Adhikarana 1 (1-3) · Śloka 3
अथातो रक्तपित्तनिदानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पित्तं यथाभूतं लोहितपित्तमिति सञ्ज्ञां लभते, तद् व्याख्यास्यामः||३||
आद्योत्पत्तौ ज्वरसन्तापाद्रक्तपित्तोत्पत्तेर्ज्वरमनु रक्तपित्तनिदानमुच्यते| पित्तं यथाभूतमित्यादिना पित्तमेवावस्थावशाल्लोहितपित्तमित्युच्यत इति दर्शयति, नतु रक्तं च पित्तं च रक्तपित्तमिति||१-३||
Adhikarana 2 (4) · Śloka 4
यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं, पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रु(खडयूष ) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा, पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो वाऽतिमात्रमतिवेलं वाऽऽमं पयः पिबति, पयसा समश्नाति रौहिणीकं , काणकपोतं वा सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा सह क्षीरं पिबत्युष्णाभितप्तः ; तस्यैवमाचरतः पित्तं प्रकोपमापद्यते, लोहितं च स्वप्रमाणमतिवर्तते|
तस्मिन् प्रमाणातिवृत्ते पित्तं प्रकुपितं शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां लोहितवहानां च स्रोतसां लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य प्रतिरुन्ध्यात् तदेव लोहितं दूषयति||४||
यदा जन्तुरित्यादिना निदानमुच्यते| यवकः व्रीहिविशेषः; उद्दालः वनकोद्रवः; कोरदूषः यद्यप्यन्नपाने पित्तहर उक्तस्तथाऽप्यस्य निष्पावादियुक्तस्य संयोगमहिम्ना रक्तपित्तनिदानत्वं ज्ञेयम्, एवमन्यत्रापि रक्तपित्तनिदानत्वेनेहोक्तक्षीरादौ ज्ञेयम्| दधिमण्डः मस्तु, उदश्वित् अर्धजलं तक्रं, कट्वरं निर्जलं, किंवा अम्लं तक्रम्| मधुशिग्रुः स्वल्पशोभाञ्जनकः| खडयूषः रागकर्पूर इति ख्यातः| सुमुखादयः फणिज्झकान्ताः पर्णासभेदाः| उपदंशमिति मूलकादीनि खादयित्वा यावकाद्यन्नं भुङ्क्ते इत्यर्थः| मधूलकः गोधूमविशेषः| शुक्तः सन्धानविशेषः| पिष्टान्नमुत्तरत्र भोजनस्य भूयिष्ठं यत्र तत् पिष्टान्नोत्तरभूयिष्ठम्| अतिवेलमिति पुनः पुनः| रौहिणीकं रोहिणीशाकम्| शौक्तिकैरिति बदरीफलैः| आममित्युत्तरेण सम्बध्यते| स्वप्रमाणमतिवर्तते प्रवर्धत इत्यर्थः| यदेवेत्यनेन एवमपि प्रकुपितस्य पित्तस्य य एवांश उक्तसम्प्राप्तिमान् भवति स एव रक्तं दूषयति नान्य इति दर्शयति| लोहिताभिष्यन्दगुरूणि प्रवृद्धलोहितस्यन्देन गुरूणि उत्सन्नानि विवृतानीति यावत्| प्रतिरुन्ध्यात् ‘वृद्धेन शोणितेन’ इति शेषः; ‘प्रतिपद्यते’ इति पाठपक्षे तु ‘शोणितम्’ इति शेषः, तेन शोणितं प्रतिपद्यत इत्यर्थः| यकृत्प्लीहप्रभवाणामित्यस्य विशेषणं- लोहितवहानामिति| चकारोऽवधारणे| वक्ष्यति च रक्तपित्तचिकित्सिते- “प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते| स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम्” (चि.अ.४) इति||४||
Adhikarana 3 (5) · Śloka 5
संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च पित्तं लोहितपित्तमित्याचक्षते||५||
एवं रक्तदूषके पित्ते यथा रक्तपित्तसञ्ज्ञा भवति, तदाह- संसर्गादित्यादि| संसर्गात् लोहितसम्बन्धात्| लोहितगन्धवर्णानुविधानादिति लोहितसदृशगन्धवर्णयुक्तत्वात्| एतेन, ‘रक्तयुक्तं पित्तं रक्तपित्तम्’ इति प्रथमा निरुक्तिः, ‘रक्ते दूष्ये पित्तम्’ इति द्वितीया, ‘रक्तवत् पित्तं रक्तपित्तम्’ इति तृतीया दर्श्यते| उक्तं च चिकित्सिते- “संसर्गाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः| रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः”- (चि.अ.४) इति| एतदेव च रक्तपित्तस्य सामान्यलक्षणं- यद्- रक्तगन्धवर्णानुविधानं; विशेषलक्षणं तु ऊर्ध्वादिभेदेन कफादिसम्बन्धादेवेह बोद्धव्यं; चिकित्सितेऽपि ‘सान्द्रं सपाण्डु’ (चि.अ.४) इत्यादिना लक्षणं वक्ष्यति||५||
Adhikarana 4 (6) · Śloka 6
तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- अनन्नाभिलाषः, भुक्तस्य विदाहः, शुक्ताम्लगन्धरस उद्गारः, छर्देरभीक्ष्णमागमनं, छर्दितस्य बीभत्सता, स्वरभेदो, गात्राणां सदनं, परिदाहः, मुखाद्धूमागम इव, लोहलोहितमत्स्यामगन्धित्वमिव चास्यस्य, रक्तहरितहारिद्रत्वमङ्गावयवशकृन्मूत्रस्वेदलालासिङ्घाणकास्यकर्णमलपिडकोलिकापिडकानाम् , अङ्गवेदना, लोहितनीलपीतश्यावानामर्चिष्मतां च रूपाणां स्वप्ने दर्शनमभीक्ष्णमिति (लोहितपित्तपूर्वरूपाणि भवन्ति)||६||
पूर्वरूपे छर्दितस्य बीभत्सता वैवर्ण्यवैगन्ध्यादियोगात्| पिडकोलिका नेत्रमलः| अङ्गवेदना अङ्गमर्दः||६||
Adhikarana 5 (7) · Śloka 7
उपद्रवास्तु खलु दौर्बल्यारोचकाविपाकश्वासकासज्वरातीसारशोफशोषपाण्डुरोगाः स्वरभेदश्च||७||
व्याधेरसाध्यत्वस्य धर्मस्य ख्यापकान् लिङ्गविशेषानुपद्रवाख्यानाह- उपद्रवास्त्वित्यादि| एतेनोपद्रवस्य लिङ्गभूतत्वेन निदानपञ्चकानतिरिक्तत्वम्| रक्तपित्ते चैते उपद्रवाः प्रायोभावित्वेन नियता इत्यभिधीयन्ते; ज्वरे तूपद्रवा नियता न सन्ति, तेन तत्र नोक्ताः; एवं गुल्मादावपि प्रायोभावित्वेनोपद्रवकथनं व्याख्येयम्| स्वरभेदश्चेति पृथक्पाठेन स्वरभेदस्य प्रायोभावित्वमाह||७||
Adhikarana 6 (8-9) · Śloka 9
मार्गौ पुनरस्य द्वौ ऊर्ध्वं, चाधश्च|
तद्बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूर्ध्वं प्रतिपद्यमानं कर्णनासिकानेत्रास्येभ्यः प्रच्यवते, बहुवाते तु शरीरे वातसंसर्गादधः प्रतिपद्यमानं मूत्रपुरीषमार्गाभ्यां प्रच्यवते, बहुश्लेष्मवाते तु शरीरे श्लेष्मवातसंसर्गाद्द्वावपि मार्गौ प्रतिपद्यते, तौ मार्गौ प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्यवते शरीरस्य||८||
तत्र यदूर्ध्वभागं तत् साध्यं, विरेचनोपक्रमणीयत्वाद्बह्वौषधत्वाच्च; यदधोभागं तद्याप्यं, वमनोपक्रमणीयत्वादल्पौषधत्वाच्च; यदुभयभागं तदसाध्यं, वमनविरेचनायोगित्वादनौषधत्वाच्चेति||९||
साध्यत्वादिविशेषस्य तथा कफादिसम्बन्धस्य च मार्गविशेषकृतस्य प्रतिपादनार्थं मार्गमाह- मार्गावित्यादि| बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादिति वचनेन ऊर्ध्वगे रक्तपित्ते श्लेष्मसम्बन्धः कारणान्तरचितेनापि श्लेष्मणा भवतीति दर्शयति| यत्तु रक्तपित्तनिदानजन्यत्वं कफस्य, तन्नावश्यं भवति; अत एव “स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम्| अधोगस्योत्तरं प्रायः” (चि.अ.४) इत्यादौ प्रायःशब्दं कृतवान्| एवं ‘बहुवाते तु’ इत्यत्रापि व्याख्येयम्| खेभ्य इति रन्ध्रेभ्यः| विरेचनोपक्रमणीयत्वादिति एतच्च श्लोकेन स्वयमेव व्याकरिष्यति||८-९||
Adhikarana 7 (10) · Śloka 10
रक्तपित्तप्रकोपस्तु खलु पुरा दक्षयज्ञोद्ध्वंसे रुद्रकोपामर्षाग्निना प्राणिनां परिगतशरीरप्राणानामभवज्ज्वरमनु||१०||
रक्तपित्तस्याप्याग्नेयत्वप्रतिपादनार्थं पूर्वोत्पत्तिमाह- रक्तेत्यादि| कोपयुक्तः अमर्षः, अमर्षः अभिनिवेशः; अन्यत्रापि च कोपामर्षयोर्भेद उक्तः; यथा- “अमर्षसंरम्भविनग्नभावाः सन्तर्जनाभिद्रवणौष्ण्यरोषाः” (चि.अ.९) इति||१०||
Adhikarana 8 (11) · Śloka 11
तस्याशुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्याशु प्रशान्त्यै प्रयतितव्यं मात्रां देशं कालं चाभिसमीक्ष्य सन्तर्पणेनापतर्पणेन वा मृदुमधुरशिशिरतिक्तकषायैरभ्यवहार्यैः प्रदेहपरिषेकावगाहसंस्पर्शनैर्वमनाद्यैर्वा तत्रावहितेनेति||११||
सन्तर्पणेनेति अधोगस्य, अपतर्पणेनेति ऊर्ध्वगस्य| संस्पृश्यत इति संस्पर्शनं मुक्तादि||११||
Adhikarana 9 (12-14) · Śloka 14
भवन्ति चात्र- साध्यं लोहितपित्तं तद्यदूर्ध्वं प्रतिपद्यते|
विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य च||१२||
विरेचनं तु पित्तस्य जयार्थे परमौषधम्|
यश्च तत्रान्वयः श्लेष्मा तस्य चानधमं स्मृतम्||१३||
भवेद्योगावहं तत्र मधुरं चैव भेषजम्|
तस्मात् साध्यं मतं रक्तं यदूर्ध्वं प्रतिपद्यते||१४||
ऊर्ध्वगस्य विरेचनयोग्यतां विवेचयति- विरेचनमित्यादि| ऊर्ध्वगे रक्तपित्ते पित्तं प्रधानमनुबन्धश्च श्लेष्मा, रक्तपित्ताख्यव्याधिर्जेतव्यः; तत्र पित्तस्य जयार्थे विरेचनं तावत् परमौषधं, “विरेचनं पित्तहराणाम्” (सू.अ.२५) इति वचनादिति भावः, यश्च तत्रान्वयः अनुबन्धस्वरूपः श्लेष्मा, तस्य च जयार्थे अनधममधमं न भवति मध्यममित्यर्थः; वचनं हि- “पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्| स्रंसनं” (चि.अ.३) इति| योगावहं च तत्रेति तत्रोर्ध्वगे रक्तपित्ते तद्विरेचनं योगावहं भवति, प्रतिमार्गहरणरूपत्वादित्यर्थः; अनेन च व्याधिप्रत्यनीकत्वमुच्यते| एवं व्याधिप्रधानकारणे पित्ते प्रधानशमक(न)त्वात्, तथा मध्यकुपिते च कफे मध्यभेषजत्वात्, प्रतिमार्गहरणरूपतया च व्याधिप्रत्यनीकत्वाद् विरेचनमूर्ध्वगे साधु भेषजम्| मधुरं चैव भेषजमित्यत्र एवशब्दोऽप्यर्थः; तेन, तिक्तकषायौ तावद्भेषजे भवत एव पित्तकफप्रत्यनीकत्वात्, मधुरमपि लङ्घनादिना कफे जिते भेषजं भवतीत्यर्थः||१२-१४||
Adhikarana 10 (15-17) · Śloka 17
रक्तं तु यदधोभागं तद्याप्यमिति निश्चितम्|
वमनस्याल्पयोगित्वादल्पत्वाद्भेषजस्य च||१५||
वमनं हि न पित्तस्य हरणे श्रेष्ठमुच्यते|
यश्च तत्रान्वयो वायुस्तच्छान्तौ चावरं स्मृतम्||१६||
तच्चायोगावहं तत्र कषायं तिक्तकानि च|
तस्माद्याप्यं समाख्यातं यदुक्तमनुलोमगम् ||१७||
अधोगे वमनस्यायोगितां विवेचयति- वमनं हीत्यादि| पित्तस्य रक्तपित्तमूलस्य हरणे न श्रेष्ठं वमनं; वमनं हि कफानुगं पित्तं हरति, न पित्ते प्राधान्येन क्रियते| तच्छान्तौ चावरमिति वातहरणे त्वप्रधानमेव वमनं, वातहरणेऽयुक्तत्वादेव वमनस्य| तच्चायोगावहमिति तद्वमनं प्रतिमार्गहरणरूपतया योगावहमपि सत् पित्तवातयोरुक्तेन न्यायेनायौगिकत्वेनायोगावहमित्यर्थः| कषायं तिक्तकानि च अयोगावहानीति योजना, कषायतिक्तयोर्वातप्रतिकूलत्वादित्यर्थः; एवं मधुरमेकमवशिष्टमधोगे रक्तपित्ते भेषजं भवति; तेनाल्पौषधत्वं सिद्धम्| अम्ललवणकटुकानां तु पित्तविरुद्धत्वेन रक्तपित्ते प्रसक्तिरपि नास्तीति भावः||१५-१७||
Adhikarana 11 (18-20) · Śloka 21
रक्तपित्तं तु यन्मार्गौ द्वावपि प्रतिपद्यते|
असाध्यमिति तज्ज्ञेयं पूर्वोक्तादेव कारणात्||१८||
नहि संशोधनं किञ्चिदस्त्यस्य प्रतिमार्गगम्|
प्रतिमार्गं च हरणं रक्तपित्ते विधीयते||१९||
एवमेवोपशमनं सर्वशो नास्य विद्यते|
संसृष्टेषु च दोषेषु सर्वजिच्छमनं मतम् ||२०||
इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषतः|२१|
पूर्वोक्तादिति वमनविरेचनायौगिकत्वादनौषधत्वाच्च| वमनविरेचनायौगिकत्वं व्युत्पादयति- न हीत्यादि| संशोधनमिति सामान्यवचनेन बस्तिशिरोविरेचनयोरपि प्रतिक्षेपं सूचयति| यदधोभागं विरेचनं तदधोभागं रक्तपित्तं कोपयति, यदूर्ध्वभागं वमनं तदूर्ध्वभागं रक्तपित्तं कोपयति; अतो नास्त्युभयमार्गे रक्तपित्ते शोधनम्| अथानुगुणमेव शोधनं कफच्छर्द्यामिव वमनं रक्तपित्ते भवतीत्याह- प्रतिमार्गं चेत्यादि| रक्तपित्तव्याधिमहिम्ना प्रतिमार्गहरणमेव भेषजं भवति नान्यदित्यर्थः| अथात्रैवं संशोधनं मा भवतु भेषजं, संशमनं भेषजं भवत्वित्याह- एवमेवेत्यादि| उभयमार्गानुसारित्वेन वातकफानुबन्धत्वाद् यथा यौगिकं संशोधनं नास्ति तथोपशमनमपि युगपद्वातकफशमकत्वाभावान्नास्तीत्यर्थः| सर्वशो न विद्यत इति किञ्चिदपि न विद्यत इति| एतदेवोपशमनभेषजाभावं स्फोटयति- संसृष्टेष्वित्यादि| संसृष्टेष्विति सन्निपातेष्विति बोद्धव्यम्| सर्वजिदिति अनुबन्धभूतवातकफमूलभूतपित्तजित्; मधुरं हि कफकारि, तिक्तकषायौ तु वातकरौ, शेषास्तु पित्तकरा एवेति भावः| किंवा, एवमेवेति विना भेषजं नोपशमनं रक्तपित्तस्य भवतीति योजनीयम्| त्रिविधोदर्कमिति त्रिविधायतीयफलं, तच्च साध्यत्व याप्यत्व प्रत्याख्येयत्वरूपम्||१८-२०||-
Adhikarana 12 (21-22) · Śloka 23
एभ्यस्तु खलु हेतुभ्यः किञ्चित्साध्यं न सिध्यति||२१||
प्रेष्योपकरणाभावाद्दौरात्म्याद्वैद्यदोषतः|
अकर्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्तते||२२||
तत्रासाध्यत्वमेकं स्यात् साध्ययाप्यपरिक्रमात्|२३|
असाध्यतोपोद्धातेनेतरव्याधिसाधारणान्यप्यसाध्यतापत्तिकारणान्याह- एभ्यस्त्वित्यादि| उपकरणाभावादिति भेषजाभावात्| दौरात्म्यादिति आतुरस्यानात्मवत्त्वात्| अकर्मत इत्यत्र कुत्सायां नञ्, अपुत्र इति यथा; तेन, अकर्मतः असम्यक्चिकित्सात इत्यर्थः; किंवा अकर्मत इति अधर्मादसाध्यव्याधिजनकात्| कश्चिदितिवचनेन अचिकित्सया न सर्वे तिलालकमशकादयोऽवश्यमसाध्या भवन्तीति दर्शयति, तेषामचिकित्सायामपि साध्यत्वात्| प्रेष्यादिदोषेण प्रकृते रक्तपित्तेऽसाध्यत्वं दर्शयन्नाह- तत्रेत्यादि| तत्रेति रक्तपित्ते| असाध्यत्वमेकमिति असाध्यत्वमेव परं स्यात्| साध्ययाप्यपरिक्रमादिति साध्ययाप्यमार्गाभ्यां परिक्रमादुभयमार्गानुसारित्वादित्यर्थः; किंवा, साध्ययाप्ययोः परिक्रमः साध्ययाप्यपरिक्रमः, तस्मात्; तत्र साध्यपरिक्रमो याप्यमार्गगामित्वम्, एवं याप्यस्य परिक्रमोऽसाध्यमार्गगामित्वम्| अयं च मार्गपरिक्रमः मार्गपरित्यागादपरित्यागाद्वाऽसाध्य एव; अपरित्यागे तावदुभयमार्गत्वेनैवासाध्यत्वं; परित्यागेऽसाध्यत्वमुक्तं, वक्ष्यति हि चिकित्सिते- “मार्गान्मार्गं चरेद्यद्वा तच्च रक्तमसिद्धिमत्” (चि.अ.४) इति| किंवा, साध्ययाप्यपरिक्रमादिति साध्यस्य याप्यत्वेन परिक्रमादित्यर्थः||२१-२२||-
Adhikarana 13 (23-26) · Śloka 26
रक्तपित्तस्य विज्ञानमिदं तस्योपदिश्यते||२३||
यत् कृष्णमथवा नीलं यद्वा शक्रधनुष्प्रभम्|
रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत्||२४||
भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत्|
बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत्||२५||
येन चोपहतो रक्तं रक्तपित्तेन मानवः|
पश्येद्दृश्यं वियच्चापि तच्चासाध्यं न संशयः||२६||
ऊर्ध्वगस्यापि रक्तपित्तस्य लाक्षणिकीमसाध्यतामाह- रक्तपित्तस्येत्यादि| एते च कृष्णादयो वर्णा गम्भीरधातुसम्बन्धाद्भवन्ति, ततश्चासाध्यत्वं युक्तमेव| वाससो रञ्जनं च यदिति प्रक्षालितमपि सद्वासो रञ्जयति, न क्षालनेनापैतीति बोद्धव्यम्; अन्यथा ‘सर्वमेव रक्तं वाससो रञ्जनं भवति’ इति वचनमनर्थकं स्यात्| किंवा ‘अरञ्जनम्’ इति पाठः; तेन, रक्तस्य वाससो रञ्जकस्यारञ्जनमेव विकृतिः| भृशं पूतीति धात्वन्तरसम्बन्धादतिदुर्गन्धि| सर्वोपद्रववदिति उक्तदौर्बल्याद्युपद्रवयुक्तम्| दृश्यं घटपटादि| वियद् आकाशम्| रक्तं रक्तवर्णमित्यर्थः| यद्यप्याकाशमपि दृश्यं भवति मीमांसकनये, तथाऽपि प्राय आकाशे एवासाध्यरक्तपित्ते रक्तत्वं प्रतीयत इति न पुनरुक्तम्||२३-२६||
Adhikarana 14 (27) · Śloka 27
तत्रासाध्यं परित्याज्यं, याप्यं यत्नेन यापयेत्|
साध्यं चावहितः सिद्धैर्भेषजैः साधयेद्भिषक्||२७||
यत्नेनेति वचनाद्याप्ययापनं यत्नं विना न भवतीति दर्शयति||२७||
Adhikarana 15 (28-29) · Śloka 29
तत्र श्लोकौ- कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्|
मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्||२८||
निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः|
वीतमोहरजोदोषलोभमानमदस्पृहः||२९||
कारणमित्यादि सङ्ग्रहः| नामनिर्वृत्तिमिति लोहितसंसर्गादित्यादिना| न चेति न च साध्यत्वम्; अनेन च याप्यमपि सङ्गृहीतम्, असाध्यभेदो हि याप्यम्| हेतुमदिति विरेचनस्य यौगिकत्वादिहेतुवर्णनं सङ्गृह्णाति| वीता अपगता मोहादयो यस्य स तथा||२८-२९||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः||२||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थाने रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः||२||