Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. gulmanidānam

Adhikarana 1 (1-3) · Śloka 3

अथातो गुल्मनिदानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| इह खलु पञ्च गुल्मा भवन्ति; तद्यथा- वातगुल्मः, पित्तगुल्मः, श्लेष्मगुल्मो, निचयगुल्मः, शोणितगुल्म इति||३||

🔊 Audio coming soon

दक्षाध्वरोद्ध्वंसे रक्तपित्तमनु गुल्म उत्पन्न इति रक्तपित्तमनु गुल्मनिदानम्| इह पञ्चेतिवचनाच्चिकित्सितेऽधिकान् गुल्मान् सूचयति; वक्ष्यति हि- “व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्” (चि.अ.५) इति| निचयः सन्निपातः, तत्कृतो गुल्मो निचयगुल्मः| इह प्रत्येकवातादिगुल्मक्रियामेलकादेव द्वन्द्वजगुल्माः साध्यन्त इति कृत्वा न पृथगुक्ताः| सन्निपातगुल्मस्तु वातादिगुल्मक्रियामेलकेन साध्यो न भवत्येव वातादिसंयोगमहिम्ना; तेन, अतिरिक्तासाध्यत्वयोगान्निचयगुल्मः पृथगुक्तः| एतदेव गुल्मेऽस्मिन्नसाध्यत्वं प्रतिपादयितुं सन्निपातशब्दं साध्यज्वरादिसन्निपातेऽपि वर्तमानं परित्यज्य निचयशब्दः कृतः; अत्यर्थं हि असाध्यरूपश्चायं निचयः||१-३||

Adhikarana 2 (4-5) · Śloka 5

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- कथमिह भगवन् पञ्चानां गुल्मानां विशेषमभिजानीमहे; नह्यविशेषविद्रोगाणामौषधविदपि भिषक् प्रशमनसमर्थो भवतीति||४|| तमुवाच भगवानात्रेयः- समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषेभ्यो विशेषविज्ञानं गुल्मानां भवत्यन्येषां च रोगाणामग्निवेश! तत्तु खलु गुल्मेषूच्यमानं निबोध||५||

🔊 Audio coming soon

समुत्थानेत्यादौ लिङ्गान्तर्निविष्टा वेदना पृथगुच्यते, गुल्मादिष्वन्तर्गतेषु वेदनाप्रधानविकारेषु प्रायो वेदनयैव विशेषावधारणं भवतीति दर्शयितुम्| सम्प्राप्तेस्त्विहाकथनं गुल्मविशेषागमकत्वेनैव बोद्धव्यं, गुल्मविज्ञानं चेहाधिकृतं; सङ्ख्यादिभेदभिन्ना तु सामान्यसम्प्राप्तिः सर्वरोगनिदानप्रस्ताव एवोक्तेति भावः| बलकालभिन्ना तु सम्प्राप्तिर्यद्यपि वातिकत्वादिविशेषं गमयत्यपि, तथाऽप्यल्पत्वात्तथा लिङ्गगृहीतत्वाच्च सा नाद्रियते| दिवसान्तजरणान्तादिबलसम्प्राप्तिर्हि वातादेर्लिङ्गमध्य एव पठ्यते तत्र तत्र; तेन लिङ्गग्रहणेनैव तत् सुस्थम्| प्राग्रूपं च यद्यपि पृथग्वातादिगुल्मगमकं साक्षान्न पठितं, तथाऽपि विशेषलिङ्गाव्यक्ततारूपं विशिष्टं प्राग्रूपं विशेषलिङ्गकथनेनैवोक्तमेव; तेन, वातादिगुल्मविशेषगमकनिदानादिमध्ये पूर्वरूपपाठो न्याय्य एव; किंवा, पूर्वरूपविशेषोऽप्यत्र रक्तपित्तादिरोगान्तरापेक्षया सामान्योक्तोऽपि विशेषो ज्ञेयः||४-५||

Adhikarana 3 (6) · Śloka 6

यदा पुरुषो वातलो विशेषेण ज्वरवमनविरेचनातीसाराणामन्यतमेन कर्शनेन कर्शितो वातलमाहारमाहरति, शीतं वा विशेषेणातिमात्रम् , अस्नेहपूर्वे वा वमनविरेचने पिबति, अनुदीर्णां वा छर्दिमुदीरयति, उदीर्णान् वातमूत्रपुरीषवेगान्निरुणद्धि, अत्यशितो वा पिबति नवोदकमतिमात्रम्, अतिसङ्क्षोभिणा वा यानेन याति, अतिव्यवायव्यायाममद्यशोकरुचिर्वा, अभिघातमृच्छति वा, विषमासनशयनस्थानचङ्क्रमणसेवी वा भवति, अन्यद्वा किञ्चिदेवंविधं विषममतिमात्रं व्यायामजातमारभते, तस्यापचाराद्वातः प्रकोपमापद्यते||६||

🔊 Audio coming soon

वातलो विशेषेणेति वचनात् पित्तलादेरपि यथोक्तमाचरतो वातगुल्मो भवति, वातलस्य त्वत्यर्थमिति दर्शयति| शीतं वा विशेषेणेति अत्यर्थशीतमित्यर्थः| अतिमात्रमिति च्छेदः| अतिव्यवायव्यायामादिरुचिर्वा ‘भवति’ इति शेषः; व्यवायादिरुच्या व्यवायाद्याचरणं लक्षयति||६||

Adhikarana 4 (7) · Śloka 7

स प्रकुपितो वायुर्महास्रोतोऽनुप्रविश्य रौक्ष्यात् कठिनीभूतमाप्लुत्य पिण्डितोऽवस्थानं करोति हृदि बस्तौ पार्श्वयोर्नाभ्यां वा; स शूलमुपजनयति ग्रन्थींश्चानेकविधान्, पिण्डितश्चावतिष्ठते, स पिण्डितत्वाद् ‘गुल्म’ इत्यभिधीयते; स मुहुराधमति , मुहुरल्पत्वमापद्यते; अनियतविपुलाणुवेदनश्च भवति चलत्वाद्वायोः, मुहुः पिपीलिकासम्प्रचार इवाङ्गेषु, तोदभेदस्फुरणायामसङ्कोचसुप्तिहर्षप्रलयोदयबहुलः; तदातुरः सूच्येव शङ्कुनेव चाभिसंविद्धमात्मानं मन्यते, अपि च दिवसान्ते ज्वर्यते , शुष्यति चास्यास्यम्, उच्छ्वासश्चोपरुध्यते, हृष्यन्ति चास्य रोमाणि वेदनायाः प्रादुर्भावे; प्लीहाटोपान्त्रकूजनाविपाकोदावर्ताङ्गमर्दमन्याशिरःशङ्खशूलब्रध्नरोगाश्चैनमुपद्रवन्ति; कृष्णारुणपरुषत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते, विपरीतानि चोपशेरत इति वातगुल्मः||७||

🔊 Audio coming soon

रौक्ष्यात् कठिनीभूतमिति महास्रोतोविशेषणं; तच्च प्रकुपितस्य वायो रौक्ष्येण तथोक्तज्वरकर्शनादिहेतुकृताच्च रौक्ष्यात् कोष्ठस्य कठिनत्वमुपपन्नम्| आप्लुत्येति व्याप्य, कोष्ठमेव| अन्यत्राप्युक्तम्- “आप्लुतं मारुतेनेह शरीरं यस्य केवलम्” (इं. अ. १०) इति; आप्लुतं व्याप्तमित्यर्थः| यदा तु ‘रौक्ष्यात् कठिनीभूत’ इति पाठस्तदा वातविशेषणं, वातस्य कठिनत्वमत्यर्थं प्रकोपेण घनत्वमेव बोद्धव्यम्| पिण्डित इति कुण्डलीभूतः| नाभ्यां वेति च्छेदः| पिण्डितश्चेति द्वितीयपिण्डितशब्देन मांसाद्युत्तुण्डनेन गुल्मप्रदेशस्यापि पिण्डितत्वमुच्यते; पूर्वेण पिण्डितशब्देन तु वायोः पिण्डितत्वमिति न पौनरुक्त्यम्| अनेकविधानिति च्छेदः| ग्रन्थींश्चानेकविधानिति दीर्घवृत्तस्थूलादिभेदेन भिन्नान्| पिण्डितत्वाद् ‘गुल्म’ इत्युच्यते इत्यनेन लतादिगुल्मसादृश्यनिबन्धनां गुल्मसञ्ज्ञां दर्शयति| आधमति विस्तारीभवति| अनियतविपुलाणुवेदन इति कदाचिद्विपुलवेदनः कदाचिदल्पवेदनश्चानियमेन भवति| अत्रैव हेतुमाह- चलत्वाद्वायोरिति| आयामः विस्तरणं, हर्षः रोमहर्षः, प्रलयः नाशः, उदयः जन्म; स्फुरणादीनां जन्मनाशौ बहुधा भवत इत्यर्थः| अत्रापि चलत्वमेव वायोर्हेतुर्बोद्धव्यः| हृष्यन्ति चास्य रोमाणीति वेदनाप्रादुर्भावे प्रतिनियमेन, स्फुरणादौ तु हर्षो विनाऽपि वेदनामिति ज्ञेयम्||७||

Adhikarana 5 (8-9) · Śloka 9

तैरेव तु कर्शनैः कर्शितस्याम्ललवणकटुकक्षारोष्णतीक्ष्णशुक्तव्यापन्नमद्यहरितकफलाम्लानां विदाहिनां च शाकधान्यमांसादीनामुपयोगादजीर्णाध्यशनाद्रौक्ष्यानुगते चामाशये वमनमतिवेलं सन्धारणं वातातपौ चातिसेवमानस्य पित्तं सह मारुतेन प्रकोपमापद्यते||८|| तत् प्रकुपितं मारुत आमाशयैकदेशे संवर्त्य तानेव वेदनाप्रकारानुपजनयति, य उक्ता वातगुल्मे; पित्तं त्वेनं विदहति कुक्षौ हृद्युरसि कण्ठे च; स विदह्यमानः सधूममिवोद्गारमुद्गिरत्यम्लान्वितं, गुल्मावकाशश्चास्य दह्यते दूयते धूप्यते ऊष्मायते स्विद्यति क्लिद्यति शिथिल इव स्पर्शासहोऽल्परोमाञ्चश्च भवति; ज्वरभ्रमदवथुपिपासागलतालुमुखशोषप्रमोहविड्भेदाश्चैनमुपद्रवन्ति; हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति; निदानोक्तानि चास्य नोपशेरते, विपरीतान्युपशेरत इति पित्तगुल्मः||९||

🔊 Audio coming soon

रौक्ष्यानुगते चामाशये इति रूक्षणहेतुभी रूक्षीकृते इत्यर्थः; किंवा रौक्ष्यानुगते चामाशये सति वमनं सेवमानस्येति योजनीयम्| आमाशयैकदेशे संवर्त्येतिवचनात् पित्तगुल्मस्य कफगुल्मस्य च बस्तिः स्थानं न भवतीति दर्शयति; वचनं हि- “नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः” (वि.अ.२) इति; वातगुल्मस्य तु बस्तिरपि स्थानं भवति, अत एव तत्र सामान्येन महास्रोत इति कृतं, महास्रोतोग्रहणेन च बस्तिरपि गृह्यते; तथा वातगुल्म एव ‘हृदि बस्तौ’ इत्यादि कृतम्| दाहदूयनादयः पित्तवेदनाविशेषा असकृद्व्याख्याताः| दवथुः ‘धक्धक्’ इति लोके कथ्यते||८-९||

Adhikarana 6 (10-11) · Śloka 11

तैरेव तु कर्शनैः कर्शितस्यात्यशनादतिस्निग्धगुरुमधुरशीताशनात् पिष्टेक्षुक्षीरतिलमाषगुडविकृतिसेवनान्मन्दकमद्यातिपानाद्धरितकातिप्रणनयादानूपौदकग्राम्यमांसातिभक्षणात् सन्धारणादबुभुक्षस्य चातिप्रगाढमुदपानात् सङ्क्षोभणाद्वा शरीरस्य श्लेष्मा सह मारुतेन प्रकोपमापद्यते||१०|| तं प्रकुपितं मारुत आमाशयैकदेशे संवर्त्य तानेव वेदनाप्रकारानुपजनयति य उक्ता वातगुल्मे; श्लेष्मा त्वस्य शीतज्वरारोचकाविपाकाङ्गमर्दहर्षहृद्रोगच्छर्दिनिद्रालस्यस्तैमित्यगौरवशिरोभितापानुपजनयति, अपि च गुल्मस्य स्थैर्यगौरवकाठिन्यावगाढसुप्तताः, तथा कासश्वासप्रतिश्यायान् राजयक्ष्माणं चातिप्रवृद्धः, श्वैत्यं त्वङ्नखनयनवदनमूत्रपुरीषेषूपजनयति, निदानोक्तानि चास्य नोपशेरते, विपरीतानि चोपशेरत इति श्लेष्मगुल्मः||११||

🔊 Audio coming soon

श्लेष्मगुल्मे अबुभुक्षस्येति अबुभुक्षितस्य; ‘अतिसुहितस्य’ इति वा पाठः| यद्यपि राजयक्ष्मा त्रिदोषजः, तथाऽपि कफगुल्म एव रोगमहिम्ना अजनितदोषत्रयेण जन्यत इति बोद्धव्यम्||१०-११||

Adhikarana 7 (12) · Śloka 12

त्रिदोषहेतुलिङ्गसन्निपाते तु सान्निपातिकं गुल्ममुपदिशन्ति कुशलाः| स विप्रतिषिद्धोपक्रमत्वादसाध्यो निचयगुल्मः||१२||

🔊 Audio coming soon

विप्रतिषिद्धोपक्रमत्वादिति परस्परं वातादिविरुद्धोपक्रमत्वात्| इह च विप्रतिषिद्धोपक्रमत्वं विकृतिविषमसन्निपातेन बोद्धव्यम्| तेन, साध्यत्रिदोषज्वरादौ वातादिविरुद्धोपक्रमत्वं सदपि नासाध्यतामापादयति||१२||

Adhikarana 8 (13-14) · Śloka 14

शोणितगुल्मस्तु खलु स्त्रिया एव भवति न पुरुषस्य, गर्भकोष्ठार्तवागमनवैशेष्यात्| पारतन्त्र्यादवैशारद्यात् सततमुपचारानुरोधाद्वा वेगानुदीर्णानुपरुन्धत्या आमगर्भे वाऽप्यचिरपतितेऽथवाऽप्यचिरप्रजाताया ऋतौ वा वातप्रकोपणान्यासेवमानायाः क्षिप्रं वातः प्रकोपमापद्यते||१३|| स प्रकुपितो योनिमुखमनुप्रविश्यार्तवमुपरुणद्धि, मासि मासि तदार्तवमुपरुध्यमानं कुक्षिमभिवर्धयति| तस्याः शूलकासातीसारच्छर्द्यरोचकाविपाकाङ्गमर्दनिद्रालस्यस्तैमित्यकफप्रसेकाः समुपजायन्ते, स्तनयोश्च स्तन्यम्, ओष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यम्, अत्यर्थं ग्लानिश्चक्षुषोः, मूर्च्छा, हृल्लासः, दोहदः, श्वयथुश्च पादयोः, ईषच्चोद्गमो रोमराज्याः, योन्याश्चाटालत्वम्, अपि च योन्या दौर्गन्ध्यमास्रावश्चोपजायते, केवलश्चास्या गुल्मः पिण्डित एव स्पन्दते, तामगर्भां गर्भिणीमित्याहुर्मूढाः||१४||

🔊 Audio coming soon

शोणितगुल्मे स्त्रिया एवेति वचनादेव न पुरुषस्येति लब्धे पुनर्न पुरुषस्येति वचनं स्पष्टार्थम्| गर्भार्थः कोष्ठो गर्भकोष्ठस्तस्मिन् गर्भकोष्ठे य आर्तवस्यागमनरूपो विशेषो रक्तगुल्मकारणं, स स्त्रिया एव भवति; तेनैवंरूप आर्तवप्रतिबन्धजन्यः शोणितगुल्मः पुरुषस्य न भवति| सामान्यशोणितदुष्टिजन्यस्तु पुरुषस्यापि भवति; तथाहि वक्ष्यति- “कफो वाते जितप्राये पित्तं शोणितमेव च| यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते” (चि.अ.५) इत्यादि; तथा ‘गुल्मोपकुशवीसर्प’ (सू.अ.२४) इत्यादयो ‘रक्तजा गदाः’ इत्युक्तम्| पारतन्त्र्यादिहेतुत्रयं वेगविधारणे, पारतन्त्र्यादेव स्त्रियो वेगं विधारयन्ति| अवैशारद्यम् अज्ञानं; तेन, वेगविधारणेन महान् व्याधिर्भवतीत्यज्ञानाद्वेगं विधारयन्ति| उपचारानुरोधादिति भर्त्राद्युपचारपरत्वात्| योनिमुखमिति गर्भाशयद्वारम्| स्तनयोः स्तन्यमिति रोगप्रभावादेव बोद्धव्यम्| आर्तवरोधलक्षणस्य व्याधेरयं प्रभावो यत् स्तन्यं करोति, दृष्टत्वात्| तेन, यदुच्यते- “स्त्रिया ह्यापन्नसत्त्वायास्त्रिधा रसः सम्पद्यते- स्वशरीरपुष्टये, स्तन्याय, गर्भाभिवृद्धये च” (शा.अ.६) इति वचनाद् “गर्भ एव स्तन्यं भवति” तन्निरस्तं मन्तव्यम्| दोहदशब्देनेह नार्या उच्चावचभावतृष्णायोगो दोहदाभिधानो ज्ञेयः| यदुक्तं क्षारपाणिना- “दोहदिनी वा स्यान्नारी शोणितगुल्मिनी” इति| न त्विह द्वैहृद्यकृतो दोहदोऽभिप्रेतः, स हि गर्भहृदयस्य मातृहृदयेन सम्बन्धाद्भवति; वचनं हि- “मातृजं ह्यस्य हृदयं, तदस्य मातृहृदयेन सम्बद्धं भवति रसवाहिनीभिः संवाहिनीभिः, तस्मात्तयोस्ताभिर्भक्तिः सम्पद्यते” (शा.अ.४) इति; शोणितगुल्मे च चेतना नास्ति, तेन नैवंरूपमिह द्वैहृद्यं दोहदम्| तेन गर्भभ्रान्त्या यत्किञ्चिदभ्यवहारेच्छादिलक्षणं दोहदं तस्या भवति, असत्यपि विषसम्बन्धे यथा शङ्काविषाद्विषलिङ्गानि भवन्ति; वचनं हि- “शङ्काविषेणोपहताः कुर्वन्ति विषलक्षणम्” इति| आटालत्वं विस्तृतत्वं; योनिविस्तारेण च रोमराज्या अपि विस्तरणं वितन्यमानचर्मरोम्णा चैवोपपन्नम्| केवलः स्पन्दत इति नैकदेशेन; गर्भो ह्येकदेशेनापि स्पन्दते, तेनैतल्लक्षणं गर्भशङ्काव्यावर्तकम्| ननु यदुक्तं रक्तगुल्मे- “समगर्भलिङ्गः” इति, तथा “मासे व्यतीते दशमे चिकित्स्यः” (चि.अ.५) इति; तदनुपपन्नं, यतो गर्भाद्विशिष्टं पिण्डितस्पन्दनं विद्यत एव; तथा नवत्वं सुखसाध्यताहेतुत्वेनोक्तम्, इह च कथं कालातिक्रमेणोपक्रमणीयत्वमुच्यते? ब्रूमः- समगर्भलिङ्गत्वं तावद्भूरिगर्भसमलिङ्गताभिप्रायेणोक्तं; किंवा, समस्यावैकारिकस्य दशमासिकपर्यन्तस्य गर्भस्य लिङ्गानि यस्य स समगर्भलिङ्गः, तेन वैकारिकसुप्तनागोदरादेर्लक्षणं नेह भवतीति दर्शयति| दशममासचिकित्स्यत्वं चेह व्याधिमहिम्ना बोद्धव्यं, दशममास एवायं शिथिलीभूतः सन् चिकित्स्यो भवतीति व्याधिप्रभावः| दृष्टा च व्याधिप्रभावकृता कालापेक्षा- “ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम्| षडहे षडहे देयम्” इत्यादिषु| यत्तु समगर्भलिङ्गत्वेन गर्भशङ्कानिरासार्थं रक्तगुल्मस्य दशममासापेक्षणं; तन्न, दशममासादर्वागपि पिण्डितस्पन्दनेन रक्तगुल्मस्यावधारणम्, तथा दशममासादूर्ध्वमपि गर्भावस्थानस्य दृष्टत्वेन गर्भशङ्कानपगमाच्च; वक्ष्यति हि दशममासादूर्ध्वमवस्थानं गर्भस्य- “वैकारिकमत ऊर्ध्वमवस्थानं” (शा.अ.४) इति||१३-१४||

Adhikarana 9 (15) · Śloka 15

एषां तु खलु पञ्चानां गुल्मानां प्रागभिनिर्वृत्तेरिमानि पूर्वरूपाणि भवन्ति; तद्यथा- अनन्नाभिलषणम्, अरोचकाविपाकौ, अग्निवैषम्यं, विदाहो भुक्तस्य, पाककाले चायुक्त्या छर्द्युद्गारौ, वातमूत्रपुरीषवेगानां चाप्रादुर्भावः, प्रादुर्भूतानां चाप्रवृत्तिरीषदागमनं वा, वातशूलाटोपान्त्रकूजनापरिहर्षणातिवृत्तपुरीषताः, अबुभुक्षा, दौर्बल्यं, सौहित्यस्य चासहत्वमिति||१५||

🔊 Audio coming soon

तद्यथेत्यादिना पूर्वरूपाण्याह| अयुक्त्येति छर्द्युद्गारकारणमन्तरेण व्याधिप्रभावादेवेत्यर्थः| अतिवृत्तपुरीषता उदावर्तः||१५||

Adhikarana 10 (16-17) · Śloka 17

सर्वेष्वपि खल्वेतेषु गुल्मेषु न कश्चिद्वातादृते सम्भवति गुल्मः| तेषां सान्निपातिकमसाध्यं ज्ञात्वा नैवोपक्रमेत, एकदोषजे तु यथास्वमारम्भं प्रणयेत्, संसृष्टांस्तु साधारणेन कर्मणोपचरेत्| यच्चान्यदप्यविरुद्धं मन्येत तदप्यवचारयेद्विभज्य गुरुलाघवमुपद्रवाणां, गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेज्जघन्यमितरान्| त्वरमाणस्तु विशेषमनुपलभमानो गुल्मेष्वात्ययिके कर्मणि वातचिकित्सितं प्रणयेत्, स्नेहस्वेदौ वातहरौ स्नेहोपसंहितं च मृदु विरेचनं बस्तींश्च; अम्ललवणमधुरांश्च रसान् युक्त्याऽवचारयेत्| मारुते ह्युपशान्ते स्वल्पेनापि प्रयत्नेन शक्योऽन्योऽपि दोषो नियन्तुं गुल्मेष्विति||१६|| भवति चात्र- गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरितव्या| मारुते ह्यवजितेऽन्यमुदीर्णं दोषमल्पमपि कर्म निहन्यात्||१७||

🔊 Audio coming soon

पित्तादिकृतेष्वपि तु गुल्मेषु सम्प्राप्तिसिद्धस्य वातस्य प्राधान्यमाह- सर्वेष्वपीत्यादि| साधारणेनेति संसृष्टोभयदोषप्रत्यनीकेन| यच्चान्यदपीति संसर्गे एकदोषोपशमकमपि| अविरुद्धमिति उपद्रवाणां गुरूणामविरुद्धम्| विभज्येति गुरुलाघवं विभज्य| तेनैकदोषप्रशमनमपि तदेव कर्तव्यं यद्गुरूपद्रवप्रशमनं भवतीति भावः| एतदेवाह- गुरूनित्यादि| सर्वगुल्मानां वातमूलत्वेन वातनिरपेक्षचिकित्साविशेषानुपलम्भे वातचिकित्सैव त्वरया कर्तव्येत्याह- त्वरमाणस्त्वित्यादि| आत्ययिके कर्मणि ‘क्रियमाणे’ इति शेषः| अल्पमपीति कर्मविशेषणम्||१६-१७||

Adhikarana 11 (18) · Śloka 18

तत्र श्लोकः- सङ्ख्या निमित्तं रूपाणि पूर्वरूपमथापि च| दिष्टं निदाने गुल्मानामेकदेशश्च कर्मणाम्||१८||

🔊 Audio coming soon

सङ्ग्रहे एकदेशश्च कर्मणामिति चिकित्सितानाम्||१८||

Adhikarana puShpikA · Śloka 3

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने गुल्मनिदानं नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थाने गुल्मनिदानं नाम तृतीयोऽध्यायः||३||