Adhikarana 1 (1-3) · Śloka 3
अथातः सप्तलाशङ्खिनीकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
सप्तला चर्मसाह्वा च बहुफेनरसा च सा|
शङ्खिनी तिक्तला चैव यवतिक्ताऽक्षि(क्ष)पीडकः||३||
पूर्वाध्यायोक्तसम्बन्धादेव सप्तलाशङ्खिनीकल्पोऽभिधीयते| इह चाध्याये ये योगा अभिधीयन्ते ते सप्तलया वा शङ्खिन्या वा उभाभ्यां वा सम्पाद्यन्ते श्यामात्रिवृद्योगवत्||१-३||
Adhikarana 2 (4-5) · Śloka 5
ते गुल्मगरहृद्रोगकुष्ठशोफोदरादिषु|
विकासितीक्ष्णरूक्षत्वाद्योज्ये श्लेष्माधिकेषु तु||४||
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्|
सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत्||५||
ते गुल्मेत्यादि| ते सप्तलाशङ्खिन्यौ||४-५||
Adhikarana 3 (6-8) · Śloka 8
अक्षमात्रं तयोः पिण्डं प्रसन्नालवणायुतम्|
हृद्रोगे कफवातोत्थे गुल्मे चैव प्रयोजयेत्||६||
प्रियालपीलुकर्कन्धुकोलाम्रातकदाडिमैः|
द्राक्षापनसखर्जूरबदराम्लपरूषकैः||७||
मैरेये दधिमण्डेऽम्ले सौवीरकतुषोदके|
सीधौ चाप्येष कल्पः स्यात् सुखं शीघ्रविरेचनः||८||
अक्षमात्रमित्यादिना कल्कस्य प्रसन्नालवणयुक्तस्य प्रियालादिकषायेषु षोडशयोगा भवन्ति| अत्र यद्यपि मैरेयैक्षवौ न कषायौ तथाऽपि बहुकषायान्तर्गतत्वात् कषायावेव वक्तव्यौ, सङ्ग्रहे ‘कषाया दश षट्’ इत्यनेन व्यपदिष्टौ| कषायशब्देन कल्ककषायोऽभिप्रेतः| कर्कन्धूकोलबदरशब्देन त्रिप्रकारबदरग्रहणम्||६-८||
Adhikarana 4 (9-11) · Śloka 11
तैलं विदारिगन्धाद्यैः पयसि क्वथिते पचेत्|
सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धभागिके||९||
दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च|
शङ्खिनीचूर्णभागौ द्वौ तिलचूर्णस्य चापरः||१०||
हरीतकीकषायेण तैलं तत्पीडितं पिबेत्|
अतसीसर्षपैरण्डकरञ्जष्वेष संविधिः||११||
तैलमित्यादिना प्रथमस्तैलयोगः| त्रिवृच्छ्यामार्धभागिके इति सप्तलाशङ्खिनीकल्कयोरर्धभागेन त्रिवृच्छ्यामाकल्को देयः| शङ्खिनीत्यादिना पञ्चतैलयोगानाह, एवं षट्तैलयोगा भवन्ति| तैलं तत्पीडितमिति शङ्खिनीचूर्णं तिलचूर्णं च हरीतकीकषायेण सन्धाय पीडितं तत् तैलं पिबेदिति| अतस्यादिष्वेष संविधिरिति वचनेन तिलस्थानेऽतस्यादीनां प्रयोगं विधत्ते||९-११||
Adhikarana 5 (12-16) · Śloka 16
शङ्खिनीसप्तलासिद्धात् क्षीराद्यदुदियाद्घृतम्|
कल्कभागे तयोरेव त्रिवृच्छ्यामार्धसंयुते||१२||
क्षीरेणालोड्य सम्पक्वं पिबेत्तच्च विरेचनम्|
दन्तीद्रवन्त्योः कल्पोऽयमजशृङ्ग्यजगन्धयोः||१३||
क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः|
मसूरविदलायाश्च प्रत्यक्पर्ण्यास्तथैव च||१४||
द्विवर्गार्धांशकल्केन तद्वत् साध्यं घृतं पुनः|
शङ्खिनीसप्तलाधात्रीकषाये साधयेद्घृतम् ||१५||
त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च लोध्रवत् |
सुराकम्पिल्लयोर्योगः कार्यो लोध्रवदेव च||१६||
शङ्खिनीसप्तलेत्यादि प्रथमं घृतम्| दन्तीद्रवन्त्योरित्यादिना द्विद्विद्रव्यकल्केन सप्तलाशङ्खिनीकल्कार्धेन पूर्वघृतवत्पाकाच्च पञ्चघृतयोगा अपरे| द्रवन्ती दन्तीभेदः| अजशृङ्गी विषाणिका| क्षीरिणी दुग्धिका| मसूरविदला श्यामलता| प्रत्यक्पर्णी मूषिकपर्णी| द्विवर्गार्धांशकल्केनेति दन्त्यादिद्विवर्गशङ्खिनीसप्तलार्धभागिकेन कल्केन| शङ्खिनीत्यादिना सप्तमं घृतं, त्रिवृत्कल्केनेत्याद्यष्टमं घृतम्| अत्र त्वधिकृतत्वात् सप्तलाशङ्खिन्योर्द्विगुणः कषायो विधीयते| लोध्रवदिति लोध्रकल्पवत्; लोध्रकल्पे यथा त्रयो लेहाः “चतुरङ्गुलकल्पेन” (क.अ.९) इत्यादिनोक्ताः, तेन लोध्रस्थाने सप्तलाशङ्खिनीयोगः कर्तव्यः| तथा सुरायोगः कम्पिल्लयोगश्च लोध्रवदिति अत्रापि लोध्रस्थाने सप्तलाशङ्खिनीप्रक्षेपः कर्तव्यः||१२-१६||
Adhikarana 6 (17) · Śloka 17
दन्तीद्रवन्त्योः कल्पेन सौवीरकतुषोदके|
अजगन्धाजशृङ्ग्योश्च तद्वत् स्यातां विरेचने||१७||
दन्तीद्रवन्त्योरित्यादिना सन्धानचतुष्टयमाह| एतत् सन्धानचतुष्टयं पूर्वसुरायोगेन समं ‘पञ्च मद्ये” इति वचनेन सङ्ग्रहगृहीतं; सौवीरकादीनां च मद्यशब्देनाभिधानमिहासूतत्वसामान्याज्ज्ञेयम्| दन्तीद्रवन्त्योः कल्पेनेति अनागतावेक्षणेन दन्तीद्रवन्तीकल्पे सौवीरकतुषोदके ये वक्तव्ये तद्विधानमिहाप्यतिदिशति| तत्र “अजगन्धाकषायेण सौवीरकतुषोदके” (क.अ.१२) इति वक्तव्यं, तेनेहाप्यजगन्धाकषाययुक्तसप्तलाशङ्खिन्योः सौवीरकतुषोदके कर्तव्ये| अत्र “तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः| गौडः कार्योऽजशृङ्ग्या च स वै सुखविरेचनः” (क.अ.१२) इत्यनेनोक्तस्य गौडारिष्टस्य दन्तीद्रवन्तीकल्पोक्तस्य विधानमतिदिशति||१७||
Adhikarana 7 (18-19) · Śloka 19
तत्र श्लोकौ- कषाया दश षट् चैव षट् तैलेऽष्टौ च सर्पिषि|
पञ्च मद्ये त्रयो लेहा योगः कम्पिल्लके तथा||१८||
सप्तलाशङ्खिनीभ्यां ते त्रिंशदुक्ता नवाधिकाः|
योगाः सिद्धाः समस्ताभ्यामेकशोऽपि च ते हिताः||१९||
कषाया इत्यादिसङ्ग्रहो व्याकृतः||१८-१९||
Adhikarana puShpikA · Śloka 11
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने सप्तलाशङ्खिनीकल्पो नामैकादशोऽध्यायः||११||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां कल्पस्थाने सप्तलाशङ्खिनीकल्पो नामैकादशोऽध्यायः||११||