप्रार्थनारूपतृष्णया युक्तो भवतीति युक्तमिति दर्शयति| उक्तं हि सुश्रुते- “दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः| स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति” (सु.सू.अ.१५) इति; इहापि चोक्तं ‘तस्य क्षयाच्च तृष्येद्धि’ इति||१६||
Adhikarana 11 (17) · Śloka 17
भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा| ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ||१७||
🔊 Audio coming soon
भवतीत्यादिनोपसर्गजामाह| उपसर्गादिति ज्वराद्युपद्रवात्, ज्वराद्युपद्रवरूपतयेति यावत्| कष्टेति कष्टसाध्या| एवं प्राक्सूत्रितवातपित्तामाम्बुक्षयोपसर्गात्मिकाः पञ्च तृष्णा व्याहृताः| अत्रैव सुश्रुतोक्ता कफजा आमजायामवरुद्धा, क्षतजा उपसर्गात्मिकायामवरुद्धा, अन्नजा चामजायामेवान्तर्भावनीया||१७||
Adhikarana 12 (18) · Śloka 18
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम्| घोरोपद्रवयुक्तास्तृणा मरणाय विज्ञेयाः||१८||
🔊 Audio coming soon
इदानीं तृष्णानामसाध्यतालक्षणमाह- सर्वास्त्वित्यादि| घोरोपद्रवयुक्तेति पीडाकरोपद्रववती||१८||
Adhikarana 13 (19-22) · Śloka 22
नाग्निं विना हि तर्षः पवनाद्वा तौ हि शोषणे हेतू| अब्धातोरतिवृद्धावपां क्षये तृष्यते नरो हि||१९|| गुर्वन्नपयःस्नेहैः सम्मूर्च्छद्भिर्विदाहकाले च| यस्तृष्येद्वृतमार्गे तत्राप्यनिलानलौ हेतू||२०|| तीक्ष्णोष्णरूक्षभावान्मद्यं पित्तानिलौ प्रकोपयति| शोषयतोऽपां धातुं तावेव हि मद्यशीलानाम्||२१|| तप्तास्विव सिकतासु हि तोयमाशु शुष्यति क्षिप्तम्| तेषां सन्तप्तानां हिमजलपानाद्भवति शर्म||२२||
🔊 Audio coming soon
सम्प्रति तृष्णान्तराणामुक्ततृष्णास्वेवान्तर्भावं दर्शयन्नुक्तवक्तव्यतृष्णानामपि वात-पित्त-क्षयजन्यत्वमाह- नाग्निमित्यादि| कस्मात् पुनरग्निवातौ विना तर्षो न भवतीत्याह- तौ हीत्यादि| तौ हि अतिवृद्धौ पित्तवातरूपौ अग्निपवनौ अब्धातोः शोषणे हेतू, तस्मान्नाग्निवातौ विना तर्ष इत्युक्तमित्यर्थः| एवमग्निवाताभ्यां कृतेऽपां क्षये स्वरूपादेव नरस्तृष्यति| एवं पित्तवातकृताब्धातुक्षयजतृष्णाभेदमभिधाय अन्तर्भावनीयतृष्णाभेदानाह- गुर्वन्नेत्यादि| सम्मूर्च्छद्भिरिति एकतां गच्छद्भिः| अत्र वातो वृद्धः सम्मूर्च्छनेऽन्नस्य तृष्णाकरः, विदाहकाले च या तृष्णा तत्र पित्तं तृष्णाकरम्| मद्यजामप्यन्तर्भावयन्नाह- तीक्ष्णोष्णेत्यादि| सिकतासु वालुकासु| तेषामित्युपशमकथनम्| शर्मेति सुखम्||१९-२२||
Adhikarana 14 (23) · Śloka 23
शिशिरस्नातस्योष्मा रुद्धः कोष्ठं प्रपद्य तर्षयति| तस्मान्नोष्णक्लान्तो भजेत सहसा जलं शीतम् ||२३||
🔊 Audio coming soon
शीतम्लानजामन्तर्भावयन्नाह- शिशिरेत्यादि| शिशिरं शीतम्| ऊष्मा रुद्ध इति शीतस्पर्शजलेन बहिरनिर्गच्छन् रोमकूपैरुष्माऽवरुद्धः प्रतीपीकृतः, एतेन एतस्यापि पित्तजत्वमुक्तम्| न सहसेत्यनेन विश्रम्य शीतजलसेवायां न तथाविधा तृष्णा भवतीति दर्शयति||२३||
Adhikarana 15 (24) · Śloka 24
लिङ्गं सर्वास्वेतास्वनिलक्षयपित्तजं भवत्यथ तु| पृथगागमाच्चिकित्सितमतः प्रवक्ष्यामि तृष्णानाम्||२४||
🔊 Audio coming soon
सम्प्रति अन्नसम्मूर्च्छनादिना यथोक्तक्रमेण अनिल-क्षय-पित्तजावरोधमभिधाय सर्वासामेवानिल-क्षय-पित्तजत्वमुपदर्शयन्नाह- लिङ्गं सर्वास्वित्यादि| अनिल-क्षय-पित्तजमित्यत्र क्षयजमिति अब्धातुक्षयजमेव| सामान्येऽपि तृष्णानां भेदेन चिकित्साभिधाने हेतुमाह- अथ त्वित्यादि| पृथगागमादिति पृथग्घेतुत्वात्, आगच्छत्यस्मादिति आगमो हेतुः; वातादिहेतुभेदाच्चिकित्सितभेदं वक्ष्यामीत्यर्थः| किंवा पृथक् चिकित्सितं वक्ष्यामि, आगमादिति आयुर्वेदागमप्रामाण्यात्; आगमे तृष्णानां भेदेन चिकित्साभिधानादहमपि पृथक् चिकित्सां वक्ष्यामीत्यर्थः||२४||
Adhikarana 16 (25-26) · Śloka 26
अपां क्षयाद्धि तृष्णा संशोष्य नरं प्रणाशयेदाशु| तस्मादैन्द्रं तोयं समधु पिबेत्तद्गुणं वाऽन्यत्||२५|| किञ्चित्तुवरानुरसं तनु लघु शीतलं सुगन्धि सुरसं च| अनभिष्यन्दि च यत्तत्क्षितिगतमप्यैन्द्रवज्ज्ञेयम्||२६||
🔊 Audio coming soon
अपां क्षयादित्यादिना चिकित्सामाह| ऐन्द्रमिति आन्तरिक्षम्| तद्गुणं वाऽन्यदिति यदुक्तं तत्राह- किञ्चिदित्यादि| किञ्चिदिति मनाक्| तुवरोऽनुरसतया रस्यते आस्वाद्यते यस्मिन् तत्तुवरानुरसम्| अन्तरिक्षं जलं ह्यव्यक्तसर्वरसयुक्तम् “अव्यक्तीभावस्तु रसानां प्रकृतौ भवत्यनुरससमन्विते वा द्रव्ये” (चि.अ.सू.२६) इति| ऐन्द्रवदित्यनेन अन्तरिक्षानुकारि क्षितिसमाबद्धं भवति| अन्ये तु तुवरशब्देन कषायमाहुः, तेन किञ्चित्कषायानुरसमित्यर्थः| तन्विति स्वच्छम्| सुगन्धीति अनिष्टगन्धरहितम्; उक्तं हि सुश्रुते- “अनिष्टगन्धता गन्धदोषः” (सु.सू.अ.४५) इति| अप्रातिकूल्येन रसनया आस्वाद्यते इति सुरसं; न तु व्यक्तसुष्ठुरसं सुरसम्’; उक्तं हि सुश्रुते- “व्यक्तरसता रसदोषः” इति (सु.सू.अ.४५)||२५-२६||
Adhikarana 17 (27-33) · Śloka 33
शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन| लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम्||२७|| वाट्यं वाऽऽमयवानां शीतं मधुशर्करायुतं दद्यात्| पेयां वा शालीनां दद्याद्वा कोरदूषाणाम्||२८|| पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम्| पारावतादिकरसैर्घृतभृष्टैर्वाऽप्यलवणाम्लैः||२९|| तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः| शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत्||३०|| शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य| मुद्गमसूरचणकजा रसास्तु भृष्टा घृते देयाः||३१|| मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम्| पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम्||३२|| तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात्| नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः||३३||
🔊 Audio coming soon
शरपूर्वपञ्चमूलेनेति “शरेक्षुदर्भकाशानां शालीनां मूलमेव च” (चि.अ.१पा.१) इत्यत्रोक्तेन शरादिपञ्चमूलेन| आमयवानां वाट्यमिति ईषद्भृष्टादलितयवमण्डः| मुञ्जातक उत्तरापथप्रसिद्धः| सुकृता इति सुसंस्कृताः| तैरिति तृणपञ्चमूल्यादिभिः| मधुरैरिति मधुररसैः| शीतैरिति शीतवीर्यैः| तज्जमिति मधुरादिशृतक्षीरजम्||२७-३३||
Adhikarana 18 (34-39) · Śloka 39
क्षीरेक्षुरसगुडोदकसितोपलाक्षौद्रसीधुमार्द्वीकैः | वृक्षाम्लमातुलुङ्गैर्गण्डूषास्तालुशोषघ्नाः||३४|| जम्ब्वाम्रातकबदरीवेतसपञ्चवल्कपञ्चाम्लैः| हृन्मुखशिरःप्रदेहाःसघृता मूर्च्छाभ्रमतृष्णाघ्नाः स्युः||३५|| दाडिमदधित्थलोध्रैः सविदारीबीजपूरकैः शिरसः| लेपो गौरामलकैर्घृतारनालायुतैश्च हितः||३६|| शैवलपङ्काम्बुरुहैः साम्लैः सघृतैश्च शक्तुभिर्लेपः| मस्त्वारनालार्द्रवसनकमलमणिहारसंस्पर्शाः||३७|| शिशिराम्बुचन्दनार्द्रस्तनतटपाणितलगात्रसंस्पर्शाः| क्षौमार्द्रनिवसनानां वराङ्गनानां प्रियाणां च||३८|| हिमवद्दरीवनसरित्सरोऽम्बुजपवनेन्दुपादशिशिराणाम्| रम्यशिशिरोदकानां स्मरणं कथाश्च तृष्णाघ्नाः||३९||
🔊 Audio coming soon
मार्द्वीकं मृद्वीकारसकृतं मद्यम्| गण्डूषः मुखपूरको द्रवः| पञ्चाम्लं “कोलाम्लं चिक्रिकाम्लं च मातुलुङ्गाम्लवेतसम्| चतुरम्लमिति प्रोक्तं पञ्चाम्लं तु सदाडिमम्” इति वचनाज्ज्ञेयम्| दधित्थः कपित्थः| गौरामलकैरिति आर्द्रतया गौरवर्णैरामलकैः| मस्त्वारनालस्तिमितं वसनं मस्त्वारनालवसनम्| इन्दुपादाः चन्द्ररश्मयः||३४-३९||
Adhikarana 19 (40) · Śloka 41
वातघ्नमन्नपानं मृदु लघु शीतं च वाततृष्णायाम्| क्षयकासनुच्छृतं क्षीरघृतमूर्ध्ववाततृष्णाघ्नम् ||४०|| स्याज्जीवनीयसिद्धं क्षीरघृतं वातपित्तजे तर्ष|४१|
🔊 Audio coming soon
वातघ्नेत्यादिना तृष्णानां वैशेषिकीं चिकित्सामाह| क्षयकासहरैः शृतं क्षयकासनुच्छृतम्| ऊर्ध्ववातः श्वासः| वातपित्तजे तर्षे इत्यत्र संसर्गजा तृष्णा असूत्रिताऽपि असूत्रितद्वन्द्वजगुल्माभिधानन्यायेनोच्यते||४०||-
Adhikarana 20 (41-46) · Śloka 46
पैत्ते द्राक्षाचन्दनखर्जूरोशीरमधुयुतं तोयम्||४१|| लोहितशालितण्डुलखर्जूरपरूषकोत्पलद्राक्षाः| मधु पक्वलोष्टमेव च जले स्थितं शीतलं पेयम्||४२|| लोहितशालिप्रस्थः सलोध्रमधुकाञ्जनोत्पलः क्षुण्णः| पक्वामलोष्टजलमधुसमायुतो मृन्मये पेयः||४३|| वटमातुलुङ्गवेतसपल्लवकुशकाशमूलयष्ट्याह्वैः| सिद्धेऽम्भस्यग्निनिभां कृष्णमृदं कृष्णसिकतां वा||४४|| तप्तानि नवकपालान्यथवा निर्वाप्य पाययेताच्छम्| आपाकशर्करं वाऽमृतवल्ल्युदकं तृषां हन्ति||४५|| क्षीरवतां मधुराणां शीतानां शर्करामधुविमिश्राः| शीतकषाया मृद्भृष्टसंयुताः पित्ततृष्णाघ्नाः||४६||
🔊 Audio coming soon
पैत्ते इत्यत्र ‘तर्षे’ इति शेषः| लोहितशालिप्रस्थ इत्यादौ लोध्रादीनां मिलितानां चतुष्पलं, प्रक्षेप्यन्यायात् पादिकं मधु, पक्वामलोष्टप्रसादनं (चालोडनयोग्यमात्रं ) दत्त्वा शालितण्डुलप्रस्थः क्षपायां स्थाप्यते, तदन्नं (तस्य पानयोग्यमात्रमधुप्रक्षेपं) मृन्मये पात्रे पीयत इति वृद्धैरुपदर्शितः कर्ममार्गः| नवकपालानि नूतनशरावादिखण्डान्| आपाकशर्करमिति पाकनिमित्तशर्करासहितम्| अमृतवल्ली गुडूची| मृद्भृष्टसंयुता इति भृष्टमृद्युक्ताः||४१-४६||
Adhikarana 21 (47-56) · Śloka 56
व्योषवचाभल्लातकतिक्तकषायास्तथाऽऽमतृष्णाघ्नाः| यच्चोक्तं कफजायां वम्यां तच्चैव कार्यं स्यात्||४७|| स्तम्भारुच्यविपाकालस्यच्छर्दिषु कफानुगां तृष्णाम्| ज्ञात्वा दधिमधुतर्पणलवणोष्णजलैर्वमनमिष्टम्||४८|| दाडिममम्लफलं वाऽप्यन्यत् सकषायमथ लेहम्| पेयमथवा प्रदद्याद्रजनीशर्करायुक्तम् ||४९|| क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नॄणाम्| क्षीणक्षतशोषहितैस्तस्मात्तां भेषजैः शमयेत्||५०|| पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम्| शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृषितः||५१|| भक्तोपरोधतृषितः स्नेहतृषार्तोऽथवा तनुयवागूम्| प्रपिबेद्गुरुणा तृषितो भुक्तेन तदुद्धरेद्भुक्तम्||५२|| मद्याम्बु वाऽम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा| मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम्||५३|| बलवांस्तु तालुशोषे पिबेद्धृतं तृष्यमद्याच्च| सर्पिर्भृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान्||५४|| अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः| छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः||५५|| स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत्| तर्षं मूर्च्छाभिहतस्य रक्तपित्तापहैर्हन्यात्||५६||
🔊 Audio coming soon
अन्यत् सकषायमिति आमलादिसकषायलेहम्| पानतृषार्त इति अतिशयमद्यपानजतृट्पीडितः| भक्तोपरोधः भक्तच्छेदः | मागधिकाविशदमुख इत्यत्र मुखवैशद्यमात्रकारिका पिप्पली प्रयोक्तव्या| तालुशोषे यद्यपि घृतं निषिद्धं “तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः” (सू.अ.१३) इति, तथाऽपीह बलवत्तृष्यानुयुक्तं घृतपानं विशिष्टत्वान्न विरोधि| स्निग्धेऽन्ने भुक्ते या तृष्णा तत्र यद्यपि गुडाम्बु स्निग्धगुणयुक्तत्वान्न हितम्, उक्तं हि- “यदाहारगुणैः पानं विपरीतं तदिष्यते” (सू.अ.२७) इति; तथाऽपि मधुररसतया तृष्णाहरत्वात् प्रभावाद्वोपयुज्यते| तर्षं मूर्च्छेत्यादिना औपसर्गिकतृष्णाचिकित्सोच्यते||४७-५६||
Adhikarana 22 (57-62) · Śloka 62
तृट्दाहमूर्च्छाभ्रमक्लममदात्ययास्रविषपित्ते | शस्तं स्वभावशीतं, शृतशीतं सन्निपातेऽम्भः||५७|| हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे| कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम्||५८|| पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु| प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम्||५९|| पूर्वामयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन्| न लभेत स चेन्मरणमाश्वेवाप्नुयाद्दीर्घरोगं वा||६०|| तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम्| यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम्||६१|| तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम्| तस्मात्तृष्णां पूर्वं जयेद्बहुभ्योऽपि रोगेभ्यः||६२||
🔊 Audio coming soon
शीतमुष्णं च जलं कुत्र देयं वर्ज्यं वा कुत्रेत्याह- तृडित्यादि| विषपित्ते इति विषे पित्ते च| सन्निपाते इति सन्निपातज्वरोद्भूततृष्णायाम्| न हितमिति पाण्ड्वादिरोगे तृष्णायामपि तोयं न हितम्| असह्ये ‘तर्षे’ इति शेषः| एष्वसह्यतृष्णायां जलादाने दोषमाह- पूर्वेत्यादि| पूर्वामयातुर इति पूर्वोत्पन्नगदपीडितः| तज्जन्योपद्रव इति तृष्णाप्रशमनार्थं पीयमानपानीयजः| सुखं जेतुमिति महात्ययकरीं तृष्णामपेक्ष्य जेतुं सुखोपायो भवतीत्यर्थः||५७-६२||
Adhikarana 23 (63) · Śloka 63
तत्र श्लोकः- हेतू यथाऽग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम्| तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम्||६३||
🔊 Audio coming soon
हेतुरित्याद्यध्यायसङ्ग्रहः| अग्निपवनौ इति यथाऽग्निपवनौ कुरुतः सोपद्रवां ‘तृष्णां’ इति शेषः| उपद्रवाश्च मुखशोषादयः पूर्वमुक्ताः ||६३||
Adhikarana puShpikA · Śloka 22
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने तृष्णारोगचिकित्सितं नाम द्वाविंशोऽध्यायः||२२||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सितस्थाने तृष्णाचिकित्सितं नाम द्वाविंशोऽध्यायः||२२||