Adhikarana 1 (1-2) · Śloka 2
अथातो जीमूतककल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
मदनकल्पानन्तरमनपायित्वेनेक्ष्वाक्वादिद्रव्येभ्यः प्राधान्याज्जीमूतकस्य जीमूतकल्पोऽभिधीयते| एवं यथायथैषामनपायित्वप्रकर्षः, तथा तथा पूर्वनिवेशनं ज्ञेयम्| तेनापरवमनकल्पानामप्यध्यायसम्बन्धोऽत्रैवोक्तो ज्ञेयः| मदनफलस्य स्नेहस्वेदादिपूर्वकत्ववदिहापि क्रमोऽतिदेशादुन्नेतव्यः||१-२||
Adhikarana 2 (3) · Śloka 3
कल्पं जीमूतकस्येमं फलपुष्पाश्रयं शुणु|
गरागरी च वेणी च तथा स्याद्देवताडकः||३||
फलपुष्पाश्रयमिति वचनेन जीमूतस्य पत्रनालादिषु वमनप्रयोगं निषेधयति| गरागरी चेत्यादि पर्यायकथनम्| जीमूतः पीतघोषकः||३||
Adhikarana 3 (4) · Śloka 4
जीमूतकं त्रिदोषघ्नं यथास्वौषधकल्पितम्|
प्रयोक्तव्यं ज्वरश्वासहिक्काद्येष्वामयेषु च||४||
त्रिदोषघ्नमिति यथास्वं वातहरादिद्रव्ययुक्तं, तथा वातादिहरद्रव्यकल्पितं च सत् त्रिदोषघ्नं भवति| हिक्काद्येष्विति आद्यशब्देन कासादीनामुरोगतदोषजन्यानां ग्रहणम्||४||
Adhikarana 4 (5-7) · Śloka 7
यथोक्तगुणयुक्तानां देशजानां यथाविधि|
पयः पुष्पेऽस्य, निर्वृत्ते फले पेया पयस्कृता||५||
लोमशे क्षीरसन्तानं, दध्युत्तरमलोमशे|
शृते पयसि दध्यम्लं जातं हरितपाण्डुके||६||
जीर्णानां च सुशुष्काणां न्यस्तानां भाजने शुचौ|
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत्||७||
यथोक्तयुक्तगुणयुक्तानामिति कालजत्व-सम्पूर्णरसत्वादिगुणयुक्तानि मदनफलोक्तगुणद्वाराऽनुसर्तव्यानि| देशजानामिति मदनकल्पोक्तप्रशस्तभूमिजातानाम्| यथाविधीति मदनकल्पोक्तविधानगृहीतानाम्| पयः पुष्पे इत्येको योगः| निर्वृत्ते इत्यादिको द्वितीयो योगः| निर्वृत्ते इति उत्पन्नमात्रे फले, तत्र फलैः क्षीरं साधयित्वा तेन क्षीरेण पेया साधनीया| रोमशे इत्यादि तृतीयः| रोमशे इति उपगतरोम्णि फले, अत्रापि रोमशफलसाधितक्षीरात् सन्तानिका ज्ञेया| दध्युत्तरमित्यादिकश्चतुर्थो योगः, अत्राप्युपगतरोमावस्थफलसाधितक्षीरसम्भूतदधिसरो ज्ञेयः| शृते पयसीत्यादिकः पञ्चमः| दध्यम्लमिति अम्लावस्थं दधि जातम्| हरितपाण्डुके इति हरितपाण्ड्ववस्थाप्राप्ते जीमूतकफले| जीर्णानामित्यादिकः षष्ठः क्षीरयोगः| एते च योगाः क्षीरसम्बन्धेन अविधीयमानक्षीराकारा अपि क्षीरप्रयोगत्वेनैव सङ्ग्रहे ‘षट् क्षीरे’ इत्यनेन सङ्ग्रहीतव्याः||५-७||
Adhikarana 5 (8-10) · Śloka 11
आसुत्य च सुरामण्डे मृदित्वा प्रस्रुतं पिबेत्|
कफजेऽरोचके कासे पाण्डुरोगे सयक्ष्मणि||८||
द्वे चापोथ्याथवा त्रीणि गुडूच्या मधुकस्य वा|
कोविदारादिकानां वा निम्बस्य कुटजस्य वा||९||
कषायेष्वासुतं पूत्वा तेनैव विधिना पिबेत्|
अथवाऽऽरग्वधादीनां सप्तानां पूर्ववत् पिबेत्||१०||
एकैकस्य कषायेण पित्तश्लेष्मज्वरार्दितः|११|
आसुत्येत्यादिना मदिरायोग एक उच्यते| आसुत्येति निशापर्युषितं कृत्वा| अत्र योगे पक्वजीमूतकफलमेवाधिकृतं; तथा, उत्तरयोगेष्वपि पक्वमेव फलमधिकृतं ज्ञेयं, “फलं पर्यागतं ग्राह्यं” इत्यौत्सर्गिकवचनात्| द्वे चेत्यादिना द्वादशकषायभेदाद् द्वादशयोगा उच्यन्ते| तेनैव विधिनेति मदनकल्पोक्तेन साधनविधिना| अथवेत्यादौ आरग्वधादिसप्तद्रव्यकषायभेदात् सप्तयोगा भवन्ति| आरग्वधादयः आरग्वध-वृक्षक-स्वादुकण्टक-पाठा-पाटलि-शार्ङ्गेष्टा-मूर्वाः (क.अ.१) पूर्वाध्यायोक्ताः||८-१०||-
Adhikarana 6 (11) · Śloka 11
मात्राः स्युः फलवच्चाष्टौ कोलमात्रास्तु ता मताः||११||
मात्राः स्युरित्यादिनाऽष्टौ मात्रायोगानाह| फलवदिति मदनफले यथा अष्टौ मात्रायोगा उक्तास्तथेहापि कर्तव्याः, विशेषतस्तु एताः कोलमात्राः कर्तव्याः, न तु फलवद्धरीतक्यादिप्रमाणाः कर्तव्या इत्यर्थः||११||
Adhikarana 7 (12) · Śloka 12
जीवकर्षभकेक्षूणां शतावर्या रसेन वा|
पित्तश्लेष्मज्वरे दद्याद्वातपित्तज्वरेऽथवा||१२||
जीवकेत्यादिना चतुरो योगाः पानसाधनकषायभेदात्||१२||
Adhikarana 8 (13) · Śloka 13
तथा जीमूतकक्षीरात् समुत्पन्नं पचेद्घृतम्|
फलादीनां कषायेण श्रेष्ठं तद्वमनं मतम्||१३||
तथेत्यादिना घृतयोगमेकमाह||१३||
Adhikarana 9 (14-15) · Śloka 15
तत्र श्लोकौ- षट् क्षीरे मदिरामण्डे एको द्वादश चापरे|
सप्त चारग्वधादीनां कषायेऽष्टौ च वर्तिषु||१४||
जीवकादिषु चत्वारो घृतं चैकं प्रकीर्तितम्|
कल्पे जीमूतकानां च योगास्त्रिंशन्नवाधिकाः||१५||
षट् क्षीरे इत्यादिना सङ्ग्रहार्थो व्याकृत एव यथास्थानम्||१४-१५||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने जीमूतककल्पो नाम द्वितीयोऽध्यायः||२||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां कल्पस्थाने जीमूतककल्पो नाम द्वितीयोऽध्यायः||२||