Adhikarana 1 (1-2) · Śloka 2
अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पारिशेष्यात् दन्तीद्रवन्तीकल्पोऽभिधीयते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पारिशेष्यात् दन्तीद्रवन्तीकल्पोऽभिधीयते||१-२||
Adhikarana 2 (3) · Śloka 3
दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः| द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया||३|| (तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरी| प्रत्यक्श्रेणी सुतश्रेणी दन्ती र(च)ण्डा च कीर्तिता )|
🔊 Audio coming soon
तयोः पर्यायानाह- दन्तीत्यादि||३||
Adhikarana 3 (4) · Śloka 4
तयोर्मूलानि सङ्गृह्य स्थिराणि बहलानि च| हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान्||४||
🔊 Audio coming soon
स्थिराणीति सारभूतानि| बहलानीति घनत्वक्कानि| हस्तिदन्तप्रकाराणीति अन्तपूर्वोपचितानि| श्यावताम्राणीति यथाक्रमेण दन्त्याः श्यावानि, द्रवन्त्यास्ताम्राणि||४||
Adhikarana 4 (5) · Śloka 5
पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे| शोषयेदातपेऽग्न्यर्कौ हतो ह्येषां विकाशिताम्||५||
🔊 Audio coming soon
स्वेदयेन्मृत्कुशान्तर इति पिप्पलीमधुककल्काभ्यां परिलिप्य कुशैः परिवेष्ट्य ततो मृदावलिप्तानि स्वेदयेत्| अग्निस्वेदातपशोषणफलमाह- अग्न्यर्कौ हतो ह्येषां विकाशितामिति|- एषां दन्तीद्रवन्तीमूलानां विकाशितालक्षणं गुणं स्वेदोपशोषणाभ्यामग्न्यर्कौ हतः; तेन नातिदोषाणि दन्तीद्रवन्तीमूलानि स्युरिति भावः||५||
Adhikarana 5 (6) · Śloka 6
तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च| विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च||६||
🔊 Audio coming soon
तीक्ष्णोष्णानीत्यादिना तेषां गुणकथनम्| दोषौ द्वाविति पित्तश्लेष्माणौ||६||
Adhikarana 6 (7-14) · Śloka 14
दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः| प्रियालकोलबदरपीलुशीधुभिरेव च||७|| पिबेद्गुल्मोदरी दोषैरभिखिन्नश्च यो नरः| गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी||८|| तयोः कल्के कषाये च दशमूलरसायुते| कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम्||९|| तैलं मेहे च गुल्मे च सोदावर्ते कफानिले| चतुःस्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु||१०|| रसे दन्त्यजशृङ्गयोश्च गुडक्षौद्रघृतान्वितः| लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत् ||११|| वाततर्षे ज्वरे पैत्ते स्यात् स एवाजगन्धया| दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे||१२|| त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च| तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत्||१३|| कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागशः| तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते||१४||
🔊 Audio coming soon
दधीत्यादिना सप्तभिर्द्रव्यैः सप्तप्रयोगानाह| शीधुशब्दः प्रियालादिभिश्चतुर्भिः पृथक् सम्बध्यते| अभिखिन्न इति आक्रान्तः| गोमृगाजरसैरित्यत्रापि ‘पिण्डमक्षसमं तयोः’ इत्यनुवर्तते| अत्रापि गवादिरसैस्त्रिभिस्त्रयः प्रयोगा भवन्ति| तयोरित्यादिना त्रीन् स्नेहयोगानाह| अनयोः कल्ककषायेण दशमूलरसतुल्यभागेन घृतं पचेद्विसर्पादिषु, तैलं तु पूर्ववन्मेहादिषु, चतुः स्नेहं तु शकृच्छुक्रवातसङ्गादिषु| रसे इत्यादिना एको लेहः| वाततर्षे इत्यादिना द्वितीयः| स एवाजगन्धयेत्यनेन पूर्वोक्तलेहे एवाजशृङ्गीस्थानेऽजगन्धादानं विशिष्टं ख्यापयति| दन्तीत्यादिना तृतीयो लेहः| भागश इति प्रत्येकभागग्रहणेन| एवमेतदन्तैः प्रयोगैराद्यः षोडशको भवेत्||७-१४||
Adhikarana 7 (15-19) · Śloka 19
रसे च दशमूलस्य तथा बैभीतके रसे| हरीतकीरसे चैव लेहानेवं पचेत् पृथक् ||१५|| तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम्| असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम्||१६|| पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा| स्वेदयित्वा ततः खादेत् सुखं तेन विरिच्यते||१७|| मूलं दन्तीद्रवन्त्योश्च सह मुद्गैर्विपाचयेत्| लाववर्तीरकाद्यैश्च ते रसाः स्युर्विरेचने||१८|| तयोर्वाऽपि कषायेण यवागूं जाङ्गलं रसम्| माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते||१९||
🔊 Audio coming soon
रसे चेत्यादै एवमित्यनेन पूर्वोक्तलेहत्रयमतिदिशति| तयोरित्यादिकश्चतुर्थः; तयोरिति दन्तीद्रवन्तीमूलयोः| असृष्टे इति विबद्धे| पाटयित्वेत्यादिना पञ्चमः| कल्केनालिप्य चान्तरेति दन्तीद्रवन्तीकल्केन पाटितेक्षुकाण्डमध्ये आलिप्य| मूलं दन्तीत्यादिनाऽष्टौ कृताकृतरसानाह| अत्र लाववर्तीरकादयः “लावो वर्तीरकश्चैव वार्तीकः सकपिञ्जलः| चकोरश्चोपचक्रश्च ककुभो रक्तचर्मकः” (सू.अ.२७) इति ग्रन्थेनाष्टावुक्ताः; तेषां प्रत्येकयोगादष्टौ रसा भवन्ति| तयोर्वाऽपीत्यादिना यवागूजाङ्गलरसयोगं माषयूषयोगं चाह| एवमेतैर्द्रवैः पूर्वयोगैश्च मिलित्वा द्वितीयः षोडशको भवेत्||१५-१९||
Adhikarana 8 (20-35) · Śloka 35
तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च| एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा||२०|| मोदको वाऽस्य कल्पेन कार्यस्तच्च विरेचनम्| तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत्||२१|| दन्तीक्वाथेन चालोड्य दन्तीतैलेन साधितान्| गुडलावणिकान् भक्ष्यान् विविधान् भक्षयेन्नरः||२२|| दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम्| नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम्||२३|| सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः| पिबेत्घृतेन जीर्णे तु विरिक्तश्चापि तर्पणम्||२४|| सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम्| चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम्||२५|| दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च| गण्डमालासु वाते च पाण्डुरोगे च शस्यते||२६|| पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः| त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत्||२७|| विनीय मोदकान् कुर्याद्दशैकं भक्षयेत्ततः| उष्णाम्बु च पिबेच्चानु दशमे दशमेऽह्नि च||२८|| एते निष्परिहाराः स्युः सर्वरोगनिबर्हणाः| ग्रहणीपाण्डुरोगार्शःकण्डूकोठानिलापहाः||२९|| दन्तीद्विपलनिर्यूहो द्राक्षार्धप्रस्थसाधितः | विरेचनं पित्तकासे पाण्डुरोगे च शस्यते||३०|| दन्तीकल्कं समगुडं शीतवारियुतं पिबेत्| विरेचनं मुख्यतमं कामलाहरमुत्तमम्||३१|| श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः| लिप्तेऽरिष्टोऽनिलश्लेष्मप्लीहपाण्डूदरापहः||३२|| तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः| गौडः कार्योऽऽजशृङ्ग्या वा स वै सुखविरेचनः||३३|| तच्चूर्णक्वाथमाषाम्बुकिण्वतोयसमुद्भवा| मदिरा कफगुल्माल्पवह्निपार्श्वकटिग्रहे||३४|| अजगन्धाकषायेण सौवीरकतुषोदके| सुराकम्पिल्लके योगौ लोध्रवच्च तयोः स्मृतौ||३५||
🔊 Audio coming soon
तत्कषायादित्यादिना उत्कारिकायोगं मोदकयोगं चाह| तत्कषायादिति दन्तीद्रवन्तीकषायात्| मोदककरणेऽपि तत्कषायात्त्रयो भागा इत्यादिविधानमनुवर्तते| तयोश्चापि कषायेण मद्यानीति तृतीयः| दन्तीत्यादिना भक्ष्ययोगश्चतुर्थः| दन्तीं द्रवन्तीं मरिचमित्यादिकः पञ्चमः| हेमदुग्धा स्वर्णक्षीरी| चूर्णितमित्यन्तं पिबेदिति सम्बन्धः| पलमित्यादिकः षष्ठः| हरीतक्याश्च विंशतिरिति आकृतिमानेन| अयं योगस्तन्त्रान्तरे “अगस्त्यमोदक” इति ख्यातः| दन्तीद्विपलेत्यादिकः सप्तमः| अत्र दन्तीद्विपलद्राक्षार्धप्रस्थयोः क्वाथः कर्तव्यः| दन्तीकल्कमित्यादिकोऽष्टमः| श्यामेत्यादिको नवमः| गौड इति गुडप्रकृतिकः| लिप्ते इत्यत्र ‘घटे’ इति शेषः| तथा दन्तीद्रवन्त्योश्चेत्यादिको दशमः| तथेत्यनेन पूर्वयोगोक्तपिप्पल्यादिघटावलेप अतिदिश्यते| अजशृङ्ग्या वेत्यादिक एकादशः| तथा अजशृङ्ग्या दन्तीद्रवन्त्योश्च कषाये गौडोऽरिष्टः कार्य इति सम्बन्धः| तच्चूर्णेत्यादिको द्वादशः| अत्र तयोर्दन्तीद्रवन्त्योश्चूर्णक्वाथाभ्यां तथा माषाम्बुना किण्वकरणपूर्वकं या सुरा कृता तत्सुरोद्भवा मदिरा कर्तव्येति वाक्यार्थः| अजगन्धेत्यादिना योगद्वयमाह| तत्राजगन्धाकषायेण दन्तीद्रवन्तीभ्यां सौवीरकतुषोदके कर्तव्ये| सुरेत्यादिनाऽपरं योगद्वयमाह| लोध्रवच्च तयोरिति यथा लोध्रकल्पेषु “सुरा लोध्रकषायेण” इत्यादिना सुरा प्रोक्ता, तथा “कम्पिल्लककषायेण” (क.अ.९) इत्यादिना कम्पिल्लकयोग उक्तः, तथा तयोरपि दन्तीद्रवन्त्योर्लोध्रस्थाने प्रक्षेपात् सुरायोगः सौवीरकतुषोदकविधानेनैव कर्तव्यः| इति तृतीयः षोडशकः||२०-३५||
Adhikarana 9 (36-40) · Śloka 40
तत्र श्लोकाः- (दध्यादिषु त्रयः पञ्च प्रियालाद्यैस्त्रयो रसे| स्नेहेषु वै त्रयो लेह्याः षट् चूर्णे त्वेक एव च||३६|| इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रयः| यवाग्वादौ त्रयश्चैव उक्त उत्कारिकाविधौ||३७|| एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके| चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे||३८|| एकः सौवीरकेऽथैको योगः स्यात्तु तुषोदके| एका सुरैकः कम्पिल्ले तथा पञ्च घृते स्मृताः )||३९|| दन्तीद्रवन्तीकल्पेऽस्मिन् प्रोक्ताः षोडशकास्त्रयः| नानाविधानां योगानां भक्तिदोषामयान्प्रति||४०||
🔊 Audio coming soon
दन्तीत्याद्यध्यायार्थसङ्ग्रहो व्यक्त एव| भक्तिदोषामयान् प्रति उक्तानां नानाविधानां योगानां त्रयः षोडशकाः प्रोक्ता इति योजना| भक्तिः इच्छा||३६-४०||
Adhikarana 10 (41-42) · Śloka 42
त्रिशतं पञ्चपञ्चाशद्योगानां वमने स्मृतम्| द्वे शते नवकाः पञ्च योगानां तु विरेचने||४१|| ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट्| प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च||४२||
🔊 Audio coming soon
सम्प्रति कल्पस्थानार्थसङ्ग्रहमाह- त्रिशतमित्यादिना| त्रिशतं पञ्चपञ्चाशदिति पञ्चपञ्चाशद्योगाधिकं त्रिशतम्| प्राधान्यतः समाश्रित्येति प्राधान्येन मदनफलादीनि द्रवन्तीपर्यन्तानि पञ्चदशद्रव्याणि योगव्यपदेशतयाऽऽश्रित्य||४१-४२||
Adhikarana 11 (43-44) · Śloka 44
भवन्ति चात्र- यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते| तत्सञ्ज्ञकः स योगो वै भवतीति विनिश्चयः ||४३|| फलादीनां प्रधानानां गुणभूताः सुरादयः| ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे||४४||
🔊 Audio coming soon
अथात्र वमनादियोगेषु द्रव्यान्तराणां सुरादीनामपि विद्यमानत्वात् कथं मदनफलाद्याश्रयवत्त्वेनैवामी योगा व्यपदिश्यन्त इत्याह- यद्धीत्यादि| यद्यपि मदनादिभिः सुरादिभिश्च मिलित्वैवामी योगाः क्रियन्ते, तथाऽपि फलादीनां प्राधान्यात् फलादीनां योगा एते इति व्यपदेशो भवति, न सुरादियोगा इति| गुणभूता इति अप्रधानभूताः | सुरादीनामप्राधान्य एव हेतुमाह- ते हि तान्यनुवर्तन्त इति; सुरादयो हि मदनादीनि वमनविरेचनप्रकारकार्यानुगुणतयाऽप्रतीघातेन चानुवर्तन्ते||४३-४४||
Adhikarana 12 (45) · Śloka 45
विरुद्धवीर्यमप्येषां प्रधानानामबाधकम्| अधिकं तुल्यवीर्ये हि क्रियासामर्थ्यमिष्यते ||४५||
🔊 Audio coming soon
ननु ये तावदनुगुणा मदनादीनां ते गुणभूता भवन्तु, विपरीता ये दन्त्या उग्रताया मांसरसादयः, तथा एलादयो हृद्यतया वमनप्रतिकूला मदनादीनां ते कथं गुणभूता इत्याह- विरुद्धवीर्यमप्येषां प्रधानानामबाधकमिति| विरुद्धवीर्यमपीति विरेचनरूपकार्याप्रबाधकतया गुणभूतमित्यर्थः| यदि हि विरुद्धवीर्यं गुणभूतं न स्यात् तदा मदनादीनां कार्यं प्रतिहन्यात्; विरुद्धस्यापि च कार्याप्रतीघातोऽवश्यमबाधकत्वमेवेति भावः| विपरीतस्य कार्याबाधनरूपं साहाय्यमभिधाय तुल्यवीर्यस्य कार्यमाह- अधिकमित्यादि| तुल्यवीर्ये संयुक्ते सति क्रियासामर्थ्यमधिकं भवतीत्यर्थः||४५||
Adhikarana 13 (46) · Śloka 46
इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम्| अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम्||४६||
🔊 Audio coming soon
अथ तुल्यवीर्यं तावत् क्रियासामर्थ्याधिक्यकारकं , तेन तत्संयोगोऽस्तु, विरुद्धवीर्यसंयोगास्तु किमर्थं क्रियन्त इत्याह- इष्टेत्यादि| इष्टवर्णत्वादिसम्पत्त्यर्थम्; अतो मदनफलादेर्विरुद्धवीर्याणां प्रयोगस्तथा विरुद्धामयं च प्रति विरुद्धवीर्याणां प्रयोगो वमनविरेचनहर्तव्यामयविशेषे यौगिक इत्यर्थः||४६||
Adhikarana 14 (47) · Śloka 48
भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः| सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत्||४७|| स्वरसैस्तुल्यवीर्यैर्वा तस्माद्द्रव्याणि भावयेत्|४८|
🔊 Audio coming soon
अथ मदनफलादीनां वीर्योत्कर्षादिके विधिमाह- भूयश्चैषामित्यादि| तुल्यवीर्यैर्वेति तुल्यवीर्यैः स्वरसैः क्वाथैर्वा||४७||-
Adhikarana 15 (48) · Śloka 49
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्||४८|| कुर्यात् संयोगविश्लेषकालसंस्कारयुक्तिभिः|४९|
🔊 Audio coming soon
तुल्यातुल्यवीर्यसंयोगादिकार्यमाह- अल्पस्यापीत्यादि| तत्राल्पमात्रस्य समानवीर्यसंयोगान्महार्थत्वं भवति, तथा विरुद्धवीर्यसंयोगात् प्रभूतमात्रस्याप्यल्पकर्मता कर्तव्या| इयं चाल्पकर्मकता प्रभूतभेषजस्य दीप्तिकारणकोष्ठव्याप्त्यादिप्रयोजनात् क्रियते, तेन न निष्प्रयोजना| विश्लेषादप्यल्पस्य महार्थत्वं विरुद्धवीर्यविश्लेषाद्बोद्धव्यं; समाधिकविश्लेषात्तु प्रभूतस्याल्पकर्मता ज्ञेया| एवं संस्कारादपि समानासमानगुणान्महार्थत्वमल्पकर्मता वा युक्ता| अल्पस्यापि महार्थत्वं यथा स्निग्धेऽल्पमात्रमपि शोधनं बहुदोषहरणाय भवति, तद्विपर्ययेण प्रभूतस्याल्पकर्मता उदाहरणीया||४८||-
Adhikarana 16 (49-50) · Śloka 50
प्रदेशमात्रमेतावद्द्रष्टव्यमिह षट्शतम्||४९|| स्वबुद्ध्यैवं सहस्राणि कोटीर्वाऽपि प्रकल्पयेत्| बहुद्रव्यविकल्पत्वाद्योगसङ्ख्या न विद्यते||५०||
🔊 Audio coming soon
सम्प्रति, उक्तप्रयोगषट्शतबीजेनानुक्तप्रयोगकल्पनं दर्शयन्नाह- प्रदेशेत्यादि| प्रदेश एकदेशः| अथ कस्मान्निःशेषेण नैव योगा अभिधीयन्त इत्याह- बहुद्रव्येत्यादि| असङ्ख्यत्वान्निःशेषानभिधानमिति भावः||४९-५०||
Adhikarana 17 (51-52) · Śloka 53
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्| सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते||५१|| नातिग्लानिकरं पायौ हृदये न च रुक्करम्| अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति||५२|| विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्|५३|
🔊 Audio coming soon
अथ वमनविरेचनानां तदुपोद्घाताच्च निरूहाणां तीक्ष्णमध्यमृदुताया लक्षणं कारणं चाह- तीक्ष्णेत्यादि| सुखमिति दुःखमकुर्वन्| असक्तमिति अप्रतिबद्धम्| नातिग्लानिकरं पायाविति विरेचनस्य निरूहस्य च, हृदये न च रुक्करमिति तु वमनस्य लक्षणं ज्ञेयम्| अक्षिण्वन्निति अपीडयन्| विरेचनमिति वमनं विरेचनं च; उक्तं हि- उभयं हि शरीरदोषमलविरेचनाद्विरेचनशब्दं लभते (क.अ.१) इति||५१-५२||-
Adhikarana 18 (53-56) · Śloka 56
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्||५३|| ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्| स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्||५४|| किञ्चिदेभिर्गुणैर्हीनं पूर्वोक्तैर्मात्रया तथा| स्निग्धस्विन्नस्य वा सम्यङ्मध्यं भवति भेषजम्||५५|| मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम्| अतुल्यवीर्यैः संयुक्तं मृदु स्यान्मन्दवेगवत्||५६||
🔊 Audio coming soon
जलाग्नीत्यादिना तीक्ष्णत्वे कारणमाह| देशकालगुणान्वितमिति अनुगुणदेशकालप्राप्त्योत्कृष्टगुणवत्| स्नेहस्वेदोपपन्नस्येति सुस्निग्धस्विन्नस्य| किञ्चिदित्यादिना मध्यस्य वमनादेः कारणलक्षणे आह| एभिर्गुणैरित्यनेन क्षिप्रत्वादि जलाग्निकीटास्पृष्ठत्वादि च प्रत्यवमृष्यते| मन्दवीर्यमित्यादिना मृदूनां लक्षणं कारणं चाह| मन्दवेगवदिति लक्षणं, शेषं तु कारणम्||५३-५६||
Adhikarana 19 (57) · Śloka 57
अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम्| मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता||५७||
🔊 Audio coming soon
तीक्ष्णादिशुद्धिविषयावचारणार्थमाह- अकृत्स्नेत्यादि| ते मध्याल्पशुद्धी बलीयसां पुरुषाणां कृत्स्नदोषं यस्मान्न निर्हरतः, तस्मादशुद्धी| अकृत्स्नदोषहरणादिति हेतुवर्णनेन यदा बलीयसोऽल्पदोषतया कृत्स्नदोषहरणकारिके मध्याल्पशुद्धी भवतः, तदा सम्यक्शुद्धी एव ते इति सूचयति| मध्येत्यादि मध्यबले मध्या, अवरबले तु मृद्वी शुद्धिः प्रयोज्येति वाक्यार्थः| तत्र प्रयोज्यभाषया असम्यक्शुद्धी अपि बलापेक्षया कर्तव्ये, मध्यावरौ प्रति तयोः सम्यक्शुद्धिकर्तृत्वं भवतीति दर्शयति||५७||
Adhikarana 20 (58) · Śloka 58
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः| तीक्ष्णादीनि बलावेक्षी भेषजान्येषु योजयेत्||५८||
🔊 Audio coming soon
व्याधितीक्ष्णत्वादिविभागेन विशुद्धौ तीक्ष्णत्वादिविधानमाह- तीक्ष्णो मध्य इत्यादि| सर्वमध्याल्पलक्षण इति यथासङ्ख्यं तीक्ष्णादिव्याधिलक्षणं; सर्वलक्षणः तीक्ष्णः, मध्यलक्षणः मध्यः, अल्पलक्षणः मृदुर्व्याधिः| बलावेक्षीत्यनेन व्याधेस्तीक्ष्णत्वे यदि बलं महद्भवति तदैव तीक्ष्णशोधनं कर्तव्यमिति दर्शयति||५८||
Adhikarana 21 (59) · Śloka 59
देयं त्वनिर्हृते पूर्वं पीते पश्चात् पुनः पुनः| भेषजं वमनार्थीयं प्राय आपित्तदर्शनात्||५९||
🔊 Audio coming soon
वमने क्रियमाणेऽवस्थाविशेषकर्तव्यमाह- देयमित्यादि| एवं पीते वमने सति अनिर्हृते दोषे पश्चात् पुनः पुनर्वमनार्थीयं भेषजं देयम्| आपित्तदर्शनादिति यावत् पित्तं न दृश्यते तावत् पुनः पुनर्वमनं देयम्| वमनं हि पित्तान्ततया सम्यग्युक्तं भवति| उक्तं हि- “पित्तान्तमिष्टं वमनं विरेकादर्धं” (सि.अ.१) इति||५९||
Adhikarana 22 (60) · Śloka 60
बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च| पुनः प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत्||६०||
🔊 Audio coming soon
पुनः पुनर्भैषज्यप्रयोगस्यापवादविषयमुचितविषयं च दर्शयन्नाह- बलेत्यादि| बलवति दोषे पुरुषेऽपि पुनः प्रयोज्यं भैषज्यं, हीनबले दोषे पुरुषे च सर्वशो वा भेषजं शोधनार्थं विवर्जयेत्, शोधनं न कुर्यादित्यर्थः| वाशब्देन च मध्यमबले पुरुषे दोषे च न सर्वथा विवर्जनेनैकवारप्रयोगं शोधनस्य दर्शयति||६०||
Adhikarana 23 (61) · Śloka 61
निर्हृते वाऽपि जीर्णे वा दोषनिर्हरणे बुधः| भेषजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम्||६१||
🔊 Audio coming soon
निर्हृते इत्यादौ दोषनिर्हरणे इति दोषनिर्हरणकप्रयोजने भेषजे| निर्हृते इति दोषमनिर्हृत्यैव निर्गते| जीर्णे वेति येन वमनमधिकृत्यैतदुच्यते, तेन वमनस्य पाककालाप्रतीक्षैवेति ‘अपक्वं वमनं’ इत्यादिना वक्तव्यम्| जीर्णसदृशता च वमनस्य क्षोभाकर्तृतया पाकोन्मुखतया च ज्ञेया| अन्यत् प्रयुञ्जीतेति वमनार्थभेषजपानानन्तरं तदहरेव दद्यात्||६१||
Adhikarana 24 (62) · Śloka 62
अपक्वं वमनं दोषं पच्यमानं विरेचनम्| निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्||६२||
🔊 Audio coming soon
वमनप्रयोगेष्वयोगप्रतीकारार्थं भेषजान्तरप्रयोगे कर्तव्ये पाककालाप्रतीक्षणं सोपपत्तिकमाह- अपक्वमित्यादि||६२||
Adhikarana 25 (63) · Śloka 63
पीते प्रस्रंसने दोषान्न निर्हत्य जरां गते| वमिते चौषधे धीरः पाययेदौषधं पुनः||६३||
🔊 Audio coming soon
वमने आवश्यकं कर्तव्यमभिधाय विरेचनेऽप्याह- पीते प्रस्रंसने इत्यादि| वमिते चौषधे इति विरेचनौषधमात्रे वमिते| पुनरिति तदहरेव||६३||
Adhikarana 26 (64-65) · Śloka 65
दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम्| दुःशुद्धं तदहर्भुक्तं श्वोभूते पाययेत् पुनः||६४|| दुर्बलो बहुदोषश्च दोषपाकेन यो नरः| विरिच्यते शनैर्भोज्यैर्भूयस्तमनुसारयेत् ||६५||
🔊 Audio coming soon
विरेचनेन स्तोकदोषहरणे सति कर्तव्यमाह- दीप्ताग्निमित्यादि| दृढस्नेहगुणमित्यनेन स्नेहलक्षणो गुणो देहे यदा दृढो नास्ति तदाऽस्य भेषजं न दातव्यं, किन्तु स्नेह एव तावत् कर्तव्यः; असम्यक्स्निग्धे हि पुनरपि क्रियमाणं विरेचनमसम्यग्योगायैव भवति| दुःशुद्धमिति अयोगेनाविशुद्धम् | श्वोभूते, दिनान्तरे भूते, किंवा ‘श्वो भूयः’ इति पाठः| दोषपाकेनेति पक्वदोषेऽविबद्धत्वाद्बहुत्वाच्च शनैर्विरिच्यते| भोज्यैरिति अनुलोमनैः| अत्र च प्रवृत्तदोषेऽतियोगभयान्न पुनर्विरेचनप्रयोगमनुजानीते||६४-६५||
Adhikarana 27 (66) · Śloka 66
वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणतः | भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत्||६६||
🔊 Audio coming soon
वमनविरेचनाभ्यां किञ्चिच्छेषीकृतदोषप्रतीकारार्थमाह- वमनैश्चेत्यादि| अत्र बहुवचनं वेगबहुत्वापेक्षया| अप्रमाणत इति न निःशेषेण| तत्र भोजनं पाचनं यवाग्वादिभोजनम्| अन्तरपानं कषायपानम्| ये तु ‘प्रमाणतः’ इति पठन्ति, ते सम्यक्शुद्धावपि कोष्ठोपलेपकदोषप्रशमनार्थं भोजनान्तरपानं व्याख्यानयन्ति||६६||
Adhikarana 28 (67) · Śloka 67
दुर्बलं शोधितं पूर्वमल्पदोषं च मानवम्| अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु||६७||
🔊 Audio coming soon
मृदुशोधनोपपादनीयमाह- दुर्बलमित्यादि| शोधितं पूर्वमिति पूर्वशोधितस्य दुर्बलतया मृदु भेषजं देयं, तीक्ष्णेन हि बलभ्रंशोऽतियोगश्च स्यात्||६७||
Adhikarana 29 (68) · Śloka 68
श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम्| न चातितीक्ष्णं यत् क्षिप्रं जनयेत्प्राणसंशयम्||६८||
🔊 Audio coming soon
मृदुभेषजप्रयोगोपपत्तिमाह- श्रेय इत्यादि| असकृत्पीतमिति असकृत्पीतमल्पबाधं भवतीत्यर्थः| श्रेय इति श्रेयस्त्वं चास्यातिव्यापत्तिकरतीक्ष्णापेक्षया ज्ञेयम्| न चातितीक्ष्णमिति न चातितीक्ष्णं दुर्बलादीनां देयं; यस्मादतितीक्ष्णं दुर्बलादीन् प्राप्य क्षिप्रं प्राणसंशयं जनयेत्||६८||
Adhikarana 30 (69) · Śloka 69
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः| मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः||६९||
🔊 Audio coming soon
दुर्बले बहुदोषे कर्तव्यमाह- दुर्बलोऽपीत्यादि| बहुशोऽल्पश इति पुनः पुनः स्तोकमात्रया| एवम्भूतानां महादोषनिर्हरणे हेतुमाह- दोषा हन्युर्ह्येनमनिर्हृता इति||६९||
Adhikarana 31 (70-72) · Śloka 72
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्| वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्||७०|| विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्| तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति||७१|| भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते| सोद्गारं साङ्गशूलं च स्वेदं तत्रावचारयेत्||७२||
🔊 Audio coming soon
यस्येत्यादावानुलोमिकं विरेचनमौषधमूर्ध्वं याति यस्य, तं पाययेत् ‘विरेचनमौषधम्’ इति शेषः| कवलैः शुद्धमिति कवलैः शोधितमुखकण्ठम्| तेनेति उष्णजलेन पीतेन||७०-७२||
Adhikarana 32 (73) · Śloka 73
सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत्| अतिप्रवर्तनं जीर्णे सुशीतैः स्तम्भयेद्भिषक्||७३||
🔊 Audio coming soon
अतियोगशङ्कायां कर्तव्यमाह- सुविरिक्ते इत्यादि| सुविरिक्ते इति सम्यक्प्रमाणेन निर्हृते इत्यर्थः| सोद्गारमिति उद्गारेण पच्यमानावस्थाऽभिहिता | एतेन सम्यग्विरेचने भूतेऽपि यदौषधं तिष्ठति तत्तद्दिने एवोल्लिखेत्| तस्याप्यौषधैकदेशस्यापच्यमानतायां विरेचनातियोगः स्यादिति दर्शयति||७३||
Adhikarana 33 (74) · Śloka 74
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्| क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते||७४||
🔊 Audio coming soon
कदाचिदित्यादिना विरेचनस्याविक्रमत्वे हेतुमाह| अत्र कर्तव्यं यद्यपि नोक्तं, तथाऽपि श्लेष्मणा निरोधं भेषजस्य गौरवादिभिरुपलभ्य रात्रिपर्यन्तं भेषजस्यायोगप्रवृत्तिरुपेक्षणीयेति कर्तव्यमूहनीयम्| प्रवर्तते इति दोषसहितं भेषजं प्रवर्तते||७४||
Adhikarana 34 (75) · Śloka 75
रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गतेऽपि वा| वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्||७५||
🔊 Audio coming soon
रूक्षेत्यादावयोगाज्जीर्णे विष्टभ्य ऊर्ध्वं गते वा भेषजे अन्यद्विरेचनं सस्नेहलवणं दातव्यम्|७५||
Adhikarana 35 (76) · Śloka 76
तृण्मोहभ्रममूर्च्छायाः स्युश्चेज्जीर्यति भेषजे| पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते||७६||
🔊 Audio coming soon
तृण्मोहेत्यादिना पित्तावृतभेषजस्य लक्षणं चिकित्सितं चाह| स्युर्जीर्यतीति जीर्यति भेषजे तृडादयो भवन्तीत्यर्थः||७६||
Adhikarana 36 (77) · Śloka 77
लालाहृल्लासविष्टम्भलोमहर्षाः कफावृते| भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्||७७||
🔊 Audio coming soon
लालेत्यादिना कफावृतभेषजस्य लक्षणं चिकित्सितं चाह||७७||
Adhikarana 37 (78) · Śloka 78
सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम्| तेनास्य स्नेहजः श्लेष्मा सङ्गश्चैवोपशाम्यति||७८||
🔊 Audio coming soon
सुस्निग्धमित्यादौ अविरेचितमिति ईषद्विरेचितम्| स्नेहज इति स्नेहप्रयोगजनितः श्लेष्मा| सङ्गः दोषसङ्गः| तेन लङ्घनेन दोषपाकादेव प्रबलश्लेष्मोपशमो दोषसङ्गोपशमश्च क्रियत इत्यर्थः||७८||
Adhikarana 38 (79-80) · Śloka 80
रूक्ष-बह्वनिल-क्रूरकोष्ठ-व्यायामशालिनाम् | दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति||७९|| तेभ्यो बस्तिं पुरा दत्त्वा पश्चाद्दद्याद्विरेचनम्| बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम्||८०||
🔊 Audio coming soon
रूक्षादीनां विरेचनप्रयोगे क्रमविशेषं सोपपत्तिकमाह- रूक्षेत्यादि| बस्तिं पुरा दत्त्वेत्यत्र बस्तिशब्देन स्नेहबस्तिमिच्छन्ति, निरूहस्तु वातकोपकतया तथा निरूहानन्तरं विरेचनस्य निषिद्धत्वादिह नेष्यते; उक्तं हि “निरूहदानात् पवनाद्भयं स्यात्” (सि.अ.१) इति, तथा “नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्| शुद्धो निरूहेन विरेचनं तु” (सि.अ.१) इति; किन्तु बस्तिशब्देन निरूहः स्नेहबस्तिश्च गृह्यते; निरूहस्य यद्वातकर्तृत्वमुक्तं तदेकस्यैव स्नेहबस्तिरहितस्याभ्यासात्, उत्सर्गतस्तु वातहन्तृत्वं “बस्तिर्वातहराणां” (सू.अ.२५) इत्यनेनैवोक्तम्| निरूहानन्तरं विरेचननिषेधस्त्वौत्सर्गिकः, तेन विशेषविधिना तस्यापवादो युज्यत एव; किञ्च, इह बस्त्यनन्तरं यद्विरेचनं विधीयते तच्च बस्तिदानादूर्ध्वं सप्ताहानन्तरमेव भविष्यतीति न कश्चिद्विरोधः| प्रवर्तितमिति प्रवृत्त्युन्मुखीकृतम्||७९-८०||
Adhikarana 39 (81-82) · Śloka 82
रूक्षाशनाः कर्मनित्या ये नरा दीप्तपावकाः| तेषां दोषाः क्षयं यान्ति कर्मवातातपाग्निभिः ||८१|| विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते| स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् विशोधयेत् ||८२||
🔊 Audio coming soon
रूक्षाशना इत्यादिना स्नेह्या अपि न व्याधिव्यतिरेकेण शोधनीया इत्याह| कर्मनित्या इति नित्यं व्यायामादिकर्मकराः| विरुद्धाध्यशनाजीर्णान् दोषान् सहन्तीति विरुद्धाशनादयो दोषरूपा न तेषां विकारं जनयन्तीत्यर्थः; विरुद्धाध्यशनादयश्च दोषजनकतया दोषशब्देनोच्यन्ते| नाव्याधाविति अविद्यमानसंशोधनैकसाध्ये व्याधौ न तान् विशोधयेदिति; अन्यत्राप्युक्तोऽयमर्थः “अनीरितानां दोषाणामीरणं न प्रशस्यते| उपर्युपरि सक्तानामश्मनामिव ताडनम् ” इति||८१-८२||
Adhikarana 40 (83-85) · Śloka 85
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्| स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्||८३|| एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित्| विरेचनं विरेच्येभ्यः प्रयच्छन्नापराध्यति||८४|| विभ्रंशो विषवद्यस्य सम्यग्योगो यथाऽमृतम्| कालेष्ववश्यं पेयं च तस्माद्यत्नात् प्रयोजयेत्||८५||
🔊 Audio coming soon
उक्तं विधिमुपसंहरन्नाह- एवं ज्ञात्वेत्यादि| विरेच्येभ्य इति विरेचनार्हेभ्यः| विभ्रंश इत्यादौ यस्येति संशोधनस्य| ननु विषतुल्यविभ्रंशमेतच्छोधनं तत्किमनेनाचरितेनेत्याह- कालेष्ववश्यं पेयं चेति; संशोधनसाध्यव्याधाववश्यं पेयम्| तेन, अवस्थाविशेषेऽवश्यकर्तव्यतया न शोधनं परिहर्तुं पार्यत इति भावः||८३-८५||
Adhikarana 41 (86) · Śloka 86
द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत् कोष्ठवयोबलेषु| तन्मूलमालम्ब्य भवेद्विकल्प्यं तेषां विकल्प्योऽभ्यधिकोनभावः||८६||
🔊 Audio coming soon
सम्प्रति यदेतच्छोधनस्य क्वचित् कर्षादिमानमुक्तं न तत् सर्वपुरुषविषयं, किन्तु मध्येषु कोष्ठवयोबलेषु तन्मानं ज्ञेयमिति दर्शयन्नाह- द्रव्येत्यादि| तन्मूलमालम्ब्येति उक्तप्रमाणमनुक्तप्रमाणानुमानबीजं कृत्वा| विकल्पार्थमाह- तेषां विकल्प्योऽभ्यधिकोनभाव इति; भेषजप्रमाणस्याधिकभाव ऊनभावश्च विकल्प्य इत्यर्थः||८६||
Adhikarana 42 (87-97) · Śloka 98
षड् ध्वंश्यस्तु मरीचिः स्यात् षण्मरीच्यस्तु सर्षपः| अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम्||८७|| धान्यमाषो भवेदेको धान्यमाषद्वयं यवः| अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु माषकः||८८|| हेमश्च धान्यकश्चोक्तो भवेच्छाणस्तु ते त्रयः| शाणौ द्वौ द्रङ्क्षणं विद्यात् कोलं बदरमेव च||८९|| विद्याद्द्वौ द्रङ्क्षणौ कर्षं सुवर्णं चाक्षमेव च| बिडालपदकं चैव पिचुं पाणितलं तथा||९०|| तिन्दुकं च विजानीयात् कवलग्रहमेव च| द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा||९१|| द्वे पलार्धे पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका| बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदुः||९२|| अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका| पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा||९३|| चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्| पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा||९४|| कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्| स एव कलशः ख्यातो घटमुन्मानमेव च||९५|| द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च| गोणीं शूर्पद्वयं विद्यात् खारीं भारं तथैव च||९६|| द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान्| तुलां शतपलं विद्यात् परिमाणविशारदः||९७|| शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्|९८|
🔊 Audio coming soon
प्रमाणोपोद्घातात् सर्वशास्त्रव्यवह्रियमाणं प्रमाणं निरूपयन्नाह- षड् ध्वंश्य इत्यादि| ध्वंशीं त्रसरेणुकं वदन्ति; अन्ये तु ध्वंशीं धूलिमाहुः| अष्टौ ते सर्षपा रक्तास्तण्डुला इत्यत्र रक्ता इति सर्षपाणां विशेषणम्| तद्द्वयं धान्यमाष इति तण्डुलद्वयं धान्यमाषो भवेत्| ते तु चत्वार इति यवचत्वारः; अन्ये तु माषाश्चत्वारः अण्डिका इति वदन्ति| त्रयो माषकाः शाणः| अत्र माने अष्टचत्वारिंशन्माषकमानं पलं भवति, तदेव दशरक्तिमानेन चतुःषष्टिमाषकपलेन तुल्यं भवति, यतश्चतुर्विंशतिधान्यमाषैर्दशरक्तिकास्तुल्या भवन्ति; ततश्च दशरक्तिमानाश्चतुःषष्टिमाषकाश्चतुर्विंशतिधान्यमाषैर्गुणिताः षट्त्रिंशदधिकपञ्चदशशतधान्यमाषा एव भवन्ति; तेन दशरक्तिकचतुःषष्टिधान्यमाषपलमानेन सह द्वात्रिंशद्धान्यमाषप्रमाणाष्टचत्वारिंशन्माषकृतपलमानस्य तुल्यता| सुश्रुतेऽपि “तत्र द्वादश धान्यमाषाः स्वर्णमाषकः, ते च चतुःषष्टिः पलम्” (सु. चि. अ. ३१) इति व्यवस्थापितम्| तेन चतुःषष्टिमाषका द्वादशधान्यमाषैर्गुणिताः सन्तोऽष्टषष्ट्यधिकसप्तशतधान्यमाषा भवन्ति; एवं दृढबलोक्तमानादर्धेन सुश्रुतपलादिमानं भवति; एवं सुश्रुतेऽपि पञ्चरक्तिकमाषो भवति| दृढबलमानं मागधं, सुश्रुतमानं कालिङ्गमिति ब्रुवते| जतूकर्णे तु षड्गुञ्जको माषक उक्तः||८७-९७||-
Adhikarana 43 (98-99) · Śloka 99
द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च||९८|| यद्धि मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्| अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्||९९||
🔊 Audio coming soon
द्विगुणं तद्द्रवेष्विष्टमित्यादि| अत्र यद्यपि सामान्येनैव द्रवस्य द्वैगुण्यमुक्तं, तथाऽपि तन्त्रान्तरदर्शनात् कुडवादावेव द्रवस्य द्वैगुण्यम्| उक्तं हि “रक्तिकादिषु मानेषु यावन्न कुडवो भवेत्| शुष्के द्रवार्द्रयोश्चैव तुल्यं मानं प्रकीर्तितम्” इति| जतूकर्णेऽप्युक्तं “द्विगुणाः कुडवादयो द्रवाणाम्” इति| इहापि सुनिषण्णकचाङ्गेरीघृते “त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः” (चि.अ.१४) इति वचनेन द्रवद्वैगुण्यं पारिभाषिकप्रस्थे द्रढयताऽऽचार्येण रक्तिकादौ द्वैगुण्यपरिभाषाव्यभिचारः सूच्यत इत्युपपादितमेव प्राक्| आर्द्रद्वैगुण्यं च तस्यैव भवति यस्य द्रव्यस्य शुष्कस्य चार्द्रस्य चोपयोगः सम्भवति, यच्च नित्यमार्द्रमेवोपयुज्यते न तत्र द्वैगुण्यम्| उक्तं ह्यन्यत्र- “वासाकुटजकूष्माण्डशतपत्रीसहामृताः| प्रसारण्यश्वगन्धा च शतपुष्पासहाचराः|| नित्यमार्द्राः प्रयोक्तव्या न तेषां द्विगुणं भवेत्” इति| अन्येषां च द्वैगुण्यं कृत्वा मानस्य वारद्वयग्रहणं कर्तव्यमित्यर्थः||९८-९९||
Adhikarana 44 (100) · Śloka 100
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्| यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः||१००||
🔊 Audio coming soon
परिभाषान्तरमाह- द्रवकार्येऽपीत्यादि| स्नेहादिसाधने द्रवसम्पाद्ये यत्र द्रवं नोक्तं तत्र सलिलं देयमित्यर्थः| यतश्च पादनिर्देशश्चतुर्भागस्ततश्च स इति अस्यार्थो लोकत एव सिद्धः, तथाऽपि स्पष्टार्थं पुनरभिधीयते||१००||
Adhikarana 45 (101) · Śloka 101
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम् | तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्||१०१||
🔊 Audio coming soon
जलस्नेहौषधानामित्यादौ औषधात् स्नेहश्चतुर्गुण इति कल्कात् स्नेहश्चतुर्गुणः| स्नेहात्तोयं चतुर्गुणमिति तोयशब्दस्य द्रवोपलक्षणत्वाद्द्रवं चतुर्गुणमित्यर्थः| यत्र तु विशिष्टं मानं जलादीनामुक्तं तत्र तथैव कर्तव्यं, “निर्दिष्टे तत्तदेव तु” (सु.चि.अ.३१) इतिवचनात्||१०१||
Adhikarana 46 (102-103) · Śloka 103
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा| तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः||१०२|| संयाव इव निर्यासे मध्यो दर्वीं विमुञ्चति| शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा||१०३||
🔊 Audio coming soon
स्नेहपाकत्रैविध्यलक्षणमाह- स्नेहपाक इत्यादि| तुल्ये कल्केन निर्यास इति प्रथमप्रक्षिप्तकल्कतुल्यतां गते पाकेन निर्यासे सति| संयाव इवेति अत्र संयावशब्देन समघृतगुडगोधूमकणिकाकृतपिण्ड उच्यते| शीर्यमाणे इत्यादि खरपाकलक्षणम्| शीर्यमाणे इति अवसीदति| वर्तमाने अङ्गुलिपीडनाद्वर्तितां गच्छति||१०२-१०३||
Adhikarana 47 (104) · Śloka 104
खरोऽभ्यङ्गे स्मृतः पाको, मृदुर्नस्तःक्रियासु च| मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत्||१०४||
🔊 Audio coming soon
खरपाकादिविषयमाह- खर इत्यादि||१०४||
Adhikarana 48 (105) · Śloka 105
मानं च द्विविधं प्राहुः कालिङ्गं मागधं तथा| कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदुः||१०५||
🔊 Audio coming soon
कालिङ्गमित्यादिकं श्लोकं केचित् पठन्ति, तं चानार्षं वदन्ति||१०५||
Adhikarana 49 (106-107) · Śloka 107
तत्र श्लोकौ- कल्पार्थः शोधनं सञ्ज्ञा पृथग्घेतुः प्रवर्तने| देशादीनां फलादीनां गुणा योगशतानि षट्||१०६|| विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्| विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः||१०७||
🔊 Audio coming soon
कल्पार्थ इत्यादिः स्थानार्थसङ्ग्रहः| कल्पार्थः “कल्पार्थं भेदार्थं” (क.अ.१) इत्यादिनोक्तः| शोधनसञ्ज्ञा- “उभयं वा शरीरमलविरेचनात्” (क.अ.१) इत्यादिनोक्ता| पृथग्घेतुः प्रवर्तने इति “तत्रोष्णतीक्ष्णविकाशी” (क.अ.१) इत्यादिनोक्तः| देशादीनां गुणाः “तत्र देशस्तु” (क.अ.१) इत्यादिनोक्ताः| फलादीनां गुणाः मदनफलादिकल्प एवोक्ताः| योगशतानि षडिति “त्रिशतं पञ्चपञ्चाशत्” इत्यादिनोक्तम्| विकल्पहेतुः “उपभोगसुखार्थं” (क.अ.१) इत्यादिना प्रथमाध्याये प्रोक्तः| नामानि मदनफलादीनामेव, तानि च प्रत्यध्यायमुक्तानि| तीक्ष्णमध्याल्पलक्षणमिति “सुखं क्षिप्रं महावेगं” (क.अ.१२) इत्यादिनोक्तम्| विधिश्चावस्थिकः “देयं ह्यनिर्गते पूर्वं” (क.अ.१२) इत्यादिनोक्तः| शेषं सुगमम्||१०६-१०७||
Adhikarana puShpikA · Śloka 12
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने दन्तीद्रवन्तीकल्पो नाम द्वादशोऽध्यायः||१२|| इति चरकसंहितायां सप्तमं कल्पस्थानं सम्पूर्णम्|
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने दन्तीद्रवन्तीकल्पो नाम द्वादशोऽध्यायः||१२||