Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

36. yōnivyāpaccikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो योनिव्यापच्चिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

वातरक्तचिकित्सानन्तरं पारिशेष्याद् वातकृतत्वाच्च योनिव्यापच्चिकित्सितमुच्यते| उक्तं हि- “न हि वातादृते योनिर्नारीणां सम्प्रदुष्यति” इति||१-२||

Adhikarana 2 (3-8) · Śloka 8

दिव्यतीर्थौषधिमतश्चित्रधातुशिलावतः| पुण्ये हिमवतः पार्श्वे सुरसिद्धर्षिसेविते||३|| विहरन्तं तपोयोगात्तत्त्वज्ञानार्थदर्शिनम्| पुनर्वसुं जितात्मानमग्निवेशोऽनु पृष्टवान्||४|| भगवन्! यदपत्यानां मूलं नार्यः परं नृणाम्| तद्विघातो गदैश्चासां क्रियते योनिमाश्रितैः||५|| तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम्| सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया||६|| इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरोऽत्रिजः| विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसङ्ग्रहे||७|| मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च| जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्||८||

🔊 Audio coming soon

दिव्यानि तीर्थानि गङ्गादीनि, दिव्याश्चौषध्यो ब्रह्मसुवर्चलैन्द्रीप्रभृतयो यस्मिन् तस्य दिव्यतीर्थौषधिमतः| चित्रधातुः नानावर्णधातुः| तत्त्वज्ञानेन सम्यग्ज्ञानेन अर्थान् द्रष्टुं शीलं यस्य तं तत्त्वज्ञानार्थदर्शिनम्| मूलमिति कारणम्| तद्विघात इति अपत्यकारणविघातः| तेषामिति योनिगदानाम्| समुत्पत्तिमिति उत्पत्तिकारणं, कार्ये कारणोपचारात्| रोगसङ्ग्रहे इति अष्टोदरीये (सू.अ.१९)| मिथ्याचारेण असम्यगाहाराचारेण, प्रदुष्टेनार्तवेनेति दुष्टार्तवेन , योनिव्यापद्भवति| बीजदोषादिति आर्तवगतबीजदुष्टेः, सा पश्चाद्वक्तव्या| दैवादिति प्राक्तनाधर्मवशात्| एतेषां च यथायोग्यतया कारणत्वमग्रे वक्ष्यमाणकारणत्वभेदेन योनिव्यापत्सून्नेयं, दैवं तु सर्वत्रैव साधारणकारणं विशिष्टदृष्टकारणादर्शने सति कार्यदर्शनादुन्नेयम्||३-८||

Adhikarana 3 (9-15) · Śloka 15

वातलाहारचेष्टाया वातलायाः समीरणः| विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम्||९|| स्तम्भं पिपीलिकासृप्तिमिव कर्कशतां तथा| करोति सुप्तिमायासं वातजांश्चापरान् गदान्||१०|| सा स्यात् सशब्दरुक्फेनतनुरूक्षार्तवाऽनिलात्| व्यापत्कट्वम्ललवणक्षाराद्यैः पित्तजा भवेत्||११|| दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा| भृशोष्णकुणपस्रावा योनिः स्यात्पित्तदूषिता||१२|| कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः| स कुर्यात् पिच्छिलां शीतां कण्डुग्रस्ताल्पवेदनाम्||१३|| पाण्डुवर्णां तथा पाण्डुपिच्छिलार्तववाहिनीम्| समश्नन्त्या रसान् सर्वान्दूषयित्वा त्रयो मलाः||१४|| योनिगर्भाशयस्थाः स्वैर्योनिं युञ्जन्ति लक्षणैः| सा भवेद्दाहशूलार्ता श्वेतपिच्छिलवाहिनी||१५||

🔊 Audio coming soon

वातलेत्यादौ वातलाया इति विशेषेण वातिकयोनिव्यापदुत्पादोपदर्शनार्थम्| पिपीलिकासृप्तिमिति पिपीलिकापरिसर्पणाकारां वेदनाम्| सशब्दरुक्फेनतनुरूक्षार्तवेति अनृतावप्येवम्भूतार्तवा भवति, तेन वातिकप्रदररूपेयं योनिव्यापत्; एवमेव पैत्तिक-श्लैष्मिक-सान्निपातिक-योनिव्यापदामपि पैत्तिक-कफज-सान्निपातिकप्रदरत्वं वर्णयन्ति| रक्तयोनिरिह असृग्दरसञ्ज्ञया चिकित्साप्रस्तावे वक्तव्या; तेन सैव प्रदररूपा| थे तु एतद्व्यापदां प्रदरं भिन्नमेव मन्यन्ते, ते प्रदरचिकित्सार्थं प्रकरणान्तरमत्राध्याये पठिष्यन्ति| समश्नन्त्या इति पथ्यापथ्यमेलकेनोपयुञ्जन्त्याः||९-१५||

Adhikarana 4 (16-17) · Śloka 17

रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम्| अतिप्रवर्तते योन्यां लब्धे गर्भेऽपि सासृजा ||१६|| योनिगर्भाशयस्थं चेत् पित्तं सन्दूषयेदसृक्| साऽरजस्का मता कार्श्यवैवर्ण्यजननी भृशम्||१७||

🔊 Audio coming soon

रक्तपित्तकरैरित्यादौ गर्भे लब्धेऽपि रक्तमतिप्रवर्तते, तेनास्या गर्भो न तिष्ठति; सासृजा रक्तयोनिरित्यर्थः| ये तु ‘साऽप्रजा’ इति पठन्ति, ते “यस्यां लब्धेऽपि गर्भे असृगतिप्रवर्तते, सा तादृशरक्तस्रुत्या अप्रजा भवति; इयं च रक्तयोनिरुच्यत इति रक्तातिस्रुत्यैव लभ्यते” इति व्याख्यानयन्ति| योनौ गर्भाशये च तिष्ठतीति योनिगर्भाशयस्थं पित्तम्| अरजस्केति अनार्तवा||१६-१७||

Adhikarana 5 (18) · Śloka 18

योन्यामधावनात् कण्डूं जाताः कुर्वन्ति जन्तवः| सा स्यादचरणा कण्ड्वा तयाऽतिनरकाङ्क्षिणी||१८||

🔊 Audio coming soon

अचरणेति धावनाचरणादचरणा| कण्ड्वा तयेति कृमिजनितयोनिकण्ड्वा ||१८||

Adhikarana 6 (19) · Śloka 19

पवनोऽतिव्यवायेन शोफसुप्तिरुजः स्त्रियाः| करोति कुपितो योनौ सा चातिचरणा मता||१९||

🔊 Audio coming soon

व्यवायस्यातिचरणेनोत्पन्ना व्यापदतिचरणा||१९||

Adhikarana 7 (20) · Śloka 20

मैथुनादतिबालायाः पृष्ठकट्यूरुवङ्क्षणम्| रुजन् दूषयते योनिं वायुः प्राक्चरणा हि सा||२०||

🔊 Audio coming soon

रुजन्निति दुःखयन्| उचितव्यवायकालात् प्राक् व्यवायाचरणात् प्राक्चरणा उच्यते||२०||

Adhikarana 8 (21-22) · Śloka 22

गर्भिण्याः श्लेष्मलाभ्यासाच्छर्दिनिःश्वासनिग्रहात्| वायुः क्रुद्धः कफं योनिमुपनीय प्रदूषयेत्||२१|| पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम्| कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता||२२||

🔊 Audio coming soon

गर्भिण्या इत्यादौ आस्रावमिति श्लेष्मविलक्षणमास्रावम्| कफवातामयैरुपप्लुतत्वात् ‘उपप्लुता’ इत्युच्यते||२१-२२||

Adhikarana 9 (23-24) · Śloka 24

पित्तलाया नृसंवासे क्षवथूद्गारधारणात्| पित्तसम्मूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः||२३|| शूना स्पर्शाक्षमा सार्तिर्नीलपीतमसृक् स्रवेत्| श्रोणिवङ्क्षणपृष्ठार्तिज्वरार्तायाः परिप्लुता||२४||

🔊 Audio coming soon

नृसंवासे इति रमणसमये| सर्वतो वातपित्तविकारोपप्लुतत्वात् परिप्लुता||२३-२४||

Adhikarana 10 (25-26) · Śloka 26

वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिलः| सा रुगार्ता रजः कृच्छ्रेणोदावृत्तं विमुञ्चति||२५|| आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम्| रजसो गमनादूर्ध्वं ज्ञेयोदावर्तिनी बुधैः||२६||

🔊 Audio coming soon

योनिमुदावर्तयते इति योनिमुदावर्तवातां करोति| उदावृत्तमिति ऊर्ध्वं नीतम्| विकारेण रजस ऊर्ध्वगमनात् ‘उदावर्तिनी’ इत्युच्यते||२५-२६||

Adhikarana 11 (27) · Śloka 28

अकाले वाहमानाया गर्भेण पिहितोऽनिलः| कर्णिकां जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छितः||२७|| रक्तमार्गावरोधिन्या सा तया कर्णिनी मता|२८|

🔊 Audio coming soon

अकाले वाहमानाया इत्यादि अप्राप्ते गर्भनिष्क्रमणकाले प्रवाहणं कुर्वन्त्याः| कर्णिकामिति कर्णिकाकारं ग्रन्थिम्||२७||-

Adhikarana 12 (28) · Śloka 29

रौक्ष्याद्वायुर्यदा गर्भं जातं जातं विनाशयेत्||२८|| दुष्टशोणितजं नार्याः पुत्रघ्नी नाम सा मता|२९|

🔊 Audio coming soon

रौक्ष्यादिति रूक्षगुणोत्कर्षात्| दुष्टशोणितजमिति वचनादिह वायुनाऽऽर्तवदुष्टिरपि क्रियते इति दर्शयति| अत्र च यद्यपि सामान्येनैव गर्भविनाश उक्तः, तथाऽपि पुत्रस्यैव प्राधान्यात् ‘पुत्रघ्नी’ इति व्यपदेशो ज्ञेयः||२८||-

Adhikarana 13 (29-30) · Śloka 31

व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीडितः||२९|| वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः| वक्रयत्याननं योन्याः साऽस्थिमांसानिलार्तिभिः||३०|| भृशार्तिर्मैथुनाशक्ता योनिरन्तर्मुखी मता|३१|

🔊 Audio coming soon

व्यवायमतितृप्ताया इत्यादौ अतितृप्ताया व्यवायं भजन्त्याः व्यवायकाले मिथ्यास्थिताङ्गाया अन्नपीडितो वायुर्योनेराननमन्तर्मुखं वक्रयति; वक्रयतीतिपदेन वक्रतयाऽन्तर्मुखनयनमभिप्रेतम्||२९-३०||-

Adhikarana 14 (31) · Śloka 32

गर्भस्थायाः स्त्रिया रौक्ष्याद्वायुर्योनिं प्रदूषयन्||३१|| मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा|३२|

🔊 Audio coming soon

गर्भस्थाया इत्यादौ रौक्ष्यादिति रूक्षगुणात्| मातृदोषादिति मातुर्गर्भकाले वातप्रकोपहेतुसेवारूपापचारात्||३१||-

Adhikarana 15 (32) · Śloka 33

व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः||३२|| कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च|३३|

🔊 Audio coming soon

शोषं योनिमुखस्येत्यनेन योनिमुखशोषाच्छुष्कयोनिसञ्ज्ञा व्याकृता भवति||३२||-

Adhikarana 16 (33) · Śloka 34

षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम्||३३|| सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी|३४|

🔊 Audio coming soon

षडहादित्यादिना शुक्रवमनाद् ‘वामिनी’ इत्युच्यते||३३||-

Adhikarana 17 (34) · Śloka 35

बीजदोषात्तु गर्भस्थमारुतोपहताशया||३४|| नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा|३५|

🔊 Audio coming soon

बीजदोषादिति सामान्यवचनेनापि आर्तवरूपबीजदोष एव ज्ञेयः, तद्दोषस्यैव गर्भाशयोपघातकरत्वात्| उक्तं हि- “यदा ह्यस्याः शोणिते गर्भाशयबीजभागः प्रदोषमापद्यते तदा वन्ध्यां जनयति” (शा.अ.४) इति| मारुतोपहताशयेति मारुतोपहतगर्भाशया| अस्तनी ईषत्स्तनी||३४||-

Adhikarana 18 (35-36) · Śloka 37

विषमं दुःखशय्यायां मैथुनात् कुपितोऽनिलः||३५|| गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः| असंवृतमुखी सार्ती रूक्षफेनास्रवाहिनी||३६|| मांसोत्सन्ना महायोनिः पर्ववङ्क्षणशूलिनी|३७|

🔊 Audio coming soon

विषममिति क्रियाविशेषणं, विषमं यथा भवति तथा मैथुनादित्यर्थः| विष्टम्भयेदिति विस्तारयेत्| मांसोत्सन्नेति उत्सन्नमांसा||३५-३६||-

Adhikarana 19 (37-38) · Śloka 39

इत्येतैर्लक्षणैः प्रोक्ता विंशतिर्योनिजा गदाः||३७|| न शुक्रं धारयत्येभिर्दोषैर्योनिरुपद्रुता| तस्माद्गर्भं न गृह्णाति स्त्री गच्छत्यामयान् बहून्||३८|| गुल्मार्शःप्रदरादींश्च वाताद्यैश्चातिपीडनम्|३९|

🔊 Audio coming soon

दोषैर्योनिरुपद्रुतेत्यनेन दोषशब्देन योनिदूषका यथोक्ता गदा उच्यन्ते; उक्तं हि- “रोगा ह्यपि दोषशब्दं लभन्ते” (वि.अ.६) इति| तस्मादिति योन्युपद्रवात्| प्रदरादींश्चेत्यत्र योनिव्यापद्विशेषमेव प्रदरमाहुः, तेन योनिव्यापत्प्रकारं प्रदररूपं दोषोत्पादं वर्णयन्ति; ये तु योनिव्यापद्भिन्नमेव प्रदरमिच्छन्ति, तेषामत्र प्रदरपाठे विरोधो नास्त्येव||३७-३८||-

Adhikarana 20 (39-40) · Śloka 41

आसां षोडश यास्त्वन्त्या आद्ये द्वे पित्तदोषजे||३९|| परिप्लुता वामिनी च वातपित्तात्मिके मते| कर्णिन्युपप्लुते वातकफाच्छेषास्तु वातजाः||४०|| देहं वातादयस्तासां स्वैर्लिङ्गैः पीडयन्ति हि|४१|

🔊 Audio coming soon

सम्प्रति आद्यव्यापच्चतुष्टयं त्यक्त्वा शेषषोडशव्यापत्सु वातादिलिङ्गचिकित्साज्ञानार्थं दोषविभागं दर्शयन्नाह- आसामित्यादि| आद्ये द्वे इति रक्तयोन्यरजस्के| देहं वातादय इत्यादि| तासां वातादिविभागेनोक्तयोनिव्यापदां वातादयो देहं स्वैर्लिङ्गैः पीडयन्ति, तेन वाताद्यधिकत्वं तासामुपपन्नमिति भावः; अन्ये तु देहशब्देनात्र योनिस्थानमेवोच्यत इत्याहुः||३९-४०||-

Adhikarana 21 (41-48) · Śloka 49

स्नेहनस्वेदबस्त्यादि वातजास्वनिलापहम्||४१|| कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च| श्लेष्मजासु च रूक्षोष्णं कर्म कुर्याद्विचक्षणः||४२|| सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्| स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्पुनः||४३|| पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुनः| प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत्||४४|| योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः| सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभिः||४५|| मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्| सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते||४६|| वातव्याधिहरं कर्म वातार्तानां सदा हितम्| औदकानूपजैर्मांसैः क्षीरैः सतिलतण्डुलैः||४७|| सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत्| अक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः||४८|| स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसैः|४९|

🔊 Audio coming soon

लिङ्गानन्तरं चिकित्सामाह- स्नेहनेत्यादि| स्नेहनादीनामनिलापहत्वे सिद्धेऽपि अनिलापहमिति विशेषणं विशेषेणानिलापहद्रव्यकृतस्नेहनादिप्रतिपादनार्थम्| संसृष्टास्विति द्वन्द्वजासु| स्थापयेदिति सुस्थितां कृत्वा स्थापयेत्| दुःस्थितास्थापनप्रकारमाह- पाणिनेत्यादि| स्निग्धस्विन्नामिति सर्वत्रानुवर्तते| जिह्मामिति वक्राम्| विवृतामिति विवृतमुखीम्| परिवर्तयेदिति परितो वर्तनेन संवृतां कुर्यात्| पञ्चभिरितिपदं सकलकर्मणां मृदुतया कर्तव्योपदर्शनार्थम्| अत्र च वमनादीनां सर्वदेहोपकारकतया योनिगतरोगहरणेऽपि सामर्थ्यं भवत्येवेति ज्ञेयम्| शेषं कर्मेति वक्ष्यमाणम्||४१-४८||-

Adhikarana 22 (49-62) · Śloka 62

बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत्||४९|| स्थिरापयस्याजीवन्तीवीरर्षभकजीवकैः| श्रावणीपिप्पलीमुद्गपीलुमाषाख्यपर्णिभिः||५०|| शर्कराक्षीरकाकोलीकाकनासाभिरेव च| पिष्टैश्चतुर्गुणक्षीरे सिद्धं पेयं यथाबलम्||५१|| वातपित्तकृतान् रोगान् हत्वा गर्भं दधाति तत्| काश्मर्यत्रिफलाद्राक्षाकासमर्दपरूषकैः||५२|| पुनर्नवाद्विरजनीकाकनासासहचरैः| शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात्||५३|| साधितं योनिवातघ्नं गर्भदं परमं पिबेत्| पिप्पलीकुञ्चिकाजाजीवृषकं सैन्धवं वचाम्||५४|| यवक्षाराजमोदे च शर्करां चित्रकं तथा| पिष्ट्वा सर्पिषि भृष्टानि पाययेत् प्रसन्नया||५५|| योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये| वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्||५६|| पिबेत् सलवणैर्मद्यैः पिप्पलीकुञ्चिके तथा| रास्नाश्वदंष्ट्रावृषकैः पिबेच्छूले शृतं पयः||५७|| गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचयेत्| सैन्धवं तगरं कुष्ठं बृहती देवदारु च||५८|| समांशैः साधितं कल्कैस्तैलं धार्यं रुजापहम्| गुडूचीमालतीरास्नाबलामधुकचित्रकैः||५९|| निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकैः| तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत्||६०|| वातार्तायाः पिचुं दद्याद्योनौ च प्रणयेत्ततः| वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः||६१|| (उष्णाः स्निग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च )| हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत्| पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा||६२||

🔊 Audio coming soon

बलाद्रोणद्वयेत्यादौ बलाद्रोणद्वयस्य क्वाथे इति, बलायाः द्रोणद्वयप्रमाणक्वाथे इति वा, उभयथाऽपि द्रोणद्वयमान एव क्वाथो भवति| पयस्या अर्कपुष्पी| मुद्गपीलुमाषाख्यैः पर्णीशब्दः प्रत्येकमभिसम्बध्यते; तत्र पीलुपर्णी मोरटा, केचिन्मूर्वामाहुः| प्रसन्ना मदिराया उपरितनो भागः| शूले इति योनिशूले| तैलं धार्यमिति रुजार्तायां योनौ धार्यम्| योनौ च प्रणयेदिति योनावुत्तरबस्तिना प्रवेशयेत्| श्यामादीनामिति रोगभिषग्जितीये “श्यामात्रिवृच्चतुरङ्गुल...” (वि.अ.८) इत्यादिनोक्तानाम्||४९-६२||

Adhikarana 23 (63-69) · Śloka 70

पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः| शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च||६३|| (पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा )| शतावरीमूलतुलाश्चतस्रः सम्प्रपीडयेत्||६४|| रसेन क्षीरतुल्येन पचेत्तेन घृताढकम्| जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः||६५|| पिष्टैः प्रियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक्| सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम्||६६|| सितादशपलोन्मिश्राल्लिह्यात् पाणितलं ततः| योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत्||६७|| क्षतं क्षयं रक्तपित्तं कासं श्वासं हलीमकम्| कामलां वातरक्तं च वीसर्पं हृच्छिरोग्रहम्||६८|| उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत्| इति बृहच्छतावरीघृतम्| एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम्||६९|| गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम्|७०|

🔊 Audio coming soon

हतावरीमूलतुला इत्यादौ आर्द्रशतावरीमूलपीडनेन यावद्रसो भवति तेन समं क्षीरघृतं वक्ष्यमाणकल्कैः पाचनीयम्| द्वियष्टिमधुकैरिति द्विभागमधुयष्टिकैः, किंवा जलजस्थलजयष्टिमधुकद्वययुक्तैः| एवमेवेत्यादौ शतावरीचतुःशतरससमेनेत्यर्थः| क्षीरोत्थितं सर्पिः क्षीरसर्पिः| जीवनीयान्यत्र कल्कः||६३-६९||-

Adhikarana 24 (70-72) · Śloka 73

योन्यां श्लेष्मप्रदुष्टायां वर्तिः संशोधनी हिता||७०|| वाराहे बहुशः पित्ते भावितैर्लक्तकैः कृता| भावितं पयसाऽर्कस्य यवचूर्णं ससैन्धवम्||७१|| वर्तिः कृता मुहुर्धार्या ततः सेच्या सुखाम्बुना| पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः||७२|| वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी|७३|

🔊 Audio coming soon

पयसाऽर्कस्येति अर्कक्षीरेण| सेच्येति परिषिञ्चनीया| प्रदेशिनीतुल्या प्रदेशिन्यङ्गुलीसमाना परिणाहेन दैर्घ्येण च||७०-७२||-

Adhikarana 25 (73-83) · Śloka 84

उदुम्बरशलाटूनां द्रोणमब्द्रोणसंयुतम्||७३|| सपञ्चवल्ककुलकमालतीनिम्बपल्लवम् | निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत्||७४|| लाक्षाधवपलाशत्वङ्निर्यासैः शाल्मलेन च| पिष्टैः सिद्धस्य तैलस्य पिचुं योनौ निधापयेत्||७५|| सशर्करैः कषायैश्च शीतैः कुर्वीत सेचनम्| पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा||७६|| सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विन्दति| उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्||७७|| तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत्| धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः||७८|| जम्ब्वाम्रमध्यकासीसलोध्रकट्फलतिन्दुकैः| सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः||७९|| अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्| तैलप्रस्थं पिचुं दद्याद्योनौ च प्रणयेत्ततः||८०|| कटीपृष्ठत्रिकाभ्यङ्गं स्नेहबस्तिं च दापयेत्| पिच्छिला स्राविणी योनिर्विप्लुतोपप्लुता तथा||८१|| उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी| करीरधवनिम्बार्कवेणुकोशाम्रजाम्बवैः||८२|| जिङ्गिनीवृषमूलानां क्वाथैर्मार्द्वीकसीधुभिः| सशुक्तैर्धावनं मिश्रैर्योन्यास्रावविनाशनम्||८३|| कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः|८४|

🔊 Audio coming soon

उदुम्बरशलाटूनामित्यादौ पञ्चवल्कादिसहितानामुदुम्बरशलाटूनां द्रोणं समभागजलं गृहीतव्यम्| निर्यासैरिति पलाशस्यैव निर्यासैः, लाक्षा च पलाशव्यतिरेकेण भवतीति ज्ञेयम्| सशर्करैः कषायैरिति उदुम्बरशलाट्वादिकृतकषायैरेवेत्यर्थः| कालदुष्टा चिरकालदुष्टा| उदुम्बरस्य दुग्धेनेति उदुम्बरक्षीरेण| क्वाथेन तस्यैवेति उदुम्बरस्य क्वाथेन| सौराष्ट्रिका तुवरी मृत्तिका| अजामूत्रे क्षीरे चेति अजामूत्रक्षीरे प्रत्येकं द्विगुणे| उत्तानेति उन्नता| करीरः मरुजद्रुमः| कोषाम्रः स्वनामख्यातः| जिङ्गिनी प्रसिद्धा||७३-८३||-

Adhikarana 26 (84-85) · Śloka 86

पिप्पल्ययोरजःपथ्याप्रयोगा मधुना हिताः||८४|| श्लेष्मलायां कटुप्रायाः समूत्रा बस्तयो हिताः| पित्ते समधुरक्षीरा वाते तैलाम्लसंयुताः||८५|| सन्निपातसमुत्थायाः कर्म साधारणं हितम्|८६|

🔊 Audio coming soon

कर्मसाधारणं वातादिजयोनिदोषोक्तं मिलितं त्रिदोषजायां कर्तव्यम्||८४-८५||-

Adhikarana 27 (86-89) · Śloka 90

रक्तयोन्यामसृग्वर्णैरनुबन्धं समीक्ष्य च||८६|| ततः कुर्याद्यथादोषं रक्तस्थापनमौषधम्| तिलचूर्णं दधि घृतं फाणितं शौकरी वसा||८७|| क्षौद्रेण संयुतं पेयं वातासृग्दरनाशनम्| वराहस्य रसो मेद्यः सकौलत्थोऽनिलाधिके||८८|| शर्कराक्षौद्रयष्ट्याह्वनागरैर्वा युतं दधि| पयस्योत्पलशालूकबिसकालीयकाम्बुदम्||८९|| सपयःशर्कराक्षौद्रं पैत्तिकेऽसृग्दरे पिबेत्|९०|

🔊 Audio coming soon

रक्तयोन्यामित्यादि| असृग्वर्णैरनुबन्धं वीक्ष्येति असृग्वर्णविशेषैर्दोषानुबन्धं परीक्ष्य||८६-८९||-

Adhikarana 28 (90-95) · Śloka 96

पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भेदं रसाञ्जनम्||९०|| अम्बष्ठा शाल्मलीश्लेषं समङ्गां वत्सकत्वचम्| बाह्लीकातिविषे बिल्वं मुस्तं लोध्रं सगैरिकम्||९१|| कट्वङ्गं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम्| कट्फलं वत्सकानन्ताधातकीमधुकार्जुनम्||९२|| पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत्| तानि क्षौद्रेण संयोज्य पिबेत्तण्डुलवारिणा||९३|| अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते| दोषागन्तुकृता ये च बालानां तांश्च नाशयेत्||९४|| योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम्| स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत्||९५|| चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्|९६| इति पुष्यानुगचूर्णम्|

🔊 Audio coming soon

पाठेत्यादौ अम्बष्ठा पाठाभेदः; अन्ये तु पाठाभागद्वयग्रहणार्थं पुनः ‘अम्बष्ठा’ इति पदं वर्णयन्ति| उक्तं हि- “घृते तैले च योगे च यद्द्रव्यं पुनरुच्यते| भागतो द्विगुणं तद्धि ग्रहणीयं मनीषिभिः” इति| शाल्मलीश्लेषमिति शाल्मलीवेष्टकम्| बाह्लीकमिति कुङ्कुमम्| पुष्येणेति पुष्यनक्षत्रेणोद्धृत्य; पुष्यनक्षत्रोद्धरणं चात्रादृष्टद्वारोपकारकं ज्ञेयम्| नीलं श्वेतं सपीतकमित्यादि रजोदोषविशेषणम्||९०-९५||-

Adhikarana 29 (96-99) · Śloka 100

तण्डुलीयकमूलं तु सक्षौद्रं तण्डुलाम्बुना||९६|| रसाञ्जनं च लाक्षां च छागेन पयसा पिबेत्| पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयोः||९७|| पित्तानिलहरौ, पैत्ते सर्वथैवास्रपित्तजित्| मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु||९८|| मद्यैर्निम्बगुडूच्यौ वा कफजेऽसृग्दरे पिबेत्| विरेचनं महातिक्तं पैत्तिकेऽसृग्दरे पिबेत्||९९|| हितं गर्भपरिस्रावे यच्चोक्तं तच्च कारयेत्|१००|

🔊 Audio coming soon

विरेचनमित्यादौ विरेचनमेव त्रिवृतादि पिबेत्, तथा महातिक्तकं घृतं कुष्ठोक्तं पिबेदिति योज्यम्| गर्भपरिस्रावे यच्चोक्तमिति जातिसूत्रीये (वि.अ.८) गर्भस्रावचिकित्सितं यदुक्तं तत् कारयेत्||९६-९९||-

Adhikarana 30 (100-115) · Śloka 116

काश्मर्यकुटजक्वाथसिद्धमुत्तरबस्तिना||१००|| रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम्| मृगाजाविवराहासृग्दध्यम्लफलसर्पिषा ||१०१|| अरजस्का पिबेत् सिद्धं जीवनीयैः पयोऽपि वा| कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च||१०२|| कफवाते च दातव्यं तैलमुत्तरबस्तिना| गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम्||१०३|| मधुना किण्वचूर्णं वा दद्यादचरणापहम्| स्रोतसां शोधनं कण्डूक्लेदशोफहरं च तत्||१०४|| वातघ्नैः शतपाकैश्च तैलैः प्रागतिचारिणी| आस्थाप्या चानुवास्या च स्वेद्या चानिलसूदनैः||१०५|| स्नेहद्रव्यैस्तथाऽऽहारैरुपनाहैश्च युक्तितः| शताह्वायवगोधूमकिण्वकुष्ठप्रियङ्गुभिः||१०६|| बलाखुपर्णिकाश्र्याह्वैः संयावो धारणः स्मृतः| वामिन्युपप्लुतानां च स्नेहस्वेदादिकः क्रमः||१०७|| कार्यस्ततः स्नेहपिचुस्ततः सन्तर्पणं भवेत्| शल्लकीजिङ्गिनीजम्बूधवत्वक्पञ्चवल्कलैः||१०८|| कषायैः साधितः स्नेहपिचुः स्याद्विप्लुतापहः| कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः||१०९|| बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम्| त्रैवृतं स्नेहनं स्वेदो ग्राम्यानूपौदका रसाः||११०|| दशमूलपयोबस्तिश्चोदावर्तानिलार्तिषु| त्रैवृतेनानुवास्या च बस्तिश्चोत्तरसञ्ज्ञितः||१११|| एतदेव महायोन्यां स्रस्तायां च विधीयते| वसा ऋक्षवराहाणां घृतं च मधुरैः शृतम्||११२|| पूरयित्वा महायोनिं बध्नीयात् क्षौमलक्तकैः| प्रस्रस्तां सर्पिषाऽभ्यज्य क्षीरस्विन्नां प्रवेश्य च||११३|| बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः| यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्||११४|| सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः| नहि वातादृते योनिर्नारीणां सम्प्रदुष्यति||११५|| शमयित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्|११६|

🔊 Audio coming soon

मृगाजावीत्यादौ मृगादीनामसृक् दध्यम्लफलसर्पिषा पिबेदिति योज्यम्| ‘अम्लक्षौद्रसर्पिषा’ इति वा पाठः| तैलमुत्तरबस्तिनेत्यत्र जीवनीयसिद्धं तैलं योज्यम्| गोपित्ते इत्यादौ दद्यादिति योनौ दद्यादित्यर्थः| प्रागतिचारिणीति प्राक्चरणातिचरणे| संयाव उत्कारिका| धारणः स्मृत इति वामिन्या बीजधारणकारक इत्यर्थः| त्रैवृतं स्नेहनमिति सर्पिस्तैलवसास्नेहनम्| एतदेवेति त्रैवृतमेव अनुवासनबस्त्युत्तरबस्तिषु| आमूत्रकालत इति मूत्रकालपर्यन्तं बन्धनं कुर्यात्| सर्वयोनिव्यापत्सु वातचिकित्साकरणे हेतुमाह- नहि वातादृत इत्यादि||१००-११५||-

Adhikarana 31 (116-125) · Śloka 126

रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत्||११६|| जलेनामलकीबीजं कल्कं वा ससितामधुम्| मधुनाऽऽमलकाच्चूर्णं रसं वा लेहयेच्च ताम्||११७|| न्यग्रोधत्वक्कषायेण लोध्रकल्कं तथा पिबेत्| आस्रावे क्षौमपट्टं वा भावितं तेन धारयेत्||११८|| प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्| योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा||११९|| धार्या मधुयुता वर्तिः कषायाणां च सर्वशः| स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतैः||१२०|| सरलागुग्गुलुयवैः सतैलकटुमत्स्यकैः| कासीसं त्रिफला काङ्क्षी समङ्गाऽऽम्रास्थि धातकी||१२१|| पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः| पलाशसर्जजम्बूत्वक्समङ्गामोचधातकीः||१२२|| सपिच्छिलापरिक्लिन्नास्तम्भनः कल्क इष्यते| स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम्||१२३|| धारयेद्वेशवारं वा पायसं कृशरां तथा| दुर्गन्धानां कषायः स्यात्तौवरः कल्क एव वा||१२४|| चूर्णं वा सर्वगन्धानां पूतिगन्धापकर्षणम्| एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः||१२५|| अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति|१२६|

🔊 Audio coming soon

पाण्डुरे प्रदरे इति श्वेतप्रदरे| भावितं तेनेति न्यग्रोधत्वक्कषायेण भावितम्| कटुमत्स्यकः शफरी, शुष्कमत्स्यो वा| काङ्क्षी सौराष्ट्री मृत्| अदुष्टे इत्यादौ प्राकृते बीजे इति सहजगुणसम्पन्ने शुक्रशोणितबीजे अदुष्टे सति; एवम्भूतसंसर्गे जीवोपक्रमणे सत्येव गर्भं योषितः विन्दन्ति; जीवोपक्रमणं पूर्वकर्मप्रेरितात् सुयोगाद्भवति||११६-१२५||-

Adhikarana 32 (126) · Śloka 127

पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्||१२६|| परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्|१२७|

🔊 Audio coming soon

यस्मात् पुरुषस्य शुक्रमप्यत्र कारणं गर्भे, गर्भश्चापेक्षितः, तस्माच्छुक्रस्यापि परीक्षापूर्विकां चिकित्सामाह- पञ्चकर्मेत्यादि| इन्द्रियमिति शुक्रम्| परीक्षणाद्दोषाणां वातादीनां वर्णैर्यदि दुष्टं भवति तदा वातादिवर्णयोगाद्वातादिहरैर्भेषजैरुपाचरेदित्यर्थः||१२६||-

Adhikarana 33 (127-132) · Śloka 132

भवन्ति चात्र- सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः||१२७|| उक्ता विस्तरतः सम्यङ्मुनिना तत्त्वदर्शिना| पुनरेवाग्निवेशस्तु पप्रच्छ भिषजां वरम्||१२८|| आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वयाऽनघ!| रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेषतः||१२९|| तेषां हेतुं भिषक्श्रेष्ठ! दुष्टादुष्टस्य चाकृतिम्| चिकित्सितं च कार्त्स्न्येन क्लैब्यं यच्च चतुर्विधम्||१३०|| उपद्रवेषु योनीनां प्रदरो यश्च कीर्तितः| तेषां निदानं लिङ्गं च चिकित्सां चैव तत्त्वतः||१३१|| समासव्यासभेदेन प्रब्रूहि भिषजांवर!| तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः||१३२||

🔊 Audio coming soon

अत्रान्तरे ‘पुनरेव’ इत्यादिग्रन्थं शुक्रदोषादिलक्षणचिकित्साभिधायकं केचित् पठन्ति; तच्चान्ये अनार्षं वदन्ति, उपपत्तिं च वर्णयन्ति यत्- शुक्रदोषा वाजीकरणेनैव चिकित्सिताः, क्लैब्यं च शारीरे एव प्रतिपादितम्, अतः पुनर्नाभिधानमर्हति, प्रदरश्चैवेह योनिव्यापत्तौ चिकित्सित इति; ये तु पठन्ति ते पूर्वोक्तसङ्क्षेपस्य विस्तराभिधानमेतदिति वर्णयन्ति| एवमस्यार्षत्वविवादेऽपि काश्मीरादिदेशानुमतत्वात् किञ्चिद् व्याकरणं कुर्म एव||१२७-१३२||

Adhikarana 34 (133-138) · Śloka 139

बीजं यस्माद्व्यवाये तु हर्षयोनिसमुत्थितम्| शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु||१३३|| यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम्| न विरोहति सन्दुष्टं तथा शुक्रं शरीरिणाम्||१३४|| अतिव्यवायाद्व्यायामादसात्म्यानां च सेवनात्| अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छतः||१३५|| रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात्| नारीणामरसज्ञानां गमनाज्जरया तथा||१३६|| चिन्ताशोकादविस्रम्भाच्छस्त्रक्षाराग्निविभ्रमात्| भयात्क्रोधादभीचाराद्व्याधिभिः कर्शितस्य च||१३७|| वेगाघातात् क्षताच्चापि धातूनां सम्प्रदूषणात्| दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः||१३८|| शुक्रं सन्दूषयन्त्याशु ...|१३९|

🔊 Audio coming soon

शुक्रगुणोपवर्णने हेतुमाह- बीजं यस्मादित्यादि| यस्माद्बीजभूतं गर्भस्य शुक्रं तस्माद्वक्ष्यामि| व्यवायेषु हर्ष एव योनिः कारणं तस्मादुत्थितम्| पौरुषमिति पुरुषचिह्नं, शुक्रेणैव हि पुरुषो व्यज्यते| मैथुनं न च गच्छत इति उचितमैथुनकाले मैथुनागमनं शुक्रवेगप्रतीघातादेव दर्शयति| अविस्रम्भादिति अविश्वासात्||१३३-१३८||-

Adhikarana 35 (139-145) · Śloka 146

... तद्वक्ष्यामि विभागशः| फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम्||१३९|| अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम्| फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात्||१४०|| भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते| सनीलमथवा पीतमत्युष्णं पूतिगन्धि च||१४१|| दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम्| श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम्||१४२|| स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि| शुक्रं प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम्||१४३|| वेगसन्धारणाच्छुक्रं वायुना विहतं पथि| कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम्||१४४|| इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः| स्निग्धं घनं पिच्छिलं च मधुरं चाविदाहि च||१४५|| रेतः शुद्धं विजानीयाच्छ्वेतं स्फटिकसन्निभम्|१४६|

🔊 Audio coming soon

वक्ष्यामीति दुष्टं शुक्रं वक्ष्यामि रुधिरान्वयमिति रुधिरयुक्तम्| शुक्राभिधानप्रसङ्गाद्विशुद्धशुक्रलक्षणमाह- स्निग्धमित्यादि||१३९-१४५||-

Adhikarana 36 (146-152) · Śloka 153

वाजीकरणयोगैस्तैरुपयोगसुखैर्हितैः||१४६|| रक्तपित्तहरैर्योगैर्योनिव्यापदिकैस्तथा| दुष्टं यदा भवेच्छुक्रं तदा तत् समुपाचरेत्||१४७|| घृतं च जीवनीयं यच्च्यवनप्राश एव च| गिरिजस्य प्रयोगश्च रेतोदोषानपोहति||१४८|| वातान्विते हिताः शुक्रे निरूहाः सानुवासनाः| अभयामलकीयं च पैत्ते शस्तं रसायनम् ||१४९|| मागध्यमृतलोहानां त्रिफलाया रसायनम्| कफोत्थितं शुक्रदोषं हन्याद्भल्लातकस्य च||१५०|| यदन्यधातुसंसृष्टं शुक्रं तद्वीक्ष्य युक्तितः| यथादोषं प्रयुञ्जीत दोषधातुभिषग्जितम्||१५१|| सर्पिः पयो रसाः शालिर्यवगोधूमषष्टिकाः| प्रशस्ताः शुक्रदोषेषु बस्तिकर्म विशेषतः||१५२|| इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम्|१५३|

🔊 Audio coming soon

मागध्यमृतेत्यादौ अमृता आमलकी| भल्लातकस्येत्यत्र रसायनमिति अनुवर्तते||१४६-१५२||-

Adhikarana 37 (153) · Śloka 154

रेतोदोषोद्भवं क्लैब्यं यस्माच्छुद्ध्यैव सिध्यति||१५३|| ततो वक्ष्यामि ते सम्यगग्निवेश! यथातथम्|१५४|

🔊 Audio coming soon

शुद्ध्यैवेति रेतःशुद्ध्यैव; सिद्ध्यति प्रशाम्यति||१५३||-

Adhikarana 38 (154-157) · Śloka 157

बीजध्वजोपघाताभ्यां जरया शुक्रसङ्क्षयात्||१५४|| क्लैब्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम्| सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम्||१५५|| न याति लिङ्गशैथिल्यात् कदाचिद्याति वा यदि| श्वासार्तः स्विन्नगात्रश्च मोघसङ्कल्पचेष्टितः||१५६|| म्लानशिश्नश्च निर्बीजः स्यादेतत् क्लैब्यलक्षणम्| सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते||१५७||

🔊 Audio coming soon

सङ्कल्पेत्यादौ लिङ्गशैथिल्यादिति लिङ्गानुत्थानात्| मोघे निष्फले सङ्कल्पचेष्टिते यस्य सः||१५४-१५७||

Adhikarana 39 (158-161) · Śloka 163

शीतरूक्षाल्पसङ्क्लिष्टविरुद्धाजीर्णभोजनात् | शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात्||१५८|| अभिचारादविस्रम्भाद्रसादीनां च सङ्क्षयात्| वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात्||१५९|| नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः| बीजोपघाताद्भवति पाण्डुवर्णः सुदुर्बलः||१६०|| अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः| हृत्पाण्डुरोगतमककामलाश्रमपीडितः||१६१|| छर्द्यतीसारशूलार्तः कासज्वरनिपीडितः| बीजोपघातजं क्लैब्यं ...|१६३|

🔊 Audio coming soon

वायोः क्षयाद् बीजक्षयानुपपत्तेः वातादीनां च सङ्क्षयादित्यत्र प्राकृतवातादिक्षये शरीरवैगुण्यादेव शुक्रानुत्पादो ज्ञेयः||१५८-१६१||-

Adhikarana 40 (162-175) · Śloka 176

... ध्वजभङ्गकृतं शृणु||१६२|| अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात्| अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात्||१६३|| दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात्| कन्यानां चैव गमनादयोनिगमनादपि||१६४|| दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम्| दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् ||१६५|| ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षितः| चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः||१६६|| अधावनाद्वा मेढ्रस्य शस्त्रदन्तनखक्षतात्| काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात्||१६७|| रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते| (भवन्ति यानि रूपाणि तस्य वक्ष्याम्यतः परम्)| श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते||१६८|| स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि| मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि||१६९|| पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः| वलयीकुरुते चापि कठिनश्च परिग्रहः||१७०|| ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते| रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम्||१७१|| अग्निनेव च दग्धस्य तीव्रो दाहः सवेदनः| बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च||१७२|| कदाचित्पिच्छिलो वाऽपि पाण्डुः स्रावश्च जायते| श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः||१७३|| चिराच्च पाकं व्रजति शीघ्रं वाऽथ प्रमुच्यते| जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च||१७४|| विशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च| ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम्||१७५|| एतं पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते|१७६|

🔊 Audio coming soon

शूकानां चातिसेवनादिति लिङ्गातिवृद्ध्यर्थं कृतशूकातियोगात्| एतं पञ्चविधं केचिद् ध्वजभङ्गं वदन्ति; तथोक्तेन वातपित्तकफरक्तसन्निपातभेदेन पञ्चविधत्वमित्यर्थः| तत्र श्वयथुर्वेदना मेढ्रे इत्यादि वातेन, स्फोटाश्चेत्यादि पित्तेन, मांसवृद्धिरित्यादि कफेन, ज्वरस्तृष्णेत्यादि रक्तेन, अग्निनेवेत्यादि सन्निपातेन||१६२-१७५||-

Adhikarana 41 (176-180) · Śloka 181

क्लैब्यं जरासम्भवं हि प्रवक्ष्याम्यथ तच्छृणु||१७६|| जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते| अतिप्रवयसां शुक्रं प्रायशः क्षीयते नृणाम्||१७७|| रसादीनां सङ्क्षयाच्च तथैवावृष्यसेवनात्| बलवीर्येन्द्रियाणां च क्रमेणैव परिक्षयात्||१७८|| परिक्षयादायुषश्चाप्यनाहाराच्छ्रमात् क्लमात्| जरासम्भवजं क्लैब्यमित्येतैर्हेतुभिर्नृणाम्||१७९|| जायते तेन सोऽत्यर्थं क्षीणधातुः सुदुर्बलः| विवर्णो दुर्बलो दीनः क्षिप्रं व्याधिमथाश्नुते||१८०|| एतज्जरासम्भवं हि ...|१८१|

🔊 Audio coming soon

जघन्येत्यादौ प्रवरं वय इति वार्धक्यम्| प्रायशः क्षीयत इति वचनात् कदाचित् प्रवयसामपि शुक्रसाराणां वृष्यसेविनां च न क्षीयते शुक्रमिति दर्शयति| प्रवयसां शुक्रक्षये हेतुमाह- रसादीनामित्यादि| एते च रसक्षयादयो हेतवो वार्धक्यस्वभावादेव भवन्ति||१७६-१८०||-

Adhikarana 42 (181-190) · Śloka 191

... चतुर्थं क्षयजं शृणु| अतीव चिन्तनाच्चैव शोकात्क्रोधाद्भयात्तथा||१८१|| ईर्ष्योत्कण्ठामदोद्वेगान् सदा विशति यो नरः| कृशो वा सेवते रूक्षमन्नपानं तथौषधम्||१८२|| दुर्बलप्रकृतिश्चैव निराहारो भवेद्यदि| असात्म्यभोजनाच्चापि हृदये यो व्यवस्थितः||१८३|| रसः प्रधानधातुर्हि क्षीयेताशु ततो नृणाम्| रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिनः||१८४|| शुक्रावसानास्तेभ्योऽपि शुक्रं धाम परं मतम्| चेतसो वाऽतिहर्षेण व्यवायं सेवतेऽति यः||१८५|| तस्याशु क्षीयते शुक्रं ततः प्राप्नोति सङ्क्षयम्| घोरं व्याधिमवाप्नोति मरणं वा स गच्छति||१८६|| शुक्रं तस्माद्विशेषेण रक्ष्यमारोग्यमिच्छता| एवं निदानलिङ्गाभ्यामुक्तं क्लैब्यं चतुर्विधम्||१८७|| केचित् क्लैब्ये त्वसाध्ये द्वे ध्वजभङ्गक्षयोद्भवे| वदन्ति शेफसश्छेदाद्वृषणोत्पाटनेन च||१८८|| मातापित्रोर्बीजदोषादशुभैश्चाकृतात्मनः| गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाःसिराः||१८९|| शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते| तत्र सम्पूर्णसर्वाङ्गः स भवत्यपुमान् पुमान्||१९०|| एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात्|१९१|

🔊 Audio coming soon

केचिदित्यादौ ध्वजभङ्गक्षयोद्भवे वक्ष्यमाणविशिष्टध्वजभङ्गक्षयोद्भवे, ते चासाध्ये| वृषणोत्पाटनेन चेत्यन्तेन ध्वजभङ्ग उक्तः, क्षयजं तु मातापित्रोरित्यादिनोच्यते| स पुमान् स्त्रीषु पुरुषव्यापारकरणासमर्थत्वादपुमान् भवति||१८१-१९०||-

Adhikarana 43 (191-195) · Śloka 195

चिकित्सितमतस्तूर्ध्वं समासव्यासतः शृणु||१९१|| शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयाऽनघ!| क्लैब्योपशान्तये कुर्यात् क्षीणक्षतहितं च यत्||१९२|| बस्तयः क्षीरसर्पींषि वृष्ययोगाश्च ये मताः| रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत्||१९३|| समीक्ष्य देहदोषाग्निबलं भेषजकालवित्| व्यवायहेतुजे क्लैब्ये तथा धातुविपर्ययात् ||१९४|| दैवव्यपाश्रयं चैव भेषजं चाभिचारजे | समासेनैतदुद्दिष्टं भेषजं क्लैब्यशान्तये||१९५||

🔊 Audio coming soon

व्यवायहेतुजे इतिपदं बीजदोषोत्पन्नसहजव्युदासार्थम्| धातुविपर्ययादिति दोषवैषम्यात्| दैवव्यपाश्रयमित्यादिना अभिचारादिजक्लैब्यचिकित्सां ब्रूते| अभिचारादिजं च क्लैब्यं दैवव्यपाश्रयचिकित्साभिधानादेव स्वीकर्तव्यम्||१९१-१९५||

Adhikarana 44 (196-203) · Śloka 204

विस्तरेण प्रवक्ष्यामि क्लैब्यानां भेषजं पुनः| सुस्विन्नस्निग्धगात्रस्य स्नेहयुक्तं विरेचनम्||१९६|| अन्नाशनं ततः कुर्यादथवाऽऽस्थापनं पुनः| प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत्||१९७|| पलाशैरण्डमुस्ताद्यैः पश्चादास्थापयेत्ततः| वाजीकरणयोगाश्च पूर्वं ये समुदाहृताः||१९८|| भिषजा ते प्रयोज्याः स्युः क्लैब्ये बीजोपघातजे| ध्वजभङ्गकृतं क्लैब्यं ज्ञात्वा तस्याचरेत् क्रियाम्||१९९|| प्रदेहान् परिषेकांश्च कुर्याद्वा रक्तमोक्षणम्| स्नेहपानं च कुर्वीत सस्नेहं च विरेचनम्||२००|| अनुवासं ततः कुर्यादथवाऽऽस्थापनं पुनः| व्रणवच्च क्रियाः सर्वास्तत्र कुर्याद्विचक्षणः||२०१|| जरासम्भवजे क्लैब्ये क्षयजे चैव कारयेत्| स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम्||२०२|| क्षीरसर्पिर्वृष्ययोगा बस्तयश्चैव यापनाः| रसायनप्रयोगाश्च तयोर्भेषजमुच्यते||२०३|| विस्तरेणैतदुद्दिष्टं क्लैब्यानां भेषजं मया|२०४|

🔊 Audio coming soon

पलाशैरण्डमुस्ताद्यैरिति एरण्डपलाशाद्यैर्मुस्ताद्यैश्च व्यवस्थितैरित्यर्थः| तत्रैरण्डपत्रादिः “एरण्डमूलपलाशात्” (सि.अ.१२) इत्यादिना ग्रन्थे वक्ष्यमाणः सिद्धौ, मुस्तादिश्च यापनाबस्तिः| बस्तिद्वयेऽप्यत्र बहुवचनं व्यक्तिसद्भावापेक्षया ज्ञेयम्||१९६-२०३||-

Adhikarana 45 (204-224) · Śloka 224

यः पूर्वमुक्तः प्रदरः शृणु हेत्वादिभिस्तु तम्||२०४|| याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च| कटून्यथ विदाहीनि स्निग्धानि पिशितानि च||२०५|| ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि | शुक्तमस्तुसुरादीनि भजन्त्याः कुपितोऽनिलः||२०६|| रक्तं प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः| रजोवहाः समाश्रित्य रक्तमादाय तद्रजः||२०७|| यस्माद्विवर्धयत्याशु रसभावाद्विमानता | तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदाः||२०८|| रजः प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृतः| सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च||२०९|| चतुर्विधं व्यासतस्तु वाताद्यैः सन्निपाततः| अतःपरं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम्||२१०|| रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत्| कुपितः प्रदरं कुर्याल्लक्षणं तस्य मे शृणु||२११|| फेनिलं तनु रूक्षं च श्यावं चारुणमेव च| किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम्||२१२|| कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुतः| कुरुते वेदनां तीव्रामेतद्वातात्मकं विदुः||२१३|| अम्लोष्णलवणक्षारैः पित्तं प्रकुपितं यदा| पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गतः शृणु||२१४|| सनीलमथवा पीतमत्युष्णमसितं तथा| नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत्||२१५|| दाहरागतृषामोहज्वरभ्रमसमायुतम्| असृग्दरं पैत्तिकं स्याच्छ्लैष्मिकं तु प्रवक्ष्यते||२१६|| गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपितः कफः| प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु||२१७|| पिच्छिलं पाण्डुवर्णं च गुरु स्निग्धं च शीतलम्| स्रवत्यसृक् श्लेष्मलं च घनं मन्दरुजाकरम्||२१८|| छर्द्यरोचकहृल्लासश्वासकाससमन्वितम्| (वक्ष्यते क्षीरदोषाणां सामान्यमिह कारणम्||२१९|| यत्तदेव त्रिदोषस्य कारणं प्रदरस्य तु)| त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम्||२२०|| नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता| सर्वहेतुसमाचारादतिवृद्धस्तदाऽनिलः||२२१|| रक्तमार्गेण सृजति प्रत्यनीकबलं कफम्| दुर्गन्धं पिच्छिलं पीतं विदग्धं पित्ततेजसा||२२२|| वसां मेदश्च यावद्धि समुपादाय वेगवान्| सृजत्यपत्यमार्गेण सर्पिर्मज्जवसोपमम्||२२३|| शश्वत् स्रवत्यथास्रावं तृष्णादाहज्वरान्विताम्| क्षीणरक्तां दुर्बलां स तामसाध्यां विवर्जयेत्||२२४||

🔊 Audio coming soon

यः पूर्वमुक्तः प्रदर इत्यादौ उपद्रवरूपतया पूर्वमुक्तः प्रदर इति वदन्ति; किन्तु रक्तयोनिचिकित्सिते असृग्दरसञ्ज्ञयैव रक्तयोनिकथनेन निर्दिष्टदोषभेदेन च तत्रैव रक्तयोनिरसृग्दररूपा व्याकृ(हृ)ता, तेनेह पुनरसृग्दरलक्षणाभिधानं पूर्वटीकाकृतामसम्मतम्| इह येऽप्यमुं ग्रन्थं पठन्ति, ते तस्यैवायं प्रभेदः प्रपञ्चो वाऽभिधीयत इति वर्णयन्ति| वयं तु भूरिपुस्तकेष्वेवं पाठदर्शनादस्य व्याख्यानं कुर्मः| गर्भाशयगता इति गर्भाशयसम्बद्धाः| असृग्दरशब्दव्युत्पत्तिमाह- कुपितोऽनिल इत्यादि| रक्तं प्रमाणमुत्क्रम्य इति रक्तं प्रमाणाधिकं कृत्वा रक्तमादाय तद्रजो यस्माद्विवर्धयति (वृद्धेन रक्तेन योजयित्वा रजो विवर्धयति यस्मात् ) पवनस्तस्मादसृग्रजोमेलकरूपत्वादयं व्याधिरसृग्दर इत्युच्यते| ‘प्रदीर्यते इति विस्तारितो भवति’ इति प्रदरः, ‘असृग् दीर्यते यस्मिन्निति असृग्दर’ इत्येषाऽपि निरुक्तिरत्र बोद्धव्या| नैकावस्थमिति वातकृतनानावस्थायुक्तम्| नारी त्वित्यादिना एतदनुबन्धकृतामवस्थामाह||२०४-२२४||

Adhikarana 46 (225-228) · Śloka 228

मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च| नैवातिबहु नात्यल्पमार्तवं शुद्धमादिशेत्||२२५|| गुञ्जाफलसवर्णं च पद्मालक्तकसन्निभम् | इन्द्रगोपकसङ्काशमार्तवं शुद्धमादिशेत्||२२६|| योनीनां वातलाद्यानां यदुक्तमिह भेषजम्| चतुर्णां प्रदराणां च तत् सर्वं कारयेद्भिषक्||२२७|| रक्तातिसारिणां यच्च तथा शोणितपित्तिनाम्| रक्तार्शसां च यत् प्रोक्तं भेषजं तच्च कारयेत्||२२८||

🔊 Audio coming soon

विशुद्धार्तवस्य विशुद्धार्तवकथनप्रसङ्गाल्लक्षणमाह- मासादित्यादि| पञ्चरात्रानुबन्धीति उद्भूततया पञ्चरात्रमनुबध्नातीति पञ्चरात्रानुबन्धि, द्वादशरात्रानुबन्धित्वादार्तवकालस्य; किंवा द्वादशरात्रपर्यन्तं गर्भारम्भकत्वमार्तवस्य नतु प्रवृत्तिरिति ज्ञेयम्| गुञ्जाफलसवर्णमित्यादिना वर्णभेदश्चार्तवे प्रकृतिभेदादेव भवति||२२५-२२८||

Adhikarana 47 (229-231) · Śloka 231

धात्रीस्तनस्तन्यसम्पदुक्ता विस्तरतः पुरा| स्तन्यसञ्जननं चैव स्तन्यस्य च विशोधनम्||२२९|| वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम्| तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोषाः प्रकीर्तिताः||२३०|| वातादिष्वेव तान् विद्याच्छास्त्रचक्षुर्भिषक्तमः| त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम्||२३१||

🔊 Audio coming soon

सम्प्रति प्रदरं सचिकित्सितमभिधाय स्त्रीरोगाभिधानप्रसङ्गादपरमपि स्त्रीरोगं स्तन्यदोषमभिधित्सुराह- धात्रीस्तनस्तन्येत्यादि| वातादिदुष्टे इत्यादि वातादिविकारेष्वेवान्तर्निविष्टमित्यर्थः| त्रिविधास्तु यतो शिष्यास्ततो वक्ष्यामीति त्रिविधप्रभेदेषु शिष्येषु मन्दबुद्धिशिष्याणां सुखप्रतिपत्त्यर्थम्||२२९-२३१||

Adhikarana 48 (232-281) · Śloka 282

अजीर्णासात्म्यविषमविरुद्धात्यर्थभोजनात्| लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात्||२३२|| मनःशरीरसन्तापादस्वप्नान्निशि चिन्तनात्| प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च||२३३|| परमान्नं गुडकृतं कृशरां दधि मन्दकम् | अभिष्यन्दीनि मांसानि ग्राम्यानूपौदकानि च||२३४|| भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात्| अनायासादभीघातात् क्रोधाच्चातङ्ककर्शनैः||२३५|| दोषाः क्षीरवहाः प्राप्य सिराः स्तन्यं प्रदूष्य च| कुर्युरष्टविधं भूयो दोषतस्तन्निबोध मे||२३६|| वैरस्यं फेनसङ्घातो रौक्ष्यं चेत्यनिलात्मके| पित्ताद्वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम्||२३७|| कफाद्भवति रूक्षाद्यैरनिलः स्वैः प्रकोपणैः| क्रुद्धः क्षीराशयं प्राप्य रसं स्तन्यस्य दूषयेत्||२३८|| विरसं वातसंसृष्टं कृशीभवति तत् पिबन्| न चास्य स्वदते क्षीरं कृच्छ्रेण च विवर्धते||२३९|| तथैव वायुः कुपितः स्तन्यमन्तर्विलोडयन्| करोति फेनसङ्घातं तत्तु कृच्छ्रात् प्रवर्तते||२४०|| तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुतः| वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति||२४१|| पूर्ववत् कुपितः स्तन्ये स्नेहं शोषयतेऽनिलः| रूक्षं तत् पिबतो रौक्ष्याद्बलह्रासः प्रजायते||२४२|| पित्तमुष्णादिभिः क्रुद्धं स्तन्याशयमभिप्लुतम्| करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम्||२४३|| विवर्णगात्रः स्विन्नः स्यात्तृष्णालुर्भिन्नविट् शिशुः| नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम्||२४४|| पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति| पाण्ड्वामयस्तत्पिबतः कामला च भवेच्छिशोः||२४५|| क्रुद्धो गुर्वादिभिः श्लेष्मा क्षीराशयगतः स्त्रियाः| स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु||२४६|| छर्दनः कुन्थनस्तेन लालालुर्जायते शिशुः| नित्योपदिग्धैः स्रोतोभिर्निद्राक्लमसमन्वितः ||२४७|| श्वासकासपरीतस्तु प्रसेकतमकान्वितः| अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा||२४८|| लालालुः शूनवक्त्राक्षिर्जडः स्यात्तत् पिबञ्छिशुः| कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम्||२४९|| करोति गुरु तत् पीत्वा बालो हृद्रोगमृच्छति| अन्यांश्च विविधात्रोगान्कुर्यात्क्षीरसमाश्रितान्||२५०|| क्षीरे वातादिभिर्दुष्टे सम्भवन्ति तदात्मकाः| तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम्||२५१|| संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत्| वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपैः||२५२|| कल्कैर्निम्बपटोलानां क्वाथैः सलवणैर्वमेत्| सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः||२५३|| दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत्| त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम्||२५४|| पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम्| (पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्त्रवित् )||२५५|| सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुनः| ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत् ||२५६|| शालयः षष्टिका वा स्युः श्यामाका भोजने हिताः| प्रियङ्गवः कोरदूषा यवा वेणुयवास्तथा||२५७|| वंशवेत्रकलायाश्च शाकार्थे स्नेहसंस्कृताः| मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत्||२५८|| निम्बवेत्राग्रकुलकवार्ताकामलकैः शृतान्| सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान्||२५९|| शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत्| शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम्||२६०|| पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम्| अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम्||२६१|| किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत्| त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम्||२६२|| कीर्तितं स्तन्यदोषाणां पृथगन्यं निबोधत| पाययेद्विरसक्षीरां द्राक्षामधुकसारिवाः||२६३|| श्लक्ष्णपिष्टां पयस्यां च समालोड्य सुखाम्बुना| पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ||२६४|| शुष्कौ प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति| फेनसङ्घातवत्क्षीरं यस्यास्तां पाययेत् स्त्रियम्||२६५|| पाठानागरशार्ङ्गेष्टामूर्वाः पिष्ट्वा सुखाम्बुना| अञ्जनं नागरं दारु बिल्वमूलं प्रियङ्गवः||२६६|| स्तनयोः पूर्ववत् कार्यं लेपनं क्षीरशोधनम्| किराततिक्तकं शुण्ठीं सामृतां क्वाथयेद्भिषक्||२६७|| तं क्वाथं पाययेद्धात्रीं स्तन्यदोषनिबर्हणम्| स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपैः||२६८|| षड्विरेकाश्रितीयोक्तैरौषधैः स्तन्यशोधनैः| रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत्||२६९|| पूर्ववज्जीवकाद्यं च पञ्चमूलं प्रलेपनम्| स्तनयोः संविधातव्यं सुखोष्णं स्तन्यशोधनम्||२७०|| यष्टीमधुकमृद्वीकापयस्यासिन्धुवारिकाः| शीताम्बुना पिबेत्कल्कं क्षीरवैवर्ण्यनाशनम्||२७१|| द्राक्षामधुककल्केन स्तनौ चास्याः प्रलेपयेत्| प्रक्षाल्य वारिणा चैव निर्दुह्यात्तौ पुनः पुनः||२७२|| विषाणिकाजशृङ्ग्यौ च त्रिफलां रजनीं वचाम्| पिबेच्छीताम्बुना पिष्ट्वा क्षीरदौर्गन्ध्यनाशिनीम्||२७३|| लिह्याद्वाऽप्यभयाचूर्णं सव्योषं माक्षिकप्लुतम्| क्षीरदौर्गन्ध्यनाशार्थं धात्री पथ्याशिनी तथा||२७४|| सारिवोशीरमञ्जिष्ठाश्लेष्मातककुचन्दनैः| पत्राम्बुचन्दनोशीरैः स्तनौ चास्याः प्रलेपयेत्||२७५|| स्निग्धक्षीरा दारुमुस्तपाठाः पिष्ट्वा सुखाम्बुना| पीत्वा ससैन्धवाः क्षिप्रं क्षीरशुद्धिमवाप्नुयात्||२७६|| पाययेत् पिच्छिलक्षीरां शार्ङ्गेष्टामभयां वचाम्| मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः||२७७|| तक्रारिष्टं पिबेच्चापि यदुक्तं गुदजापहम्| विदारीबिल्वमधुकैः स्तनौ चास्याः प्रलेपयेत्||२७८|| त्रायमाणामृतानिम्बपटोलत्रिफलाशृतम्| गुरुक्षीरा पिबेदाशु स्तन्यदोषविशुद्धये||२७९|| पिबेद्वा पिप्पलीमूलचव्यचित्रकनागरम्| बलानागरशार्ङ्गेष्टामूर्वाभिर्लेपयेत् स्तनौ||२८०|| पृश्निपर्णीपयस्याभ्यां स्तनौ चास्याः प्रलेपयेत्| अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः||२८१|| निर्दिष्टाः क्षीरदोषोत्थास्तथोक्ताः केचिदामयाः|२८२|

🔊 Audio coming soon

क्वाथं चैव सनागरमित्यत्र नागरकृत एव क्वाथो ज्ञेयः| पूर्ववज्जीवकाद्यमित्यत्र जीवकाद्यं जीवनीयम्||२३२-२८१||-

Adhikarana 49 (282-287) · Śloka 287

दोषदूष्यमलाश्चैव महतां व्याधयश्च ये||२८२|| त एव सर्वे बालानां मात्रा त्वल्पतरा मता| निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम्||२८३|| वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित्| भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत्||२८४|| मधुराणि कषायाणि क्षीरवन्ति मृदूनि च| प्रयोजयेद्भिषग्बाले मतिमानप्रमादतः||२८५|| अत्यर्थस्निग्धरूक्षोष्णमम्लं कटुविपाकि च| गुरु चौषधपानान्नमेतद्बालेषु गर्हितम्||२८६|| समासात् सर्वरोगाणामेतद्बालेषु भेषजम्| निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य प्रयोजयेत्||२८७||

🔊 Audio coming soon

दुष्टक्षीरसेवनादुत्पन्नबालविकाराणां स्वरूपं दर्शयित्वा यथाकर्तव्यं भेषजमाह- दोषेत्यादि| दोषा वातादयः, दूष्याणि रक्तादीनि, मलाः शकृन्मूत्रस्वेदादयः| एते दोषादयो य एव महतां त एव बालानामपि भवन्ति, किन्तु बालान् प्राप्य तेषां दोषादीनां मात्रा त्वल्पतरेति विशेषः; तेन दोषादिमात्रापेक्षा भेषजमात्राऽप्यल्पा भवतीति भावः| निवृत्तिर्वमनादीनामित्यादि| द्विविधा बाला भवन्ति- स्वतन्त्रवृत्तयः, परतन्त्रवृत्तयश्च; तत्र परतन्त्रत्वं बालेषु वीक्ष्य वमनादीनां निवृत्तिः कर्तव्या, वाक्चेष्टयोश्च बालस्य सामर्थ्यं वीक्ष्य स्वतन्त्रतायां जातायां वमनादीनां मृदुत्वं शास्त्रविद्वैद्यः प्रयोजयेत्, तथा संशमनमपि भेषजमल्पमात्रं यथाव्याधि बालेषु प्रयोजयेदिति वाक्यार्थः; किंवा बालेषु मृदुत्वं परतन्त्रतां च वीक्ष्य वमनादीनां निवृत्तिर्विधातव्या, वाक्चेष्टयोश्च बालेषु सामर्थ्यं वीक्ष्य संशमनं भेषजमल्पमात्रं यथाव्याधि प्रयोजयेदिति योजनीयम्| मधुराणीत्यादिना बालेषु कर्तव्यं भेषजमाह| अत्यर्थमित्यादि प्रयोजयेदित्यन्तो ग्रन्थ आर्षत्वे सविवादः||२८२-२८७||

Adhikarana 50 (288) · Śloka 288

भवन्ति चात्र- इति सर्वविकाराणामुक्तमेतच्चिकित्सितम्| स्थानमेतद्धि तन्त्रस्य रहस्यं परमुत्तमम् ||२८८||

🔊 Audio coming soon

इति सर्वविकाराणामित्यादिना चिकित्सास्थानोक्तमर्थमुपसङ्गृह्णाति| सर्वविकाराणामिति वचनेन अनुक्तानामपि विकाराणामेतच्चिकित्साबीजसूत्रमिति दर्शयति| रहस्यमिति अत्यन्तोपयुक्तचिकित्साभिधायकतया गोप्यं, न कस्मैचित् पापिष्ठाय प्रकाशनीयमिति||२८८||

Adhikarana 51 (289-290) · Śloka 290

अस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च| नासाद्यन्तेऽग्निवेशस्य तन्त्रे चरकसंस्कृते||२८९|| तानेतान् कापिलबलिः शेषान् दृढबलोऽकरोत्| तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम्||२९०||

🔊 Audio coming soon

सम्प्रति दृढबलः स्वकीयसंस्कारविषयं दर्शयन्नाह- अस्मिन्नित्यादि| सप्तदशाध्याया इति चिकित्सास्थाने सप्तदशाध्यायाः; ते च चरकसंस्कृतान् यक्ष्मचिकित्सितान्तानष्टावध्यायान्, तथाऽर्शोऽतीसारविसर्पद्विव्रणीयमदात्ययोक्तान् विहाय ज्ञेयाः| (परिशिष्टसंस्कारस्यादृष्टातिशयसम्पाद्यत्वादात्मनोऽदृष्टातिशयमेव दर्शयन्नाह- तच्छङ्करमित्यादि )||२८९-२९०||

Adhikarana 52 (291) · Śloka 291

रोगा येऽप्यत्र नोद्दिष्टा बहुत्वान्नामरूपतः| तेषामप्येतदेव स्याद्दोषादीन् वीक्ष्य भेषजम्||२९१||

🔊 Audio coming soon

सम्प्रति उक्तानुक्तरोगचिकित्सातिदेशार्थमाह- रोगा येऽप्यत्रेत्यादि| एतदेवेत्यादि एतच्चिकित्सास्थानाद्युक्तं भेषजम्; एतदेव हि भेषजं नामरूपादिना विशेषेणानुक्तानां सामान्यतश्च वातादिजन्यतयोक्तान् रोगानपेक्ष्य तथायुक्तं सद् भेषजं भवतीत्यर्थः| दोषादीनिति दोषदूष्यनिदानान्यग्रे वक्ष्यमाणानि; किंवा दोष-भेषज-देश-काल-बल-शरीराहार-सात्म्य-सत्त्व-प्रकृति-वयांसि सूत्रस्थानोक्तानि||२९१||

Adhikarana 53 (292) · Śloka 292

दोषदूष्यनिदानानां विपरीतं हितं ध्रुवम्| उक्तानुक्तान् गदान् सर्वान् सम्यग्युक्तं नियच्छति||२९२||

🔊 Audio coming soon

अथ कथमेतद्भेषजमनुक्तानां गदानां भेषजं भवतीत्याह- दोषदूष्येत्यादि| दोषा वातादयः, दूष्याणि रक्तादीनि, निदानानि रूक्षादीनि, एषां व्यस्तानां समस्तानां वा यद् विपरीतं, हितमिति भेषजं, तत् सम्यग्युक्तं सदुक्तानुक्तान् गदान् ध्रुवं नियच्छति; उक्तानिति नामरूपादिभिः, अनुक्तानिति नामरूपादिविशेषेणानुक्तान्| एतेन यदेवैतद् दोषादिविपरीततया प्रतिपादितं भवति तदैवानुक्तानामपि गदानां दोषादीन् बुद्ध्वा सम्यग्युक्तं भेषजं भवतीति दर्शयति| यद्यपि च यन्निदानविपरीतं भेषजं तद्दोषविपरीतेनैव ग्रहीतुं पार्यते, यतो निदानेन दोषप्रकोपः क्रियते, तस्य च दोषस्य विपरीतं यथा रूक्षनिदानवृद्धे वायौ रूक्षे यो विपरीतः स्नेहः स निदानेऽपि विपरीत एव; तथाऽपि दोषस्यैवांशवैपरीत्येन भेषजप्रयोगोपदर्शनार्थं निदानविपरीतोपादानमिह| यथा- यदि वायुः सर्वात्मना प्रकुपितस्तदा तस्य वायोर्यद्विपरीतं तैलं तत् कर्तव्यं, यदा तु शीतेन वायुर्वृद्धस्तदा सर्वात्मना विरुद्धं तैलमुत्सृज्य यदेव शीतत्वे हितं तस्यैव शीतगुणस्य प्रशमार्थं हेतुविपरीतमुष्णं भेषजं प्रयुज्यते| अत एवोक्तं- “शीतेनोष्णकृतान् रोगाञ् शमयन्ति भिषग्विदः” (वि.अ.३) इत्यादि| इह तु दोषादीनां ग्रहणाद् दोषदूष्यसमुदायात्मा व्याधिरपि लभ्यते, तेन व्याधिविपरीतमपि भेषजमवरुद्धम्| विपरीतशब्देन चेह प्रतिकूलमुच्यते, न विपरीतगुणमात्रं; तेन विपर्यस्तार्थकारिणामपि भेषजानां ग्रहणं भवति| यत्तु समानमेव क्षीणानां दोषाणां धातूनां वा भेषजं भवति तद् दोषादिक्षयव्याधिवृद्धिजनकतया विपरीतमेव, येन तत्र न दोषादयः प्रतिकर्तव्याः किन्तु तत्क्षयाः, तेन क्षये दोषादिविपरीतं सम्यग्युक्तं सद्दोषादीन् नियच्छतीत्युक्तं, ततो दोषादिसमानमेव विपरीतमिति न कश्चिद्दोषः||२९२||

Adhikarana 54 (293) · Śloka 293

देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि| सम्यग्योगोऽन्यथा ह्येषां पथ्यमप्यन्यथा भवेत्||२९३||

🔊 Audio coming soon

अथ येन सम्यग्योगेन युक्तं भेषजं कार्यकरं भवति तमेव सम्यग्योगमाह- देशकालेत्यादि| एषां तु देशादियोगानामुदाहरणान्याचार्येणैव कृतानि ‘आस्यादामाशयस्थान्’ इत्यादिना ‘नातिदोषं च बह्वपि’ इत्यन्तेन| तत्र देश आतुररूप एवोक्तः, भूमिरूपदेशापेक्षा तु योजना सात्म्यापेक्षयोजनाभिधानेनैव गृहीता| कालः षड्विधो दिनातुरौषधादिभिः| तत्रौषधकालो दशविधः| प्रमाणमौषधस्य त्रिविधम्- अल्पं, बहु, समं च| सात्म्यं द्विविधं देशशरीरयोः; व्याधिसात्म्यं त्वौषधान्तर्निविष्टमेव; ऋतुसात्म्यं च कालगृहीतं; प्रमाणसात्म्यग्रहणं सम्यग्योगेनैव कृतम्| असात्म्यं यत् सात्म्यविपरीतम्| सम्यग्योगः यथावत्प्रयोगः| विपर्यये दोषमाह- अन्यथा ह्येषां पथ्यमप्यन्यथा भवेत्; एषां देशादीनाम्, अन्यथेति असम्यग्योगे, पथ्यमपीति भेषजं दोषादिपरीतमपि, अन्यथेति अपथ्यं भवति| यानि चापराणि बलसत्त्वादीनि दशविधदोषाद्यन्तर्गतानि परीक्ष्याणि नेहोक्तानि तानि दोषादिष्वन्तर्भावनीयानि||२९३||

Adhikarana 55 (294-295) · Śloka 295

आस्यादामाशयस्थान् हि रोगान् नस्तःशिरोगतान्| गुदात् पक्वाशयस्थांश्च हन्त्याशु दत्तमौषधम्||२९४|| शरीरावयवोत्थेषु विसर्पपिडकादिषु| यथादेशं प्रदेहादि शमनं स्याद्विशेषतः||२९५||

🔊 Audio coming soon

शरीरापेक्षसम्यग्योगोदाहरणमाह- आस्यादित्यादि| आस्यादित्यादौ तृतीयास्थाने पञ्चमी; तेनास्येन दत्तमौषधं वमनाद्यामाशयस्थान् गदानाशुतरं निहन्ति| एवं नासया दत्तमौषधं शिरोगतान् हन्ति| गुदेन दत्तं पक्वाशयस्थान् हन्ति| बहिः परिसार्जनभेषजप्रयोगं शरीरदेशापेक्षमाह- शरीरावयवोत्थेष्वित्यादि| यथादेशमिति व्याधिदेशे| प्रदेहादीनि प्रदेहपरिषेकोपनाहादीनि||२९४-२९५||

Adhikarana 56 (296-312) · Śloka 312

दिनातुरौषधव्याधिजीर्णलिङ्गर्त्ववेक्षणम् | कालं विद्याद्दिनावेक्षः पूर्वाह्णे वमनं यथा||२९६|| रोग्यवेक्षो यथा प्रातर्निरन्नो बलवान् पिबेत्| भेषजं लघुपथ्यान्नैर्युक्तमद्यात्तु दुर्बलः||२९७|| भैषज्यकालो भुक्तादौ मध्ये पश्चान्मुहुर्मुहुः| सामुद्गं भक्तसंयुक्तं ग्रासग्रासान्तरे दश||२९८|| अपाने विगुणे पूर्वं, समाने मध्यभोजनम्| व्याने तु प्रातरशितमुदाने भोजनोत्तरम्||२९९|| वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते| श्वासकासपिपासासु त्ववचार्यं मुहुर्मुहुः||३००|| सामुद्गं हिक्किने देयं लघुनाऽन्नेन संयुतम्| सम्भोज्यं त्वौषधं भोज्यैर्विचित्रैररुचौ हितम्||३०१|| ज्वरे पेयाः कषायाश्च क्षीरं सर्पिर्विरेचनम्| षडहे षडहे देयं कालं वीक्ष्यामयस्य च||३०२|| क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम्| तदा भेषजमादेयं स्याद्धि दोषवदन्यथा||३०३|| चयादयश्च दोषाणां वर्ज्यं सेव्यं च यत्र यत्| ऋताववेक्ष्यं यत् कर्म पूर्वं सर्वमुदाहृतम्||३०४|| (उपक्रमाणां करणं प्रतिषेधे च कारणम्| व्याख्यातमबलानां सविकल्पानामवेक्षणे||३०५|| मुहुर्मुहुश्च रोगाणामवस्थामातुरस्य च| अवेक्षमाणस्तु भिषक् चिकित्सायां न मुह्यति)||३०६|| इत्येवं षड्विधं कालमनवेक्ष्य भिषग्जितम्| प्रयुक्तमहिताय स्यात् सस्यस्याकालवर्षवत्||३०७|| व्याधीनामृत्वहोरात्रवयसां भोजनस्य च| विशेषो भिद्यते यस्तु कालावेक्षः स उच्यते||३०८|| वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः| वर्षासु वातिकाश्चैव प्रायः प्रादुर्भवन्ति हि||३०९|| निशान्ते दिवसान्ते च वर्षान्ते वातजा गदाः| प्रातः क्षपादौ कफजास्तयोर्मध्ये तु पित्तजाः||३१०|| वयोन्तमध्यप्रथमे वातपित्तकफामयाः| बलवन्तो भवन्त्येव स्वभावाद्वयसो नृणाम्||३११|| जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजाः| श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम्||३१२||

🔊 Audio coming soon

देशमनु कालापेक्षसम्यग्योगोदाहरणानि कालविभागपूर्वकमाह- दिनातुरौषधेत्यादि| दिनादिभिरवेक्षणशब्दः सम्बध्यते; अवेक्षणम् अवेक्षा| अत्र दिनावेक्षादिकालान् क्रमादुदाहरति- दिनावेक्ष इत्यादि| रोग्यवेक्ष इति रोगिणो विशेषं बलवत्त्वमबलवत्त्वं चावेक्ष्य भवतीत्यर्थः| निरन्न इति औषधमुपयुज्यापि उपक्षणमभुञ्जानः| औषधावेक्षानगदकालानाह- भैषज्यकाला इत्यादि| अत्र भुक्तादावित्यनेन कालद्वयमुच्यते; यथा प्रातरेव निरन्नं, तथा प्राग्भोजनं च| तथा पश्चादित्यनेन च कालद्वयमेव प्रातर्भोजनोत्तरकालं, अपरं तु सायं भोजनोत्तरकालम्| मध्येभुक्तं तु यदर्धं भुक्त्वोपयुज्यते, पश्चात् पुनरर्धं भुज्यते| मुहुर्मुहुर्भुक्तं नाम यद्भोजनसमये प्रतिक्षणं भुज्यते| सामुद्गं नाम यद्भक्तस्यादावन्ते च भुज्यते, तत्समुद्गवदाहारावरणात् ‘सामुद्गं’ इत्यभिधीयते| भुक्तमिति पदं भुक्तादावित्यादिभिः प्रत्येकं सम्बध्यते| अन्तराभक्तं नाम यदन्नेन संयोगात् संस्काराद्वा तद्विमिश्रितं भुज्यते| ग्रासग्रासान्तरं तु भुक्तं नाम यद् ग्रासानां मध्येषु भुज्यते| अन्ये तु ‘ग्रासग्रासान्तरे’ इति पठन्ति, एकं च भेषजकालं वदन्ति; भुक्तमितिपदेन च भेषजकालान्तरमभिधाय दशौषधकालपूरणं कुर्वन्ति| अत एव ‘वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते’ इति वचनेन चाचार्येणैक एव काल उक्तः| तत्र ग्रासस्य ग्रासान्तरमध्ये यदौषधं तद् ग्रासग्रासान्तरमुच्यते| भुक्तमित्यस्य लक्षणं- भुक्तं लघुनाऽन्नेन संयुतमिति; लघुना पेयादिना अन्नेन संयुतं यद्भुज्यते तद्भुक्तमुच्यते| सम्भोज्यं त्वौषधैरित्यादिना तु यदौषधसंस्कृतमन्नमुपयुज्यते अलघु लघु वा तत् सम्भुक्तशब्देनोच्यते| ये तु ‘ग्रासे ग्रासान्तरे’ इति पठन्ति, ते प्राणे प्रदुष्टे ग्रासे ग्रासान्तरे वा भेषजोपयोगेन कालद्वयं वर्णयन्ति, लघुनाऽन्नेन संयुतमितिपदं सम्भोज्यमित्यस्यैव विशेषणं वर्णयन्ति; भुक्तमिति तु पदं विवरणग्रन्थेऽपि सर्वात्मकालोपयोजनीयभेषजविशेषणमिति व्याख्यानयन्ति| एवं व्यवस्थिते ‘अपाने विगुणे’ इत्यादिभेषजकालविवरणं व्यक्तमेवेति न पुनर्व्याह्रियते| एते च काला यद्यपि रोगविशेषविषयतया विहिताः, तथाऽपि भेषजस्यैवामी विगुणापानादिविधेयस्य काला भवन्ति| अपानवैगुण्यादयस्तु गदा इह भेषजविषयतयोपात्ताः| तेनापाने विगुणे यदौषधं तस्याप्येते काला इत्यादिनिबन्धो बोद्धव्यः| यस्तु व्याध्यवेक्षः कालः स व्याध्यवस्थारूप इह वक्तव्य इति विशेषः| औषधावेक्षं कालमभिधाय व्याध्यवेक्षं कालमाह- ज्वरे पेया इत्यादि| अत्र च पेयाकषायसर्पिःक्षीरविरेचनानामुत्सर्गविधया ज्वराहादारभ्य षडहे यथाक्रमं देयत्वमुच्यते| षडहातिक्रमे पेयादानं न विरोधमावहति, सामान्यविधेर्विरोधविधिना बाधनस्य सर्वत्रैवानुमतत्वात्| तेन लङ्घितस्य कषायषडहे पेयादानं यत् प्रसज्यते “लङ्घितं वमितं काले यवागूभिरुपाचरेत्” (चि.अ.३) इति वचनेन, तदपि न विरोधि; तस्य च श्लोकस्य प्रपञ्चो ज्वरचिकित्सित एव कृत इति नेह क्रियते| कालं वीक्ष्यामयस्य त्विति अवस्थारूपं कालं ज्वरलक्षणस्यामयस्य वीक्ष्य षडहे पेया देयेत्यर्थः| जीर्णलिङ्गापेक्षं कालमाह- क्षुद्वेगेत्यादि| क्षुदिति बुभुक्षा भवति, वेगमोक्ष इति पुरीषादिनिर्गमः| लघुता विशुद्धिरिति हृदयोद्गारविशुद्धिः| जीर्णलक्षणमिति जीर्णान्नलक्षणम्| एतच्च जीर्णलक्षणं यद्यपि रसविमानेऽप्यभिहितं, तथाऽपीह कालावेक्षया प्रकरणागतत्वादभिधानं न पुनरुक्तदोषकरम्| तदा भेषजमादेयमिति वचनेन प्रातर्यदौषधमनन्नं दीयते तद्भेषजं प्रत्यवमृशति, यदन्नोत्तरकालं तदजीर्ण एव प्रातराशे दीयते; किंवा भोजनोत्तरकालमपि यदौषधं दीयते तदपि दिनान्तरभुक्तेऽन्ने जीर्ण एव दीयते| अन्यथा स्याद्धि दोषवदित्यत्र केचिद् ‘द्विदोषवत्’ इति पठन्ति, तेन जीर्यति जीर्यमाणे च दोषद्वययुक्तं स्यादित्यर्थः| ‘स्यात्तु दोषवदन्यथा’ इति पाठ आकरः| ऋतुरूपकालावेक्षं सम्यग्योगं विभजते- चयादयश्चेत्यादि| चयादय इति चयप्रकोपप्रशमाः| ते च चयादयो यथा- कफस्य हेमन्ते चयः, प्रकोपो वसन्ते, ग्रीष्मे प्रशम इत्यादिस्वभावः| वर्ज्यं सेव्यं च ऋतावुक्तं, तत्रैव च गुर्वन्नादि वर्ज्यमुक्तं, तेन तत्रैव तज्ज्ञेयम्| उपक्रमाणामित्यादिकं सार्धं श्लोकं केचित् पठन्ति; तमनार्षं वदन्ति| उक्तषङ्विधकालानवेक्षप्रयोगेऽनिष्टफलं सदृष्टान्तमाह- इत्येवमित्यादि| यथा सस्यस्याकालवर्षेण पीडा मरणं वा भवति, तद्वदौषधमपि षड्विधमकालानवेक्षमुपयुक्तं क्लेशाय विनाशाय वा भवति| पुनरन्यथा कालावेक्षं योगं दर्शयन्तः केचित् पठन्ति- व्याधीनामृत्वहोरात्रनियमादिश्लोकचतुष्टयम्, एतदपि नातिप्रसिद्धम्||२९६-३१२||

Adhikarana 57 (313-314) · Śloka 314

नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पा महानलम्| दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा||३१३|| सम्प्रधार्य बलं तस्मादामयस्यौषधस्य च| नैवातिबहु नात्यल्पं भैषज्यमवचारयेत्||३१४||

🔊 Audio coming soon

प्रमाणविशेषावेक्षं योगं दर्शयन्नाह- नाल्पमित्यादि| यद्यपि चेह भेषजस्य प्रमाणं शृङ्गग्राहिकया नोक्तं, तथाऽपीह “दोषप्रमाणानुरूपो हि भैषज्यप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति” (वि.अ.८) इत्यादिनोक्तं मध्यभेषजप्रमाणं ज्ञेयम्||३१३-३१४||

Adhikarana 58 (315-319) · Śloka 320

औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च| अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम्||३१५|| बाह्लीकाः पह्लवाश्चीनाः शूलीका यवनाः शकाः| मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिताः||३१६|| मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः| अश्मकावन्तिकानां तु तैलाम्लं सात्म्यमुच्यते||३१७|| कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम्| सात्म्यं दक्षिणतः पेया मन्थश्चोत्तरपश्चिमे ||३१८|| मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः| तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत्||३१९|| सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि|३२०|

🔊 Audio coming soon

अथ सात्म्यावेक्षं सम्यग्योगं विभजन्नाह- औचित्याद्यस्येत्यादि| औचित्यादिति अभ्यासात्, अपथ्यमपि यद्यस्य पुरुषस्य सात्म्यं तदेकान्तात् त्यजन् न सुखं लभते इति योजना| एकान्तात् झटिति सर्वथा च त्यजन्| एतेनापथ्यमपि सात्म्यमेकान्तात् त्यजतः सुखं न भवतीति दर्शयति; पथ्यस्य सात्म्यस्य परित्यागे तु नितरामेव दुःखं भवतीति दर्शयति| देशशब्देन चेह देशवाचिनो जनपदा अभिप्रेताः| तेन देशसात्म्यशब्देन तद्देशजातत्वेनैव पुरुषैर्यत् सेव्यते तत् साधारणं सात्म्यं गृह्यते| पुरुषसात्म्यग्रहणेन तु यत् प्रतिनियतपुरुषस्यैवाभ्यासात् सात्म्यतां याति तत् पुरुषप्रतिनियतं सात्म्यं गृह्यते| यत्तु पूर्वं “देशानामामयानां च विपरीतगुणं गुणैः| सात्म्यमिच्छन्ति” (सू.अ.६) इत्यनेन देशसात्म्यमुक्तं, तद्देशविपरीतगुणत्वेन तद्देशनिवासिनां पुरुषाणां सात्म्यमुक्तम्; इदं तु देशविपरीतगुणं भवतु मा भवतु वा, तथाऽपि तद्देशनिवासिनामभ्यासेन सात्म्यं तदिह सात्म्यमुच्यत इति विशेषः| पुरुषसात्म्यस्य प्रायः प्रतिपुरुषं भिन्नत्वेनानियतत्वाच्छृङ्गग्राहिकया उदाहरणं न कृतम्| तेन देशाभ्याससात्म्यानि प्रसिद्धान्युदाहरति- बाह्लीका इत्यादि| वैश्वानरोचिता इति अत्रोचितशब्देनाभ्यास उच्यते| तैलं चाम्लं चेति तैलाम्लम्| दक्षिणत इति दक्षिणापथे| उत्तरे च पश्चिमे चेति उत्तरपश्चिमे| तेषामित्यत्र तच्छब्देन जनपदाः पुरुषाश्च गृह्यन्ते| तेन तत्सात्म्ययुक्तानीति उक्तदेशसात्म्ययुक्तपुरुषसात्म्ययुक्तानि| सात्म्योपयोगफलमाह- सात्म्यं ह्याशु बलमित्यादि| बह्वपीति अतिमात्रमपि||३१५-३१९||-

Adhikarana 59 (320) · Śloka 321

योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति||३२०|| वयोबलशरीरादिभेदा हि बहवो मताः |३२१|

🔊 Audio coming soon

उक्तदेशादिपरीक्षाव्यतिरेकेण केवलं यथोक्तयोगैरेव चिकित्सां कुर्वतो दोषमाह- योगैरेवेत्यादि| देशाद्यज्ञ इत्यनेन देशाद्यज्ञानाद् देशादिविगुणचिकित्साकारकं पुरुषं लक्षयति| अपराध्यति न ईप्सितं साधयति| देशाद्यज्ञ इत्यत्रादिशब्देन कालादीनामुक्तानां तथा प्रदेशान्तरोक्तवयो-बल-शरीर-प्रकृति-सत्त्वानां ग्रहणम्| देशाद्यज्ञः कुतोऽपराध्यतीत्याह- वयोबलेत्यादि| आदिशब्देन प्रकृतिसत्त्वादीनां ग्रहणम्| यस्माद्वयोबलादिभेदा बहवश्चिकित्सावेक्षणीयाश्चिकित्सकानां मताः सन्ति, तस्माद् देशादिनिरपेक्षा चिकित्सा क्रियमाणा न ईप्सितं साधयतीति भावः||३२०||-

Adhikarana 60 (321-325) · Śloka 326

तथाऽन्तःसन्धिमार्गाणां दोषाणां गूढचारिणाम्||३२१|| भवेत् कदाचित् कार्याऽपि विरुद्धाभिमता क्रिया| पित्तमन्तर्गतं गूढं स्वेदसेकोपनाहनैः||३२२|| नीयते बहिरुष्णैर्हि तथोष्णं शमयन्ति ते| बाह्यैश्च शीतैः सेकाद्यैरूष्माऽन्तर्याति पीडितः||३२३|| सोऽन्तर्गूढं कफं हन्ति शीतं शीतैस्तथा जयेत्| श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत्||३२४|| त्वग्गतस्योष्मणो रोधाच्छीतकृच्चान्यथाऽगुरोः| छर्दिघ्नी मक्षिकाविष्ठा मक्षिकैव तु वामयेत्||३२५|| द्रव्येषु स्विन्नजग्धेषु चैव तेष्वेव विक्रिया|३२६|

🔊 Audio coming soon

सामान्योक्तचिकित्सायाः प्रकारान्तरेणापि विशिष्टार्थकर्तृत्वमाह- तथाऽन्तरित्यादि| अन्तर्मार्गाः कोष्ठाश्रयिणः, सन्धिमार्गा मध्यमार्गाश्रयिणः| गूढचारिणामिति अन्तःसन्धिगतत्वेनाव्यक्तगतीनां दोषाणां विरुद्धाभिमताऽपि क्रिया कदाचिद्भवति, विरुद्धाभिमता विपरीतत्वेन ख्याता| किंवा न केवलं वयोबलादिभेदा बहवो मताः किन्तु अन्तःसन्धिमार्गाणां दोषाणां गूढचारिणां भेदा बहवश्चिकित्सावेक्षणीया मता इति; ततो गूढचारिणो दोषभेदेन चिकित्साभेदो भवेत् कदाचिदित्यादि योजनीयम्| विरुद्धाभिमतक्रियाकरणोदाहरणमाह- पित्तमन्तर्गतमित्यादिना| नीयते बहिरिति बाह्यरोमकूपनिःसारणेन नीयते बहिरुष्णैः| तथेति तथा उक्तेन प्रकारेण उष्णं पित्तमुष्णैः स्वेदादिभिः शमयन्ति| सम्प्रति शीतेन चिकित्सितेन शीतश्लेष्मशमनोदाहरणमाह- बाह्यैश्चेत्यादि| पीडित इति बहिर्गच्छन् निरुद्धः| अथ प्रत्यनीकस्यापि कल्पनाविशेषादन्यथाकर्तृत्वमाह- श्लक्ष्णपिष्ट इत्यादि| त्वग्गतस्योष्मणो रोधादिति त्वङ्मार्गेण निर्गच्छत ऊष्मणो रोधात्| शीतकृच्चान्यथाऽगुरोरिति अगुरोरुष्णस्यापि पिष्टोऽघनश्च लेपः शीतकृत् स्यादित्यर्थः| विरुद्धक्रियाभिधानप्रसङ्गेन समुदायापेक्षयैकदेशस्य विरुद्धकार्यकरणोदाहरणमाह- छर्दिघ्नीत्यादि| द्रव्येषु स्विन्नजग्धेष्वेवं तेष्वेव विक्रियेति अनेन मक्षिकाविष्ठारम्भकेषु द्रव्येषु मक्षिकाजठराग्निस्विन्नेषु एवं विक्रिया मक्षिकाशरीरगततया विष्ठागततया च विरुद्धा क्रिया यथोक्ता भवतीति वाक्यार्थः; स्विन्नजग्धेष्विति खादितानन्तरमग्निपक्वेषु, विक्रियेति विरुद्धक्रिया| किंवा संस्कारेण पूर्वद्रव्यकार्यविरुद्धोदाहरणार्थमाह- द्रव्येष्वित्यादि| अस्मिन् पक्षे ‘जग्धेषु’ इत्यस्य स्थाने ‘दग्धेषु’ इति पठन्ति| तत्र लाजसक्तूनां सिद्धपिण्डेषु स्विन्नतया लाजविपरीता गुरुत्वेनाग्निवधादिकारिका क्रिया; तथा उत्पलनालेषु दग्धेषु क्षारतया शीतविरुद्धा क्रिया छेदनादिक्रिया इत्याद्युदाहार्यम्| यदा ‘यस्मिन् जग्धेषु’ इति पाठः, तदाऽपि स्विन्नानन्तरं जग्धेष्विति कृत्वा सक्तुसिद्धपिण्डक एवोदाहरणं ज्ञेयम्||३२१-३२५||-

Adhikarana 61 (326) · Śloka 327

तस्माद्दोषौषधादीनि परीक्ष्य दश तत्त्वतः||३२६|| कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलम्|३२७|

🔊 Audio coming soon

परीक्षाफलमुपसंहरति- तस्मादित्यादि| दोषौषधादीनि उपकल्पनीये (सू.अ.१५) एकादश पठितानि, विमाने च द्वादश पठितानि, तेन तद्ग्रहणेनेहोक्तं दशसङ्ख्यत्वं व्याहन्यते; तेन दृढबलेनैव निरूहप्रस्तावे यानि दोषौषधादीनि दश निर्दिष्टानि “समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वौकवयोबलानि” (सि.अ.३) इत्यनेन, तान्येवात्र दश गृह्यन्ते| एतद्दशक एवोपकल्पनीयोक्तैकादशकस्य परीक्ष्यस्य तथा विमानोक्तद्वादशकस्य चावरोधः| तथाहि- उपकल्पनीये एतद्दशत अन्ये प्रकृतिशरीराहारा उक्ताः; तत्र शरीरस्य प्रकृतेश्च देशशब्देन भूम्यातुरग्राहिणा ग्रहणम्, उक्तं हि- “देशो भूमिरातुरश्च” (वि.अ.८) इति; आहारस्य तु सात्म्यग्रहणेनैव ग्रहणम्| विमाने च यो द्वादशो विकारः पठितः, स दोषग्रहणगृहीतः| एवं सर्वोपकल्पनीयाद्युक्तार्थोपग्रहो व्याख्येयः| यत्तु आषाढवर्मप्रभृतिभिरतद्गुणबहुव्रीहिपक्षाश्रयेणोपकल्पनीयोक्तानामेव दशत्वं व्याख्यातमिह, तद् ह्यशाब्दमसङ्गतं च| न योगैरेवेति न प्रयोगमात्रेण||३२६||-

Adhikarana 62 (327-328) · Śloka 329

निवृत्तोऽपि पुनर्व्याधिः स्वल्पेनायाति हेतुना||३२७|| क्षीणे मार्गीकृते देहे शेषः सूक्ष्म इवानलः| तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना||३२८|| सिद्ध्यर्थं प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु|३२९|

🔊 Audio coming soon

सम्प्रति चिकित्सया निवृत्ते व्याधौ कर्तव्यं दर्शयन्नाह- निवृत्तोऽपि पुनरित्यादि| निवृत्त इव निवृत्तः, किञ्चिदवशिष्टदोषरूपमूलः; न तु सर्वथा निवृत्तः, तस्य तुल्यहेतुना प्रत्यागमनविरोधात्, तथा सूक्ष्मानलदृष्टान्तविसदृशत्वाच्च| क्षीणे अपचितमांसादिके| मार्गीकृते इति व्याध्यप्रतिबन्धकतया मार्गसदृशीकृते| शेष इति अनलविशेषणम्| अपिशब्देन निवृत्तोऽपि यदा स्वल्पेन हेतुना आयाति तदा प्रशमाभिमुखो नितरामेवायातीति दर्शयति| एवं व्यवस्थिते कर्तव्यमाह- तस्मादित्यादि| अनुबध्नीयात् प्रयोगेणेति पुनरप्यनुबन्धभेषजप्रयोगं कुर्यात्| अनपायिनेति रोगान्तराकारकेण| किमर्थमनुबध्नीयादित्याह- दार्ढ्यार्थमिति| प्रयुक्तसिद्धौषधकृतव्याधिनिवृत्तिलक्षणस्यार्थस्य दार्ढ्यार्थं, स्थैर्यार्थमिति यावत्||३२७-३२८||-

Adhikarana 63 (329-330) · Śloka 331

काठिन्यादूनभावाद्वा दोषोऽन्तः कुपितो महान्||३२९|| पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत्| पथ्यमप्यश्नतस्तस्माद्यो व्याधिरुपजायते||३३०|| ज्ञात्वैवं वृद्धिमभ्यासमथवा तस्य कारयेत्|३३१|

🔊 Audio coming soon

अपरमपि प्रयोगानुबन्धविषयमाह- काठिन्यादित्यादि| काठिन्यादिति दोषचयरूपसंहतत्वात्| ऊनभावात् अचयप्रकोपात्; अचयेऽपि च दोषाणां प्रकोपो भवत्येव; यथा- बलवद्विग्रहादिभिर्वायोः, पितस्य क्रोधादिभिः, श्लेष्मणश्च दिवास्वप्नादिभिः; अयं चाचयप्रकोपो घनावयवोपचयाकर्तृत्वात् ‘ऊनभावात् प्रकोप’ इत्युच्यते| दोषोऽन्तःकुपितो महानित्यत्र काठिन्यात् कुपित ऊनभावाच्च कुपितो महान् भवतीति व्यवस्था| काठिन्याद्धि अचयकोपोऽन्तरेव प्रायो भवति, ऊनभावात्तु अचयप्रकोपः प्रसरणस्वभावत्वात्तु लघुचयबन्धसारो(?)ऽपि महान् भवति| मृद्वल्पतां नीत इति यथाक्रमं, तेन यः काठिन्यादन्तःकुपितः स मृदुतां नीतः, स्थूलभावान्माहान् कुपितोऽल्पतां नीतः; मृदुदोषकर इति अल्पविकारकरः| किंवा काठिन्यादिति दोषदूष्यसम्बन्धकृतस्थैर्यात्, ऊनभावादिति यथोक्तकाठिन्यं विना| अन्तरिति शरीरानुत्तानदेशे| महानिति च पदं द्वाभ्यामपि सम्बध्यते| एकस्य कारणप्रचयेन महत्त्वम्| पथ्यमप्यश्नत इति हितमपि भेषजमुपयुञ्जानस्य| उपजायत इति मृदुतया अल्पतया वा अनुवर्तते| ज्ञात्वैवमिति पथ्यमिदमस्य भेषजम्, अयं तु व्याधिरिति, महत्त्वाद्गम्भीरत्वाद्वा सर्वथा न निवर्तते मग्नः, एवं ज्ञात्वा तथैव पूर्वप्रयुक्तप्रयोगस्य वृद्धिं वा अभ्यासं वा कारयेत्, न तत्प्रयोगाश्रयप्रयोगान्तरं कुर्यात्; वृद्धिर्मात्राधिक्यम्, अभ्यासः सततोपयोगः| अयमर्थोऽन्यत्राप्युक्तः- “अभ्यस्यमानाः क्रमशस्तु योगा जयन्ति रोगान् बलिनः स्थिरांश्च| तस्मादखिन्नः पुरुषोऽभ्युपेयाद्योगप्रयोगान् समुदीर्णरोगे” इति||३२९-३३०||-

Adhikarana 64 (331-333) · Śloka 334

सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम्||३३१|| कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः| मनसोऽर्थानुकूल्याद्धि तुष्टिरूर्जा रुचिर्बलम्||३३२|| सुखोपभोगता च स्याद्व्याधेश्चातो बलक्षयः| लौल्याद्दोषक्षयाद्व्याधेर्वैधर्म्याच्चापि या रुचिः||३३३|| तासु पथ्योपचारः स्याद्योगेनाद्यं विकल्पयेत्|३३४|

🔊 Audio coming soon

उक्तसततोपयोगे यदि पथ्यं सातत्यात् सततोपयोगाद्धेतोर्द्वेष्यत्वमागतं भवति, तथा स्वाद्वभावाद्वा अनिष्टत्वाद्द्वेष्यत्वमागतं भवति, तदाऽपि तदेव पथ्यं तैस्तैः कल्पनाविधिभिः स्वरसशृतकल्कादिभिः सूदशास्त्रोक्तैश्च विधानैः पुनरातुरस्य प्रियत्वमापादयेत्| स्वाद्वपि सततोपयोगादप्रियं भवतीति दृष्टम्, अस्वादु तु स्वभावादेवाप्रियम्| स्वादुशब्देनात्र प्रियो रसोऽभिधीयते| प्रियत्वापादनप्रयोजनमाह- मनसोऽर्थानुकूल्यादित्यादि|- मनसोऽनुकूलभेषजादिरूपानुकल्पनात्| ऊर्जा मनोबलम्| सुखोपभोगता भेषजस्याप्रातिकूल्येनोपयोगः| अत्र चातितृष्णादिभ्यः सुखोपभोगान्ते विरेचने अरुचौ कर्तव्यमभिधाय रुचिविशेषे कर्तव्यतामाह- लौल्यादिति| अत्र लौल्यादेव हि कस्यचित्पुरुषस्य कस्मिंश्चिद्विशेषे रुचिर्भवति; दोषक्षयादपि क्वचिद्रुचिर्भवति; तथा व्याधियुक्तस्य च पेये रुचिर्भवति; व्याधिमहिम्ना क्वचिद्रुचिर्भवति, यथा- पाण्डुरोगे मृत्तिकायां; वैधर्म्याच्च रुचिर्भवति, यथा- स्निग्धस्य रूक्षे, मधुरस्य चाम्ले; यदुक्तम्- “अम्लेन केचिद्विहता मनुष्या माधुर्ययोगे प्रणयीभवन्ति” (सु.सू.अ.४६) इति; किंवा व्याधिवैधर्म्यादित्येक एव हेतुः; अत्रोदाहरणं यथा- श्लेष्मज्वरेऽम्लकटुकेच्छुता| एतैर्लौल्यादिभिः प्रत्येकं जनिता रुचिः, आसु रुचिषु लौल्यादिजनितासु पथ्योपचारः स्यात्, पथ्यमेव देयं नापथ्यमित्यर्थः| अत्र यदि पथ्यं च भवति रुचिविषयं च भवति तदा साध्वेव, यदा तु रुचिविषयमपथ्यं स्यात् तदा कर्तव्यमाह- योगेनाद्यं विकल्पयेदिति|- भेषजयोगेनाद्यम् इच्छाविषयं भोज्यं संस्कृत्य दद्यादित्यर्थः| अन्यैस्तु लौल्यादिदोषजा त्रिविधाऽत्रारुचिरुच्यते; तत्र लौल्यजायामरुचौ पथ्योपचारः, दोषक्षयजायामरुचौ योगेनेति सम्यग्योगेनोपचारः, व्याधिवैधर्म्यजायां चाद्यमदनीयं व्याधिप्रत्यनीकप्रयोगैरुपकल्पयेदिति व्याख्यातम्| पूर्वमेव तु व्याख्यानमाद्रियामहे||३३१-३३३||-

Adhikarana 65 (334-341) · Śloka 341

तत्र श्लोकाः- विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च||३३४|| चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया| शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजैः||३३५|| क्लैब्यान्युक्तानि चत्वारि चत्वारः प्रदरास्तथा| तेषां निदानं लिङ्गं च भैषज्यं चैव कीर्तितम्||३३६|| क्षीरदोषास्तथा चाष्टौ हेतुलिङ्गभिषग्जितैः| रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम्||३३७|| उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च| देशादिगुणशंसा च कालः षङ्विध एव च||३३८|| देशे देशे च यत् सात्म्यं यथा वैद्योऽपराध्यति| चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम्||३३९|| यो हि सम्यङ्न जानाति शास्त्रं शास्त्रार्थमेव च| न कुर्यात् स क्रियां चित्रमचक्षुरिव चित्रकृत्||३४०|| अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते| चिकित्सितमिदं स्थानं षष्ठं परिसमापितम्||३४१||

🔊 Audio coming soon

विंशतिरित्यादिसङ्ग्रहः सुबोध एव||३३४-३४१||

Adhikarana puShpikA · Śloka 30

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने योनिव्यापच्चिकित्सितं नाम त्रिंशोऽध्यायः||३०|| इति चरकसंहितायां षष्ठं चिकित्सितस्थानं सम्पूर्णम्|

🔊 Audio coming soon

इति श्रीनारायणदत्तात्मजश्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने योनिव्यापच्चिकित्सितं नाम त्रिंशोऽध्यायः||३०||