Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. aṇujyōtīyamindriyam

Adhikarana 1 (1-2) · Śloka 2

अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

सद्यःकालनियतं रिष्टमभिधाय कालविशेषनियतारिष्टाभिधायकमणुज्योतीयमुच्यते| अणुज्योतिश्चेह यथाश्रुतं रोगं वर्जयित्वा सञ्ज्ञायामनुक्रियते||१-२||

Adhikarana 2 (3) · Śloka 3

अणुज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा| रतिं न लभते याति परलोकं समान्तरम्||३||

🔊 Audio coming soon

ज्योतिः सकलशरीरान्तर्गतं तेजः, अणुज्योतिर्मन्दाग्निः| अनेकाग्रः व्याकुलचित्तः, दुर्मना इत्यनेन तु मनोदौर्बल्यमुच्यते; तेन न पौनरुक्त्यम्| समान्तरमिति समामध्ये||३||

Adhikarana 3 (4-6) · Śloka 6

बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते| लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः||४|| सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम्| संवत्सरान्ते जन्तुः स सम्पश्यति महत्तमः||५|| विकृत्या विनिमित्तं यः शोभामुपचयं धनम्| प्राप्नोत्यतो वा विभ्रंशं समान्तं तस्य जीवितम्||६||

🔊 Audio coming soon

बलिमिति वायसानां विधिवद्दत्तमन्नम्| महत्तम इति मरणरूपं तमः| विकृत्येति प्रसिद्धं धनादिकारणं विना| विनिमित्तमिति शरीरसम्बद्धधनादिसूचकलक्षणं विना; शरीरसम्बद्धलक्षणवशादेव कस्मिंश्चित्काले धनादि तदपचयो वा भवति; तच्च लक्षणनिमित्तत्वादरिष्टमिति प्रथमाध्याय एवोक्तम्| उपचयमिति शरीर एवोपचयम्| अतो विभ्रंशमिति शोभाद्यभावम्||४-६||

Adhikarana 4 (7) · Śloka 7

भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्| षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७||

🔊 Audio coming soon

भक्तिः इच्छा| अहेतुकमिति क्रियाविशेषणम्| सङ्ख्येयनिर्देशादेव षट्त्वे लब्धे पुनः षडिति पदं षण्णां समुदितानामेव निवृत्तिररिष्टमिति दर्शयितुम्||७||

Adhikarana 5 (8-9) · Śloka 9

धमनीनामपूर्वाणां जालमत्यर्थशोभनम्| ललाटे दृश्यते यस्य षण्मासान्न स जीवति||८|| लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते| यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्||९||

🔊 Audio coming soon

जालमिति जालाकारम्| चन्द्रवक्राभिरिति बालचन्द्रवक्राभिः||८-९||

Adhikarana 6 (10-11) · Śloka 11

शरीरकम्पः सम्मोहो गतिर्वचनमेव च| मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति||१०|| रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि| स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति||११||

🔊 Audio coming soon

रेत इत्याद्यरिष्टं ‘निष्ठ्यूतं च पुरीषं च’ (इं.अ.९) इत्यादिना यद्यप्युक्तं, तथाऽपीह समासवचनात् समुदितानामेव रेतःप्रभृतीनां मज्जनं स्वजनद्वेषे सति मारकं भवतीति ज्ञेयम्||१०-११||

Adhikarana 7 (12-17) · Śloka 17

हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः| शूयेते वा विना देहात् स च मासं न जीवति||१२|| ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते| राजी बालेन्दुकुटिला न स जीवितुमर्हति||१३|| प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः| उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति||१४|| ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च| ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्||१५|| सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः | कालपाशपरीतस्य त्रयमेतत् प्रवर्तते||१६|| प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव च| नरः स्वस्थवदाहारमबलः कालचोदितः||१७||

🔊 Audio coming soon

उभे इति वचनं समुदितहस्तादिशोषमेव दर्शयति| प्रवालकृतगुटिकावदाभासन्त इति प्रवालगुटिकाभासाः| कालपाशपरीतस्येति शीघ्रं मरिष्यतः| परिगृह्णाति स्वस्थवदाहारमिति योजना, अबलः सन् स्वस्थवदाहारमत्यर्थं करोतीत्यर्थः||१२-१७||

Adhikarana 8 (18-19) · Śloka 19

समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्| स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः ||१८|| शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा| असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः||१९||

🔊 Audio coming soon

समीप इत्यादि| चक्षुषोः समीपेऽङ्गुलीकरं कृत्वा तत् पश्यन् मृगयते प्रार्थयते, स्मयते च विस्मितो भवति| ऊर्ध्वगमनिमिषं च ईक्षणं यस्य स तथा| असत् अविद्यमानं शयनासनादि मृगयते प्रार्थयते||१८-१९||

Adhikarana 9 (20-21) · Śloka 21

अहास्यहासी सम्मुह्यन् प्रलेढि दशनच्छदौ| शीतपादकरोच्छ्वासो यो नरो न स जीवति||२०|| आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा| महामोहावृतमनाः पश्यन्नपि न पश्यति||२१||

🔊 Audio coming soon

अहास्यहासीति अहास्यविषये हास्यवान्| दशनच्छदौ ओष्ठौ| शीतशब्द उच्छ्वासान्तैः सम्बध्यते| जनमिति गोबलीवर्दन्यायेन स्वजनम्||२०-२१||

Adhikarana 10 (22) · Śloka 22

अयोगमतियोगं वा शरीरे मतिमान् भिषक्| खादीनां युगपद्दृष्ट्वा भेषजं नावचारयेत्||२२||

🔊 Audio coming soon

खादीनामिति खादिकार्याणां धातूनां, किंवा खादिकार्याणां श्रोत्रादीनाम्| योग्यविषयाग्रहणमयोगः| अविद्यमानविषयग्रहणमतियोगः||२२||

Adhikarana 11 (23-24) · Śloka 24

अतिप्रवृद्ध्या रोगाणां मनसश्च बलक्षयात्| वासमुत्सृजति क्षिप्रं शरीरी देहसञ्ज्ञकम्||२३|| वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम्| हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा||२४||

🔊 Audio coming soon

वासमिव वासं, शरीरमात्मनो गृहमिव भवति| न वा भवतीति सर्वथा न भवतीत्यर्थः||२३-२४||

Adhikarana 12 (25-26) · Śloka 26

भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये| वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः||२५|| एतेषु रोगः क्रमते भेषजं प्रतिहन्यते| नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत्||२६||

🔊 Audio coming soon

समवर्तिन इति यमस्य; अन्ये तु समवर्तिशब्देन कालमृत्युं ब्रुवते, चशब्देनोक्तवक्ष्यमाणसकलारिष्टग्रहणं कुर्वन्ति; तेन सर्वमेव रिष्टं कालमृत्योः परं भवतीति वर्णयन्ति| अत्र च द्वेषमनु रोगक्रमणं निष्फलो भेषजप्रयोगश्चापि स्यादित्याह- एतेष्वित्यादि| भेषजं प्रतिहन्यत इति सम्यक्कृतमपि भेषजं हन्यत इत्यर्थः| नैषामन्नानि भुञ्जीतेति प्रायेण तदन्नस्याविशुद्धत्वात्| एवमुदकप्रतिषेधेऽपि बोध्यम्||२५-२६||

Adhikarana 13 (27) · Śloka 27

पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः| व्यर्था गतायुषो द्रव्यं विना नास्ति गुणोदयः||२७||

🔊 Audio coming soon

पादा भिषगादयः| साधकैर्गुणैरिति “श्रुते पर्यवदातत्वं” (सू.अ.९) इत्यादिभिः षोडशगुणैः सम्पन्नाः| कस्माद्वैद्यादयो गतायुषो रोगान्न साधयन्तीत्याह- द्रव्यं विना नास्ति गुणोदय इति|- द्रव्यं कारणं विना आरोग्यलक्षणो गुणोदयो नास्ति| कारणं चेहारोग्योत्पत्तावगतायुष्ट्वं, तच्च नास्तीति भावः||२७||

Adhikarana 14 (28) · Śloka 28

परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च| आयुर्ज्ञानफलं कृत्स्नमायुर्ज्ञे ह्यनुवर्तते||२८||

🔊 Audio coming soon

आयुर्ज्ञानफलं विद्यमानायुषि भेषजदानम्||२८||

Adhikarana 15 (29) · Śloka 29

तत्र श्लोकः- क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः| चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं निरुच्यते||२९||

🔊 Audio coming soon

रिष्टलक्षणमाह- क्रियापथमतिक्रान्ता इत्यादि| अतिक्रान्ता इति गताः| दूतादिगतरिष्टलक्षणमेतन्न भवति, किन्तु शरीरगतरिष्टलक्षणं; तेन नाव्याप्तिर्लक्षणस्य वाच्या| सर्वरिष्टव्यापकं तु लक्षणं यथा- आयुषोऽन्तर्ग(ग)तस्य लिङ्गमिति| तच्च इन्द्रियपदेनैवोक्तमिति प्रथमाध्याय एव इन्द्रियपदव्याख्यायां प्रोक्तम्| ननु निर्निमित्तं रिष्टमित्युक्तम्, इह दोषजन्यत्वं रिष्टानामुच्यत इति न कथं विरोधः? न, निर्निमित्तत्वं ह्यनुपलभ्यमाननिमित्तत्वमुक्तं; तेन रूक्षादिहेतुप्राप्तिमन्तरेण प्रत्यासन्नमरणप्रभावकुपितदोषजन्यत्वं तत्तदरिष्टानामुच्यते, तेनेहाप्युपलभ्यमानव्यक्तनिमित्ततासद्भावान्न विरोधः||२९||

Adhikarana puShpikA · Śloka 11

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽणुज्योतीयमिन्द्रियं नामैकादशोऽध्यायः||११||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थानेऽणुज्योतीयमिन्द्रियं नामैकादशोऽध्यायः||११||