Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. yasyaśyāvanimittīyamindriyam

Adhikarana 1 (1-2) · Śloka 2

अथातो यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

यस्य श्यावनिमित्तीयोऽपि उक्तानुक्तरिष्टाभिधायकतया उच्यते| यस्य श्यावशब्देन लक्षणया ‘यस्य श्यावे’ इत्यादिग्रन्थोक्तं रिष्टं ग्राह्यम्| तेन, यस्यश्यावरूपनिमित्तं रिष्टमधिकृत्य कृतोऽध्यायो यस्यश्यावनिमित्तीयः||१-२||

Adhikarana 2 (3-13) · Śloka 13

यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने| आपन्नो व्याधिरन्ताय ज्ञेयस्तस्य विजानता||३|| निःसञ्ज्ञः परिशुष्कास्यः समृद्धो व्याधिभिश्च यः| उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||४|| हरिताश्च सिरा यस्य लोमकूपाश्च संवृताः| सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते||५|| शरीरान्ताश्च शोभन्ते शरीरं चोपशुष्यति| बलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम्||६|| अंसाभितापो हिक्का च छर्दनं शोणितस्य च| आनाहः पार्श्वशूलं च भवत्यन्ताय शोषिणः||७|| वातव्याधिरपस्मारी कुष्ठी शोफी तथोदरी| गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः||८|| अचिकित्स्या भवन्त्येते बलमांसक्षये सति| अन्येष्वपि विकारेषु तान् भिषक् परिवर्जयेत्||९|| विरेचनहृतानाहो यस्तृष्णानुगतो नरः| विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः||१०|| पेयं पातुं न शक्नोति कण्ठस्य च मुखस्य च| उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ||११|| स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः| रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्||१२|| ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्| शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्||१३||

🔊 Audio coming soon

समृद्ध उपचितः| शरीरान्ता हस्तपादादयः| शोभन्त इति राजन्ते, किंवा शोभायुक्ता भवन्ति| वात एव व्याधिर्यस्य रोगिणः स वातव्याधिः| तानिति बलमांसक्षययुक्तान्| विरेचनेन हृत आनाहो यस्य स तथा| अयुक्त्येति अनुचितरूपेण||३-१३||

Adhikarana 3 (14-17) · Śloka 17

अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः| श्रोतारं चाप्यशब्दस्य दूरतः परिवर्जयेत्||१४|| यं नरं सहसा रोगो दुर्बलं परिमुञ्चति| संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते||१५|| अथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः| रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम्||१६|| मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः| रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम्||१७||

🔊 Audio coming soon

अपस्वरमिति विकृतस्वरं यथा भवति तथा भाषमाणम्| किं भाषमाणमित्याह- मरणमात्मन इति; मरिष्यामि मरिष्यामीति भाषमाणमित्यर्थः| श्रोतारं चेत्यादि रिष्टानन्तरं ‘संशयप्राप्तमात्रेयः’ इत्यादौ अनियतारिष्टतया आत्रेयस्यात्र मरणं प्रति सन्देह इति ब्रूते| तच्च न, रिष्टस्य मरणाव्यभिचारित्वमाचार्येण प्रयत्नेनोक्तं, व्युत्पादितं चास्माभिः; किञ्च न च वीतसंशयस्यात्रेयस्य संशयोऽस्ति; तेन शिष्यव्युत्पत्त्यर्थमयमाचार्यः संशयं दर्शयति, तथा निर्णयं करोति; यथा- “दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद्विविधो विचारः” (चि.अ.६) इत्यादौ संशयं दर्शयित्वा निर्णयं दर्शितवान्; तथेहापि दुर्बलस्य सहसा रोगमुक्तौ रिष्टं वा स्यात्, सर्वथा सन्तर्पणाद्व्याधिक्षयो वा स्यादिति सन्देहः; रिष्टपक्षे तु मरणं, तत्र ‘अथ चेत्’ इत्यादिना परीक्षामारभते; परीक्षायां च मांसरसेन विशेषालाभे रिष्टत्वावधारणं भवतीति सुव्यवस्थोऽयं ग्रन्थः| दुर्लभमिति अप्राप्यम्||१४-१७||

Adhikarana 4 (18-22) · Śloka 22

निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति| यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः||१८|| निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्| तच्च सीदत्यपः प्राप्य न स जीवितुमर्हति ||१९|| पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति | स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम्||२०|| सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते| शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः||२१|| बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः| यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति||२२||

🔊 Audio coming soon

निष्ठ्यूत इत्यादौ बहुविधवर्णयोगः पूर्वारिष्टाद्विशेषः| सीदतीति मज्जति| “यस्य पित्तं” (सू.अ.१८) इत्यादिना सूत्रस्थानोक्तोऽपि शङ्खक इह मरणसूचकतया रिष्टत्वेनोच्यते||१८-२२||

Adhikarana 5 (23-24) · Śloka 24

तत्र श्लोकौ- विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते| भवन्त्येतानि सम्पश्येदन्यान्येवंविधानि च||२३|| तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानवम्| विशन्ति विनशिष्यन्तं तस्माद्बोध्यानि सर्वतः||२४||

🔊 Audio coming soon

विज्ञानानीति लक्षणानि नयनादिवैकृतानि ज्ञेयानि| सर्वाणि लक्ष्यन्त इति नानापुरुषेषु लक्ष्यन्ते| न तु सर्वाणि मानवं विशन्तीति एकपुरुषं न सर्वाणि विशन्तीति||२३-२४||

Adhikarana puShpikA · Śloka 9

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने यस्यश्यावनिमित्तीयमिन्द्रियं नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

इति श्री चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां यस्यश्यावनिमित्तीयमिन्द्रियं नाम नवमोऽध्यायः||९||