पुष्पफलदृष्टान्तेन रिष्टमरणयोर्दुर्बोधत्वात् पुष्पफलव्यभिचारमपि शिष्यो गृह्णीयादिति तन्निरासार्थमाह- अप्येवमित्यादि| फलेनानुबन्धीति यथा- वेतसपुष्पम्| यस्य पुष्पं न पूर्वजमिति यथा- अश्वत्थादिफलम्| जातस्येति सम्पूर्णस्य, किञ्चिदुदिते ह्यरिष्टेऽसम्पूर्णे नावश्यं मृत्युः| अन्ये तु जातस्य नियतस्येति वर्णयन्ति; द्विविधं हि रिष्टं- नियतं चानियतं च; तत्र नियतं “मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः” (इं.अ.७) इत्यादि, अनियतं यथा- “संशयप्राप्तमात्रेयो मन्यते तस्य जीवितम्” (इं.अ.९), “अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते” (इं.अ.५) इति; तथाऽनियतारिष्टाभिप्रायेणैव सुश्रुतेऽप्युक्तं- “ध्रुवं त्वरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः| रसायनतपोजप्यतत्परैर्वा निवार्यते” इति| (सु.सू.अ.) एतच्चान्ये न मन्यन्ते, आचार्येण रिष्टमरणयोरव्यभिचारस्य महता प्रयत्नेन दर्शितत्वात्| संशयप्राप्तमिति वचनं मरणप्रतिपादकमेवाचार्येण भङ्ग्यन्तरेणोक्तं, यथाऽऽचार्यस्य रिष्टार्थस्तथा तद्ग्रन्थ एव व्याख्यास्यामः| यत्तु रसायनादिना बाध्यत्वं रिष्टस्य तदनुमतमेव, रसायनमहेश्वरप्रसादादयो हि सर्वलोकमर्यादामपि हन्तुं क्षमाः, अतस्तेन तद्व्यभिचारमवेक्ष्येह ग्रन्थः क्रियते; महेश्वरो हि भस्मीभूतं कामं पुनर्जीवयति स्म, तपसा च रामेण मृतोऽपि विप्रपुत्रः पुनर्जीवित इत्याद्यनुसरणीयम्| अन्ये तु कालमृत्यावेव रिष्टपूर्वकं मरणं भवतीति वर्णयन्ति, वदन्ति च- “यद्यकालमृत्यौ रिष्टं भवति तदा वर्णाद्यं मृत्युप्रदं रिष्टं तद्विफलं स्यात्, येन कालमृत्यावुचिताचरणेऽपि परं मृत्युर्भवति नाकालमृत्यौ, तत्र रिष्टे जाते यद्युचिता क्रिया क्रियते न तदा मृत्युर्भवितुमर्हति; तेन कालमृत्युगतमेव रिष्टम्” इति| तच्च न, अविशेषेण कालाकालमरणे रिष्टसद्भावनियमाभिधानात्| अकालमृत्यौ च यदैव क्रियापथमतिक्रान्तेऽपचारजनितो व्याधिर्भवति, तदैव परं रिष्टं भवति, अत एवोक्तं- “क्षणेन हि रिष्टानि प्रादुर्भवन्ति” इति| यश्चैनं (वं) न स्वीकरोति तस्य नियतायुषोऽपचारजन्यव्याधेरसाध्यता कदाऽपि न स्यात्; येन, यथा- अपचारजा दोषा अतिशयप्रमादादसाध्यव्याधिजनका भवन्ति, तथा मरणपूर्वरिष्टजनका अपि भवन्ति||४-५||