Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. madanakalpaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो मदनकल्पं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

चिकित्सितस्थाने तु तत्र तत्र विहितवमनविरेचनयोः प्रयोगान् विस्तरेणाभिधातुं चिकित्साधिकृतयोगस्थानरूपकल्पस्थानमुच्यते| यद्यपि चिकित्सायां बस्तेरपि प्रतिपादितत्वाद्बस्त्यभिधायकं सिद्धिस्थानमपि चिकित्साङ्गतयाऽभिधातव्यं, तथाऽपि पञ्चकर्मणामौत्सर्गिकप्रवृत्तौ वमनविरेचनपूर्विकैव बस्तिकर्मप्रवृत्तिर्भवतीति कृत्वा वमनविरेचनाभिधायकं कल्पस्थानमेव बस्त्यभिधायकसिद्धिस्थानादग्रेऽभिधीयते| वमनविरेचनानां कल्पास्तिष्ठन्त्यस्मिन्निति कल्पस्थानम्| कल्पाभिधानेऽपि विरेचनस्यौत्सर्गिकप्रवृत्तौ वमनपूर्विकैव प्रवृत्तिर्भवतीति वमनपूर्वकत्वाद्विरेचनस्य वमनकल्पा एवाग्रेऽभिधातव्याः| वमनकल्पेष्वपि वमनद्रव्यश्रेष्ठत्वान्मदनफलस्यैवादौ कल्पोऽभिधीयते; श्रेष्ठत्वं च मदनफलस्य ‘वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात्’ इत्यनेनात्रैव वक्ष्यति||१-२||

Adhikarana 2 (3) · Śloka 3

अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थं भेदार्थं विभागार्थं चेत्यर्थः , तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश!||३||

🔊 Audio coming soon

कल्पार्थं दर्शयन्नाह- अथ खल्वित्यादि| अथशब्दः प्राक्प्रस्तुते| खलुशब्दः प्रकाशने| वमनविरेचनार्थमिति वमननिमित्तं विरेचननिमित्तं च| वमनविरेचनद्रव्याणामिति मदनफलादित्रिवृदादीनाम्| अन्यैरिति सुरासौवीरकाद्यैः कोविदारादिप्रकारैश्च| अन्यैरित्यस्य विशेषणं- सुखोपभोगतमैरिति| अत्र सुखायोपभोगो येषां ते सुखोपभोगाः, न तदात्वसुख उपभोगो येषां ते सुखोपभोगाः, तथाहि तदात्वेऽसुखोपभोगानां कोविदारादीनामग्रहणं स्यात्| कल्पनार्थमिति पदस्य क्रियया सम्बन्धमदर्शयित्वैव तद्व्याख्यानप्रत्ययनार्थं व्याकरोति भेदार्थं विभागार्थं चेत्यर्थ इति; तत्र भेदार्थमिति वमनविरेचनद्रव्यप्रयोगभेदार्थं, ते च प्रयोगभेदाः “त्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु” (सू.अ.४) इत्यादिकाः; विभागार्थमिति अत्र ‘फलपिप्पलीनां द्वौ भागौ कोविदारादिकषायेण’, इत्यादिवक्ष्यमाणद्रव्यविभागार्थम्| उपोद्घातं समाप्य प्रकृतमाह- तद्योगानामिति; वमनविरेचनद्रव्यप्रयोगाणम्| क्रियाया इतिकर्तव्यताया विधिः क्रियाविधिः, स्वरसादिरूपतया करणानीति यावत्; तस्य क्रियाविधेर्विशेषणं- सुखोपायस्येति; सुखार्थः सुखो वा उपायो यस्य स सुखोपायः, तस्य सम्यगुपकल्पनार्थमिति सम्यगुपदेशार्थम्||३||

Adhikarana 3 (4) · Śloka 4

तत्र दोषहरणमूर्ध्वभागं वमनसञ्ज्ञकम्, अधोभागं विरेचनसञ्ज्ञकम्; उभयं वा शरीरमलविरेचनाद्विरेचनसञ्ज्ञां लभते||४||

🔊 Audio coming soon

वमनविरेचनशब्दार्थं विभजते- तत्रेत्यादि| ऊर्ध्वं मुखेन दोषनिर्हरणं भजत इति ऊर्ध्वभागम्| अधो गुदेन दोषनिर्हरणं भजत इति अधोभागम्| वमनविरेचनयोरपि कदाचिद्विरेचनसञ्ज्ञां षड्विरेचनशताश्रितीयोक्तां दर्शयन्नाह- उभयमपीत्यादि| न चैवं सति वमनविरेचनवन्निरूहेऽपि विरेचनसञ्ज्ञाप्रसक्तिरुद्भावनीया , यतः पङ्कजशब्दवदियं विरेचनसञ्ज्ञा वमनविरेचनयोरेव योगरूढ्या वर्तते||४||

Adhikarana 4 (5) · Śloka 5

तत्रोष्ण-तीक्ष्ण-सूक्ष्म-व्यवायि-विकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतं दोषसङ्घातमाग्नेयत्वाद् विष्यन्दयन्ति, तैक्ष्ण्याद् विच्छिन्दन्ति, स विच्छिन्नः परिप्लवन् स्नेहभाविते काये स्नेहाक्तभाजनस्थमिव क्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते, सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते, उभयतश्चोभयगुणत्वात्| इति लक्षणोद्देशः||५||

🔊 Audio coming soon

सम्प्रति द्वयोरपि वमनविरेचनद्रव्ययोः साधारणोष्णतीक्ष्णत्वादिगुणयोगकृतदोषविष्यन्दनादिसाधारणकार्यदर्शनपूर्वकमग्निवाय्वात्मकत्वादिविशिष्टधर्मयोगकृतं विशिष्टं च कार्यं वमनविरेचनरूपं दर्शयन्नाह- तत्रोष्णेत्यादि| उष्णमिति उष्णवीर्यम्| स्ववीर्येणेति स्वप्रभावेण| धमनीरनुसृत्येति सकलदेहगता धमनीरनुसृत्य; सकलदेहगतधमन्यनुसरणं च वीर्येण ज्ञेयं, न साक्षात्| आग्नेयत्वाद्विष्यन्दयन्तीति विलीनं कुर्वन्ति| विच्छिन्दन्ति छिन्नं कुर्वन्ति| परिप्लवन् इतस्ततो गच्छन्| असज्जन्निति न क्वचिदपि सङ्गं गच्छन्| अणुप्रवणभावादिति अणुत्वात् प्रवणभावाच्च; प्रवणत्वमिह कोष्ठगमनोन्मुखत्वम्, अणुत्वं च अणुमार्गसञ्चारित्वम्| उदानप्रणुन्न इति उदानवायुप्रेरितः| अग्निवाय्वात्मकत्वादिति अग्निवायूत्कर्षवत्त्वात्| ऊर्ध्वभागप्रभावादिति ऊर्ध्वभागदोषहरत्वरूपप्रभावात्| एवं सलिलपृथिव्यात्मकत्वमपि व्याख्येयम्| उभयतश्चेति ऊर्ध्वमधश्च क्षिप्यत इत्यर्थः| उभयगुणत्वादिति अग्निवाय्वात्मकत्वात् सलिलपृथिव्यात्मकत्वादूर्ध्वाधोभागप्रभावाच्चेत्यर्थः| इति लक्षणोद्देश इति अनन्तरग्रन्थेन वमनविरेचनद्रव्यस्वरूपाभिधानं कृतमित्यर्थः| अत्र च प्रकरणे सामान्येनैव वमनविरेचनद्रव्याणाम् ‘आग्नेयत्वाद्विष्यन्दयन्ति’ इत्यनेनाग्नेयत्वं प्रतिपादितं; पुनश्च विशेषेण ‘अग्निवाय्वात्मकत्वात्’ इति पदेन वमनद्रव्यस्याग्न्यात्मकत्वं प्रतिपाद्यते; तेन, सामान्ये विशेषे च वमनद्रव्याणामाग्नेयत्वप्रतिपादनात् प्रकृष्टमाग्नेयत्वं भवति; विरेचनद्रव्याणां तु सामान्योक्ताग्नेयत्वसम्बन्धाद् विशेषगुणकथनप्रस्तावे च सलिलपृथिव्यात्मकत्वाभिधानाद्वमनद्रव्यापेक्षयाऽपकृष्टमाग्नेयत्वं भवति| तथाहि सुश्रुतेऽपि वमनविरेचनयोरप्याग्नेयत्वमुक्तं- “सरत्व-सौक्ष्म्य-तैक्ष्ण्यौष्ण्य-विकाशित्वैर्विरेचनम्| वमनं च हरेद्दोषान् प्रकृत्या गतमन्यथा” (सु.चि.अ.३३) इत्यनेन| यच्चात्रोच्यते-वमनं यद्यूर्ध्वभागहरत्वप्रभावादूर्ध्वयति, तदाऽग्निवाय्वात्मकत्वादिति हेतुवर्णनं न युज्यते; यतः, यत् सोपपत्तिकं कार्यं न भवति तत् प्रभावकृतमिति व्यपदिश्यते; उक्तं हि- “प्रभावोऽचिन्त्य उच्यते” (सू.अ.२६) इति| तन्न, यतः प्रभावस्यैवेह वमनकार्ये वाय्वग्न्यात्मकगुणतया वाय्वग्न्यात्मकत्वं हेतुरुपदृ(दि)श्यते, न तु वाय्वग्न्यात्मकत्वं स्वतन्त्रो वमनहेतुः; तथाहि सति यदन्यदपि वाय्वग्न्यात्मकमूर्ध्वभागदोषहरत्वप्रभावरहितं, तदपि वमनकरं स्यात्; यथा- कटुकरसे द्रव्ये तत् स्यात्; तस्मात् प्रभावगुणतयैव हेतुवर्णनम्| एवं विरेचनद्रव्येऽपि पूर्वपक्षसिद्धान्तावनुसर्तव्यौ||५||

Adhikarana 5 (6) · Śloka 6

तत्र फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानां, श्यामा-त्रिवृच्चतुरङ्गुल-तिल्वक-महावृक्ष-सप्तला-शङ्खिनी-दन्ती-द्रवन्तीनां च, नानाविधदेशकालसम्भवास्वाद-रस-वीर्य-विपाक-प्रभावग्रहणाद् देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थादीनां नानाप्रभाववत्त्वाच्च , विचित्रगन्ध-वर्ण-रस-स्पर्शानामुपयोगसुखार्थमसङ्ख्येयसंयोगानामपि च सतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः||६||

🔊 Audio coming soon

सम्प्रति कल्पस्थानवक्तव्यतया षड्विरेचनप्रयोगशतान्यनतिसङ्क्षेपविस्तरप्रयोगोपदर्शनपूर्वकं प्रतिजानीते- तत्र फलेत्यादिना षड्विरेचनयोगशतानि व्याख्यास्याम इत्यन्तेन| तत्र कृतवेधनान्तानां विच्छेदपाठेन वमनप्रयोगप्रयोज्यत्वं, श्यामादीनां विरेचनप्रयोगप्रयोज्यत्वं च दर्शयति| अत्रैव वमने विरेचने चैकैकेषां पुनर्वस्तूनां मदनफलादीनां श्यामादीनां च बहवः प्रयोगा अभिधीयन्ते, न पुनरेकैकमेव द्रव्यं वमनकारकं विरेचनकारकं वा; स्वल्पसङ्ख्याप्रयोगेण ग्रहणसुखता वमनविरेचनयोगस्य भवति, कार्यं च सिध्यतीत्याशङ्क्याह- नानाविधेत्यादि यावद्रोगावस्थादीनां नानाप्रभाववत्त्वाच्चेति| अस्यार्थः- यस्मान्नानाविधदेशकालसम्भवाः, नानाविधास्वादाः, नानाविधवीर्याः, नानाविधविपाकाः, नानाविधप्रभावाश्च मदनफलादिका ओषध्यः, तथा तत्संस्कारकाः कोविदारादिका ओषध्य उपलभ्यन्ते; पुरुषाश्च देह-दोष-प्रकृति-वयो-बलाग्नि-भक्ति-सात्म्य-रोगावस्थाभिन्ना नानाविधा दृश्यन्ते; तेन नैकं द्रव्यं सर्वस्मिन् देहदोषादौ यौगिकं, सर्वत्र काले वा प्राप्यते सर्वत्र देशे वा; तस्माद्देहदोषादिना भेदवति पुरुषे बहून्येव द्रव्याणि बहुभिश्च प्रयोगैरुपकल्पितानि यथायोग्यतया यथाप्राप्ति च प्रयोक्तुं शक्यन्ते; अतो बहुनामेव मदनादिद्रव्याणां बहुप्रकारप्रयोगाणामुपन्यासो युक्त इति भावः| ग्रहणात् उपलम्भात्| देहो नाना स्थूलकृशादिभेदेन, भक्तिः इच्छा, अवस्थाशब्देनेह रोगावस्थैव ग्राह्या, आदिशब्देनेह सत्त्वाहारयोर्ग्रहणम्| भूरिविरेचनप्रयोगोपदर्शनप्रयोजनान्तरमप्याह- विचित्रेत्यादि| नानाविधगन्ध-वर्ण-रसतया प्रयोगे तत्कालमुत्तरकालं च सुखार्थमित्यर्थः| अथ किं प्रभेदान्मदनफलादीनां षट्प्रयोगशतानि भवन्ति, येनाधिकाः प्रयोगा नाभिधीयन्त इत्याशङ्क्याह- असङ्ख्येयेत्यादि| विकल्पमार्गोपदर्शनार्थमिति अधिकप्रयोगकल्पनासमर्थान् भिषजः प्रति एतत् षट्प्रयोगशतोपदर्शनं कर्तव्याधिकप्रयोगकल्पनामार्गोपदर्शकं, तेनापरेऽप्यत्र प्रयोगाः कल्पनीयाः; ग्रन्थे निःशेषप्रयोगानभिधानं प्रयोगाणामसङ्ख्येयत्वेनाशक्यत्वादेव| अनतिविस्तरेण षट्प्रयोगशताभिधानं मन्दबुद्धिसंव्यवहारार्थमिति भावः| उक्तं ह्यन्यत्र- “एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय, बुद्धिमतां च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानाय” (सू.अ.४) इति||६||

Adhikarana 6 (7) · Śloka 7

तानि तु द्रव्याणि देश-काल-गुण-भाजन-सम्पद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति||७||

🔊 Audio coming soon

सम्प्रति वमनविरेचनद्रव्याणां देशादिसम्पत्त्या गुणोत्कर्षं दर्शयन्नाह- तानीत्यादि| देशादिभिश्चतुर्भिः सम्पच्छब्दः प्रत्येकमभिसम्बध्यते| भाजनं भेषजस्थापनस्थानम्| वीर्यस्य बलं वीर्याधिकत्वमेव||७||

Adhikarana 7 (8) · Śloka 8

त्रिविधः खलु देशः- जाङ्गलः, आनूपः, साधारणश्चेति| तत्र जाङ्गलः पर्याकाशभूयिष्ठः, तरुभिरपि च कदर-खदिरासनाश्वकर्ण-धव-तिनिश-शल्लकी-साल-सोमवल्क-बदरी-तिन्दुकाश्वत्थ-वटामलकीवनगहनः, अनेकशमी-ककुभ-शिंशपाप्रायः, स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः, प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः, लावतित्तिरिचकोरानुचरितभूमिभागः, वातपित्तबहुलः, स्थिरकठिनमनुष्यप्रायो ज्ञेयः, अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः, सरित्समुद्रपर्यन्तप्रायः, शिशिरपवनबहुलः, वञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः, क्षितिधरनिकुञ्जोपशोभितः, मन्दपवनानुवीजितक्षितिरुहगहनः, अनेकवनराजीपुष्पितवनगहनभूमिभागः, स्निग्धतरुप्रतानोपगूढः, हंस-चक्रवाक-बलाका-नन्दीमुख-पुण्डरीक-कादम्ब-मद्गु -भृङ्गराज-शतपत्र-मत्तकोकिलानुनादिततरुविटपः, सुकुमारपुरुषः, पवनकफप्रायो ज्ञेयः; अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो ज्ञेयः||८||

🔊 Audio coming soon

देशादि सम्यग् व्याकुर्वन्नाह- तत्र त्रिविध इत्यादि| अत्र केचिज्जाङ्गलादिदेशलक्षणग्रन्थं न पठन्ति, तत्तु जनपदोद्ध्वंसनीये पठितमिति कृत्वेहानार्षं वदन्ति| यैस्तु जनपदोद्ध्वंसनीये जाङ्गलादिलक्षणं न पठ्यते, तैरत्र पठनीय एवायं ग्रन्थः||८||

Adhikarana 8 (9) · Śloka 9

तत्र देशे साधारणे जाङ्गले वा यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशान-चैत्य-देवयजनागार-सभा-श्वभ्राराम-वल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमधुरमृत्तिके वा मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते||९||

🔊 Audio coming soon

यथाकालमिति यथाकालं शिशिरादिभिः सेविते देशे| श्मशानादिभिः प्रत्येकं विरहितशब्दः सम्बध्यते| देवयजनेनागारशब्दः सम्बध्यते| सभा जनमेलकस्थानम्| न फालेन कृष्ट इति अफालकृष्टे||९||

Adhikarana 9 (10) · Śloka 10

तत्र यानि कालजातान्युपागतसम्पूर्णप्रमाण-रसवीर्य-गन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहतगन्ध-वर्ण-रस-स्पर्श-प्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि; तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं, ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां, शरदि त्वक्कन्दक्षीराणि, हेमन्ते साराणि, यथर्तु पुष्पफलमिति; मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्||१०||

🔊 Audio coming soon

तत्र यानि कालजातानीत्यनेनैव कालसम्पदुच्यते; कालजातानीति स्वकालभूतानि| उपागतसम्पूर्णेत्यादिना प्रत्यग्राणीत्यन्तेन गुणसम्पदुच्यते| प्रत्यग्राणीति सम्पूर्णगुणतया निष्पन्नानि| तेषां शाखापलाशमित्यादिना कालसम्पदमुक्तां प्रपञ्चयति| शाखाग्रहणेनैव त्वगादीनामपि ग्रहणम्| शीर्णप्ररूढपर्णानामिति च्छेदः| ग्रीष्मे मूलानि शिशिरे वेति कथनेन यान्याग्नेयानि तेषां मूलानि ग्रीष्मे, यानि सौम्यानि तेषां मूलानि शिशिरे, ग्राह्याणीति व्यवस्थां सूचयति; उक्तं ह्यन्यत्र- “सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत, आग्नेयान्याग्नेयेषु” (सु.सू.अ.३६) इति| भेषजग्रहणविधानमाह- मङ्गलेत्यादि||१०||

Adhikarana 10 (11) · Śloka 11

गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषू प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु, अग्नि-सलिलोपस्वेद-धूम-रजो-मूषक-चतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्||११||

🔊 Audio coming soon

भाजनसम्पदमाह- गृहीत्वेत्यादि| अनुरूपगुणवद्भाजनस्थानीति अनुरूपगुणवत्ता च भाजनस्य भेषजसमानगुणतयैव| स्ववच्छन्नानीति सम्यक्पिहितानि||११||

Adhikarana 11 (12) · Śloka 12

तानि च यथादोषं प्रयुञ्जीत सुरा-सौवीरक-तुषोदक-मैरेय-मेदक-धान्याम्ल -फलाम्ल-दध्यम्लादिभिर्वाते, मृद्वीकामलक -मधु-मधुक-परूषक-फाणितक्षीरादिभिः पित्ते, श्लेष्मणि तु मधु-मूत्र-कषायादिभिर्भावितान्यालोडितानि च; इत्युद्देशः| तं विस्तरेण द्रव्य-देह-दोष-सात्म्यादीनि प्रविभज्य व्याख्यास्यामः||१२||

🔊 Audio coming soon

सङ्क्षेपेण मदनफलादीनां वातादिभेदेन भावनालोडनद्रव्याण्याह- तानि च यथादोषं प्रयुञ्जीतेत्यादि| धान्याम्लं काञ्जिकं, फलाम्लं दाडिमरसादि| श्लेष्मणीत्यादौ कषायशब्देन श्लेष्महरद्रव्यक्वाथोऽभिप्रेतः| उद्देश इति सङ्क्षेपाभिधानमित्यर्थः| द्रव्य-देह-दोष-सात्म्यादीनीत्यत्र आदिशब्देन प्रकृतिबलादीनां ग्रहणम्||१२||

Adhikarana 12 (13) · Śloka 13

वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते, अनपायित्वात्| तानि वसन्तग्रीष्मयोरन्तरे पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे मुहूर्ते| यानि पक्वान्यकाणान्यहरितानि पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि; तानि प्रमृज्य , कुशपुटे बद्ध्वा, गोमयेनालिप्य, यवतु(बु)षमाषशालिकुलत्थमुद्गपलानामन्यतमे निदध्यादष्टरात्रम्| अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत्| सुशुष्काणां फलपिप्पलीरुद्धरेत् | तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं शिक्येष्वासज्य सम्यक् स्थापयेत्||१३||

🔊 Audio coming soon

वमनद्रव्याणामित्यादिना मदनफलस्य प्राधान्योपदर्शनपूर्वकं प्रयोगविधिमाह| अनपायित्वादिति वमनद्रव्यान्तरापेक्षयाऽल्पव्यापत्तिकत्वात्| अन्तरे इति मध्ये, स च ग्रीष्मवसन्तयोरन्तर्वर्तिकतिपयदिनान्येव मध्यो ज्ञेयः| अश्वयुक् अश्विनी| मैत्रे मुहूर्त इति शिवभुजगमित्रादीनां मध्ये मित्रदेवताके, एवं मैत्रे मुहूर्ते| पलानामिति राशीनाम्| मधुवदिष्टगन्धो येषां तानि, यानि मध्विष्टगन्धानि भवन्ति तानि ग्राह्याणीति दर्शयति| फलपिप्पलीरिति मदनफलमध्यगतानि पिप्पलीसंस्थानानि बीजानि| तासामित्यादि पूरणवाचकशब्दयोगात् करणे षष्ठी| स्वनुगुप्तमिति कृतरक्षाविधानम्||१३||

Adhikarana 13 (14) · Śloka 14

अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरस-क्षीर-दधि-माष-तिल-शाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्रां पीतवन्तं, तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदार-कर्बुदार-नीप-विदुल-बिम्बी-शणपुष्पी-सदापुष्पी-प्रत्यक्पुष्पी-कषायाणामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तं सुखोष्णं कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत्- ‘ॐ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु ते| रसायनमिवर्षीणां देवानाममृतं यथा| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते’| इत्येवमभिमन्त्र्योदङ्मुखं प्राङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात्, तेन साधु वमति; हीनवेगं तु पिप्पल्यामलक-सर्षप-वचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात्| इत्येष सर्वश्छर्दनयोगविधिः||१४||

🔊 Audio coming soon

द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नमित्यनेन अभ्यङ्गे क्रियमाणे स्नेहसहचरितस्वेदोपपादनं द्व्यहं त्र्यहं वा विधीयते, “त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य इष्टः” (सि.अ.१) इत्यनेन पानप्रयुज्यमानस्नेहस्य सप्तरात्रं त्रिरात्रं वा प्रकर्ष उच्यते इति न विरोधः| एतच्चाभ्यङ्गस्वेदसहितस्नेहस्वेदकरणं पानस्नेहान्तदिवसमारभ्य क्रियते, तेन स्नेहपानविश्रामदिनेन समं द्व्यहत्र्यहपूरणमभ्यङ्गस्नेहसहितस्वेदप्रयोगस्य भवति| स्नेहपानाच्च यद्विश्रामदिनम्, “एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्” (सू.अ.१३) इत्यनेनोक्तं, तथैवेहापि| कफोत्क्लेशकारिभोजनमाह- श्वश्छर्दयितव्यमित्यादिना| श्व इति परस्मिन्नह्नि| व्युषितमिति रात्रिमतिक्रान्तम्| निरन्नमिति पदच्छेदः| अनतिस्निग्धमित्यादिना वमनदिन एव घृतमात्रायुक्तयवागूपानपूर्वकं वमनमनतिस्निग्धपुरुषविषयं ब्रूते| अन्ये तु पूर्वदिन एवानतिस्निग्धस्य घृतमात्रां पीतवत एव यवाग्वाः पानमाहुः, “पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः| स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते|| अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य” (सु.चि.अ.३३) इत्यादि सुश्रुतोक्तेः| अन्तर्नखमुष्टिमिति अन्तरीकृतनखमुष्टिपरिमाणम्| यावद्वा साधु मन्येतेत्यनेन मात्राया बलदोषादिभेदेनास्थिरत्वमित्याह| यष्टीमधुकस्य कोविदारादिषु विच्छेदपाठ उत्तरप्रयोगेषु कोविदारादेर्यष्टीमधुविरहितस्य ग्रहणार्थः| कोविदारः स्वनामख्यातः, स शरदि पुष्पति; कर्बुदारस्तु काञ्चनारः, स वसन्ते पुष्पति; नीपः कदम्बः, विदुलः वेतसः, शणपुष्पी घण्टारवा, सदापुष्पी अर्कपुष्पिका, प्रत्यक्पुष्पी अपामार्गः| रात्रिमुषितं विमृद्य पूतमिति शृतकषायात् कषायान्तरोपदर्शकं पक्षान्तरं; किंवा, कषायपान एव शीतकषायविधानमिहोच्यते| पूर्णं शरावमिति मङ्गलार्थं पूर्णकुम्भवत्| पुनः पुनरिति यावत् पित्तागमनं न भवति तावत् पुनः पुनः कषायं पिबेदित्यर्थः| अन्यत्राप्युक्तं- “पित्तान्तमिष्टं वमनं विरेकादर्धं” (सि.अ.१) इत्यादि| वमनायोगकारकहीनवेगप्रवृत्तिप्रतिकारार्थमाह- हीनवेगमित्यादि||१४||

Adhikarana 14 (15) · Śloka 15

सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात्| न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य, अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च||१५||

🔊 Audio coming soon

यद्यपि च घ्रेयादिवमनयोगेषु मधुसैन्धवयोगो न भवति, तथाऽपि ‘सर्वेषु’ इति पदं बाहुल्यार्थम्| वमनार्थकषाये उष्णे मधुप्रक्षेपो विरोधित्वान्न युज्यते, उक्तं हि- “मधूष्णमुष्णार्तमथवा” (सू.अ.२७) इत्यादि, एवमाशङ्क्य समाधानमाह न चोष्णविरोधो मधुन इत्यादि| अविपक्वप्रत्यागमनादित्यनेन पच्यमानं मधूष्णयुक्तं विरुध्येतेति दर्शयति| दोषनिर्हरणाच्चेति मधूष्णविरुद्धमपि वमनयोगे उष्णे इष्यते, तस्य दोषनिर्हरणादेव न विरोधो भवतीति दर्शयति| एवं बस्तिप्रयोगेऽपि मधुन उष्णाविरोधो वर्णनीयः| एतेन यष्टीमध्वादिनवद्रव्यकृतैर्नवभिः कषायैर्नवयोगाः||१५||

Adhikarana 15 (16) · Śloka 16

फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वः स्रावयेत्, तेन रसेन तृतीयं भागं पिष्ट्वा मात्रां हरीतकीभिर्बिभीतकैरामलैर्वा तुल्यां वर्तयेत्, तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्य बलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण||१६||

🔊 Audio coming soon

फलपिप्पलीनां द्वौ भागावित्यादौ फलपिप्पलीनां भागत्रयं कर्तव्यं; तत्र भागद्वयं षड्गुणेन कोविदारादिकषायेण क्षारपरिस्रावणविधिवदेकविंशतिवारान् परिस्रावणीयम्| कोविदारादीनां चाष्टानामष्टौ कषायाः पृथक् परिस्रावणे प्रयोक्तव्याः| येन च कषायेण फलपिप्पलीभागद्वयं परिस्राव्य हरितक्यादिपरिमाणा मात्रा तृतीयभागफलपिप्पलीकल्कस्य क्रियते तेनैव कषायेण मात्रायोगाः ; एवमष्टौ हरीतक्यादिमात्रया निर्दिष्टाः फलपिप्पलीयोगा भवन्ति| मात्राविकल्पश्च दोषबलादिविकल्पकृतो ज्ञेयः| समानं पूर्वेणेति पूर्वयोगवदिह स्नेहस्वेदाभिमन्त्रणादिविधानं कर्तव्यमित्यर्थः| एवमन्यत्रापि पूर्ववच्छब्दार्थो ज्ञेयः||१६||

Adhikarana 16 (17) · Śloka 17

फलपिप्पलीक्षीरं, तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च; तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु ; तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे, इति समानं पूर्वेण||१७||

🔊 Audio coming soon

फलपिप्पल्या क्षीरपाकविधिना साधितं क्षीरं फलपिप्पलीक्षीरम्; अयमेको योगः| तेनेति फलपिप्पलीसाधितक्षीरेण| तज्जस्येति फलपिप्पलीक्षीरजातस्य दध्नः| उत्तरकमिति सरम्| सन्तानिका क्षीरोपरिस्थः स्त्यानो भागः||१७||

Adhikarana 17 (18) · Śloka 18

फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्यद्देहं च मात्रया पाययेदिति समानं पूर्वेण||१८||

🔊 Audio coming soon

फलादीनि फल-जीमूतकेक्ष्वाकु-धामार्गव-कुटज-कृतवेधनानि षट्| एते क्षीरयोगचतुष्टयेन घृतयोगेन च समं पञ्च योगा अध्यायसङ्ग्रहे वक्तव्या||१८||

Adhikarana 18 (19) · Śloka 19

फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि सञ्जातं बृहत्सरोरुहं सायाह्नेऽवचूर्णयेत्, तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृसरक्षीरयवागूनामन्यतमं सैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत् सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण||१९||

🔊 Audio coming soon

फलपिप्पलीनां फलादिकषायेणेत्यादिना एकं घ्रेययोगमाह| पुष्परजःप्रकाशेनेति पुष्पधूलिसदृशेन| हरिद्राभिधानः कृशरो हरिद्राकृशरः||१९||

Adhikarana 19 (20) · Śloka 20

फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत्; आतपशुष्कं वा चूर्णीकृतं जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण||२०||

🔊 Audio coming soon

भल्लातकविधिपरिस्रुतमिति रसायनोक्तभल्लातकस्नेहग्रहणविधानेन परिस्रुतः स्वरसो ग्राह्यः| फाणितयोगोऽयमेकः| आतपशुष्कं वेत्यादिना चूर्णयोगोऽप्येकः||२०||

Adhikarana 20 (21) · Śloka 21

फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः फलादिकषायोपसर्जनाः पेया इति समानं पूर्वेण||२१||

🔊 Audio coming soon

फलपिप्पलीचूर्णानीत्यादौ फलादिषट्कषायभेदेन कृतत्वात् षड् वर्तिप्रयोगा ज्ञेयाः| वर्तिक्रियायां चतुर्गुणेन क्वाथेन पाकाद्वर्त्याकारता कर्तव्या| अत्रापि च तथा लेहादौ च सामान्योक्तेन मधुप्रक्षेपो युक्तः; तं चैके मधुनः पाकविरोधान्नानुमन्यन्ते||२१||

Adhikarana 21 (22) · Śloka 22

फलपिप्पलीनामारग्वध -वृक्षक-स्वादुकण्टक-पाठा-पाटला-शार्ङ्गेष्टा-मूर्वा-सप्तपर्ण-नक्तमाल-पिचुमर्द-पटोल-सुषवी-गुडूची-सोमवल्क-द्वीपिकानां पिप्पली-पिप्पलीमूल-हस्तिपिप्पली-चित्रक-शृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इति समानं पूर्वेण||२२||

🔊 Audio coming soon

फलपिप्पलीनामारग्वधेत्यादिना आरग्वधादिविंशतिद्रव्यक्वाथभेदेन कृतत्वाद्विंशतिर्लेहा ज्ञेयाः| वृक्षकः कुटजः, स्वादुकण्टकः विकङ्कतः, शार्ङ्गेष्टा गुञ्जा, सुषवी कारवेल्लकं, द्वीपिका हिंस्रा, ‘कण्टकारी’ इत्यन्ये||२२||

Adhikarana 22 (23) · Śloka 23

फलपिप्पलीष्वेला-हरेणुका-शतपुष्पा-कुस्तुम्बुरु-तगर-कुष्ठ-त्वक्-चोरक-मरुबकागुरु-गुग्गुल्वेलवालुक-श्रीवेष्टक-परिपेलव-मांसी-शैलेयक-स्थौणेयक-सरल-पारावतपद्यशोकरोहिणीनां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाकल्पेन, मोदका वा मोदककल्पेन, यथादोषरोगभक्ति प्रयोज्या इति समानं पूर्वेण||२३||

🔊 Audio coming soon

फलपिप्पलीष्वित्यादिनोत्कारिका मोदकाश्च प्रत्येकं विंशतिः| चोरकः गन्धद्रव्यं स्वनामख्यातं, परिपेलवं कैवर्तमुस्तकं, स्थौणेयकः ग्रन्थिपर्णकं, पारावतपदी ज्योतिष्मती, अशोकरोहिणी अशोकसदृशपत्रा लता, ‘कटुरोहिणी’ इत्यन्ये| केचिदत्र स्थौणेयकं परित्यज्यापाकीपाद्या विंशतिं पूरयन्ति, अपाकीपादी स्वनामख्याता| उत्कारिकाकल्पेनेति सूदशास्त्रोक्तोत्कारिकाविधानेन||२३||

Adhikarana 23 (24-25) · Śloka 25

फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः, पूपकल्पेन वा पूपाः इति समानं पूर्वेण||२४|| एतेनैव च कल्पेन सुमुख-सुरस-कुठेरक-काण्डीर-कालमालक-पर्णासक-क्षवक-फणिज्झक-गृञ्जन-कासमर्द-भृङ्गराजानां पोटेक्षुवालिका-कालङ्कतक-दण्डैरकाणां चान्यतमस्य कषायेण कारयेत्||२५||

🔊 Audio coming soon

फलपिप्पलीस्वरसेनेत्यादिना शष्कुल्यपूपयोः पृथगेको योगः| एतेनैव च कल्पेनेत्यादिना सुमुखादिपञ्चदशद्रव्यकषायेण पृथक् शष्कुल्यपूपयोः करणात् पञ्चदश योगा भवन्ति| एवं मिलित्वा शष्कुलीपूपयोः पृथक् षोडशयोगा भवन्ति| पोटा इक्षुगन्धा; दण्डैरका गुन्द्राख्यगुल्मः, नलो वा||२४-२५||

Adhikarana 24 (26) · Śloka 26

तथा बदरषाडव-राग-लेह-मोदकोत्कारिका-तर्पण-पानक-मांसरस-यूष-मद्यानां मदनफलान्यन्यतमेनोपसृज्य यथादोषरोगभक्ति दद्यात्; तैः साधु वमतीति||२६||

🔊 Audio coming soon

तथा बदरषाडवेत्यादिना दश योगाः| बदरकृतः षाडवो बदरषाडवः||२६||

Adhikarana 25 (27) · Śloka 27

मदनः करहाटश्च राठः पिण्डीतकः फलम्| श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना||२७||

🔊 Audio coming soon

मदनस्य व्यवहारार्थं पर्यायानाह- मदनः करहाटश्चेत्यादि| तस्य कल्पनेति य एवम्भूतैः पर्यायैर्व्याख्यातस्तस्येयं कल्पना| अस्य च पर्यायाभिधानं भूरिप्रयोगेषु विहितत्वेनाभ्यर्हितत्वाज्ज्ञेयम्| एवमन्यत्रापि पर्यायाभिधाने प्रयोजनं वर्णनीयम्||२७||

Adhikarana 26 (28-30) · Śloka 30

तत्र श्लोकाः- नव योगाः कषायेषु, मात्रास्वष्टौ , पयोघृते| पञ्च, फाणितचूर्णे द्वौ घ्रेये, वर्तिक्रियासु षट्||२८|| विंशतिर्विंशतिर्लेहमोदकोत्कारिकासु च| शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश||२९|| दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्| योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा||३०||

🔊 Audio coming soon

मदनफलयोगानां नवादिसङ्ख्योत्कर्षनिरासार्थं सुखस्मरणार्थं च तान् सङ्ग्रहेणाह- नव योगा इत्यादि| अस्य चार्थो यथास्थानं व्याहृतः||२८-३०||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने मदनकल्पो नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां कल्पस्थाने मदनकल्पो नाम प्रथमोऽध्यायः||१||