Adhikarana 1 (1-3) · Śloka 3
अथातः पुष्पितकमिन्द्रियं व्याख्यास्यामह||१||
इति ह स्माह भगवानात्रेयः||२||
पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः|
तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः||३||
वर्णस्वरानन्तरं गन्धस्याधिकृतत्वान्निर्दिष्टत्वाच्च तदाश्रयिरिष्टप्रतिपादकं पुष्पितकमुच्यते- पुष्पं यथेत्यादि| प्रकरणार्थो यद्यपि सकलेन्द्रियसाधारणतया प्रथमाध्याय एव वक्तुं युज्यते, तथाऽपीह पुष्पानुकारेण गन्धाश्रयिरिष्टस्य वाच्यत्वात्, पुष्पं प्रकृतं, तत्प्रसङ्गाच्च रिष्टस्य पुष्पधर्मख्यापकमपि प्रकरणमिहोच्यते| पुष्पं यथेत्यादौ अव्यभिचरितफलसम्बन्धमेव पुष्पं ज्ञेयम्, अत एव ‘अप्येवं तु’ इत्यादिना फलपुष्पयोः परस्परव्यभिचारं दर्शयति||१-३||
Adhikarana 2 (4-5) · Śloka 5
अप्येवं तु भवेत् पुष्पं फलेनाननुबन्धि यत्|
फलं चापि भवेत् किञ्चिद्यस्य पुष्पं न पूर्वजम् ||४||
न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते|
मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्||५||
पुष्पफलदृष्टान्तेन रिष्टमरणयोर्दुर्बोधत्वात् पुष्पफलव्यभिचारमपि शिष्यो गृह्णीयादिति तन्निरासार्थमाह- अप्येवमित्यादि| फलेनानुबन्धीति यथा- वेतसपुष्पम्| यस्य पुष्पं न पूर्वजमिति यथा- अश्वत्थादिफलम्| जातस्येति सम्पूर्णस्य, किञ्चिदुदिते ह्यरिष्टेऽसम्पूर्णे नावश्यं मृत्युः| अन्ये तु जातस्य नियतस्येति वर्णयन्ति; द्विविधं हि रिष्टं- नियतं चानियतं च; तत्र नियतं “मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः” (इं.अ.७) इत्यादि, अनियतं यथा- “संशयप्राप्तमात्रेयो मन्यते तस्य जीवितम्” (इं.अ.९), “अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते” (इं.अ.५) इति; तथाऽनियतारिष्टाभिप्रायेणैव सुश्रुतेऽप्युक्तं- “ध्रुवं त्वरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः| रसायनतपोजप्यतत्परैर्वा निवार्यते” इति| (सु.सू.अ.) एतच्चान्ये न मन्यन्ते, आचार्येण रिष्टमरणयोरव्यभिचारस्य महता प्रयत्नेन दर्शितत्वात्| संशयप्राप्तमिति वचनं मरणप्रतिपादकमेवाचार्येण भङ्ग्यन्तरेणोक्तं, यथाऽऽचार्यस्य रिष्टार्थस्तथा तद्ग्रन्थ एव व्याख्यास्यामः| यत्तु रसायनादिना बाध्यत्वं रिष्टस्य तदनुमतमेव, रसायनमहेश्वरप्रसादादयो हि सर्वलोकमर्यादामपि हन्तुं क्षमाः, अतस्तेन तद्व्यभिचारमवेक्ष्येह ग्रन्थः क्रियते; महेश्वरो हि भस्मीभूतं कामं पुनर्जीवयति स्म, तपसा च रामेण मृतोऽपि विप्रपुत्रः पुनर्जीवित इत्याद्यनुसरणीयम्| अन्ये तु कालमृत्यावेव रिष्टपूर्वकं मरणं भवतीति वर्णयन्ति, वदन्ति च- “यद्यकालमृत्यौ रिष्टं भवति तदा वर्णाद्यं मृत्युप्रदं रिष्टं तद्विफलं स्यात्, येन कालमृत्यावुचिताचरणेऽपि परं मृत्युर्भवति नाकालमृत्यौ, तत्र रिष्टे जाते यद्युचिता क्रिया क्रियते न तदा मृत्युर्भवितुमर्हति; तेन कालमृत्युगतमेव रिष्टम्” इति| तच्च न, अविशेषेण कालाकालमरणे रिष्टसद्भावनियमाभिधानात्| अकालमृत्यौ च यदैव क्रियापथमतिक्रान्तेऽपचारजनितो व्याधिर्भवति, तदैव परं रिष्टं भवति, अत एवोक्तं- “क्षणेन हि रिष्टानि प्रादुर्भवन्ति” इति| यश्चैनं (वं) न स्वीकरोति तस्य नियतायुषोऽपचारजन्यव्याधेरसाध्यता कदाऽपि न स्यात्; येन, यथा- अपचारजा दोषा अतिशयप्रमादादसाध्यव्याधिजनका भवन्ति, तथा मरणपूर्वरिष्टजनका अपि भवन्ति||४-५||
Adhikarana 3 (6) · Śloka 6
मिथ्यादृष्टमरिष्टाभमनरिष्टमजानता|
अरिष्टं वाऽप्यसम्बुद्धमेतत् प्रज्ञापराधजम्||६||
यत्र कुत्रचिद्रिष्टमरणव्यभिचारिज्ञानं भवति तद्भ्रान्तमिति दर्शयन्नाह- मिथ्येत्यादि| अरिष्टाभमिति अरिष्टसदृशम्| मिथ्यादृष्टमिति रिष्टत्वेन ज्ञातम्; एतदनरिष्टे रिष्टज्ञानं प्रज्ञापराधजं; तथा रिष्टमपि सूक्ष्मरूपतया मारके व्याधावसम्बन्धं भवति, एतदपि प्रज्ञापराधजं मिथ्याज्ञानम्| तेन रिष्टे सत्यपि मरणं न भवतीति ज्ञानं भ्रान्तं, तथा रिष्टं विनाऽपि क्वचिन्मरणं भवतीति ज्ञानं भ्रान्तम्| ततश्च सिद्धोऽव्यभिचारो मरणरिष्टयोरिति वाक्यार्थः||६||
Adhikarana 4 (7) · Śloka 7
ज्ञानसम्बोधनार्थं तु लिङ्गैर्मरणपूर्वजैः|
पुष्पितानुपदेक्ष्यामो नरान् बहुविधैर्बहून् ||७||
ज्ञायते मरणमनेनेति ज्ञानं रिष्टं, तस्य सम्यग्बोधनं ज्ञानसम्बोधनम्| मरणपूर्वजैरिति मरणपूर्वभाविभिः| पुष्पिता यथा वृक्षादयो गन्धवन्तो भवन्ति तथा रिष्टगन्धप्रयुक्ता ये भवन्ति ते पुष्पिताः, तान् पुष्पितान्| बहुविधैर्लिङ्गैर्बहून् पुष्पितानिति योजना||७||
Adhikarana 5 (8-16) · Śloka 17
नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम्|
पुष्पितस्य वनस्येव नानाद्रुमलतावतः||८||
तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः|
स ना संवत्सराद्देहं जहातीति विनिश्चयः||९||
एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत्|
इष्टैर्वा यदि वाऽनिष्टैः स च पुष्पित उच्यते||१०||
समासेनाशुभान् गन्धानेकत्वेनाथवा पुनः|
आजिघ्रेद्यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक्||११||
आप्लुतानाप्लुते काये यस्य गन्धाः शुभाशुभाः|
व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते||१२||
तद्यथा- चन्दनं कुष्ठं तगरागुरुणी मधु|
माल्यं मूत्रपुरीषे च मृतानि कुणपानि च||१३||
ये चान्ये विविधात्मानो गन्धा विविधयोनयः|
तेऽप्यनेनानुमानेन विज्ञेया विकृतिं गताः||१४||
इदं चाप्यतिदेशार्थं लक्षणं गन्धसंश्रयम्|
वक्ष्यामो यदभिज्ञाय भिषङ्मरणमादिशेत्||१५||
वियोनिर्विदुरो गन्धो यस्य गात्रेषु जायते|
इष्टो वा यदि वाऽनिष्टो न स जीवति तां समाम्||१६||
एतावद्गन्धविज्ञानं,...|१७|
वनस्येत्युक्तेऽपि यत् ‘नानाद्रुमलतावतः’ इति करोति, तेन भिन्नजातीयं वनं ग्राहयति; वनं हि स्वजातीयवृक्षाणामपिस्यात्, यथा- चम्पकवनमशोकवनमित्यादि; नानात्वं च पुष्पाणामेकजातीयानामपि कलिकाद्यवस्थाभेदादपि स्यात्, तस्मात् साधु विशेषणं- नानाद्रुमलतावत इति| मरणलक्षणैर्यथोक्तैर्गन्धैस्तं पुष्पितमाहुरिति योज्यम्| संवत्सरादिति संवत्सराभ्यन्तरे| एवमिति दिवानिशम्| समासेनेत्यादिना पुष्पव्यतिरिक्तशवाद्यशुभगन्धयोगेनापि पुष्पितत्वं, ‘परिभाष्यते’ इति शेषः; समासेनेति मेलकेन| आप्लुतेत्यादौ आप्लुतानाप्लुतविशेषव्यत्यासः, तथा शुभाशुभगन्धानां व्यत्यासश्च ज्ञेयः| पुष्पितत्वाभिधानं च यत्र यत्र, तत्र तत्र संवत्सरान्तं जीवितं पूर्ववचनाद्भवति| तद्यथेत्यादिना शुभाशुभद्रव्याण्याह| मृतानीति मानुषव्यतिरिक्तानि गवादीनि मृतानि, कुणपानि तु मानुषशरीराणी| विविधयोनय इत्यनेन नानाद्रव्यकृतधूपवर्त्यादिगन्धान् ग्राहयति; विविधात्मान इत्यनेन तु अकृत्रिमनानाद्रव्यगन्धा उच्यन्ते| अनेनानुमानेनेति ‘आप्लुतानाप्लुते’ इत्यादिग्रन्थोक्तरिष्टानुसारेण| अतिदेशार्थमिति अनुक्तज्ञानार्थम्| वियोनिरिति निर्हेतुकः| विदूर इति स्थायी||८-१६||-
Adhikarana 6 (17-22) · Śloka 22
...रसज्ञानमतः परम्|
आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम्||१७||
यो रसः प्रकृतिस्थानां नराणां देहसम्भवः|
स एषां चरमे काले विकारं भजते द्वयम्||१८||
कश्चिदेवास्यवैरस्यमत्यर्थमुपपद्यते|
स्वादुत्वमपरश्चापि विपुलं भजते रसः||१९||
तमनेनानुमानेन विद्याद्विकृतिमागतम्|
मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात्||२०||
मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह|
विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः||२१||
अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः|
अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः||२२||
वैरस्यमिति अनिष्टरसताम्| कथमिति आक्षेपे; तेन न कथमपीत्यर्थः| अवाप्नुयादिति जानीयात्| अत्यर्थरसिकमिति अतिस्वादुरसम्| कालपक्वास्येति पूर्णकालस्य| सर्वश इति सर्वगात्रेषु||१७-२२||
Adhikarana 7 (23) · Śloka 23
तत्र श्लोकः- सामान्येन मयोक्तानि लिङ्गानि रसगन्धयोः|
पुष्पितस्य नरस्यैतत्फलं मरणमादिशेत्||२३||
सङ्ग्रहश्लोके सामान्येन पुष्पितस्येति वचनाद्रसरिष्टेऽपि पुष्पितत्वमस्य विवक्षितं, तेन रसरिष्टेऽपि संवत्सराभ्यन्तरे मरणमिति फलति||२३||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पुष्पितकमिन्द्रियं नाम द्वितीयोऽध्यायः||२||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामिन्द्रियस्थाने पुष्पितकमिन्द्रियं नाम द्वितीयोऽध्यायः||२||