Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. varṇasvarīyamindriyam

Adhikarana 1 (1-2) · Śloka 2

अथातो वर्णस्वरीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

शारीरे चिकित्साधिकरणं शरीरं प्रतिपाद्य चिकित्सा वक्तव्या, सा च साध्य एव रोगे वक्तव्या नासाध्यरोगे, यदुक्तं- “अर्थविद्यायशोहानिमुपक्रोशमसङ्ग्रहम्| प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत्” (सू.अ.१०) इति; न च रिष्टप्रतिपत्तिमन्तराऽसाध्यत्वप्रतिपत्तिरिति रिष्टप्रतिपादकमिन्द्रियस्थानमेव चिकित्सास्थानात् प्रागुच्यते | इन्द्रशब्देन प्राण उच्यते, तस्यान्तगतस्य लिङ्गं रिष्टाख्यमिन्द्रियं; यदुक्तं व्याकरणे- “इन्द्रियमिन्द्रलिङ्गं” (पा.अ.५.२.१३) इत्यादि; तस्येन्द्रियस्य स्थानमिन्द्रियस्थानम्| तत्रापि चेन्द्रियस्थाने वक्तव्ये व्यक्ततमरिष्टाभिधायकतया वर्णस्वरीयमिन्द्रियमुच्यते, अत्र हि यानि रिष्टानि वक्तव्यानि तानीतररिष्टेभ्यश्चक्षुरादिग्राह्यतया व्यक्ततमानि| वर्णस्वरावधिकृत्य कृतो वर्णस्वरीयः, इन्द्रियस्य रिष्टरूपस्य प्रतिपादकोऽध्याय इन्द्रियः, तं व्याख्यास्यामः| एवमन्यत्रापि पुष्पितकमित्याद्यपीन्द्रियविशेषणं व्याख्येयम्||१-२||

Adhikarana 2 (3) · Śloka 3

इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृतिश्च प्रकृतिश्च विकृतिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया च प्रतिच्छाया च स्वप्नदर्शनं च दूताधिकारश्च पथि चौत्पातिकं चातुरकुले भावावस्थान्तराणि च भेषजसंवृत्तिश्च भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा||३||

🔊 Audio coming soon

इन्द्रियस्थानप्रतिपाद्यं कृत्स्नं विषयमाह- इहेत्यादि| इह इन्द्रियस्थाने| खलुशब्दो वाक्यालङ्कारे| इह च यद्यपीन्द्रियाण्येव विषयवर्णादिग्राहकतया अग्रे वक्तुं युज्यन्ते, तथाऽपि तेषामतीन्द्रियत्वेन तदाश्रयरिष्टानामव्यक्तत्वं ; तेन, प्रव्यक्तानि वर्णादीन्येव प्रव्यक्तरिष्टाधिकरणान्यग्रेऽभिधीयन्ते| वर्णादिष्वपि च यथा व्यक्तत्वं तथा पूर्वनिपातः| मेघादिशब्दस्तु यद्यपि वर्णादपि व्यक्तस्तथाऽपि शब्दविशेष एवेह ताल्वादिसम्पाद्यः स्वरशब्दाभिधेयो रिष्टाधिकरणत्वेनाभिमतः, स च वर्णापेक्षयाऽव्यक्त एव| इहेत्यादावसमासेन प्रत्येकमपि वर्णादीनां रिष्टाधिकरणत्वं दर्शयति; समासे हि समुदायस्यैव रिष्टाधिकरणकतया परीक्षितव्यत्वं शङ्क्येत| वर्णशब्देन च वर्णसहचरिताश्चक्षुर्ग्राह्या रौक्ष्यादयोऽपि गृह्यन्ते; अत एव वर्णप्रस्ताव एव वक्ष्यति- यत्- “वर्णग्रहणेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः” इति| स्वरादिग्रहणेन च स्वराद्यभावोऽपि गृह्यते, तेनाङ्गुलिपर्वशब्दाभाव-गन्धाभावादयोऽपि रिष्टान्यवरुध्यन्ते| स्पर्शग्रहणेन च स्पर्शोपलभ्यकाठिन्याद्यवरोधः| सत्त्वं मनः; सत्त्वविकृतेरुदाहरणं यथा- “औत्सुक्यं भजते सत्त्वं चेतो भीराविशत्यपि” (इं.अ.१२) इत्यादि| भक्तिः इच्छा| शीलं सहजं वृत्तम्| आचारः शास्त्रशिक्षाकृतो व्यवहारः| भक्त्यादयो यद्यपि सत्त्वविकारत्वेन सत्त्वग्रहणेनैव लभ्यन्ते; यदुक्तं- “भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागोऽमात्सर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयः सत्त्वविकाराः” (शा.अ.३) इति; तथाऽपि भक्त्यादीनामपि पृथगरिष्टाधिकरणत्वेनेह पृथक्करणम्| निद्रादौर्बल्यात्तन्द्रेति तन्द्राशब्देन निद्रोच्यते; अत्र च रिष्टमुक्तं यथा- “निद्रा नित्या भवति वा न वा” (इं.अ.११) इति| आरम्भ इति अरिष्टव्याध्युत्पादारम्भः ; यदुक्तं- “श्वयथुर्यस्य कुक्षिस्थो हस्तपादं प्रधावति” (इं.अ.९) इत्यादि| गौरवे रिष्टं यथा- “निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति” (इं.अ.९) इत्यादि| लाघवे रिष्टं- गुरूणामङ्गानां लाघवं ज्ञेयम्| गुणरिष्टं यथा- “गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः| विपर्यासेन लक्ष्यन्ते स्थानेष्वन्येषु तद्विधाः” (इं.अ.१२) इति| आहाररिष्टं यथा- “आहारमुपयुञ्जानो भिषजा सूपकल्पितम्” (इं.अ.१२) इत्यादि| आहारपरिणामरिष्टं यथा- “दुर्बलो बहु भुङ्क्ते यो प्रागभुक्त्वाऽन्नमातुरः| अल्पमूत्रपुरीषश्च” (इं.अ.७) इति| उपाय उपगमनं व्याधिमेलक इत्यर्थः; यदुक्तं- “सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः| विश्लेषणं च सन्धीनां” (इं.अ.८) इति| व्याध्यपगमनमपायः; यदुक्तं- “यं नरं सहसा रोगो दुर्बलं परिमुञ्चति” (इं.अ.९) इत्यादि| व्याधिश्चेति व्याधिरेव रिष्टं यथा- “वाताष्ठीला सुसंवृत्ता दारुणा हृदि तिष्ठति” (इं.अ.१०) इति| छाया भौतिकी पञ्चरूपा, प्रतिच्छाया तु देहच्छाया; प्रतिच्छायया च नेत्रकुमारिकाऽपि प्रतिच्छायारूपा गृहीतव्या| अयं च छायादिभेदः पन्नरूपीयेन्द्रिये दर्शयितव्यः | आतुरकुले भावावस्थारिष्टं यथा- “अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च| भिषङ्मुमूर्षतां वेश्म प्रविशन्नेव पश्यति” (इं.अ.१२) इत्यादि| भेषजसंवृत्तौ रिष्टं यथा- “यमुद्दिश्यातुरं वैद्यः संवर्तयितुमौषधम्| यतमानो न शक्नोति दुर्लभं तस्य जीवितम्” (इं.अ.१२) इति| भेषजस्य विकारेण समं युक्तिर्भेषजविकारयुक्तिः; तत्र रिष्टं यथा- “विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्| न सिध्यत्यौषधं यस्य तस्य नास्ति चिकित्सितम्” (इं.अ.१२) इति| शेषं तु रिष्टोदाहरणं व्यक्तम्| इति समाप्तौ| प्रत्यक्षपूर्वकत्वात् सर्वप्रमाणानामिहादौ प्रत्यक्षं कृतम्| यद्यपि वर्णादय आयुर्लक्षणप्रतिपादिता दीर्घायुःप्रमाणजिज्ञासायामपि परीक्ष्यन्ते, तथाऽपीह रिष्टप्रकरणे आयुःप्रमाणावशेषज्ञानार्थमेव परीक्षणीयाः, अत उक्तं- प्रमाणावशेषं जिज्ञासमानेनेति||३||

Adhikarana 3 (4) · Śloka 4

तत्र तु खल्वेषां परीक्ष्याणां कानिचित् पुरुषमनाश्रितानि, कानिचिच्च पुरुषसंश्रयाणि| तत्र यानि पुरुषमनाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि पुनः प्रकृतितो विकृतितश्च||४||

🔊 Audio coming soon

पुरुषमनाश्रितानि दूताद्याश्रयाणि रिष्टानि| युक्तितश्चेत्यनुमानत इत्यर्थः, अत्र युक्तेरपि रिष्टत्वावधारणे क्षमत्वात्| प्रत्यक्षं हि दूतादीनां स्वरूपमात्रं गृह्णाति, रिष्टं तु दूतादीनामागमादेव ज्ञायते| पुरुषाश्रयिवर्णादिगतरिष्टग्रहणे तु प्रत्यक्षमपि तत्तदरिष्टविशेषग्रहणे तत्तद्विशेषेण व्याप्रियत इति मत्वाऽत्र तत्प्रतिषिद्धम्| अनुमानं तु रिष्टत्वेन प्रतिपादितमनिमित्तत्वादिधर्मविचारे व्याप्रियते, एवं सर्वत्र| प्रकृतितश्चेति पुरुषाश्रयविकृतिज्ञानहेतुतया प्रकृती रिष्टज्ञाने व्याप्रियते, यतः प्रकृतिज्ञानाधीनं विकृतिज्ञानं भवति; प्रकृतिविकृतिपरीक्षा त्वत्राधिकृतैः प्रसिद्धैः प्रत्यक्षादिभिरेव ज्ञेया||४||

Adhikarana 4 (5) · Śloka 5

तत्र प्रकृतिर्जातिप्रसक्ता च, कुलप्रसक्ता च, देशानुपातिनी च, कालानुपातिनी च वयोऽनुपातिनी च, प्रत्यात्मनियता चेति| जातिकुलदेशकालवयःप्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषा भवन्ति||५||

🔊 Audio coming soon

प्रकृतिं विभजते- तत्रेत्यादि| जातिप्रसक्ता यथा- ब्राह्मणजातौ शौचं, कुलप्रसक्ता यथा- किञ्चिदेव कुलं शुच्याचारवद्भवति, देशानुपातिनी यथा- अन्तर्वेदिवासिनः शुचयो भवन्ति, कालानुपातिनी यथा- कृतयुगे शौचं, वयोऽनुपातिनी यथा- बाल्येऽशौचं, प्रत्यात्मनियता यथा- कश्चिदेव पुरुषः प्रकृत्या शुचिर्भवति; इत्याद्युदाहरणीयम्| कुतः पुनर्जात्यादिनियता प्रकृतिर्भवतीत्यत्र हेतुमाह- जातिकुलेत्यादि| ते ते भावविशेषा इति शुचित्वाशौचादयः ||५||

Adhikarana 5 (6) · Śloka 6

विकृतिः पुनर्लक्षणनिमित्ता च, लक्ष्यनिमित्ता च, निमित्तानुरूपा च||६||

🔊 Audio coming soon

रिष्टाधिकाराधिकृतां विकृतिं विवेचयितुं सर्वानेव विकृतिभेदानाह- विकृतिरित्यादि||६||

Adhikarana 6 (7(1)) · Śloka 7

तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति दैवात्; लक्षणानि हि कानिचिच्छरीरोपनिबद्धानि भवन्ति, यानि हि तस्मिंस्तस्मिन् काले तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति|७|

🔊 Audio coming soon

हेतुभूतानीति हेतुसदृशानि| तेन दैवमेव नखरेखापद्मादिसामुद्रिकोक्तलक्षणयुक्ते शरीरे राज्यधनगमनवधबन्धनादिरूपविकृतिप्राप्तौ हेतुः, लक्षणानि तु दैवनिमित्तानि बोधकमात्राणि, अत एव दैवादित्युक्तं; दैवं च प्राक्तनं कर्मोच्यते| विकृतिमुत्पादयन्तीत्यत्रापि दैवादिति योजनीयं; तेन, दैवबलादेव लक्षणानां राज्यधनवधबन्धनादिरूपविकृतिकर्तृत्वम्| तस्मिंस्तस्मिन् काले इत्यनेन लक्षणसूचितादृष्टपरिपाककाले नियतत्वं विकृतेर्दर्शयति| लक्षणासूचिताश्च राज्यादय इह पुरुषस्य कदाचिद्भवन्तोऽस्वाभाविका एवेति कृत्वा विकृतिशब्देनोच्यन्ते||७(१)||

Adhikarana 7 (7(2)) · Śloka 7

लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तं निदानेषु|७|

🔊 Audio coming soon

यथोक्तं निदानेष्विति यथा- रूक्षादिसेवया वातादिप्रकोपरूपा विकृतिर्निदानोक्तेत्यर्थः||७(२)||

Adhikarana 8 (7) · Śloka 7

निमित्तानुरूपा तु निमित्तार्थानुकारिणी या, तामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजो भूयश्चायुषः क्षयनिमित्तां प्रेतेलिङ्गानुरूपां, यामायुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति धीराः| यां चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युपदेक्ष्यामः| इत्युद्देशः| तं विस्तरेणानुव्याख्यास्यामः||७||

🔊 Audio coming soon

निमित्तानुरूपेति निमित्तसदृशी| तदेव स्फोटयति- निमित्तार्थानुकारिणीति|- निमित्तस्य योऽर्थः कार्यजननरूपः कार्यबोधनरूपो वा तमनुकरोतीति निमित्तार्थानुकारिणी| रिष्टाख्या हि विकृतिर्मरणे तस्यैवावबोधने वा निमित्तं भवति| अपरमपि निमित्तानुरूपाया विकृतेर्विशेषमाह- तामित्यादि| अनिमित्तामिति तदात्वेऽनुपलभ्यमाननिमित्तां, न तु पुनः सर्वथैवाहेतुकीं, यत ‘आयुषः क्षयनिमित्ताम्’ इत्यनन्तरमस्य विशेषणं कथयिष्यति; रिष्टस्य हि न रौक्ष्यादिना शरीरसम्बन्धादि निमित्तमुपलभ्यते| यद्वा, आयुःक्षयरूपं यन्निमित्तं तद्विद्यमानमपि नान्यैरुपलभ्यते , किन्तु तदेव हि रिष्टादुन्नीयते; तेन, अव्यक्तनिमित्तत्वमिहानिमित्तत्वं ज्ञेयम्| अत्र गतायुष्ट्वमेव सकलपुरुषसंश्रितरिष्टव्यापकं कारणं साधु| यत्तु वक्ष्यति- “क्रियापथमतिक्रान्ताः केवलं देहमाश्रिताः| चिह्नं कुर्वन्ति यद्दोषास्तदरिष्टं प्रचक्षते” (इं.अ.११) इति, तद्दूतादिगतरिष्टाव्यापकतया पुरुषाश्रयिरिष्टमात्राभिप्रायेण ज्ञेयम्| आयुषः प्रमाणज्ञानस्येति आयुःशेषप्रमाणज्ञानस्येत्यर्थः| भूय इति अत्यर्थम्| तेनात्यर्थमायुःक्षयनिमित्तां प्रत्यासन्नायुःक्षयजन्यामिति यावत्| यामिति क्षीणायुःकार्याम्| प्रेतलिङ्गानुरूपामिति प्रेतसदृशीं; “मला दन्तेषु जायन्ते प्रेताकृतिरुदीर्यते” (इं.अ.१२) इत्यादिग्रन्थवक्ष्यमाणाम्| इमां हि विकृतिमायुषोऽन्तर्ग(ग)तस्य ज्ञानार्थं वदन्ति| या त्वन्या प्रेतलिङ्गाननुरूपा वर्णाश्रया सा प्रत्यासन्नमरणबोधिका; तेन सा नात्यर्थन्नात्यर्थक्षीणायुःकार्येत्यर्थः| एवं ‘भूयश्च’ इत्यादिना ‘धीराः’ इत्यन्तेन निमित्तानुरूपविकृतिविशेषस्य कार्यविशेषं मरणलक्षणमभिधाय पुनः सामान्येनानिमित्ताया धर्मान्तरमाह- यामधिकृत्येत्यादि| पुरुषसंश्रयाणीति विशेषणेन पुरुषानाश्रितदूतादिरिष्टे नावश्यमनिमित्तताऽस्तीति दर्शयति| यतो दूताधिकारादौ यानि रिष्टानि तानि दृश्यमाननिमित्तान्यप्यागमादेव रिष्टत्वेनावधार्यन्ते| यथा- “मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा| भिषगभ्यागतं दृष्ट्वा दूतं मरणमादिशेत्” (इं.अ.१२) इति| अत्र च भिषजो मुक्तकेशवचनाद्दृश्यत एव कारणं, तथा दूतागमने चातुरस्य प्रेरणादि कारणमस्त्येव, तेनानिमित्तत्वमातुराश्रयिरिष्ट एव| अन्ये तु, एवम्भूतवैद्यदूतसमागमः परिहर्तव्यत्वेन ज्ञातः सन् यदा दैवाद्भवति, तदा दैवनिमित्तः सन् रिष्टं भवति; तेन, सर्वरिष्टव्यापिकैवेयमनिमित्तता; भूयश्चेत्यादिग्रन्थेन तु प्रेतलिङ्गानुरूपां विकृतिं भूय आयुषोऽन्तर्ग(ग)तस्य ज्ञानार्थमुपदिशन्ति, तथा पुरुषसंश्रयाणि भूय उपदेक्ष्यन्ते, पुरुषानाश्रयाणि तु स्वल्पग्रन्थेनोपदेक्ष्यन्ते इति व्याख्यानयन्ति| इत्युद्देश इन्द्रियस्थानार्थोद्देश इत्यर्थः||७||

Adhikarana 9 (8) · Śloka 8

तत्रादित एव वर्णाधिकारः| तद्यथा- कृष्णः, श्यामः , श्यामावदातः, अवदातश्चेति प्रकृतिवर्णाः शरीरस्य भवन्ति; यांश्चापरानुपेक्षमाणो विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः||८||

🔊 Audio coming soon

प्रकृतिज्ञानान्तरीयकत्वाद्विकृतिज्ञानस्य प्रकृतिवर्णानेव तावदाह- कृष्ण इत्यादि| अवदातो गौरः| इह च प्रायेण ये वर्णाः प्रकृत्या भवन्ति ते प्रकृतिवर्णा उच्यन्ते, ये तु प्रायेण विकृत्या भवन्ति ते विकृतिवर्णा उच्यन्ते, इति ज्ञेयम्| तेन प्रकृतिवर्णा अपि कदाचिद्विकृतिवर्णा भवन्ति, तथा विकृतिवर्णा अपि जन्मप्रभृतिजायमानतया कदाचित् प्रकृतिवर्णा भवन्तीति ज्ञेयम्| अनुक्तप्रकृतिवर्णातिदेशार्थमाह- यांश्चेत्यादि| उपेत्य ईक्षमाण इति उपेक्षमाणः| अनूकत इति सादृश्यतः; अनेन च श्यामेत्यादिवर्णशब्देन निर्दिश्यमानान् विद्यादिति योजना| तज्ज्ञैरिति वर्णभेदनामज्ञैः||८||

Adhikarana 10 (9) · Śloka 9

नीलश्यावताम्रहरितशुक्लाश्च वर्णाः शरीरस्य वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणो विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् | इति प्रकृतिविकृतिवर्णा भवन्त्युक्ताः शरीरस्य| तत्र प्रकृतिवर्णमर्धशरीरे विकृतिवर्णमर्धशरीरे, द्वावपि वर्णौ मर्यादाविभक्तौ दृष्ट्वा; यद्येवं सव्यदक्षिणविभागेन, यद्येवं पूर्वपश्चिमविभागेन, यद्युत्तराधरविभागेन, यद्यन्तर्बहिर्विभागेन, आतुरस्यारिष्टमिति विद्यात्; एवमेव वर्णभेदो मुखेऽप्यन्यत्र वर्तमानो मरणाय भवति||९||

🔊 Audio coming soon

नीलेत्यादिना (विकृतिजायमानतया ) विकृतिवर्णानाह| इह, ‘अपरान्’ इति वचनेन विकृतिवर्णसङ्करजा वर्णा ज्ञेयाः| विकृतिवर्णान्तरमाह- प्रागित्यादि| प्राग्विकृतानिति पूर्ववर्णादन्यथाभूतानित्यर्थः| तेनापि, येन श्यामेन सता रसायनोपयोगाद्गौरवर्णत्वं प्राप्तं, स च त्यक्तरसायनः कालवशात् पुनः श्यामवर्णो भवति तस्यापि पूर्वगौरवर्णाद्विकृतिः श्यामवर्णो भवन् रिष्टं स्यादित्याह- अभूत्वोत्पन्नानिति; तेन नायं दोषः; अत्र हि पूर्वभूत एव वर्णः पुनर्भवति, तेन न रिष्टम्| मर्यादाविभक्ताविति समसीमाव्यवस्थापितौ| पूर्वपश्चिमविभागेनेति अभिमुखपृष्ठभागेनेत्यर्थः| अन्तर्बहिर्विभागेनेति अत्रान्तर्गतो वर्णो मुखनासाकर्णश्रोत्रान्तर्गततया उन्नेयः| अन्यत्रेति अवान्तरे हस्तपादादौ||९||

Adhikarana 11 (10) · Śloka 10

वर्णभेदेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः||१०||

🔊 Audio coming soon

वर्णभेदेनेति यथा वर्णविभागेन रिष्टं, तथा ग्लान्यादिविभागेनापीत्यर्थः| हर्ष इहोपचयो ज्ञेयः, मानसहर्षस्येह चाक्षुषाधिकारेऽसङ्गतत्वात्||१०||

Adhikarana 12 (11) · Śloka 11

तथा पिप्लुव्यङ्गतिलकालकपिडकानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात्||११||

🔊 Audio coming soon

तथेत्यादौ पिप्लुप्रभृतीनामपि वर्णवत् सव्यदक्षिणादिविभागेन जन्म रिष्टं भवतीत्येवमेवशब्देनोच्यते||११||

Adhikarana 13 (12) · Śloka 12

नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिष्वपि च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवर्णेन्द्रियेषु लक्षणमायुषः क्षयस्य भवति||१२||

🔊 Audio coming soon

नखेत्यादौ बलहान्याद्यभावे सति न रिष्टम्||१२||

Adhikarana 14 (13) · Śloka 13

यच्चान्यदपि किञ्चिद्वर्णवैकृतमभूतपूर्वं सहसोत्पद्येतानिमित्तमेव हीयमानस्यातुरस्य शश्वत्, तदरिष्टमिति विद्यात्| इति वर्णाधिकारः||१३||

🔊 Audio coming soon

यच्चेत्यादिनाऽनुक्तवर्णरिष्टं सङ्गृह्णाति| अभूतपूर्वमिति पूर्वव्याकृतरसायनविहितवर्णप्रादुर्भावव्युदासार्थम्| सहसोत्पद्यत इत्यनेन रिष्टानां शीघ्रस्वभावं दर्शयति| अनिमित्तमिति पूर्वोक्तार्थमेव| हीयमानस्य शश्वदिति स्वभावकथनं, रिष्टोत्पत्त्या हीयमानता शश्वदवश्यं भवति||१३||

Adhikarana 15 (14) · Śloka 14

स्वराधिकारस्तु- हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतजर्जरानुकाराः प्रकृतिस्वरा भवन्ति; यांश्चापरानुपेक्षमाणोऽपि विद्यादनूकतोऽन्यथा वाऽपि निर्दिश्यमानांस्तज्ज्ञैः| एडककलग्रस्ताव्यक्तगद्गदक्षामदीनानुकीर्णास्त्वातुराणां स्वरा वैकारिका भवन्ति; यांश्चापरानुपेक्षमाणोऽपि विद्यात् प्राग्विकृतानभूत्वोत्पन्नान् | इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति||१४||

🔊 Audio coming soon

क्रमागतं स्वरमाह- स्वरेत्यादि| जर्जरः वाद्यभाण्डविशेषः| यांश्चेत्यादि पूर्ववद् व्याख्येयम्| एडको मेषः, किंवा अरण्यच्छागलः; कलः सूक्ष्मः; ग्रस्तः सर्वथाऽनुच्चारः; क्षामः रूक्षः; दीनः दुःखोच्चार्यमाणस्वरः; अनुकीर्ण उपर्युपर्युच्चार्यमाणः||१४||

Adhikarana 16 (15-16) · Śloka 16

तत्र प्रकृतिवैकारिकाणां स्वराणामाश्वभिनिर्वृत्तिः स्वरानेकत्वमेकस्य चानेकत्वमप्रशस्तम्| इति स्वराधिकारः||१५|| इति वर्णस्वराधिकारौ यथावदुक्तौ मुमूर्षतां लक्षणज्ञानार्थमिति||१६||

🔊 Audio coming soon

प्रकृतेर्वैकारिका अन्यथाभूता इति प्रकृतिवैकारिकाः| स्वरानेकत्वमिति कदाचिदेडकस्वरत्वं, कदाचित् कलस्वरत्वमित्यादि| एकस्य चानेकत्वमिति एकस्यैव स्वरस्य चानेकत्वमिव प्रतिभाति| अनिमित्तमिति सर्वत्र सम्बध्यते||१५-१६||

Adhikarana 17 (17-26) · Śloka 26

भवन्ति चात्र- यस्य वैकारिको वर्णः शरीर उपपद्यते| अर्धे वा यदि वा कृत्स्ने निमित्तं न च नास्ति सः||१७|| नीलं वा यदि वा श्यावं ताम्रं वा यदि वाऽरुणम्| मुखार्धमन्यथा वर्णो मुखार्धेऽरिष्टमुच्यते||१८|| स्नेहो मुखार्धे सुव्यक्तो रौक्ष्यमर्धमुखे भृशम्| ग्लानिरर्धे तथा हर्षो मुखार्धे प्रेतलक्षणम्||१९|| तिलकाः पिप्लवो व्यङ्गा राजयश्च पृथग्विधाः| आतुरस्याशु जायन्ते मुखे प्राणान् मुमुक्षतः||२०|| पुष्पाणि नखदन्तेषु पङ्को वा दन्तसंश्रितः| चूर्णको वाऽपि दन्तेषु लक्षणं मरणस्य तत्||२१|| ओष्ठयोः पादयोः पाण्योरक्ष्णोर्मूत्रपुरीषयोः| नखेष्वपि च वैवर्ण्यमेतत् क्षीणबलेऽन्तकृत्||२२|| यस्य नीलावुभावोष्ठौ पक्वजाम्बवसन्निभौ| मुमूर्षुरिति तं विद्यान्नरो धीरो गतायुषम्||२३|| एको वा यदि वाऽनेको यस्य वैकारिकः स्वरः| सहसोत्पद्यते जन्तोर्हीयमानस्य नास्ति सः||२४|| यच्चान्यदपि किञ्चित् स्याद्वैकृतं स्वरवर्णयोः| बलमांसविहीनस्य तत् सर्वं मरणोदयम् ||२५|| तत्र श्लोकः- इति वर्णस्वरावुक्तौ लक्षणार्थं मुमूर्षताम्| यस्तौ सम्यग्विजानाति नायुर्ज्ञाने स मुह्यति||२६||

🔊 Audio coming soon

अयमेवार्थो गद्योक्तः स्पष्टार्थं सुखग्रहणार्थं च श्लोकेनोच्यते- यस्येत्यादिना| तिलका इत्यादौ मुखे इति मुखार्धे| ओष्ठाविति द्विवचनमुक्त्वाऽपि यत् ‘उभौ’ इति करोति, तेन सकलौष्ठव्याप्तिं दर्शयति| मुमूर्षुरित्युकत्वाऽपि यत् ‘गतायुषं’ इति करोति, तेन रिष्टयुक्तो मुमूर्षर्गतायुरीति दर्शयति; अजातरिष्टस्तु प्रतिक्रियाभावान्मुमूर्षुरगतायुरपि भवति| मरणोदयमिति मरणकारणमिति ज्ञानार्थम्||१७-२६||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमोऽध्यायः||१||