Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. sadyōmaraṇīyamindriyam

Adhikarana 1 (1-2) · Śloka 2

अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3-20) · Śloka 20

सद्यस्तितिक्षतः प्राणाँल्लक्षणानि पृथक् पृथक्| अग्निवेश! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति||३|| वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि| तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम्||४|| पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्| वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम्||५|| भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः| तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम्||६|| क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्| उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम्||७|| अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिलः| कृशस्य वङ्क्षणौ गृह्णन् सद्यो मुष्णाति जीवितम्||८|| वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः| स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम्||९|| हृदयं च गुदं चोभे गृहीत्वा मारुतो बली| दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम्||१०|| वङ्क्षणं च गुदं चोभे गृहीत्वा मारुतो बली| श्वासं सञ्जनयञ्जन्तोः सद्यो मुष्णाति जीवितम्||११|| नाभिं मूत्रं बस्तिशीर्षं पुरीषं चापि मारुतः| प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम्||१२|| भिद्येते वङ्क्षणौ यस्य वातशूलैः समन्ततः| भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१३|| आप्लुतं मारुतेनेह शरीरं यस्य केवलम्| भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१४|| शरीरं शोफितं यस्य वाताशोफेन देहिनः| भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१५|| आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका| भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१६|| पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका| तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम्||१७|| पक्वाशयमधिष्ठाय हत्वा सञ्ज्ञां च मारुतः| कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम्||१८|| दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्| सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः||१९|| तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः| स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः||२०||

🔊 Audio coming soon

Adhikarana 3 (21) · Śloka 21

तत्र श्लोकः- एतानि खलु लिङ्गानि यः सम्यगवबुध्यते| स जीवितं च मर्त्यानां मरणं चावबुध्यते||२१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 10

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने सद्योमरणीयमिन्द्रियं नाम दशमोऽध्यायः||१०||

🔊 Audio coming soon