Adhikarana 1 (1-2) · Śloka 2
अथातो वातशोणितचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
वातव्याधिप्रभेदादेव वातव्याधिचिकित्सितानन्तरं वातरक्तचिकित्सितमुच्यते| वातरक्ताभ्यां जनितो व्याधिः वातरक्तं, किंवा वातरक्ते एव अवस्थान्तरप्राप्ते वातरक्तम्||१-२||
Adhikarana 2 (3-11) · Śloka 11
हुताग्निहोत्रमासीनमृषिमध्ये पुनर्वसुम्|
पृष्टवान् गुरुमेकाग्रमग्निवेशोऽग्निवर्चसम्||३||
अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः|
हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत्||४||
लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः|
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः||५||
कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः|
दध्यारनालसौवीरशुक्ततक्रसुरासवैः||६||
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः|
प्रायशः सुकुमाराणां मिष्टान्नसुखभोजिनाम् ||७||
अचङ्क्रमणशीलानां कुप्यते वातशोणितम्|
अभिघातादशुद्ध्या च प्रदुष्टे शोणिते नृणाम्||८||
कषायकटुतिक्ताल्परूक्षाहारादभोजनात्|
हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनैः ||९||
उष्णे चात्यध्ववैषम्याद्व्यवायाद्वेगनिग्रहात् |
वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि||१०||
कृत्स्नं सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्|
खुडं वातबलासाख्यमाढ्यवातं च नामभिः||११||
अग्निमारुततुल्यस्येत्यनेन वातरक्तस्य दुर्निवारत्वं शीघ्रकारित्वं चाह| लवणेत्यादिना हेतुमाह| प्रायशः सुकुमाराणामित्यनेन सुकुमारशरीरे लवणादिहेतुसेवया शीघ्रं दुष्टं वातास्रं वातशोणितं भवतीति दर्शयति| मिष्टमन्नं सुखेन भुञ्जते तेषां मिष्टान्नसुखभोजिनाम्| अत्र लवणादि यद्यपि वातशोणितहेतुतयोक्तं तथाऽपि शोणितदुष्टिकारणमेतत् प्राधान्याज्ज्ञेयं, वातदुष्टिकारणं तु कषायेत्यादिनोक्तं, ततश्च लवणादि कषायादि च मिलितं सद् वातशोणितोत्पादकं भवति| यत्तु ‘जायते वातशोणितम्’ इत्यनेन लवणादीनां वातशोणितकारणत्वमुक्तं, तद्वातशोणितजनकशोणितदुष्टिकारणद्वारा ज्ञेयम्| अशुद्ध्येति शुद्धिकालेऽसंशोधनात्| केचित् ‘अभिघातादशुद्ध्या च’ इत्यस्य स्थाने ‘अशुद्ध्या वातवैषम्यात्’ इति पठन्ति| अशुद्ध्या चेति चकारेण लवणादि प्रजागरैरित्यन्तं शोणितदुष्टिकारणं समुच्चिनोति| अत्र शोणितवातस्य विच्छिद्य हेतुबहुपाठेन द्वयोरप्यत्र स्वतन्त्रं प्रकोपं दर्शयति| हयोष्ट्ररूपेण यानेन यानं हयोष्ट्रयानयानम्| उष्णे चात्यध्ववैषम्यादिति उष्णे काले अत्यध्वजनिताद्वातद्वैषम्यात्| वायुरित्यादिना सम्प्राप्तिमाह| पथीति वायुवहनस्रोतसि| क्रुद्ध इति वृद्धोऽपि स्वहेतोर्वायुः पुनः शोणितेनावरणाद्विशेषेण क्रुद्धः| व्यवहारार्थं तन्त्रान्तरप्रसिद्धसञ्ज्ञाभेदानप्याह- खुडमित्यादि| खुडदेशप्राप्त्या खुडः, खुडशब्देन सन्धिरुच्यते; वातस्यावरणेन बलमस्त्यस्मिञ् शोणिते इति वातबलाशः; आढ्यानां प्रायो भवतीति आढ्यरोगः||३-११||
Adhikarana 3 (12-15) · Śloka 15
तस्य स्थानं करौ पादावङ्गुल्यः सर्वसन्धयः|
कृत्वाऽऽदौ हस्तपादे तु मूलं देहे विधावति||१२||
सौक्ष्म्यात् सर्वसरत्वाच्च पवनस्यासृजस्तथा|
तद्द्रवत्वात् सरत्वाच्च देहं गच्छन् सिरायनैः||१३||
पर्वस्वभिहतं क्षुब्धं वक्रत्वादवतिष्ठते|
स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः||१४||
करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु|
भवन्ति वेदनास्तास्ता अत्यर्थं दुःसहा नृणाम्||१५||
वातशोणितस्य वैशेषिकं स्थानमाह| तस्य स्थानमित्यादि| करपादग्रहणेनैव अङ्गुलीनां ग्रहणे प्राप्ते अङ्गुलीनां बहुपर्वतया विशेषेणाधिष्ठानत्वोपदर्शनार्थं पुनरभिधानम्| मूलमास्थायेति आस्पदं कृत्वा| देहधावने हेतुमाह- सौक्ष्म्यादित्यादि|- सूक्ष्ममार्गानुसारित्वात्| वातशोणितस्य देहं सर्पतो विशेषेण पर्वावस्थानं सहेतुकमाह- तद्द्रवत्वादित्यादि| सिरायनैरिति सिरारूपैर्मार्गैः| वक्रत्वादिति पर्वणां वक्रत्वात्| पित्तादिसंसृष्टमिति पित्तेन कफेन च हेत्वन्तरागतेन वायुना च युक्तम्| तस्मादिति सन्धिष्ववस्थानात्||१२-१५||
Adhikarana 4 (16-18) · Śloka 18
स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक्|
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः||१६||
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु|
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च||१७||
कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत्|
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम्||१८||
स्वेदोऽत्यर्थमित्यादिना पूर्वरूपमाह| स्वेदोऽत्यर्थं नवेति च यद्यपि कुष्ठपूर्वरूपेऽप्युक्तं, तथाऽप्यसमानभूरिपूर्वरूपसम्बन्धादन्यतरयोगपूर्वरूपत्वे निश्चयः||१६-१८||
Adhikarana 5 (19-23) · Śloka 23
उत्तानमथ गम्भीरं द्विविधं तत् प्रचक्षते|
त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्||१९||
कण्डूदाहरुगायामतोदस्फुरणकुञ्चनैः|
अन्विता श्यावरक्ता त्वग्बाह्ये ताम्रा तथेष्यते||२०||
गम्भीरे श्वयथुः स्तब्धः कठिनोऽन्तर्भृशार्तिमान्|
श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान्||२१||
रुग्विदाहान्वितोऽभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु|
छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान्||२२||
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्|
सर्वैर्लिङ्गैश्च विज्ञेयं वातासृगुभयाश्रयम्||२३||
वातशोणितस्य अवगाढानवगाढभेदं चिकित्सार्थमाह- उत्तानमित्यादि| अन्तराश्रयमिति त्वङ्मांसव्यतिरिक्तगम्भीरधात्वाश्रयम्| सर्वैर्लिङ्गैरिति उत्तानगम्भीरवातरक्तोक्तैर्मिलितैः| अयं च तृतीयः प्रकारो बाह्याभ्यन्तरप्रकारोक्तप्रकारगृहीत एवेति कृत्वा रोगसङ्ग्रहे द्विविधं वातशोणितमुक्तम्| “द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते; तत्तु न सम्यक्, कस्मात्? कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति” (सु.चि.अ.५) इत्यनेन सुश्रुतेन यद्द्वैविध्यं खण्डितं तदाचार्ययोः परमात्मनोः सुश्रुताग्निवेशयोरेकस्याप्यप्रामाण्यं न सङ्गतमिति कृत्वा अविरोधमेवात्र व्याख्यानयामः; तथाहि- सुश्रुतेन उत्तानं वातशोणितं कुष्ठवद्गम्भीरं भवतीत्युच्यते, न तु सर्वमेवोत्तानं भूत्वा गम्भीरं भवतीति प्रतिज्ञायते; तेन यो ब्रूते- उत्तानमेवावतिष्ठते, तं प्रति सुश्रुतवचनं बाधकं; तन्न, चरके उत्तानमेवावतिष्ठते इति नोच्यत एव, किन्तु प्रथमोत्पत्तौ किञ्चिदुत्तानमुत्पद्यते, किञ्चित्तु गम्भीरमिति, तेन न विरोधश्चरकसुश्रुतयोः||१९-२३||
Adhikarana 6 (24-29) · Śloka 29
तत्र वातेऽधिके वा स्याद्रक्ते पित्ते कफेऽपि वा|
संसृष्टेषु समस्तेषु यच्च तच्छृणु लक्षणम्||२४||
विशेषतः सिरायामशूलस्फुरणतोदनम् |
शोथस्य कार्ष्ण्यं रौक्ष्यं च श्यावतावृद्धिहानयः||२५||
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्|
कुञ्चनस्तम्भने शीतप्रद्वेषश्चानिलेऽधिके||२६||
श्वयथुर्भृशरुक् तोदस्ताम्रश्चिमिचिमायते|
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदान्वितोऽसृजि ||२७||
विदाहो वेदना मूर्च्छा स्वेदस्तृष्णा मदो भ्रमः|
रागः पाकश्च भेदश्च शोषश्चोक्तानि पैत्तिके||२८||
स्तैमित्यं गौरवं स्नेहः सुप्तिर्मन्दा च रुक् कफे|
हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वत्रिदोषजम्||२९||
तत्र वातेऽधिके इत्यादौ रक्ते पित्ते कफे वा ‘अधिके’ इत्यनुवर्तनीयं; तेन पित्तवृद्धिः, शोणितवृद्धिः, कफवृद्धिश्च ज्ञेया| संसृष्टेष्विति द्वित्रिषु मिलितेषु समस्तेष्विति चतुःष्वपि मिलितेष्वधिकेषु| सिरायामेत्यादिना वाताद्युल्बणानां चतुर्णां लक्षणमाह| आयामः विस्तरणम्| श्यावता श्याववर्णत्वम्| श्वयथुरित्यादिना असृजीत्यन्तेन उद्रिक्तरक्तस्य लक्षणम्| द्वन्द्वत्रिदोषजमित्यत्र अधिकशोणितानुबन्धोऽपि गृहीतव्यः; तेन वातादिचतुष्टयाधिकमेलकमपि वातशोणितं ज्ञेयम्| अत एव एकद्वित्रिसर्वाधिकभेदाद् द्विविधस्यापि वातशोणितस्य पूर्वटीकाकृद्भिः पञ्चचत्वारिंशद्भेदा उक्ताः| खरनादेन तु प्रकरणान्तरेण षट्त्रिंशद्विधमुक्तम्| उक्तं हि- “वातोत्तरं प्रवृद्धासृक् पञ्चत्रिंशद्विधं मतम्| पित्तात्त्रिंशद्विधं योगात् कफाद्दशविधं मतम्” इति| एते भेदा अनतिप्रयोजनत्वान्न विवृताः||२४-२९||
Adhikarana 7 (30-34) · Śloka 34
एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम्|
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः||३०||
अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः|
मूर्च्छायमदरुक्तृष्णाज्वरमोहप्रवेपकाः||३१||
हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः|
अङ्गुलीवक्रता स्फोटा दाहमर्मग्रहार्बुदाः||३२||
एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वाऽपि यत्|
सम्प्रस्रावि विवर्णं च स्तब्धमर्बुदकृच्च यत्||३३||
वर्जयेच्चैव सङ्कोचकरमिन्द्रियतापनम्|
अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम्||३४||
साध्यादिविभागमाह- एकदोषानुगमित्यादि| यस्य च स्युरुपद्रवा इति साध्यत्वेनोक्तस्यापि वक्ष्यमाणोपद्रवयोगादसाध्यता| त्रिदोषस्यासाध्यत्वेऽपि यद्वक्ष्यति ‘खजेन मथिता पेया वातरक्ते त्रिदोषजे’ इति, तदसम्पूर्णलक्षणाभिनवत्रिदोषजाभिप्रायेण| मूर्च्छायः मूर्च्छा| पाङ्गुल्यं पङ्गुता| मोहेनैकेनेति इतरोपद्रवाणां मेलकादसाध्यत्वं, मोहस्तु एक एव असाध्यताकर इत्यर्थः; ये तु ‘मेहेनैकेन’ इति पठन्ति, ते मेहवातशोणितयोर्विरुद्धोपक्रमतया मेहयोगेनासाध्यतामाहुः; वातशोणितस्य हि प्रायेण मधुरशीतोपक्रमः, तद्विपरीतस्तु मेहस्येति विरुद्धोपक्रमता| विवर्णमिति विपरीतवर्णं; विवर्णत्वमात्रं तु सर्ववातानुगतोपद्रवः ||३०-३४||
Adhikarana 8 (35-40) · Śloka 40
रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः|
निविश्यान्योन्यमावार्य वेदनाभिर्हरेदसून्||३५||
तत्र मुञ्चेदसृक् शृङ्गजलौकःसूच्यलाबुभिः|
प्रच्छनैर्वा सिराभिर्वा यथादोषं यथाबलम्||३६||
रुग्दाहशूलतोदार्तादसृक् स्राव्यं जलौकसा|
शृङ्गैस्तुम्बैर्हरेत् सुप्तिकण्डूचिमिचिमायनात्||३७||
देशाद्देशं व्रजत् स्राव्यं सिराभिः प्रच्छनेन वा|
अङ्गग्लानौ न तु स्राव्यं रूक्षे वातोत्तरे च यत् ||३८||
गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायुसिरामयान्|
ग्लानिं चापि ससङ्कोचां कुर्याद्वायुरसृक्क्षयात्||३९||
खाञ्ज्यादीन् वातरोगांश्च मृत्युं चात्यवसेचनात्|
कुर्यात्तस्मात् प्रमाणेन स्निग्धाद्रक्तं विनिर्हरेत्||४०||
वातशोणितस्य रक्तहरणार्थं रूपमाह- रक्तमार्गमित्यादि| रक्तस्य मार्गं मारुतो निहन्ति शाखासन्धिषु निविश्येति शाखासन्धिषु स्थित्वा, ततश्च वायुना रक्तनिरोधात्, अन्योन्यमावार्येति रक्तेन वातं वातेन च रक्तमावार्य, वातरक्तं वेदनाभिर्हरेदसूमिति योज्यम्| अत एवात्र वातशोणिते असृग्विमुञ्चेदिति भावः| असृङ्मोक्षणेन आवरणव्यपगमाद्वायुरपि प्रसन्नो भवति, ततश्च व्याध्युपरम इति भावः| देशाद्देशं व्रजदिति स्थानान्तरप्रसरणशीलम्| अङ्गग्लानाविति अङ्गशोषे| स्रावणाहे शोणितेऽप्यतिस्रावणाद्दोषमाह- गम्भीरमित्यादि| खाञ्ज्यादीनिति खाञ्ज्यपाङ्गुल्यकुब्जत्वादीन् वातरोगान्| कुर्यादिति च्छेदः| प्रमाणेनेति अविकारिमात्रया||३५-४०||
Adhikarana 9 (41) · Śloka 42
विरेच्यः स्नेहयित्वाऽऽदौ स्नेहयुक्तैर्विरेचनैः|
रूक्षैर्वा मृदुभिः शस्तमसकृद्वस्तिकर्म च||४१||
सेकाभ्यङ्गप्रदेहान्नस्नेहाः प्रायोऽविदाहिनः|
वातरक्ते प्रशस्यन्त ...|४२|
विरेचनविधाने स्नेहयुक्तै रूक्षौर्वेति विकल्पद्वये स्नेहयुक्तविरेचनमीषत्स्निग्धविषयं, रूक्षैस्तु विरेचनमतिस्निग्धविषयम्| मृदुभिरित्यनेन वातक्षोभभयादत्र तीक्ष्णविरेचनं निषेधयति| बस्तिकर्मेति अनुवासननिरूहरूपम्| प्रायोऽविदाहिन इति नितरामविदाहिनः||४१||-
Adhikarana 10 (42-48) · Śloka 48
... विशेषं तु निबोध मे||४२||
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः|
विरेकास्थापनस्नेहपानैर्गम्भीरमाचरेत्||४३||
सर्पिस्तैलवसामज्जापानाभ्यञ्जनबस्तिभिः|
सुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत्||४४||
विरेचनैर्घृतक्षीरपानैः सेकैः सबस्तिभिः|
शीतैर्निर्वापणैश्चापि रक्तपित्तोत्तरं जयेत्||४५||
वमनं मृदु नात्यर्थं स्नेहसेकौ विलङ्घनम्|
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे||४६||
कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते|
दाहशोथरुजाकण्डूविवृद्धिः स्तम्भनाद्भवेत्||४७||
रक्तपित्तोत्तरे चोष्णैर्दाहः क्लेदोऽवदारणम्|
भवेत्तस्माद्भिषग्दोषबलं बुद्ध्वाऽऽचरेत्क्रियाम्||४८||
विशेषमिति विशिष्टचिकित्सितम्| बाह्यमिति उत्तानम्| मृद्विति वमनविशेषणम्| कफोत्तरे वातोत्तरे च शीतप्रलेपदोषमाह- कफवातोत्तरे इत्यादि| शीतलेपेन विदाहोऽत्र ऊष्मरोधाद्भवतीति ज्ञेयम्| पित्तोत्तरे रक्तोत्तरे च उष्णप्रलेपैर्दोषमाह- रक्तपित्तोत्तरे इत्यादि| दोषबलं बुद्ध्वा आचरेदिति दोषबलं बुद्ध्वा अनुगुणामेव क्रियामाचरेत्; वातकफोत्तरे उष्णां, रक्तपित्तोत्तरे शीतां, मिश्रे च मिश्रामिति भावः||४२-४८||
Adhikarana 11 (49-54) · Śloka 54
दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा|
कटूष्णं गुर्वभिष्यन्दि लवणाम्लं च वर्जयेत्||४९||
पुराणा यवगोधूमनीवाराः शालिषष्टिकाः|
भोजनार्थं रसार्थं वा विष्किरप्रतुदा हिताः||५०||
आढक्यश्चणका मुद्गा मसूराः समकुष्ठकाः|
यूषार्थं बहुसर्पिष्काः प्रशस्ता वातशोणिते||५१||
सुनिषण्णकवेत्राग्रकाकमाचीशतावरी|
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा||५२||
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत्|
व्यञ्जनार्थं, तथा गव्यं माहिषाजं पयो हितम्||५३||
इति सङ्क्षेपतः प्रोक्तं वातरक्तचिकित्सितम्|
एतदेव पुनः सर्वं व्यासतः सम्प्रवक्ष्यते||५४||
नीवारः उडिका| सौवर्चलमिति सूर्यावर्तशाकम्| व्यञ्जनार्थमिति भोजनसाधनतया व्यञ्जते इति व्यञ्जनम्| एतदेवेति सङ्क्षिप्तप्रयोगकथनम्| व्यासतः प्रपञ्चेन||४९-५४||
Adhikarana 12 (55-60) · Śloka 60
श्रावणीक्षीरकाकोलीजीवकर्षभकैः समैः|
सिद्धं समधुकैः सर्पिः सक्षीरं वातरक्तनुत्||५५||
बलामतिबलां मेदामात्मगुप्तां शतावरीम्|
काकोलीं क्षीरकाकोलीं रास्नामृद्धिं च पेषयेत्||५६||
घृतं चतुर्गुणक्षीरं तैः सिद्धं वातरक्तनुत्|
हृत्पाण्डुरोगवीसर्पकामलाज्वरनाशनम्||५७||
त्रायन्तिकातामलकीद्विकाकोलीशतावरी|
कशेरुकाकषायेण कल्कैरेभिः पचेद्धृतम्||५८||
दत्त्वा परूषकाद्राक्षाकाश्मर्येक्षुरसान् समान्|
पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम्||५९||
एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम्|
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे||६०||
इति पारूषकं घृतम्|
श्रावणी मुण्डितिका| सक्षीरमित्यनेन द्रवान्तराभावाच्चतुर्गुणक्षीरमेव घृताद्भवति| त्रायन्तिकेत्यादौ कल्कैरेभिरित्यनेन शतावर्यन्तानां कल्कत्वं, कशेरुकाकषायः, परूषकरसादीनां प्रत्येकं घृतसमानत्वं, विदारीरसस्यापि तथावचनात् समत्वम्| अत्र जतूकर्णः- “तुल्यरसैः परूषककाश्मर्यककशेरुकाविदरीद्राक्षेक्षूणां चतुष्के पयसि द्विकाकोलीतामलकीशतावर्यः पिष्ट्वा पचेद् घृतं, प्रयोगेण तद्वातास्रवीसर्पज्वरजित् सर्पिः पारूषकं नाम” इति| प्रायोगिकमिति अभ्यासोपयोज्यम्||५५-६०||
Adhikarana 13 (61-70) · Śloka 70
द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम्|
मुद्गपर्णीं महामेदां माषपर्णीं शतावरीम्||६१||
शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम्|
पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाचयेत्||६२||
पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान्|
घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत्||६३||
कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम्|
त्वक्क्षीरीं पिप्पलीं द्राक्षां पद्मबीजं पुनर्नवाम्||६४||
नागरं क्षीरकाकोलीं पद्मकं बृहतीद्वयम्|
वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम्||६५||
खर्जूराक्षोटवाताममुञ्जाताभिषुकांस्तथा|
एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत्||६६||
सम्यक् सिद्धं च विज्ञाय सुगुप्तं सन्निधापयेत्|
कृतरक्षाविधिं चौक्षे प्राशयेदक्षसम्मितम्||६७||
पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम्|
पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम्||६८||
क्षतशोषमपस्मारमश्मरीं शर्करां तथा|
सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत्||६९||
बलवर्णकरं धन्यं वलीपलितनाशनम्|
जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम्||७०||
द्वे पञ्चमूले इत्यादौ वर्षाभूः श्वेतपुनर्नवा| अवाक्पुष्पी ‘अधःपुष्पी’ इति ख्याता| क्षीरादीनां स्नेहसमत्वम्| वीरा वृद्धिः| भव्यादय औत्तरापथिकाः| सुगुप्तमिति वाताद्यस्पर्शनीयं यथा भवति| चौक्षे इति शुचौ||६१-७०||
Adhikarana 14 (71-75) · Śloka 75
द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम्|
पिबेद्धृतं तथा क्षीरं गुडूचीस्वरसे शृतम्||७१||
जीवकर्षभकौ मेदामृष्यप्रोक्तां शतावरीम्|
मधुकं मधुपर्णीं च काकोलीद्वयमेव च||७२||
मुद्गमाषाख्यपर्णिन्यौ दशमूलं पुनर्नवाम्|
बलामृताविदारीश्च साश्वगन्धाश्मभेदकाः||७३||
एषां कषायकल्काभ्यां सर्पिस्तैलं च साधयेत्|
लाभतश्च वसामज्जधान्वप्रातुदवैष्किरम्||७४||
चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम्|
सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान्||७५||
द्राक्षेत्यादौ ससितोपलमिति प्रक्षिप्तशर्करम्| ऋष्यप्रोक्ता अतिबला| काला मञ्जिष्ठा| मधुपर्णी विकङ्कतः| धान्वप्रातुदवैष्किरमिति वसामज्जविशेषणम्||७१-७५||
Adhikarana 15 (76-87) · Śloka 87
स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी|
काश्मर्याण्यात्मगुप्ता च वृश्चीरो द्वे बले तथा||७६||
एषां क्वाथे चतुःक्षीरं पृथक् तैलं पृथग्घृतम्|
मेदाशतावरीयष्टिजीवन्तीजीवकर्षभैः||७७||
पक्त्वा मात्रा ततः क्षीरत्रिगुणाऽध्यर्धशर्करा|
खजेन मथिता पेया वातरक्ते त्रिदोषजे||७८||
तैलं पयः शर्करां च पाययेद्वा सुमूर्च्छितम्|
सर्पिस्तैलसिताक्षौद्रैर्मिश्रं वाऽपि पिबेत् पयः||७९||
अंशुमत्या शृतः प्रस्थः पयसो द्विसितोपलः|
पाने प्रशस्यते तद्वत् पिप्पलीनागरैः शृतः||८०||
बलाशतावलीरास्नादशमूलैः सपीलुभिः|
श्यामैरण्डस्थिराभिश्च वातार्तिघ्नं शृतं पयः||८१||
धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम्|
पिबेद्वा सत्रिवृच्चूर्णं पित्तरक्तावृतानिलः||८२||
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः|
बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः||८३||
कषायमभयानां वा घृतभृष्टं पिबेन्नरः|
क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा||८४||
काश्मर्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम्|
शृतं पिबेद्विरेकाय लवणक्षौद्रसंयुतम्||८५||
त्रिफलायाः कषायं वा पिबेत् क्षौद्रेण संयुतम्|
धात्रीहरिद्रामुस्तानां कषायं वा कफाधिकः||८६||
योगैश्च कल्पविहितैरसकृत्तं विरेचयेत्|
मृदुभिः स्नेहसंयुक्तैर्ज्ञात्वा वातं मलावृतम्||८७||
स्थिरेत्यादौ चतुःक्षीरमिति चतुर्गुणं क्षीरम्| पृथक् तैलं पृथग्घृतमित्यनेन सम्मिश्रपाकं निषेधयति| क्षीरत्रिगुण सार्धभागा शर्करा यस्यां मात्रायां सा क्षीर त्रिगुणाऽध्यर्धशर्करा| खजःपञ्चाङ्गुलो हस्तः, मन्थानं वा| मात्रा चात्र मिलितयोस्तैलसर्पिषोर्ग्राह्या| अंशुमती शालपर्णी| द्विसितोपल इति शर्करापलद्वययुक्तः| इयं च क्षीरमात्रा उत्तमाग्नीन् प्रति| धारोष्णमिति दोहकालधारापतितमग्नियोगाद्विना उष्णीभूतम्| मूत्रं चात्र क्षीरसमम्| सत्रिवृच्चूर्णं धारोष्णं क्षीरमिति सम्बन्धः| प्रयोगेणेति अभ्यासेन| क्षीरप्रधानो बस्तिः क्षीरबस्तिः||७६-८७||
Adhikarana 16 (88-95) · Śloka 95
निर्हरेद्वा मलं तस्य सघृतैः क्षीरबस्तिभिः|
न हि बस्तिसमं किञ्चिद्वातरक्तचिकित्सितम्||८८||
बस्तिवङ्क्षणपार्श्वोरुपर्वास्थिजठरार्तिषु|
उदावर्ते च शस्यन्ते निरूहाः सानुवासनाः||८९||
दद्यात्तैलानि चेमानि बस्तिकर्मणि बुद्धिमान्|
नस्याभ्यञ्जनसेकेषु दाहशूलोपशान्तये||९०||
मधुयष्ट्यास्तुलायास्तु कषाये पादशेषिते|
तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः||९१||
शतपुष्पावरीमूर्वापयस्यागुरुचन्दनैः|
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः||९२||
काकोलीक्षीरकाकोलीतामलक्यृद्धिपद्मकैः|
जीवकर्षभजीवन्तीत्वक्पत्रनखवालकैः||९३||
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः|
चतुष्प्रयोगात्तद्धन्ति तैलं मारुतशोणितम्||९४||
सोपद्रवं साङ्गशूलं सर्वगात्रानुगं तथा|
वातासृक्पित्तदाहार्तिज्वरघ्नं बलवर्णकृत्||९५||
इति मधुपर्ण्यादितैलम्|
मधुयष्ट्या इत्यादौ मधुकतुलायां जलद्रोणं दत्त्वा तैलाढकमानः क्वाथो भवति| वरी शतावरी| हंसपदी स्वनामख्याता| पयस्या अर्कपुष्पी| वितुन्नकं धान्यकम्| चतुष्प्रयोगादिति पानाभ्यङ्गबस्तिनस्यप्रयोगात्||८८-९५||
Adhikarana 17 (96-109) · Śloka 109
मधुकस्य शतं द्राक्षा खर्जूराणि परूषकम्|
मधूकौदनपाक्यौ च प्रस्थं मुञ्जातकस्य च||९६||
काश्मर्याढकमित्येतच्चतुर्द्रोणे पचेदपाम्|
शेषेऽष्टभागे पूते च तस्मिंस्तैलाढकं पचेत्||९७||
तथाऽऽमलककाश्मर्यविदारीक्षुरसैः समैः|
चतुर्द्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम्||९८||
कदम्बामलकाक्षोटपद्मबीजकशेरुकम्|
शृङ्गाटकं शृङ्गवेरं लवाणं पिप्पलीं सिताम्||९९||
जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत्|
नस्याभ्यञ्जनपानेषु बस्तौ चापि नियोजयेत्||१००||
वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे|
सर्वाङ्गैकाङ्गवाते च क्षतक्षीणे क्षतज्वरे||१०१||
सुकुमारकमित्येतद्वातास्रामयनाशनम्|
स्वरवर्णकरं तैलमारोग्यबलपुष्टिदम्||१०२||
इति सुकुमारकतैलम्|
गुडूचीं मधुकं ह्रस्वं पञ्चमूलं पुनर्नवाम्|
रास्नामेरण्डमूलं च जीवनीयानि लाभतः||१०३||
पलानां शतकैर्भागैर्बलापञ्चशतं तथा|
कोलबिल्वयवान्माषान्कुलत्थांश्चाढकोन्मितान्||१०४||
काश्मर्याणां सुशुष्काणां द्रोणं द्रोणशतेऽम्भसि|
साधयेज्जर्जरं धौतं चतुर्द्रोणं च शेषयेत्||१०५||
तैलद्रोणं पचेत्तेन दत्त्वा पञ्चगुणं पयः|
पिष्ट्वा त्रिपलिकं चैव चन्दनोशीरकेशरम्||१०६||
पत्रैलागुरुकुष्ठानि तगरं मधुयष्टिकाम्|
मञ्जिष्ठाष्टपलं चैव तत् सिद्धं सार्वयौगिकम्||१०७||
वातरक्ते क्षतक्षीणे भारार्ते क्षीणरेतसि|
वेपनाक्षेपभग्नानां सर्वाङ्गैकाङ्गरोगिणाम्||१०८||
योनिदोषमपस्मारमुन्मादं खञ्जपङ्गुताम्|
हन्यात् प्रसवनं चैतत्तैलाग्र्यममृताह्वयम्||१०९||
इत्यमृताद्यं तैलम्|
गुडूचीत्यादौ गुडूच्यादीनां प्रत्येकं शतपलत्वं, कोलादीनां प्रत्येकमाढकमानत्वम्| काश्मर्याणामिति गङ्गारीफलानाम्| सार्वयौगिकमिति पानादिचतुष्प्रयोगे यौगिकम्| प्रसवनमिति प्रसूतिकारकम्||९६-१०९||
Adhikarana 18 (110-113) · Śloka 113
पद्मवेतसयष्ट्याह्वफेनिलापद्मकोत्पलैः|
पृथक्पञ्चपलैर्दर्भबलाचन्दनकिंशुकैः||११०||
जले शृतैः पचेत्तैलप्रस्थं सौवीरसम्मितम्|
लोध्रकालीयकोशीरजीवकर्षभकेशरैः||१११||
मदयन्तीलतापत्रपद्मकेशरपद्मकैः|
प्रपौण्डरीककाश्मर्यमांसीमेदाप्रियङ्गुभिः||११२||
कुङ्कुमस्य पलार्धेन मञ्जिष्ठायाः पलेन च|
महापद्ममिदं तैलं वातासृग्ज्वरनाशनम्||११३||
इति महापद्मं तैलम्|
पद्मवेतसेत्यादौ फेनिला उपोदिका| सौवीरसम्मितमिति स्नेहसमं सौवीरकम्| लोध्रादिभिः कार्षिकैः, कुङ्कुमं च द्विकार्षिकम्||११०-११३||
Adhikarana 19 (114) · Śloka 115
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम्|
स्यात् पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः||११४||
खुड्डाकपद्मकमिदं तैलं वातास्रदाहनुत्|११५|
इति खुड्डाकपद्मकं तैलम्|
खुड्डाकपद्मकमिति अल्पपद्मकसञ्ज्ञं; सञ्ज्ञा चैषा वैद्यव्यवहारार्था||११४||-
Adhikarana 20 (115-118) · Śloka 118
शतेन यष्टिमधुकात् साध्यं दशगुणं पयः||११५||
तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु|
सिद्धं मधुककाश्मर्यसैर्वा वातरक्तनुत्||११६||
मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे|
क्षीरे साध्यं शतं कृत्वा तदेवं मधुकाच्छते||११७||
सिद्धं देयं त्रिदोषे स्याद्वातास्रे श्वासकासनुत्|
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम्||११८||
इति शतपाकं मधुकतैलम्|
शतेन यष्टिमधुकादित्यादौ यष्टीमधुपलशतं दशगुणेन क्षीरेण साध्यं, तेन चतुर्भागस्थितेन क्षीरेण तैलं पक्तव्यम्| तदेवं मधुकाच्छते सिद्धमिति शतधापाकेन मधुकपलशतात् सिद्धमित्यर्थः| अनेन च मधुकपलशतसाधनोपदेशेन शतं कृत्वेत्यत्र शतशब्दस्य विपुलवाचितां निषेणयति||११५-११८||
Adhikarana 21 (119-120) · Śloka 120
बलाकषायकल्काभ्यां तैलं क्षीरसमं पचेत्|
सहस्रं शतवारं वा वातासृग्वातरोगनुत्||११९||
रसायनमिदं श्रेष्ठमिन्द्रियाणां प्रसादनम्|
जीवनं बृंहणं स्वर्यं शुक्रासृग्दोषनाशनम्||१२०||
इति सहस्रपाकं शतपाकं वा बलातैलम्|
बलाकषायेत्यादिनोक्तशतसहस्रपाके अत्यर्थपाकात् स्नेहक्षयं पश्यन्तः शतगुणेन सहस्रगुणेन वा द्रवेणैकदैव पाकं व्याख्यानयन्ति; किन्तु तावती स्नेहमात्राऽत्र पक्तव्या या पाकोपक्षयेण निःशेषा न भवति, क्षीरं चात्र स्नेहवर्धकमस्ति, तेन यथाश्रुतमेवात्राचार्यवचनं प्रमाणमिति पश्यामः| किञ्च प्रत्यासन्ने एव पाके सद्रवे स्नेहकल्कोद्धरणमत्र कर्तव्यं, तेन स्नेहापेपक्षयैऽपि मात्राऽनेन भवति||११९-१२०||
Adhikarana 22 (121-122) · Śloka 122
गुडूचीरसदुग्धाभ्यां तैलं द्राक्षारसेन वा|
सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत्||१२१||
आरनालाढके तैलं पादसर्जरसं शृतम्|
प्रभूते खजितं तोये ज्वरदाहार्तिनुत् परम्||१२२||
गुडूचीत्यादौ द्रवात् पादिकः स्नेह इति न्यायात् प्रस्थं तैलस्य भवति| खजितमिति मथितम्||१२१-१२२||
Adhikarana 23 (123) · Śloka 123
समधूच्छिष्टमाञ्जिष्ठं ससर्जरससारिवम्|
पिण्डतैलं तदभ्यङ्गाद्बातरक्तरुजापहम्||१२३||
इति पिण्डतैलम्|
समधूच्छिष्टेत्यादौ मधुच्छिष्टादीनि कल्कः, जलं च द्रवं देयम्| पिण्डतैलभाषया चात्र वस्त्रपूतमेवैतत्तेलं कर्तव्यमित्याहुः| किन्तु, आरनालाढकसाध्यतैले एव सर्जरसस्थाने मधूच्छिष्टादीनां प्रक्षेपात् पिण्डतैलमनेनोच्यत इति जतूकर्णवचनादुन्नीयते; उक्तं हि तत्र- “काञ्जिकसर्जरसशृतं खजितं बहुना जलेन सिक्थकसर्जरसैर्युक्तमभ्यञ्जनम्” इति||१२३||
Adhikarana 24 (124-155) · Śloka 155
दशमूलशृतं क्षीरं सद्यः शूलनिवारणम्|
परिषेकोऽनिलप्राये तद्वत् कोष्णेन सर्पिषा||१२४||
स्नेहैर्मधुरसिद्धैर्वा चतुर्भिः परिषेचयेत्|
स्तम्भाक्षेपकशूलार्तं कोष्णैर्दाहे तु शीतलैः||१२५||
तद्वद्गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितैः|
क्वाथैर्वा जीवनीयानां पञ्चमूलस्य वा भिषक्||१२६||
द्राक्षेक्षुरसमद्यानि दधिमस्त्वम्लकाञ्जिकम्|
सेकार्थे तण्डुलक्षौद्रशर्कराम्बु च शस्यते||१२७||
कुमुदोत्पलपद्माद्यैर्मणिहारैः सचन्दनैः|
शीततोयानुगैर्दाहे प्रोक्षणं स्पर्शनं हितम्||१२८||
चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे|
शयने पुलिनस्पर्शशीतमारुतवीजिते||१२९||
चन्दनार्द्रस्तनकराः प्रिया नार्यः प्रियंवदाः|
स्पर्शशीताः सुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम्||१३०||
सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत्|
मधुकाश्वत्थत्वङ्मांसीवीरोदुम्बरशाद्वलैः||१३१||
जलजैर्यवचूर्णैर्वा सयष्ट्याह्वपयोघृतैः|
सर्पिषा जीवनीयैर्वा पिष्टैर्लेपोऽर्तिदाहनुत्||१३२||
तिलाः प्रियालो मधुकं बिसं मूलं च वेतसात्|
आजेन पयसा पिष्टः प्रलेपो दाहरागनुत्||१३३||
प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनैः|
सितोपलैरकासक्तुमसूरोशीरपद्मकैः||१३४||
लेपो रुग्दाहवीसर्परागशोफनिवारणः|
पित्तरक्तोत्तरे त्वेते, लेपान् वातोत्तरे शृणु||१३५||
वातघ्नैः साधितः स्निग्धः सक्षीरमुद्गपायसः |
तिलसर्षपपिण्डैर्वाऽप्युपनाहो रुजापहः||१३६||
औदकप्रसहानूपवेशवाराः सुसंस्कृताः|
जीवनीयौषधैः स्नेहयुक्ताः स्युरुपनाहने||१३७||
स्तम्भतोदरुगायामशोथाङ्गग्रहनाशनाः|
जीवनीयौषधैः सिद्धा सपयस्का वसाऽपि वा||१३८||
घृतं सहचरान्मूलं जीवन्ती च्छागलं पयः|
लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः||१३९||
क्षीरपिष्टमुमालेपमेरण्डस्य फलानि च|
कुर्याच्छूलनिवृत्त्यर्थं शताह्वामनिलेऽधिके||१४०||
समूलाग्रच्छदैरण्डक्वाथे द्विप्रास्थिकं पृथक्|
घृतं तैलं वसा मज्जा चानूपमृगपक्षिणाम्||१४१||
कल्कार्थे जीवनीयानि गव्यं क्षीरमथाजकम्|
हरिद्रोत्पलकुष्ठैलाशताह्वाश्वहनच्छदान् ||१४२||
बिल्वमात्रान् पृथक् पुष्पं काकुभं चापि साधयेत्|
मधूच्छिष्टपलान्यष्टौ दद्याच्छीतेऽवतारिते||१४३||
शूलेनैषोऽर्दिताङ्गानां लेपः सन्धिगतेऽनिले|
वातरक्ते च्युते भग्ने खञ्जे कुब्जे च शस्यते||१४४||
शोफगौरवकण्ड्वाद्यैर्युक्ते त्वस्मिन् कफोत्तरे|
मूत्रक्षारसुरापक्वं घृतमभ्यञ्जने हितम्||१४५||
पद्मकं त्वक् समधुकं सारिवा चेति तैर्घृतम्|
सिद्धं समधुशुक्तं स्यात् सेकाभ्यङ्गे कफोत्तरे||१४६||
क्षारस्तैलं गवां मूत्रं जलं च कटुकैः शृतम्|
परिषेके प्रशंसन्ति वातरक्ते कफोत्तरे||१४७||
लेपः सर्षपनिम्बार्कहिंस्राक्षीरतिलैर्हितः|
श्रेष्ठः सिद्धः कपित्थत्वग्घृतक्षीरैः ससक्तुभिः||१४८||
गृहधूमो वचा कुष्ठं शताह्वा रजनीद्वयम्|
प्रलेपः शूलनुद्वातरक्ते वातकफोत्तरे||१४९||
तगरं त्वक् शताह्वैला कुष्ठं मुस्तं हरेणुका|
दारु व्याघ्रनखं चाम्लपिष्टं वातकफास्रनुत्||१५०||
मधुशिग्रोर्हितं तद्वद्बीजं धान्याम्लसंयुतम्|
मुहूर्तं लिप्तमम्लैश्च सिञ्चेद्वातकफोत्तरम्||१५१||
त्रिफलाव्योषपत्रैलात्वक्क्षीरीचित्रकं वचाम्|
विडङ्गं पिप्पलीमूलं रोमशं वृषकत्वचम्||१५२||
ऋद्धिं तामलकीं चव्यं समभागानि पेषयेत्|
कल्यं लिप्तमयस्पात्रे मध्याह्ने भक्षयेत्ततः||१५३||
वर्जयेद्दधिशुक्तानि क्षारं वैरोधिकानि च|
वातास्रे सर्वदोषेऽपि हितं शूलार्दिते परम्||१५४||
बुद्ध्वा स्थानविशेषांश्च दोषाणां च बलाबलम्|
चिकित्सितमिदं कुर्यादूहापोहविकल्पवित्||१५५||
मधुरसिद्धैरिति जीवनीयसिद्धस्नेहैः| तण्डुलेत्यादौ प्रत्येकं त्रिभिरम्बुशब्दः सम्बध्यते| शीततोयानुगैरिति शीततोयसिक्तैः| चन्द्रपादाम्बुसंसिक्ते इति तुषारजलसिक्तै| पुलिनं नदीतटः, पुलिनस्पर्शेन शीतो मारुतः, तेन वीजिते शयने, ‘शयनस्य’ इति शेषः| एरका होग्गलः| पयसि निर्वृता इति क्षीरे निर्वापिताः| उमा अतसी| अग्रच्छदाः तरुणपत्राणि | मूत्रक्षारेत्यादौ क्षारः क्षारोदकम्| अम्लैरिति काञ्जिकादिभिः| रोमशं कासीसम्| कल्यमिति प्रातः| अवस्थाकर्तव्यमाह- बुद्ध्वेत्यादि| ऊहापोहविकल्पविदिति पूर्वोक्तचिकित्सितस्य ऊहापोहविकल्पज्ञः||१२४-१५५||
Adhikarana 25 (156-159) · Śloka 159
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा|
अतिवृद्ध्याऽनिले नादौ शस्तं स्नेहनबृंहणम्||१५६||
व्यायामशोधनारिष्टमूत्रपानैर्विरेचनैः|
तक्राभयाप्रयोगैश्च क्षपयेत् कफमेदसी||१५७||
बोधवृक्षकषायं तु प्रपिबेन्मधुना सह|
वातरक्तं जयत्याशु त्रिदोषमपि दारुणम्||१५८||
पुराणयवगोधूमसीध्वरिष्टसुरासवैः|
शिलाजतुप्रयोगैश्च गुग्गुलोर्माक्षिकस्य च||१५९||
कुपित इत्यादि| मेदसः कफस्य वा अतिवृद्ध्या कृतात् मार्गसंरोधादनिले कुपिते सति आदौ स्नेहनं तथा बृंहणं च न शस्तमिति श्लोकार्थः| अत्र स्नेहनबृंहणनिषेधे सति कर्तव्यमाह- व्यायामेत्यादिना माक्षिकस्य चेत्यन्तेन||१५६-१५९||
Adhikarana 26 (160) · Śloka 160
गम्भीरे रक्तमाक्रान्तं स्याच्चेत्तद्वातवज्जयेत्|
पश्चाद्वाते क्रियां कुर्याद्वातरक्तप्रसादनीम्||१६०||
गम्भीरे इति अवगाढे अनुत्ताने वातरक्ते| रक्तमाक्रान्तमिति अभिभूतं वायुना वातवज्जयेदिति| एतत्क्रियोत्तरकालीनं कर्तव्यमाह- पश्चाद्वातेत्यादि| कफमेदोवृते एव निर्जितकफमेदसि वाते वातरक्तप्रसादिनी क्रिया अत्रैवोक्तस्नेहप्रयोगादिका कार्या; वातविकारत्वाद् वातव्याधिचिकित्सितेन जयेत्| एतच्च वातेन रक्ताभिभवनं गम्भीर एव वातरक्ते प्रायो भवतीति दर्शयितुं ‘गम्भीरे’ इति कृतम्| गम्भीरानुगते हि वातरक्ते रक्तं बहु नास्ति, यतो रक्तस्य द्वितीया रक्तधरा त्वक् स्थानं; तेनोत्ताने एव रक्तं बलवत्, बाह्यस्थानत्वाद्रक्तस्य||१६०||
Adhikarana 27 (161-162) · Śloka 162
रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति|
भिन्नं स्रवति वा रक्तं विदग्धं पूयमेव वा||१६१||
तयोः क्रिया विधातव्या भेदशोधनरोपणैः |
कुर्यादुपद्रवाणां च क्रियां स्वां स्वाच्चिकित्सितात्||१६२||
आवस्थिकं विधिमाह- रक्तेत्यादि| रक्तवृद्ध्या पित्तवृद्ध्या चेति रक्तपित्तातिवृद्ध्या| पाकं नियच्छति ‘वातरक्तम्’ इति शेषः| तयोरित्यादि वृद्धपित्तवृद्धरक्तकृतपाकयोर्वातरक्तयोः| उपद्रवचिकित्सामतिदिशन्नाह- कुर्यादित्यादि||१६१-१६२||
Adhikarana 28 (163-165) · Śloka 165
तत्र श्लोकाः- हेतुः स्थानानि मूलं च यस्मात् प्रायेण सन्धिषु|
कुप्यति प्राक् च यद्रूपं द्विविधस्य च लक्षणम्||१६३||
पृथग्भिन्नस्य लिङ्गं च दोषाधिक्यमुपद्रवाः|
साध्यं याप्यमसाध्यं च क्रिया साध्यस्य चाखिला||१६४||
वातरक्तस्य निर्दिष्टा समासव्यासतस्तथा|
महर्षिणाऽग्निवेशाय तथैवावस्थिकी क्रिया||१६५||
हेतुः स्थानानीत्यादिसङ्ग्रहे दोषाधिक्यमुपद्रवाः साध्यं याप्यमसाध्यं चेति अननुक्रमेण सङ्ग्रहं करोति, उपद्रवाणामभावसद्भावस्तोकभावैः साध्यत्वासाध्यत्वयाप्यत्वख्यापनार्थम्||१६३-१६५||
Adhikarana puShpikA · Śloka 29
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सितस्थाने वातशोणितचिकित्सितं नामैकोनत्रिंशोऽध्यायः||२९||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने वातरक्तचिकित्सितं नामैकोनत्रिंशोऽध्यायः||२९||