Adhikarana 1 (1-2) · Śloka 2
अथातो मदनकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
चिकित्सितस्थाने तु तत्र तत्र विहितवमनविरेचनयोः प्रयोगान् विस्तरेणाभिधातुं चिकित्साधिकृतयोगस्थानरूपकल्पस्थानमुच्यते| यद्यपि चिकित्सायां बस्तेरपि प्रतिपादितत्वाद्बस्त्यभिधायकं सिद्धिस्थानमपि चिकित्साङ्गतयाऽभिधातव्यं, तथाऽपि पञ्चकर्मणामौत्सर्गिकप्रवृत्तौ वमनविरेचनपूर्विकैव बस्तिकर्मप्रवृत्तिर्भवतीति कृत्वा वमनविरेचनाभिधायकं कल्पस्थानमेव बस्त्यभिधायकसिद्धिस्थानादग्रेऽभिधीयते| वमनविरेचनानां कल्पास्तिष्ठन्त्यस्मिन्निति कल्पस्थानम्| कल्पाभिधानेऽपि विरेचनस्यौत्सर्गिकप्रवृत्तौ वमनपूर्विकैव प्रवृत्तिर्भवतीति वमनपूर्वकत्वाद्विरेचनस्य वमनकल्पा एवाग्रेऽभिधातव्याः| वमनकल्पेष्वपि वमनद्रव्यश्रेष्ठत्वान्मदनफलस्यैवादौ कल्पोऽभिधीयते; श्रेष्ठत्वं च मदनफलस्य ‘वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात्’ इत्यनेनात्रैव वक्ष्यति||१-२||
Adhikarana 2 (3) · Śloka 3
अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः , तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश!||३||
कल्पार्थं दर्शयन्नाह- अथ खल्वित्यादि| अथशब्दः प्राक्प्रस्तुते| खलुशब्दः प्रकाशने| वमनविरेचनार्थमिति वमननिमित्तं विरेचननिमित्तं च| वमनविरेचनद्रव्याणामिति मदनफलादित्रिवृदादीनाम्| अन्यैरिति सुरासौवीरकाद्यैः कोविदारादिप्रकारैश्च| अन्यैरित्यस्य विशेषणं- सुखोपभोगतमैरिति| अत्र सुखायोपभोगो येषां ते सुखोपभोगाः, न तदात्वसुख उपभोगो येषां ते सुखोपभोगाः, तथाहि तदात्वेऽसुखोपभोगानां कोविदारादीनामग्रहणं स्यात्| कल्पनार्थमिति पदस्य क्रियया सम्बन्धमदर्शयित्वैव तद्व्याख्यानप्रत्ययनार्थं व्याकरोति भेदार्थं विभागार्थं चेत्यर्थ इति; तत्र भेदार्थमिति वमनविरेचनद्रव्यप्रयोगभेदार्थं, ते च प्रयोगभेदाः “त्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु” (सू.अ.४) इत्यादिकाः; विभागार्थमिति अत्र ‘फलपिप्पलीनां द्वौ भागौ कोविदारादिकषायेण’, इत्यादिवक्ष्यमाणद्रव्यविभागार्थम्| उपोद्घातं समाप्य प्रकृतमाह- तद्योगानामिति; वमनविरेचनद्रव्यप्रयोगाणम्| क्रियाया इतिकर्तव्यताया विधिः क्रियाविधिः, स्वरसादिरूपतया करणानीति यावत्; तस्य क्रियाविधेर्विशेषणं- सुखोपायस्येति; सुखार्थः सुखो वा उपायो यस्य स सुखोपायः, तस्य सम्यगुपकल्पनार्थमिति सम्यगुपदेशार्थम्||३||
Adhikarana 3 (4) · Śloka 4
तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम्, अधोभागं विरेचनसञ्ज्ञकम्; उभयं वा शरीरमलविरेचनाद्विरेचनसञ्ज्ञां लभते||४||
वमनविरेचनशब्दार्थं विभजते- तत्रेत्यादि| ऊर्ध्वं मुखेन दोषनिर्हरणं भजत इति ऊर्ध्वभागम्| अधो गुदेन दोषनिर्हरणं भजत इति अधोभागम्| वमनविरेचनयोरपि कदाचिद्विरेचनसञ्ज्ञां षड्विरेचनशताश्रितीयोक्तां दर्शयन्नाह- उभयमपीत्यादि| न चैवं सति वमनविरेचनवन्निरूहेऽपि विरेचनसञ्ज्ञाप्रसक्तिरुद्भावनीया , यतः पङ्कजशब्दवदियं विरेचनसञ्ज्ञा वमनविरेचनयोरेव योगरूढ्या वर्तते||४||
Adhikarana 4 (5) · Śloka 5
तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतं दोषसङ्घातमाग्नेयत्वाद् विष्यन्दयन्ति, तैक्ष्ण्याद् विच्छिन्दन्ति, स विच्छिन्नः परिप्लवन् स्नेहभाविते काये स्नेहाक्तभाजनस्थमिव क्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते, सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते, उभयतश्चोभयगुणत्वात्|
इति लक्षणोद्देशः||५||
सम्प्रति द्वयोरपि वमनविरेचनद्रव्ययोः साधारणोष्णतीक्ष्णत्वादिगुणयोगकृतदोषविष्यन्दनादिसाधारणकार्यदर्शनपूर्वकमग्निवाय्वात्मकत्वादिविशिष्टधर्मयोगकृतं विशिष्टं च कार्यं वमनविरेचनरूपं दर्शयन्नाह- तत्रोष्णेत्यादि| उष्णमिति उष्णवीर्यम्| स्ववीर्येणेति स्वप्रभावेण| धमनीरनुसृत्येति सकलदेहगता धमनीरनुसृत्य; सकलदेहगतधमन्यनुसरणं च वीर्येण ज्ञेयं, न साक्षात्| आग्नेयत्वाद्विष्यन्दयन्तीति विलीनं कुर्वन्ति| विच्छिन्दन्ति छिन्नं कुर्वन्ति| परिप्लवन् इतस्ततो गच्छन्| असज्जन्निति न क्वचिदपि सङ्गं गच्छन्| अणुप्रवणभावादिति अणुत्वात् प्रवणभावाच्च; प्रवणत्वमिह कोष्ठगमनोन्मुखत्वम्, अणुत्वं च अणुमार्गसञ्चारित्वम्| उदानप्रणुन्न इति उदानवायुप्रेरितः| अग्निवाय्वात्मकत्वादिति अग्निवायूत्कर्षवत्त्वात्| ऊर्ध्वभागप्रभावादिति ऊर्ध्वभागदोषहरत्वरूपप्रभावात्| एवं सलिलपृथिव्यात्मकत्वमपि व्याख्येयम्| उभयतश्चेति ऊर्ध्वमधश्च क्षिप्यत इत्यर्थः| उभयगुणत्वादिति अग्निवाय्वात्मकत्वात् सलिलपृथिव्यात्मकत्वादूर्ध्वाधोभागप्रभावाच्चेत्यर्थः| इति लक्षणोद्देश इति अनन्तरग्रन्थेन वमनविरेचनद्रव्यस्वरूपाभिधानं कृतमित्यर्थः| अत्र च प्रकरणे सामान्येनैव वमनविरेचनद्रव्याणाम् ‘आग्नेयत्वाद्विष्यन्दयन्ति’ इत्यनेनाग्नेयत्वं प्रतिपादितं; पुनश्च विशेषेण ‘अग्निवाय्वात्मकत्वात्’ इति पदेन वमनद्रव्यस्याग्न्यात्मकत्वं प्रतिपाद्यते; तेन, सामान्ये विशेषे च वमनद्रव्याणामाग्नेयत्वप्रतिपादनात् प्रकृष्टमाग्नेयत्वं भवति; विरेचनद्रव्याणां तु सामान्योक्ताग्नेयत्वसम्बन्धाद् विशेषगुणकथनप्रस्तावे च सलिलपृथिव्यात्मकत्वाभिधानाद्वमनद्रव्यापेक्षयाऽपकृष्टमाग्नेयत्वं भवति| तथाहि सुश्रुतेऽपि वमनविरेचनयोरप्याग्नेयत्वमुक्तं- “सरत्व-सौक्ष्म्य-तैक्ष्ण्यौष्ण्य-विकाशित्वैर्विरेचनम्| वमनं च हरेद्दोषान् प्रकृत्या गतमन्यथा” (सु.चि.अ.३३) इत्यनेन| यच्चात्रोच्यते-वमनं यद्यूर्ध्वभागहरत्वप्रभावादूर्ध्वयति, तदाऽग्निवाय्वात्मकत्वादिति हेतुवर्णनं न युज्यते; यतः, यत् सोपपत्तिकं कार्यं न भवति तत् प्रभावकृतमिति व्यपदिश्यते; उक्तं हि- “प्रभावोऽचिन्त्य उच्यते” (सू.अ.२६) इति| तन्न, यतः प्रभावस्यैवेह वमनकार्ये वाय्वग्न्यात्मकगुणतया वाय्वग्न्यात्मकत्वं हेतुरुपदृ(दि)श्यते, न तु वाय्वग्न्यात्मकत्वं स्वतन्त्रो वमनहेतुः; तथाहि सति यदन्यदपि वाय्वग्न्यात्मकमूर्ध्वभागदोषहरत्वप्रभावरहितं, तदपि वमनकरं स्यात्; यथा- कटुकरसे द्रव्ये तत् स्यात्; तस्मात् प्रभावगुणतयैव हेतुवर्णनम्| एवं विरेचनद्रव्येऽपि पूर्वपक्षसिद्धान्तावनुसर्तव्यौ||५||
Adhikarana 5 (6) · Śloka 6
तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष-सप्तला-शङ्खिनी-दन्ती-द्रवन्तीनां च, नानाविधदेशकालसम्भवास्वाद-रस-वीर्य-विपाक-प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थादीनां नानाप्रभाववत्त्वाच्च , विचित्रगन्ध-वर्ण-रस-स्पर्शानामुपयोगसुखार्थमसङ्ख्येयसंयोगानामपि च सतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः||६||
सम्प्रति कल्पस्थानवक्तव्यतया षड्विरेचनप्रयोगशतान्यनतिसङ्क्षेपविस्तरप्रयोगोपदर्शनपूर्वकं प्रतिजानीते- तत्र फलेत्यादिना षड्विरेचनयोगशतानि व्याख्यास्याम इत्यन्तेन| तत्र कृतवेधनान्तानां विच्छेदपाठेन वमनप्रयोगप्रयोज्यत्वं, श्यामादीनां विरेचनप्रयोगप्रयोज्यत्वं च दर्शयति| अत्रैव वमने विरेचने चैकैकेषां पुनर्वस्तूनां मदनफलादीनां श्यामादीनां च बहवः प्रयोगा अभिधीयन्ते, न पुनरेकैकमेव द्रव्यं वमनकारकं विरेचनकारकं वा; स्वल्पसङ्ख्याप्रयोगेण ग्रहणसुखता वमनविरेचनयोगस्य भवति, कार्यं च सिध्यतीत्याशङ्क्याह- नानाविधेत्यादि यावद्रोगावस्थादीनां नानाप्रभाववत्त्वाच्चेति| अस्यार्थः- यस्मान्नानाविधदेशकालसम्भवाः, नानाविधास्वादाः, नानाविधवीर्याः, नानाविधविपाकाः, नानाविधप्रभावाश्च मदनफलादिका ओषध्यः, तथा तत्संस्कारकाः कोविदारादिका ओषध्य उपलभ्यन्ते; पुरुषाश्च देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थाभिन्ना नानाविधा दृश्यन्ते; तेन नैकं द्रव्यं सर्वस्मिन् देहदोषादौ यौगिकं, सर्वत्र काले वा प्राप्यते सर्वत्र देशे वा; तस्माद्देहदोषादिना भेदवति पुरुषे बहून्येव द्रव्याणि बहुभिश्च प्रयोगैरुपकल्पितानि यथायोग्यतया यथाप्राप्ति च प्रयोक्तुं शक्यन्ते; अतो बहुनामेव मदनादिद्रव्याणां बहुप्रकारप्रयोगाणामुपन्यासो युक्त इति भावः| ग्रहणात् उपलम्भात्| देहो नाना स्थूलकृशादिभेदेन, भक्तिः इच्छा, अवस्थाशब्देनेह रोगावस्थैव ग्राह्या, आदिशब्देनेह सत्त्वाहारयोर्ग्रहणम्| भूरिविरेचनप्रयोगोपदर्शनप्रयोजनान्तरमप्याह- विचित्रेत्यादि| नानाविधगन्ध-वर्ण-रसतया प्रयोगे तत्कालमुत्तरकालं च सुखार्थमित्यर्थः| अथ किं प्रभेदान्मदनफलादीनां षट्प्रयोगशतानि भवन्ति, येनाधिकाः प्रयोगा नाभिधीयन्त इत्याशङ्क्याह- असङ्ख्येयेत्यादि| विकल्पमार्गोपदर्शनार्थमिति अधिकप्रयोगकल्पनासमर्थान् भिषजः प्रति एतत् षट्प्रयोगशतोपदर्शनं कर्तव्याधिकप्रयोगकल्पनामार्गोपदर्शकं, तेनापरेऽप्यत्र प्रयोगाः कल्पनीयाः; ग्रन्थे निःशेषप्रयोगानभिधानं प्रयोगाणामसङ्ख्येयत्वेनाशक्यत्वादेव| अनतिविस्तरेण षट्प्रयोगशताभिधानं मन्दबुद्धिसंव्यवहारार्थमिति भावः| उक्तं ह्यन्यत्र- “एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय, बुद्धिमतां च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानाय” (सू.अ.४) इति||६||
Adhikarana 6 (7) · Śloka 7
तानि तु द्रव्याणि देश-काल-गुण-भाजन-सम्पद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति||७||
सम्प्रति वमनविरेचनद्रव्याणां देशादिसम्पत्त्या गुणोत्कर्षं दर्शयन्नाह- तानीत्यादि| देशादिभिश्चतुर्भिः सम्पच्छब्दः प्रत्येकमभिसम्बध्यते| भाजनं भेषजस्थापनस्थानम्| वीर्यस्य बलं वीर्याधिकत्वमेव||७||
Adhikarana 7 (8) · Śloka 8
त्रिविधः खलु देशः- जाङ्गलः, आनूपः, साधारणश्चेति|
तत्र जाङ्गलः पर्याकाशभूयिष्ठः, तरुभिरपि च कदर-खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकी-साल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीवनगहनः, अनेकशमी-ककुभ-शिंशपाप्रायः, स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः, प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः, लावतित्तिरिचकोरानुचरितभूमिभागः, वातपित्तबहुलः, स्थिरकठिनमनुष्यप्रायो ज्ञेयः, अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः, सरित्समुद्रपर्यन्तप्रायः, शिशिरपवनबहुलः, वञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः, क्षितिधरनिकुञ्जोपशोभितः, मन्दपवनानुवीजितक्षितिरुहगहनः, अनेकवनराजीपुष्पितवनगहनभूमिभागः, स्निग्धतरुप्रतानोपगूढः, हंस-चक्रवाक-बलाका-नन्दीमुख-पुण्डरीक-कादम्ब-मद्गु -भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटपः, सुकुमारपुरुषः, पवनकफप्रायो ज्ञेयः; अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो ज्ञेयः||८||
देशादि सम्यग् व्याकुर्वन्नाह- तत्र त्रिविध इत्यादि| अत्र केचिज्जाङ्गलादिदेशलक्षणग्रन्थं न पठन्ति, तत्तु जनपदोद्ध्वंसनीये पठितमिति कृत्वेहानार्षं वदन्ति| यैस्तु जनपदोद्ध्वंसनीये जाङ्गलादिलक्षणं न पठ्यते, तैरत्र पठनीय एवायं ग्रन्थः||८||
Adhikarana 8 (9) · Śloka 9
तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य-देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमधुरमृत्तिके वा मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते||९||
यथाकालमिति यथाकालं शिशिरादिभिः सेविते देशे| श्मशानादिभिः प्रत्येकं विरहितशब्दः सम्बध्यते| देवयजनेनागारशब्दः सम्बध्यते| सभा जनमेलकस्थानम्| न फालेन कृष्ट इति अफालकृष्टे||९||
Adhikarana 9 (10) · Śloka 10
तत्र यानि कालजातान्युपागतसम्पूर्णप्रमाण-रसवीर्य-गन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस-स्पर्श-प्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि; तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलमिति; मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्||१०||
तत्र यानि कालजातानीत्यनेनैव कालसम्पदुच्यते; कालजातानीति स्वकालभूतानि| उपागतसम्पूर्णेत्यादिना प्रत्यग्राणीत्यन्तेन गुणसम्पदुच्यते| प्रत्यग्राणीति सम्पूर्णगुणतया निष्पन्नानि| तेषां शाखापलाशमित्यादिना कालसम्पदमुक्तां प्रपञ्चयति| शाखाग्रहणेनैव त्वगादीनामपि ग्रहणम्| शीर्णप्ररूढपर्णानामिति च्छेदः| ग्रीष्मे मूलानि शिशिरे वेति कथनेन यान्याग्नेयानि तेषां मूलानि ग्रीष्मे, यानि सौम्यानि तेषां मूलानि शिशिरे, ग्राह्याणीति व्यवस्थां सूचयति; उक्तं ह्यन्यत्र- “सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत, आग्नेयान्याग्नेयेषु” (सु.सू.अ.३६) इति| भेषजग्रहणविधानमाह- मङ्गलेत्यादि||१०||
Adhikarana 10 (11) · Śloka 11
गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषू प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि-सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्||११||
भाजनसम्पदमाह- गृहीत्वेत्यादि| अनुरूपगुणवद्भाजनस्थानीति अनुरूपगुणवत्ता च भाजनस्य भेषजसमानगुणतयैव| स्ववच्छन्नानीति सम्यक्पिहितानि||११||
Adhikarana 11 (12) · Śloka 12
तानि च यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-धान्याम्ल -फलाम्ल-दध्यम्लादिभिर्वाते, मृद्वीकामलक -मधु-मधुक-परूषक-फाणितक्षीरादिभिः पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि च; इत्युद्देशः|
तं विस्तरेण द्रव्य-देह-दोष-सात्म्यादीनि प्रविभज्य व्याख्यास्यामः||१२||
सङ्क्षेपेण मदनफलादीनां वातादिभेदेन भावनालोडनद्रव्याण्याह- तानि च यथादोषं प्रयुञ्जीतेत्यादि| धान्याम्लं काञ्जिकं, फलाम्लं दाडिमरसादि| श्लेष्मणीत्यादौ कषायशब्देन श्लेष्महरद्रव्यक्वाथोऽभिप्रेतः| उद्देश इति सङ्क्षेपाभिधानमित्यर्थः| द्रव्य-देह-दोष-सात्म्यादीनीत्यत्र आदिशब्देन प्रकृतिबलादीनां ग्रहणम्||१२||
Adhikarana 12 (13) · Śloka 13
वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात्|
तानि वसन्तग्रीष्मयोरन्तरे पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे मुहूर्ते|
यानि पक्वान्यकाणान्यहरितानि पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि; तानि प्रमृज्य , कुशपुटे बद्ध्वा, गोमयेनालिप्य, यवतु(बु)षमाषशालिकुलत्थमुद्गपलानामन्यतमे निदध्यादष्टरात्रम्|
अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत्|
सुशुष्काणां फलपिप्पलीरुद्धरेत् |
तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं शिक्येष्वासज्य सम्यक् स्थापयेत्||१३||
वमनद्रव्याणामित्यादिना मदनफलस्य प्राधान्योपदर्शनपूर्वकं प्रयोगविधिमाह| अनपायित्वादिति वमनद्रव्यान्तरापेक्षयाऽल्पव्यापत्तिकत्वात्| अन्तरे इति मध्ये, स च ग्रीष्मवसन्तयोरन्तर्वर्तिकतिपयदिनान्येव मध्यो ज्ञेयः| अश्वयुक् अश्विनी| मैत्रे मुहूर्त इति शिवभुजगमित्रादीनां मध्ये मित्रदेवताके, एवं मैत्रे मुहूर्ते| पलानामिति राशीनाम्| मधुवदिष्टगन्धो येषां तानि, यानि मध्विष्टगन्धानि भवन्ति तानि ग्राह्याणीति दर्शयति| फलपिप्पलीरिति मदनफलमध्यगतानि पिप्पलीसंस्थानानि बीजानि| तासामित्यादि पूरणवाचकशब्दयोगात् करणे षष्ठी| स्वनुगुप्तमिति कृतरक्षाविधानम्||१३||
Adhikarana 13 (14) · Śloka 14
अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पी-कषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तं सुखोष्णं कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत्- ‘ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः|
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते|
रसायनमिवर्षीणां देवानाममृतं यथा|
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते’|
इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात्, तेन साधु वमति; हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात्|
इत्येष सर्वश्छर्दनयोगविधिः||१४||
द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नमित्यनेन अभ्यङ्गे क्रियमाणे स्नेहसहचरितस्वेदोपपादनं द्व्यहं त्र्यहं वा विधीयते, “त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य इष्टः” (सि.अ.१) इत्यनेन पानप्रयुज्यमानस्नेहस्य सप्तरात्रं त्रिरात्रं वा प्रकर्ष उच्यते इति न विरोधः| एतच्चाभ्यङ्गस्वेदसहितस्नेहस्वेदकरणं पानस्नेहान्तदिवसमारभ्य क्रियते, तेन स्नेहपानविश्रामदिनेन समं द्व्यहत्र्यहपूरणमभ्यङ्गस्नेहसहितस्वेदप्रयोगस्य भवति| स्नेहपानाच्च यद्विश्रामदिनम्, “एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्” (सू.अ.१३) इत्यनेनोक्तं, तथैवेहापि| कफोत्क्लेशकारिभोजनमाह- श्वश्छर्दयितव्यमित्यादिना| श्व इति परस्मिन्नह्नि| व्युषितमिति रात्रिमतिक्रान्तम्| निरन्नमिति पदच्छेदः| अनतिस्निग्धमित्यादिना वमनदिन एव घृतमात्रायुक्तयवागूपानपूर्वकं वमनमनतिस्निग्धपुरुषविषयं ब्रूते| अन्ये तु पूर्वदिन एवानतिस्निग्धस्य घृतमात्रां पीतवत एव यवाग्वाः पानमाहुः, “पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः| स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते|| अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य” (सु.चि.अ.३३) इत्यादि सुश्रुतोक्तेः| अन्तर्नखमुष्टिमिति अन्तरीकृतनखमुष्टिपरिमाणम्| यावद्वा साधु मन्येतेत्यनेन मात्राया बलदोषादिभेदेनास्थिरत्वमित्याह| यष्टीमधुकस्य कोविदारादिषु विच्छेदपाठ उत्तरप्रयोगेषु कोविदारादेर्यष्टीमधुविरहितस्य ग्रहणार्थः| कोविदारः स्वनामख्यातः, स शरदि पुष्पति; कर्बुदारस्तु काञ्चनारः, स वसन्ते पुष्पति; नीपः कदम्बः, विदुलः वेतसः, शणपुष्पी घण्टारवा, सदापुष्पी अर्कपुष्पिका, प्रत्यक्पुष्पी अपामार्गः| रात्रिमुषितं विमृद्य पूतमिति शृतकषायात् कषायान्तरोपदर्शकं पक्षान्तरं; किंवा, कषायपान एव शीतकषायविधानमिहोच्यते| पूर्णं शरावमिति मङ्गलार्थं पूर्णकुम्भवत्| पुनः पुनरिति यावत् पित्तागमनं न भवति तावत् पुनः पुनः कषायं पिबेदित्यर्थः| अन्यत्राप्युक्तं- “पित्तान्तमिष्टं वमनं विरेकादर्धं” (सि.अ.१) इत्यादि| वमनायोगकारकहीनवेगप्रवृत्तिप्रतिकारार्थमाह- हीनवेगमित्यादि||१४||
Adhikarana 14 (15) · Śloka 15
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्|
न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||
यद्यपि च घ्रेयादिवमनयोगेषु मधुसैन्धवयोगो न भवति, तथाऽपि ‘सर्वेषु’ इति पदं बाहुल्यार्थम्| वमनार्थकषाये उष्णे मधुप्रक्षेपो विरोधित्वान्न युज्यते, उक्तं हि- “मधूष्णमुष्णार्तमथवा” (सू.अ.२७) इत्यादि, एवमाशङ्क्य समाधानमाह न चोष्णविरोधो मधुन इत्यादि| अविपक्वप्रत्यागमनादित्यनेन पच्यमानं मधूष्णयुक्तं विरुध्येतेति दर्शयति| दोषनिर्हरणाच्चेति मधूष्णविरुद्धमपि वमनयोगे उष्णे इष्यते, तस्य दोषनिर्हरणादेव न विरोधो भवतीति दर्शयति| एवं बस्तिप्रयोगेऽपि मधुन उष्णाविरोधो वर्णनीयः| एतेन यष्टीमध्वादिनवद्रव्यकृतैर्नवभिः कषायैर्नवयोगाः||१५||
Adhikarana 15 (16) · Śloka 16
फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वः स्रावयेत्, तेन रसेन तृतीयं भागं पिष्ट्वा मात्रां हरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां वर्तयेत्, तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्य बलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण||१६||
फलपिप्पलीनां द्वौ भागावित्यादौ फलपिप्पलीनां भागत्रयं कर्तव्यं; तत्र भागद्वयं षड्गुणेन कोविदारादिकषायेण क्षारपरिस्रावणविधिवदेकविंशतिवारान् परिस्रावणीयम्| कोविदारादीनां चाष्टानामष्टौ कषायाः पृथक् परिस्रावणे प्रयोक्तव्याः| येन च कषायेण फलपिप्पलीभागद्वयं परिस्राव्य हरितक्यादिपरिमाणा मात्रा तृतीयभागफलपिप्पलीकल्कस्य क्रियते तेनैव कषायेण मात्रायोगाः ; एवमष्टौ हरीतक्यादिमात्रया निर्दिष्टाः फलपिप्पलीयोगा भवन्ति| मात्राविकल्पश्च दोषबलादिविकल्पकृतो ज्ञेयः| समानं पूर्वेणेति पूर्वयोगवदिह स्नेहस्वेदाभिमन्त्रणादिविधानं कर्तव्यमित्यर्थः| एवमन्यत्रापि पूर्ववच्छब्दार्थो ज्ञेयः||१६||
Adhikarana 16 (17) · Śloka 17
फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च; तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु ; तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे, इति समानं पूर्वेण||१७||
फलपिप्पल्या क्षीरपाकविधिना साधितं क्षीरं फलपिप्पलीक्षीरम्; अयमेको योगः| तेनेति फलपिप्पलीसाधितक्षीरेण| तज्जस्येति फलपिप्पलीक्षीरजातस्य दध्नः| उत्तरकमिति सरम्| सन्तानिका क्षीरोपरिस्थः स्त्यानो भागः||१७||
Adhikarana 17 (18) · Śloka 18
फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्यद्देहं च मात्रया पाययेदिति समानं पूर्वेण||१८||
फलादीनि फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानि षट्| एते क्षीरयोगचतुष्टयेन घृतयोगेन च समं पञ्च योगा अध्यायसङ्ग्रहे वक्तव्या||१८||
Adhikarana 18 (19) · Śloka 19
फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि सञ्जातं बृहत्सरोरुहं सायाह्नेऽवचूर्णयेत्, तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमं सैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत् सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण||१९||
फलपिप्पलीनां फलादिकषायेणेत्यादिना एकं घ्रेययोगमाह| पुष्परजःप्रकाशेनेति पुष्पधूलिसदृशेन| हरिद्राभिधानः कृशरो हरिद्राकृशरः||१९||
Adhikarana 19 (20) · Śloka 20
फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतं जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण||२०||
भल्लातकविधिपरिस्रुतमिति रसायनोक्तभल्लातकस्नेहग्रहणविधानेन परिस्रुतः स्वरसो ग्राह्यः| फाणितयोगोऽयमेकः| आतपशुष्कं वेत्यादिना चूर्णयोगोऽप्येकः||२०||
Adhikarana 20 (21) · Śloka 21
फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः फलादिकषायोपसर्जनाः पेया इति समानं पूर्वेण||२१||
फलपिप्पलीचूर्णानीत्यादौ फलादिषट्कषायभेदेन कृतत्वात् षड् वर्तिप्रयोगा ज्ञेयाः| वर्तिक्रियायां चतुर्गुणेन क्वाथेन पाकाद्वर्त्याकारता कर्तव्या| अत्रापि च तथा लेहादौ च सामान्योक्तेन मधुप्रक्षेपो युक्तः; तं चैके मधुनः पाकविरोधान्नानुमन्यन्ते||२१||
Adhikarana 21 (22) · Śloka 22
फलपिप्पलीनामारग्वध -वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण-नक्तमाल-पिचुमर्द-पटोल-सुषवी-गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इति समानं पूर्वेण||२२||
फलपिप्पलीनामारग्वधेत्यादिना आरग्वधादिविंशतिद्रव्यक्वाथभेदेन कृतत्वाद्विंशतिर्लेहा ज्ञेयाः| वृक्षकः कुटजः, स्वादुकण्टकः विकङ्कतः, शार्ङ्गेष्टा गुञ्जा, सुषवी कारवेल्लकं, द्वीपिका हिंस्रा, ‘कण्टकारी’ इत्यन्ये||२२||
Adhikarana 22 (23) · Śloka 23
फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन, मोदका वा मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण||२३||
फलपिप्पलीष्वित्यादिनोत्कारिका मोदकाश्च प्रत्येकं विंशतिः| चोरकः गन्धद्रव्यं स्वनामख्यातं, परिपेलवं कैवर्तमुस्तकं, स्थौणेयकः ग्रन्थिपर्णकं, पारावतपदी ज्योतिष्मती, अशोकरोहिणी अशोकसदृशपत्रा लता, ‘कटुरोहिणी’ इत्यन्ये| केचिदत्र स्थौणेयकं परित्यज्यापाकीपाद्या विंशतिं पूरयन्ति, अपाकीपादी स्वनामख्याता| उत्कारिकाकल्पेनेति सूदशास्त्रोक्तोत्कारिकाविधानेन||२३||
Adhikarana 23 (24-25) · Śloka 25
फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः, पूपकल्पेन वा पूपाः इति समानं पूर्वेण||२४||
एतेनैव च कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानां पोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत्||२५||
फलपिप्पलीस्वरसेनेत्यादिना शष्कुल्यपूपयोः पृथगेको योगः| एतेनैव च कल्पेनेत्यादिना सुमुखादिपञ्चदशद्रव्यकषायेण पृथक् शष्कुल्यपूपयोः करणात् पञ्चदश योगा भवन्ति| एवं मिलित्वा शष्कुलीपूपयोः पृथक् षोडशयोगा भवन्ति| पोटा इक्षुगन्धा; दण्डैरका गुन्द्राख्यगुल्मः, नलो वा||२४-२५||
Adhikarana 24 (26) · Śloka 26
तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-तर्पण-पानक-मांसरस-यूष-मद्यानां मदनफलान्यन्यतमेनोपसृज्य यथादोषरोगभक्ति दद्यात्; तैः साधु वमतीति||२६||
तथा बदरषाडवेत्यादिना दश योगाः| बदरकृतः षाडवो बदरषाडवः||२६||
Adhikarana 25 (27) · Śloka 27
मदनः करहाटश्च राठः पिण्डीतकः फलम्|
श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना||२७||
मदनस्य व्यवहारार्थं पर्यायानाह- मदनः करहाटश्चेत्यादि| तस्य कल्पनेति य एवम्भूतैः पर्यायैर्व्याख्यातस्तस्येयं कल्पना| अस्य च पर्यायाभिधानं भूरिप्रयोगेषु विहितत्वेनाभ्यर्हितत्वाज्ज्ञेयम्| एवमन्यत्रापि पर्यायाभिधाने प्रयोजनं वर्णनीयम्||२७||
Adhikarana 26 (28-30) · Śloka 30
तत्र श्लोकाः- नव योगाः कषायेषु, मात्रास्वष्टौ , पयोघृते|
पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट्||२८||
विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु च|
शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश||२९||
दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्|
योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा||३०||
मदनफलयोगानां नवादिसङ्ख्योत्कर्षनिरासार्थं सुखस्मरणार्थं च तान् सङ्ग्रहेणाह- नव योगा इत्यादि| अस्य चार्थो यथास्थानं व्याहृतः||२८-३०||
Adhikarana puShpikA · Śloka 1
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने मदनकल्पो नाम प्रथमोऽध्यायः||१||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां कल्पस्थाने मदनकल्पो नाम प्रथमोऽध्यायः||१||