Adhikarana 1 (1-2) · Śloka 2
अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पारिशेष्याद्गोमयचूर्णीयमुच्यते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो गोमयचूर्णीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पारिशेष्याद्गोमयचूर्णीयमुच्यते||१-२||
Adhikarana 2 (3-8) · Śloka 8
यस्य गोमयचूर्णाभं चूर्णं मूर्धनि जायते| सस्नेहं भ्रश्यते चैव मासान्तं तस्य जीवितम्||३|| निकषन्निव यः पादौ च्युतांसः परिधावति| विकृत्या न स लोकेऽस्मिंश्चिरं वसति मानवः||४|| यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्| आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति||५|| यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम् | यतमानो न शक्नोति दुर्लभं तस्य जीवितम्||६|| विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्| न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्||७|| आहारमुपयुञ्जानो भिषजा सूपकल्पितम्| यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम्||८||
🔊 Audio coming soon
चूर्णमित्यस्य विशेषणं- सस्नेहमिति| निकषन्निवेति घर्षन्निव| विकृत्येत्यनेन सहजं पादघर्षणादि निषेधति| पूर्वमुरः शुष्यतीत्यभिधानादेव शेषगात्रार्द्रतायां लब्धायां पुनः ‘आर्द्रेषु सर्वगात्रेषु’ इति वचनाद्विशेषेणापरगात्राणामार्द्रतां दर्शयति| यमुद्दिश्येति यस्यार्थे| सिद्धमिति अनेन रूपेण बहुशो ज्ञातम्| आहारमित्याद्यरिष्टं रोगिविषयं, तेन “इष्टं च गुणसम्पन्नं” (इं.अ.७) इत्यादिग्रन्थोक्तेन स्वस्थविषयेणारिष्टेन समं न पौनरुक्त्यम्||३-८||
Adhikarana 3 (9-24) · Śloka 25
दूताधिकारे वक्ष्यामो लक्षणानि मुमूर्षताम्| यानि दृष्ट्वा भिषक् प्राज्ञः प्रत्याख्यायादसंयमम्||९|| मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा| भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्||१०|| सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति| आगच्छन्ति भिषक् तेषां न भर्तारमनुव्रजेत्||११|| जुह्वत्यग्निं तथा पिण्डान् पितृभ्यो निर्वपत्यपि| वैद्ये दूता य आयान्ति ते घ्नन्ति प्रजिघांसवः||१२|| कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः| वैद्ये दूता मनुष्याणामागच्छन्ति मुमूर्षताम्||१३|| मृतदग्धविनष्टानि भजति व्याहरत्यपि| अप्रशस्तानि चान्यानि वैद्ये दूता मुमूर्षताम्||१४|| विकारसामान्यगुणे देशे कालेऽथवा भिषक्| दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्||१५|| दीनभीतद्रुतत्रस्तमलिनामसतीं स्त्रियम्| त्रीन् व्याकृतींश्च षण्डांश्च दूतान् विद्यान्मुमूर्षताम्||१६|| अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा| सम्प्रेक्ष्य चोग्रकर्माणं न वैद्यो गन्तुमर्हति||१७|| आतुरार्थमनुप्राप्तं खरोष्ट्ररथवाहनम्| दूतं दृष्ट्वा भिषग्विद्यादातुरस्य पराभवम्||१८|| पलालबुसमांसास्थिकेशलोमनखद्विजान्| मार्जनीं मुसलं शूर्पमुपानच्चर्म विच्युतम् ||१९|| तृणकाष्ठतुषाङ्गारं स्पृशन्तो लोष्टमश्म च| तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम्||२०|| यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्| पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्||२१|| तथा व्यसनिनं प्रेतं प्रेतालङ्कारमेव वा| भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा||२२|| रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्| स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदशुभं भवेत्||२३|| तत्पूर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः| दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत्||२४|| इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम्|२५|
🔊 Audio coming soon
अप्रयते इति अपवित्रे| सुप्ते इति निद्राणे| न भर्तारमिति न दूतप्रेषकमातुरमित्यर्थः| दूताश्च यद्यपि रोगिहितमिच्छन्ति, न प्रजिघांसवश्च भवन्ति, न च स्वभावाद् दूताः प्रजिघांसवो घ्नन्ति, तथाऽपि यथाऽऽतुरस्य विनाशो भवति तथा दैवप्रेरिताः सन्त आगच्छन्तो दूताः प्रजिघांसव इव तथा घ्नन्तीवेति कृत्वा ‘प्रजिघांसवो घ्नन्ति’ इत्युच्यन्ते| तेनात्र इवशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः| चिन्तयत्यप्रशस्तानीति सम्बन्धः| व्याहरत्यपि वैद्ये मृतदग्धविनष्टानीति योजना| विकारसामान्यगुणो देशो यथा- रक्तपित्ते ज्वलनसन्निहितो देशः, विकारसामान्यगुणः कालो यथा- रक्तपित्ते मध्याह्न इत्यादि ज्ञेयम्| त्रीनिति त्रिसङ्ख्या एव दूता अप्रशस्ताः| षण्डा नपुंसकाः| अङ्गव्यसनी छिन्ननासादिः| उग्रकर्मा मारणाद्यकार्यप्रवृत्तः| पलालेत्यादौ तृणकाष्ठादिपरिस्पृशो दूताः| तत्पूर्वदर्शने इति वैद्यपूर्वदर्शने, पलालबुसादीनि स्पृशन्त आतुरस्य मुमूर्षतां व्याहरन्तीति योजना| प्रेतालङ्कारमेव चेत्यन्तं यं पश्येत् तं च नानुव्रजेदिति सम्बन्धः| तद्वादीनि भिन्नादिवादीनि| तीव्र इति इन्द्रियोद्वेजकः| स्पर्शो विपुलो यथा तीव्रोग्रादिस्पर्शः| तत्पूर्वमिति दूतवचनात् पूर्वम्| अभितो वाक्यमिति सर्वभूतकालवचनम्| व्याहृतमिति आतुरावस्थाकथनम्||९-२४||-
Adhikarana 4 (25-31) · Śloka 32
पथ्यातुरकुलानां च वक्ष्याम्यौत्पातिकं पुनः||२५|| अवक्षुतमथोत्क्रुष्टं स्खलनं पतनं तथा| आक्रोशः सम्प्रहारो वा प्रतिषेधो विगर्हणम्||२६|| वस्त्रोष्णीषोत्तरासङ्गश्छत्रोपानद्युगाश्रयम्| व्यसनं दर्शनं चापि मृतव्यसनिनां तथा||२७|| चैत्यध्वजपताकानां पूर्णानां पतनानि च| हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः||२८|| पथच्छेदो बिडालेन शुना सर्पेण वा पुनः| मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति||२९|| शयनासनयानानामुत्तानानां च दर्शनम्| इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः||३०|| एतानि पथि वैद्येन पश्यताऽऽतुरवेश्मनि| शृण्वता च न गन्तव्यं तदागारं विपश्चिता||३१|| इत्यौत्पातिकमाख्यातं पथि वैद्यविगर्हितम्|३२|
🔊 Audio coming soon
औत्पातिकमिति अरिष्टसूचकनिमित्तम्| अवक्षुतं छिक्का| उत्कृष्टं सन्त्रस्तरुतम्| प्रतिषेधः ‘मा गच्छ’ इत्येवंरूपः| व्यसनं वस्त्रादीनां यत् स्फुटनादि| व्यसनीति व्यङ्गः, कलहवान् वा| पूर्णाः पूर्णकुम्भादयः| दूषणं भस्मपांशुभिरिति भस्मपांश्ववकिरणम्| पथच्छेद इति बिडालादिभिर्मार्गलङ्घनम्| मृगद्विजाः क्रूराः शृगालगृध्रादयः| दीप्ता दिक् यस्यां सूर्यो वर्तते, किंवा दक्षिणा दिक् दीप्तोच्यते| शयनं खट्वादि, आसनं पीठादि||२५-३१||-
Adhikarana 5 (32-39) · Śloka 39
इमामपि च बुध्येत गृहावस्थां मुमूर्षताम्||३२|| प्रवेशे पूर्णकुम्भाग्निमृद्बीजफलसर्पिषाम्| वृषब्राह्मणरत्नान्नदेवतानां च निर्गतिम्||३३|| अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च| भिषङ् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति||३४|| छिन्नभिन्नानि दग्धानि भग्नानि मृदितानि च| दुर्बलानि च सेवन्ते मुमूर्षोर्वैश्मिका जनाः||३५|| शयनं वसनं यानं गमनं भोजनं रुतम्| श्रूयतेऽमङ्गलं यस्य नास्ति तस्य चिकित्सितम्||३६|| शयनं वसनं यानमन्यं वाऽपि परिच्छदम्| प्रेतवद्यस्य कुर्वन्ति सुहृदः प्रेत एव सः||३७|| अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैवोपशाम्यति| निवाते सेन्धनं यस्य तस्य नास्ति चिकित्सितम्||३८|| आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा| अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्||३९||
🔊 Audio coming soon
विशिखानीति खण्डितानि; किंवा ‘वशिकानि’ इति पाठः, तदा शून्यानीत्यर्थः| वैश्मिका जना इति गृहप्रतिष्ठिता जनाः| प्रेतवत् मृतस्य यथा क्रियते शयनादि तथा| सुहृद इति वचनेनासुहृद्भिर्द्वेषादमङ्गलार्थं कृतं प्रेतवच्छयनादि निषेधयति| ज्योतिः अग्निः, निवाते सेन्धनश्च सन् यदि निर्वाति तदा रिष्टम्| अमत्राणीति शरावस्थाल्यादीनि||३२-३९||
Adhikarana 6 (40-42) · Śloka 42
भवन्ति चात्र- यद्द्वादशभिरध्यायैर्व्यासतः परिकीर्तितम्| मुमूर्षतां मनुष्याणां लक्षणं जीवितान्तकृत्||४०|| तत् समासेन वक्ष्यामः पर्यायान्तरमाश्रितम्| पर्यायवचनं ह्यर्थविज्ञानायोपपद्यते||४१|| अत्यर्थं पुनरेवेयं विवक्षा नो विधीयते| तस्मिन्नेवाधिकरणे यत् पूर्वमभिशब्दितम्||४२||
🔊 Audio coming soon
सम्प्रति द्वादशाध्यायोक्तं रिष्टं दुरधिगमार्थं सङ्ग्रहेण स्पष्टीकरणार्थमाह- द्वादशभिरित्यादि| पर्यायायान्तरमाश्रितमिति सञ्ज्ञान्तरेण कीर्तितम्| अर्थविज्ञानायेति पूर्वाभिधाने शब्दस्यानेकार्थाभिधायित्वादिना यत्र सन्देहो मिथ्याज्ञानं वा भवति, तस्य शब्दान्तरेणाभिधानाद् व्यक्तोऽर्थो भवतीति दर्शयति||४०-४२||
Adhikarana 7 (43-61) · Śloka 61
वसतां चरमं कालं शरीरेषु शरीरिणाम्| अभ्युग्राणां विनाशाय देहेभ्यः प्रविवत्सताम्||४३|| इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम्| तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्||४४|| विनाशायेह रूपाणि यान्यवस्थान्तराणि च| भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमम्||४५|| प्राणाः समुपतप्यन्ते विज्ञानमुपरुध्यते| वमन्ति बलमङ्गानि चेष्टा व्युपरमन्ति च||४६|| इन्द्रियाणि विनश्यन्ति खिलीभवति चेतना | औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि||४७|| स्मृतिस्त्यजति मेधा च ह्रीश्रियौ चापसर्पतः| उपप्लवन्ते पाप्मान ओजस्तेजश्च नश्यति||४८|| शीलं व्यावर्ततेऽत्यर्थं भक्तिश्च परिवर्तते| विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृतिं प्रति||४९|| शुक्रं प्रच्यवते स्थानादुन्मार्गं भजतेऽनिलः| क्षयं मांसानि गच्छन्ति गच्छत्यसृगपि क्षयम्||५०|| ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति सन्धयः| गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा||५१|| वैवर्ण्यं भजते कायः कायच्छिद्रं विशुष्यति| धूमः सञ्जायते मूर्ध्नि दारुणाख्यश्च चूर्णकः||५२|| सततस्पन्दना देशाः शरीरे येऽभिलक्षिताः| ते स्तम्भानुगताः सर्वे न चलन्ति कथञ्चन||५३|| गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः| विपर्यासेन वर्तन्ते स्थानेष्वन्येषु तद्विधाः||५४|| नखेषु जायते पुष्पं पङ्को दन्तेषु जायते| जटाः पक्ष्मसु जायन्ते सीमन्ताश्चापि मूर्धनि||५५|| भेषजानि न संवृत्तिं प्राप्नुवन्ति यथारुचि| यानि चाप्युपपद्यन्ते तेषां वीर्यं न सिध्यति||५६|| नानाप्रकृतयः क्रूरा विकारा विविधौषधाः| क्षिप्रं समभिवर्तन्ते प्रतिहत्य बलौजसी||५७|| शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टा विचिन्तितम् | उत्पद्यन्तेऽशुभान्येव प्रतिकर्मप्रवृत्तिषु||५८|| दृश्यन्ते दारुणाः स्वप्ना दौरात्म्यमुपजायते| प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते||५९|| प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्धते| कृत्स्नमौत्पातिकं घोरमरि(नि)ष्टमुपलक्ष्यते||६०|| इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम्| लक्षणानि यथोद्देशं यान्युक्तानि यथागमम्||६१||
🔊 Audio coming soon
अभ्युग्राणामिति अभ्युद्गतानाम्| प्रविवत्सतामिति प्रवस्तुमुद्यतानाम्| कान्तं वासमित्यनेन सर्वप्राणिनामेव सर्वावस्थासु शरीरं काम्यं भवतीति दर्शयति| कान्तमपि शरीररूपं वासो जीवितं वा बलादेव स्वकर्मणा त्यज्यमानमपि इहोपचारादिवशब्दलोपाद्वा स्वातन्त्र्येण निर्दिश्यते; यथा- जिहासतामिति, तथ तितिक्षतामिति| तन्त्रं शरीरं, तस्य यन्त्रं सिरास्नाय्वादिरूपं तन्त्रयन्त्रम्| तमोऽन्त्यमिति मरणरूपं तमः| विनाशायेह रूपाणीति प्राणसमुपतापादीनि| खिलीभवतीति अपथग्राहिणी भवति| पाप्मान इति पापजनितरोगाः, अधर्म्याश्च क्रियाः| छायाश्च विकृतिं प्रति ‘गच्छन्ति’ इति शेषः, तेन प्रत्येकं छाया विकृतिं गच्छतीत्यर्थः| धूमः सञ्जायते मूर्ध्नीति प्रकृतं बाष्पनिर्गमं विना बहलो धूम इव शिरसि भवति| दारुणाख्यश्च चूर्णक इति “यस्य गोमयचूर्णाभं” इत्यादिग्रन्थोक्तश्चूर्णकः| स्थानेष्वन्येषु तद्विधा इति शरीरदेशान्तरेषु| बहुवचनेन स्नेहादयो विपर्यासेन वर्तन्त इत्यर्थः| संवृत्तिमिति निष्पत्तिम्| उपपद्यन्ते सिध्यन्ति| नानाप्रकृतय इति परस्परं विरुद्धस्वभावाः| प्रतिकर्मप्रवृत्तिः चिकित्साप्रवृत्तिः| औत्पातिकमिति आकस्मिकं; तस्य विशेषणं- अरिष्टमिति; तेन रिष्टसूचकमौत्पातिकमिति फलति||४३-६१||
Adhikarana 8 (62-64) · Śloka 64
मरणायेह रूपाणि पश्यताऽपि भिषग्विदा| अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम्||६२|| पृष्टेनापि न वक्तव्यं तत्र यत्रोपघातकम्| आतुरस्य भवेद्दुःखमथवाऽन्यस्य कस्यचित्||६३|| अब्रुवन्मरणं तस्य नैनमिच्छेच्चिकित्सितुम्| यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक्||६४||
🔊 Audio coming soon
सम्प्रति ज्ञातस्य रिष्टस्य यथाऽप्रकाश्यत्वं तदाह- मरणायेत्यादि| आतुरस्योपघातकमिति योज्यम्| भवेद्दुःखमन्यस्येति सम्बन्धः||६२-६४||
Adhikarana 9 (65-66) · Śloka 66
लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता| लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम्||६५|| दूतैरौत्पातिकैर्भावैः पथ्यातुरकुलाश्रयैः| आतुराचारशीलेष्टद्रव्यसम्पत्तिलक्षणैः||६६||
🔊 Audio coming soon
हन्त मरणं चेदातुरस्य भावि नोच्यते, तत् किमारोग्यमपि भावि न वक्तव्यमेवेत्याह- लिङ्गेभ्य इत्यादि| मरणमाख्यापयन्तीति मरणाख्यानि, तेभ्यो विपरीतानि आरोग्यसूचकानि| आगन्त्विति पश्चात्कालभावि| औत्पातिकैर्भावैरिति शुभसूचनार्थमकस्मादुत्पन्नैर्भावैः; सामान्येन शुभाशुभसूचकं यदकस्मादुद्भवति तदौत्पातिकमुच्यते| द्रव्यसम्पत्तिलक्षणैरित्यन्तैरारोग्यमागन्तु वक्तव्यमिति योजना||६५-६६||
Adhikarana 10 (67-70) · Śloka 70
स्वाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम्| अमुण्डमजटं दूतं जातिवेशक्रियासमम्||६७|| अनुष्ट्रखरयानस्थमसन्ध्यास्वग्रहेषु च| अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु च||६८|| विना चतुर्थीं नवमीं विना रिक्तां चतुर्दशीम्| मध्याह्नमर्धरात्रं च भूकम्पं राहुदर्शनम्||६९|| विना देशमशस्तं चाशस्तौत्पातिकलक्षणम्| दूतं प्रशस्तमव्यग्रं निर्दिशेदागतं भिषक्||७०||
🔊 Audio coming soon
शुभभवनलक्षणं स्वाचारमित्यादिना ब्रूते| अमुण्डमिति असशिखकृतवपनोऽभिप्रेतः| जात्यादिभिरातुरेण सह समो जातिवेशक्रियासमः| अग्रहेष्विति अप्रशस्तस्थानस्थितक्रूरग्रहानधिष्ठितेषु कालेष्वित्यर्थः| अदारुणेषु नक्षत्रेष्वनुग्रेषु ध्रुवेषु चेति दारुणानीति तीक्ष्णानि, यदुवाच वराहः- “मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि” (बृ.सं.अ.१८) इति; शिव आर्द्रा, शक्रो ज्येष्ठा, भुजगाधिप आश्लेषा| उग्राणि च वराहोक्तानि यथा- “उग्राणि पूर्वभरणीपित्र्याणि” (बृ.सं.अ.९८) इति| तत्र पूर्वशब्देन पूर्वफाल्गुनी, पूर्वाषाढा, पूर्वभाद्रपदा च| पित्र्यं मघा| वराहोक्तदारुणादीनि नक्षत्राणि वर्जयित्वाऽन्येषु नक्षत्रेषु दूता आगताः शुभा भवन्ति| रिक्तामिति चतुर्थ्यादिविशेषणम्| चतुर्थी नवमी चतुर्दशी च रिक्तोच्यते| तथा रिक्तेति विशेषणेन चतुर्थ्यादीनां निष्फलत्वसूचनेन कर्मारम्भं प्रत्यनुपादेयतोपदिश्यते| शस्तमौत्पातिकमाकस्मिकं लक्षणं यस्य तच्छस्तौत्पातिकलक्षणम्||६७-७०||
Adhikarana 11 (71-79) · Śloka 80
दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च||७१|| रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च| सुरध्वजपताकानां फलानां यावकस्य च||७२|| कन्यापुंवर्धमानानां बद्धस्यैकपशोस्तस्था| पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च||७३|| मोदकानां सुमनसां शुक्लानां चन्दनस्य च| मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च||७४|| नृभिर्धेन्वाः सवत्साया वडवायाः स्त्रियास्तथा| जीवञ्जीवकसिद्धार्थसारसप्रियवादिनाम्||७५|| हंसानां शतपत्राणां चाषाणां शिखिनां तथा| मत्स्याजद्विजशङ्खानां प्रियङ्गूनां घृतस्य च||७६|| रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्| गन्धः सुरभिर्वर्णश्च सुशुक्लो मधुरो रसः||७७|| मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः| छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः||७८|| भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिस्वनाः| वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः||७९|| पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम्|८०|
🔊 Audio coming soon
दध्यक्षतेत्यादिना मार्गादिषु प्रशस्तदर्शनान्याह| सुरध्वजः शक्रध्वजः| कन्यापुंवर्धमानानामिति अङ्कारोपिताः कुमार्यः कुमाराश्च वर्धमानाः, पुरुषोत्तमवत् समासः; अन्ये तु वर्धमानाः शरावा इत्याहुः; ते चालेपनादिना मण्डिता इति बोद्धव्यम्| एकपशुः श्रेष्ठपशुरित्यर्थः| शकटस्य पूर्णस्य नृभिरिति सम्बन्धः| वडवायाः स्त्रियाश्च सवत्साया इति योजना| जीवञ्जीवकः पक्षी स्वनामप्रसिद्धः| प्रियवादी चातकः||७१-७९||-
Adhikarana 12 (80-86) · Śloka 86
मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः||८०|| श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः| धनैश्वर्यसुखावाप्तिरिष्टलाभः सुखेन च||८१|| द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च| गृहप्रासादशैलानां नागानामृषभस्य च||८२|| हयानां पुरुषाणां च स्वप्ने समधिरोहणम्| सोमार्काग्निद्विजातीनां गवां नॄणां पयस्विनाम्||८३|| अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःसृतिः| स्वप्ने देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम्||८४|| दर्शनं शुक्लवस्त्राणां ह्रदस्य विमलस्य च| मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः||८५|| स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम्| अश्वगोरथयानं च यानं पूर्वोत्तरेण च| रोदनं पतितोत्थानं द्विषतां चावमर्दनम्||८६||
🔊 Audio coming soon
योजनायां सत्यां सिद्धिः योजनासिद्धिः| सम्बाधनिःसृतिः सङ्कटनिस्तरणम्| द्विषतां चावमर्दनमित्यन्तं स्वप्ने ज्ञेयम्||८०-८६||
Adhikarana 13 (87-88) · Śloka 88
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु| साध्यत्वं न च निर्वेदस्तदारोग्यस्य लक्षणम्||८७|| आरोग्याद्बलमायुश्च सुखं च लभते महत्| इष्टांश्चाप्यपरान् भावान् पुरुषः शुभलक्षणः||८८||
🔊 Audio coming soon
सत्त्वस्य गुणस्य लक्षणैः सह संयोगः सत्त्वलक्षणसंयोगः| न च निर्वेद इति आत्मन्यनवज्ञेत्यर्थः||८७-८८||
Adhikarana 14 (89) · Śloka 89
तत्र श्लोकौ- उक्तं गोमयचूर्णीये मरणारोग्यलक्षणम्| दूतस्वप्नातुरोत्पातयुक्तिसिद्धिव्यपाश्रयम्||८९||
🔊 Audio coming soon
उक्तमित्याद्यध्यायसङ्ग्रहः| दूतादिषु पृथङ्मरणारोग्यलक्षणमिहोक्तं व्यक्तमेव| युक्त्याश्रयं मरणलक्षणं यथा- ‘यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्’ इत्यादिग्रन्थोक्तम्| सिद्ध्याश्रयं मरणलक्षणं यथा- ‘विज्ञातं’ इत्यादिग्रन्थोक्तम्| आरोग्यलक्षणं युक्त्याश्रयं सिद्ध्याश्रयं च यथा- ‘इष्टालाभः सुखेन च’ इति ग्रन्थोक्तम्||८९||
Adhikarana 15 (90) · Śloka 90
इतीदमुक्तं प्रकृतं यथातथं तदन्ववेक्ष्यं सततं भिषग्विदा| तथा हि सिद्धिं च यशश्च शाश्वतं स सिद्धकर्मा लभते धनानि च||९०||
🔊 Audio coming soon
इतीत्यादिनेन्द्रियस्थानोक्तं प्रमेयजातं महाफलत्वेनावश्यबोध्यतयोपदर्शयन्नुपसंहरति||९०||
Adhikarana puShpikA · Śloka 12
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्यायः||१२|| इति चरकसंहितायां पञ्चमम् इन्द्रियस्थानं सम्पूर्णम्|
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायामिन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्यायः||१२||