Adhikarana 1 (1-2) · Śloka 2
अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
व्यवहितमरणप्रतिपादकमरिष्टमभिधाय प्रत्यासन्नमरणप्रतिपादकं रिष्टं वक्तुं सद्योमरणीयोऽभिधीयते| सद्यःशब्देनेह केचित् सप्तरात्रमिच्छन्ति, अपरे त्रिरात्रम्||१-२||
Adhikarana 2 (3-20) · Śloka 20
सद्यस्तितिक्षतः प्राणाँल्लक्षणानि पृथक् पृथक्|
अग्निवेश! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति||३||
वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि|
तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम्||४||
पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्|
वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम्||५||
भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः|
तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम्||६||
क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्|
उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम्||७||
अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिलः|
कृशस्य वङ्क्षणौ गृह्णन् सद्यो मुष्णाति जीवितम्||८||
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः|
स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम्||९||
हृदयं च गुदं चोभे गृहीत्वा मारुतो बली|
दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम्||१०||
वङ्क्षणं च गुदं चोभे गृहीत्वा मारुतो बली|
श्वासं सञ्जनयञ्जन्तोः सद्यो मुष्णाति जीवितम्||११||
नाभिं मूत्रं बस्तिशीर्षं पुरीषं चापि मारुतः|
प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम्||१२||
भिद्येते वङ्क्षणौ यस्य वातशूलैः समन्ततः|
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१३||
आप्लुतं मारुतेनेह शरीरं यस्य केवलम्|
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१४||
शरीरं शोफितं यस्य वाताशोफेन देहिनः|
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१५||
आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका|
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१६||
पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका|
तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम्||१७||
पक्वाशयमधिष्ठाय हत्वा सञ्ज्ञां च मारुतः|
कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम्||१८||
दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्|
सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः||१९||
तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः|
स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः||२०||
तितिक्षत इति तितिक्षत एव; प्राणानां प्रियत्वेन स्वयं हननायोग्यत्वात्| पिण्डिके इति जङ्घापिण्डिके| अन्तरेण गुदं नाभिं चेति गुदनाभिमध्ये| हृदयं गृहीत्वेति हृदयं स्वविकारेण प्राप्य | बस्तिशीर्षमिति बस्त्यूर्ध्वभागम्| प्रच्छिन्नमिति प्रच्छिन्नमिव प्रच्छिन्नं, छेदनाकारवेदनायुक्तत्वात्| आप्लुतमिति व्याप्तम्| शोथितमिति शोफयुक्तम्| परिकर्तिका परिकर्तनाकारा वेदना| घुर्घुरकमिति घुर्घुरकमित्याकारं शब्दं, स कफावरुद्धेन श्वासेन भवति| मुखं चूर्णकसन्निभं श्वैत्यात्| सिप्रायन्त इति सिप्रा नदी, तद्वत् स्वेदातिप्रादुर्भावादाचरन्तीति सिप्रायन्ते; किंवा सिप्रायन्त इति शिथिलीभवन्ति, अनेकार्थत्वाद्धातूनाम्||३-२०||
Adhikarana 3 (21) · Śloka 21
तत्र श्लोकः- एतानि खलु लिङ्गानि यः सम्यगवबुध्यते|
स जीवितं च मर्त्यानां मरणं चावबुध्यते||२१||
स जीवितं चावबुध्यत इति यथोक्तरिष्टाभावेन जीवितं बुध्यते, रिष्टसद्भावे च मरणं बुध्यत इति||२१||
Adhikarana puShpikA · Śloka 10
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने सद्योमरणीयमिन्द्रियं नाम दशमोऽध्यायः||१०||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने सद्योमरणीयमिन्द्रियं नाम दशमोऽध्यायः||१०||