Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. śōṣanidānam

Adhikarana 1 (1-2) · Śloka 2

अथातः शोषनिदानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

ज्वरनिदानोक्तसम्बन्धाद्राजयक्ष्मनिदानमुच्यते||१-२||

Adhikarana 2 (3) · Śloka 3

इह खलु चत्वारि शोषस्यायतनानि भवन्ति; तद्यथा- साहसं सन्धारणं क्षयो विषमाशनमिति||३||

🔊 Audio coming soon

आयतनानीति कारणानि| सङ्ख्येयसाहसादिनिर्देशादेव सङ्ख्यायां लब्धायां चत्वारीति पुनर्वचनं साहसादीनामवान्तरबलवद्विग्रहादिभेदेऽप्येकजातीयताप्रतिपादनार्थम्||३||

Adhikarana 3 (4-5) · Śloka 5

तत्र साहसं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः- यदा पुरुषो दुर्बलो हि सन् बलवता सह विगृह्णाति, अतिमहता वा धनुषा व्यायच्छति, जल्पति वाऽप्यतिमात्रम्, अतिमात्रं वा भारमुद्वहति, अप्सु वा प्लवते चातिदूरम्, उत्सादनपदाघातने वाऽतिप्रगाढमासेवते, अतिप्रकृष्टं वाऽध्वानं द्रुतमभिपतति, अभिहन्यते वा, अन्यद्वा किञ्चिदेवंविधं विषममतिमात्रं वा व्यायामजातमारभते, तस्यातिमात्रेण कर्मणोरः क्षण्यते| तस्योरः क्षतमुपप्लवते वायुः| स तत्रावस्थितः श्लेष्माणमुरःस्थमुपसङ्गृह्य पित्तं च दूषयन् विहरत्यूर्ध्वमधस्तिर्यक् च| तस्य योंऽशः शरीरसन्धीनाविशति तेनास्य जृम्भाऽङ्गमर्दो ज्वरश्चोपजायते, यस्त्वामाशयमभ्युपैति तेन रोगा भवन्ति उरस्या अरोचकश्च , यः कण्ठमभिप्रपद्यते कण्ठस्तेनोद्ध्वंस्यते स्वरश्चावसीदति, यः प्राणवहानि स्रोतांस्यन्वेति तेन श्वासः प्रतिश्यायश्च जायते, यः शिरस्यवतिष्ठते शिरस्तेनोपहन्यते; ततः क्षणनाच्चैवोरसो विषमगतित्वाच्च वायोः कण्ठस्य चोद्ध्वंसनात् कासः सततमस्य सञ्जायते, स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति, शोणितागमनाच्चास्य दौर्बल्यमुपजायते; एवमेते साहसप्रभवाः साहसिकमुपद्रवाः स्पृशन्ति| ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति| तस्मात् पुरुषो मतिमान् बलमात्मनः समीक्ष्य तदनुरूपाणि कर्माण्यारभेत कर्तुं; बलसमाधानं हि शरीरं, शरीरमूलश्च पुरुष इति||४|| भवति चात्र- साहसं वर्जयेत् कर्म रक्षञ्जीवितमात्मनः| जीवन् हि पुरुषस्त्विष्टं कर्मणः फलमश्नुते||५||

🔊 Audio coming soon

पदाघातनं पद्भ्यामुन्मर्दनम्| अतिप्रकृष्टमिति अतिदूरम्| उरःक्षतमुपप्लवते व्याप्नोतीत्यर्थः| उरःस्थमिति स्वभावादेवोरःस्थम्| उरस्या इति उरोगता हृद्द्रवशूलादयः | आमाशयगतेन चोरस्यरोगकरणमुरसोऽप्यामाशयप्रत्यासन्नत्वात्| बलेन सम्यगाधीयते धार्यत इति बलसमाधानं शरीरम्| शरीरमूलश्च पुरुष इति संयोगपुरुष इत्यर्थः||४-५||

Adhikarana 4 (6-7) · Śloka 7

सन्धारणं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः- यदा पुरुषो राजसमीपे भर्तुः समीपे वा गुरोर्वा पादमूले द्यूतसभमन्यं वा सतां समाजं स्त्रीमध्यं वा समनुप्रविश्य यानैर्वाऽप्युच्चावचैरभियान् भयात् प्रसङ्गाद्ध्रीमत्त्वाद्धृणित्वाद्वा निरुणद्ध्यागतान् वातमूत्रपुरीषवेगान् तदा तस्य सन्धारणाद्वायुः प्रकोपमापद्यते, स प्रकुपितः पित्तश्लेष्माणौ समुदीर्योर्ध्वमधस्तिर्यक् च विहरति; ततश्चांशविशेषेण पूर्ववच्छरीरावयवविशेषं प्रविश्य शूलमुपजनयति, भिनत्ति पुरीषमुच्छोषयति वा, पार्श्वे चातिरुजति, अंसाववमृद्गाति, कण्ठमुरश्चावधमति, शिरश्चोपहन्ति, कासं श्वासं ज्वरं स्वरभेदं प्रतिश्यायं चोपजनयति; ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति| तस्मात् पुरुषो मतिमानात्मनः शारीरेष्वेव योगक्षेमकरेषु प्रयतेत विशेषेण; शरीरं ह्यस्य मूलं, शरीरमूलश्च पुरुषो भवति||६|| भवति चात्र- सर्वमन्यत् परित्यज्य शरीरमनुपालयेत्| तदभावे हि भावानां सर्वाभावः शरीरिणाम्||७||

🔊 Audio coming soon

समाजमिति सभाम्| उच्चावचैरिति उच्चनीचैः| अभियानिति गच्छन्| भयादित्यादि राजसमीपादीषु यथायोग्यतया बोद्धव्यम्| योगेन ये क्षेमकरास्ते योगक्षेमकराः, ते चेह मूत्रपुरीषाविधारणादयः| विशेषेणेतिवचनाच्छारीरेष्वेव विशेषेण यत्नं कुर्यान्मानसयोगक्षेमापेक्षयेति दर्शयति| आत्मन इति पदं परशरीरयोगक्षेमापेक्षया स्वशरीरयोगक्षेमकरणस्योपादेयतादर्शनार्थम्| अथ कथं मानसयोगक्षेमापेक्षया तथा परशरीरयोगक्षेमापेक्षया स्वशरीरयोगक्षेमः श्रेष्ठ इत्याह- शरीरमित्यादि| अस्य पुरुषस्य| सर्वपुरुषार्थेषु कर्तव्येषु यस्माच्छरीरं मूलमिति कारणं, तस्मात् स्वशरीरयोगक्षेममेवाचरेद्विशेषेण, पश्चात् परशरीरमानसयोगक्षेममित्यर्थः| स्वशरीरे ह्युपहते परशरीरोपकारस्तथाऽध्यात्मिकशुभचिन्ता च व्याकुला भवतीति भावः| किंवा, योगाः शरीरस्य बलवर्णाद्युत्कर्षयोगाः, क्षेमाश्चानागताबाधप्रतिषेधाः, तेषु| ननु यद्येवमाध्यात्मिकेऽपि भावे शरीरं मूलं, तत् किं पुरुषोऽप्रधानमेव? नेत्याह- शरीरमूलश्च पुरुष इति| शरीरस्याप्युत्पत्तौ धर्माधर्मसहायो भोक्ता सुखदुःखानामात्मा मूलं कारणमित्यर्थः| मूलशब्दश्चायं भावप्रधानः; तेन शरीरमूलत्वं यस्यात्मनः स ‘शरीरमूलः’ इति पुंलिङ्गनिर्देश उपपन्नः| सर्वाभाव इति धर्मादिचतुर्वर्गाभाव इत्यर्थः||६-७||

Adhikarana 5 (8) · Śloka 8

क्षयः शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः- यदा पुरुषोऽतिमात्रं शोकचिन्तापरिगतहृदयो भवति, ईर्ष्योत्कण्ठाभयक्रोधादिभिर्वा समाविश्यते, कृशो वा सन् रूक्षान्नपानसेवी भवति, दुर्बलप्रकृतिरनाहारोऽल्पाहारो वा भवति, तदा तस्य हृदयस्थायी रसः क्षयमुपैति; स तस्योपक्षयाच्छोषं प्राप्नोति, अप्रतीकाराच्चानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणरूपेण|८|

🔊 Audio coming soon

हृदयस्थायी रस इति धातुरूपोऽन्नरसपोष्य इत्यर्थः; अन्ये तु, हृदयस्थायी रस इति ओजो ब्रुवते| यथोपदेक्ष्यमाणरूपेणेति ‘सन्धयः शिथिलीभवन्ति’ इत्यादिग्रन्थवक्ष्यमाणलक्षणेन||८||

Adhikarana 6 (8-9) · Śloka 9

यदा वा पुरुषोऽतिहर्षादतिप्रसक्तभावः स्त्रीष्वतिप्रसङ्गमारभते, तस्यातिमात्रप्रसङ्गाद्रेतः क्षयमेति| क्षयमपि चोपगच्छति रेतसि यदि मनः स्त्रीभ्यो नैवास्य निवर्तते, तस्य चातिप्रणीतसङ्कल्पस्य मैथुनमापद्यमानस्य न शुक्रं प्रवर्ततेऽतिमात्रोपक्षीणरेतस्त्वात्, तथाऽस्य वायुर्व्यायच्छमानशरीरस्यैव धमनीरनुप्रविश्य शोणितवाहिनीस्ताभ्यः शोणितं प्रच्यावयति, तच्छुक्रक्षयादस्य पुनः शुक्रमार्गेण शोणितं प्रवर्तते वातानुसृतलिङ्गम्| अथास्य शुक्रक्षयाच्छोणितप्रवर्तनाच्च सन्धयः शिथिलीभवन्ति, रौक्ष्यमुपजायते, भूयः शरीरं दौर्बल्यमाविशति , वायुः प्रकोपमापद्यते; स प्रकुपितो वशिकं शरीरमनुसर्पन्नुदीर्य श्लेष्मपित्ते परिशोषयति मांसशोणिते, प्रच्यावयति श्लेष्मपित्ते संरुजति पार्श्वे, अवमृद्गात्यंसौ , कण्ठमुद्ध्वंसति, शिरः श्लेष्माणमुपत्क्लेश्य प्रतिपूरयति श्लेष्मणा, सन्धींश्च प्रपीडयन् करोत्यङ्गमर्दमरोचकाविपाकौ च, पित्तश्लेष्मोत्क्लेशात् प्रतिलोमगत्वाच्च वायुर्ज्वरं कासं श्वासं स्वरभेदं प्रतिश्यायं चोपजनयति; स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते, ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति| तस्मात् पुरुषो मतिमानात्मनः शरीरमनुरक्षञ्छुक्रमनुरक्षेत्| परा ह्येषा फलनिर्वृत्तिराहारस्येति||८|| भवति चात्र- आहारस्य परं धाम शुक्रं तद्रक्ष्यमात्मनः| क्षयो ह्यस्य बहून् रोगान्मरणं वा नियच्छति||९||

🔊 Audio coming soon

सम्प्रति क्षयेषु शोषकारणेषु प्रायः शोषजनकत्वेन प्रधानं शुक्रक्षयं शोषकारणं यदा वेत्यादिना प्राह| अतिप्रणीतसङ्कल्पस्येति अतिमहता प्रयत्नेन कृतध्वजोच्छ्रायस्य| व्यायच्छमानस्येति व्यवायमाचरतः| वातानुसृतलिङ्गमिति वातलिङ्गयुक्तं दुष्टवातलिङ्गयुक्तमिति यावत्| शरीरं कर्मभूतं, दौर्बल्यं कर्तृभूतम्, आविशतीति योजना| वशिकमिति शून्यं, शुक्रशोणितक्षयाद्रिक्तमित्यर्थः; एतच्च हेतुगर्भविशेषणम्; एतेन यस्माद्वशिकं शरीरं, तस्मादनुसर्पतीत्यर्थः| परा फलनिर्वृत्तिरिति श्रेष्ठा आहारफलसम्पत्तिरित्यर्थः| परं धाम इति उत्कृष्टसारम्; उत्कृष्टत्वं च शुक्रस्यातिप्रसादरूपत्वात्| एतच्च शोषकारणेषु क्षयेषु केवलशुक्रक्षयोपसंहरणं प्राधान्यात्, नान्यशोषहेत्वभावादिति बोद्धव्यम्| रूक्षाद्यन्नपानसेवाजनितो रक्तादिक्षयोऽपि राजयक्ष्मकारणत्वेनोक्तः||८-९||

Adhikarana 7 (10-11) · Śloka 11

विषमाशनं शोषस्यायतनमिति यदुक्तं, तदनुव्याख्यास्यामः- यदा पुरुषः पानाशनभक्ष्यलेह्योपयोगान् प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयविषमानासेवते, तदा तस्य तेभ्यो वातपित्तश्लेष्माणो वैषम्यमापद्यन्ते; ते विषमाः शरीरमनुसृत्य यदा स्रोतसामयनमुखानि प्रतिवार्यावतिष्ठन्ते तदा जन्तुर्यद्यदाहारजातमाहरति तत्तदस्य मूत्रपुरीषमेवोपजायते भूयिष्ठं नान्यस्तथा शरीरधातुः; स पुरीषोपष्टम्भाद्वर्तयति, तस्माच्छुष्यतो विशेषेण पुरीषमनुरक्ष्यं तथाऽन्येषामतिकृशदुर्बलानां; तस्यानाप्यायमानस्य विषमाशनोपचिता दोषाः पृथक् पृथगुपद्रवैर्युञ्जन्तो भूयः शरीरमुपशोषयन्ति| तत्र वातः शूलमङ्गमर्दं कण्ठोद्ध्वंसनं पार्श्वसंरुजनमंसावमर्दं स्वरभेदं प्रतिश्यायं चोपजनयति; पित्तं ज्वरमतीसारमन्तर्दाहं च; श्लेष्मा तु प्रतिश्यायं शिरसो गुरुत्वमरोचकं कासं च, स कासप्रसङ्गादुरसि क्षते शोणितं निष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते| एवमेते विषमाशनोपचितास्त्रयो दोषा राजयक्ष्याणमभिनिर्वर्तयन्ति| स तैरुपशोषणैरुपद्रवैरुपद्रुतः शनैः शनैः शुष्यति| तस्मात् पुरुषो मतिमान् प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयादविषममाहारमाहरेत्||१०|| भवति चात्र- हिताशी स्यान्मिताशी स्यात्कालभोजी जितेन्द्रियः| पश्यन् रोगान् बहून् कष्टान् बुद्धिमान् विषमाशनात्||११||

🔊 Audio coming soon

प्रकृतिकरणादयो रसविमाने प्रपञ्चनीयाः| अत्र चोपशयशब्देन उपयोक्ता यो रसविमाने वक्तव्यः स एव गृह्यते| यतस्तत्रोक्तं- “उपयोक्ता पुनर्यस्तमाहारमाहरति, यदायत्तमोकसात्म्यम्” (वि.अ.१) इति| अनेन हि तत्रोपयोक्तृपरीक्षया सात्म्यमेव परीक्ष्यत इत्युक्तम्| अयनमुखानीति गतिद्वाराणि; अयनं गतिः| परिवार्येति अवरुध्य| तथा सर्वेषामत्यर्थकृशदुर्बलानां पुरीषमनुरक्ष्यमिति योजना| एनमेव चार्थं वक्ष्यति- “शोषी मुञ्चति गात्राणि पुरीषस्रंसनादति(पि)| सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्” (चि.अ.८) इति| कासप्रसङ्गादिति कासातिसम्बन्धादित्यर्थः||१०-११||

Adhikarana 8 (12) · Śloka 12

एतैश्चतुर्भिः शोषस्यायतनैरुपसेवितैर्वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते| ते प्रकुपिता नानाविधैरुपद्रवैः शरीरमुपशोषयन्ति| तं सर्वरोगाणां कष्टतमत्वाद्राजयक्ष्माणमाचक्षते भिषजः; यस्माद्वा पूर्वमासीद्भगवतः सोमस्योडुराजस्य तस्माद्राजयक्ष्मेति||१२||

🔊 Audio coming soon

कष्टतमत्वादित्यत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन कष्टतमत्वाच्च तथा चन्द्रमसः प्रागुत्पन्नत्वाच्चेति हेतुद्वयं ज्ञेयम्| यदा कष्टतमत्वात्तदा ‘राजेव यक्ष्मा राजयक्ष्मेति’ निरुक्तिर्बोद्धव्या| उडुराजस्येति वचनाद् राजसञ्ज्ञत्वं सोमस्य दर्शयति; ततश्च ‘राज्ञो यक्ष्मा राजयक्ष्मा’ इति निरुक्तिर्भवति||१२||

Adhikarana 9 (13) · Śloka 13

तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- प्रतिश्यायः, क्षवथुरभीक्ष्णं, श्लेष्मप्रसेकः, मुखमाधुर्यम्, अनन्नाभिलाषः, अन्नकाले चायासः, दोषदर्शनमदोषेष्वल्पदोषेषु वा भावेषु पात्रोदकान्नसूपापूपोपदंशपरिवेशकेषु, भुक्तवतश्चास्य हृल्लासः, तथोल्लेखनमप्याहारस्यान्तरान्तरा, मुखस्य पादयोश्च शोफः , पाण्योश्चावेक्षणमत्यर्थम्, अक्ष्णोः श्वेतावभासता चातिमात्रं, बाह्वोश्च प्रमाणजिज्ञासा, स्त्रीकामता, निर्घृणित्वं, बीभत्सदर्शनता चास्य काये, स्वप्ने चाभीक्ष्णं दर्शनमनुदकानामुदकस्थानानां शून्यानां च ग्रामनगरनिगमजनपदानां शुष्कदग्धभग्नानां च वनानां कृकलासमयूरवानरशुकसर्पकाकोलूकादिभिः संस्पर्शनमधिरोहणं यानं वा श्वोष्ट्रखरवराहैः केशास्थिभस्मतुषाङ्गारराशीनां चाधिरोहणमिति (शोषपूर्वरूपाणि भवन्ति)||१३||

🔊 Audio coming soon

पूर्वरूपेषु प्रतिश्यायादिः प्रायः कफयुक्तपूर्वरूपोत्पादो वायुनाऽपि प्रधानेन क्रियमाणे शोषे उरःस्थश्लेष्मसंसर्गाद्बोद्धव्यः; यतश्च प्रायेण कफोऽत्र स्थानमहिम्ना प्रकुपितो भवति, तेन शोषं कफप्रधानलिङ्गत्वेन श्लेष्मरोग इति च ब्रुवते| अदोषेष्विति पात्रादिविशेषणम्| पाण्योश्चावेक्षणादिपूर्वरूपं प्रभावात्| बीभत्सदर्शनता काय इति कायस्य विवर्णविगन्धत्वादिना| निगमो नगरविशेषो बहुवसतिः; जनपदं मण्डलम्| अधिरोहणं चेति कृकलासादीनामेव शरीराधिरोहणम्| स्वप्ने श्वोष्ट्रखरगमनं चेहादिङ्नियमेन बोद्धव्यं, तेन रिष्टं न भवति; यत्तु वक्ष्यति- “श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम्” इत्यादि, तद्दक्षिणदिङ्नियतत्वाद्रिष्टं ज्ञेयम्| यत्र पूर्वरूपं स्वप्नरूपमस्ति राजयक्ष्मोन्मादादौ तत्रोच्यते, ज्वरादौ त्वविद्यमानत्वान्नोच्यते| यत्तु रिष्टं रिष्टाधिकारे ज्वरादीनां स्वप्नरूपं पूर्वरूपं वक्ष्यति- “प्रेतैः सह पिबेन् मद्यं” (इं.अ.५) इत्यादिना, तद्रिष्टमेव||१३||

Adhikarana 10 (14) · Śloka 14

अत ऊर्ध्वमेकादशरूपाणि तस्य भवन्ति; तद्यथा- शिरसः परिपूर्णत्वं, कासः, श्वासः, स्वरभेदः, श्लेष्मणश्छर्दनं, शोणितष्ठीवनं, पार्श्वसंरोजनम्, अंसावमर्दः, ज्वरः, अतीसारः, अरोचकश्चेति||१४||

🔊 Audio coming soon

एकादशरूपाणीतिवचनेन एकादशरूपाण्येव सम्पूर्णराजयक्ष्मणि भवन्तीति दर्शयति| कासश्वासादयश्च ये एकादशरूपा उदाहरणार्थं व्याख्याता न ते प्रतिनियमार्थं, तेन चिकित्सिते वक्ष्यमाणमेकादशरूपचतुष्टयं भिन्नलक्षणं न विरोधि||१४||

Adhikarana 11 (15) · Śloka 15

तत्रापरिक्षीणबलमांसशोणितो बलवानजातारिष्टः सर्वैरपि शोषलिङ्गैरुपद्रुतः साध्यो ज्ञेयः| बलवानुपचितो हि सहत्वाद्व्याध्यौषधबलस्य कामं सुबहुलिङ्गोऽप्यल्पलिङ्ग एव मन्तव्यः||१५||

🔊 Audio coming soon

अपरिक्षीणबलाभिधानेऽपि बलवानिति पदं सहजबलयुक्तत्वोपदर्शनार्थं; सहजबलो ह्युपक्षीणबलोऽप्यक्षीणबलवद्भवतीति भावः| सहत्वाद्व्याध्यौषधबलस्येति यस्माद्बलवान् व्याधिबलं तथौषधबलं च सहते, तेन न ताभ्यामभिभूयत इत्यर्थः| अल्पलिङ्ग एवेति अल्पलिङ्ग इव सुखसाध्य इत्यर्थः||१५||

Adhikarana 12 (16-17) · Śloka 17

दुर्बलं त्वतिक्षीणबलमांसशोणितमल्पलिङ्गमजातारिष्टमपि बहुलिङ्गं जातारिष्टं च विद्यात्, असहत्वाद्व्याध्यौषधबलस्य; तं परिवर्जयेत्, क्षणेनैव हि प्रादुर्भवन्त्यरिष्टानि, अनिमित्तश्चारिष्टप्रादुर्भाव इति||१६|| तत्र श्लोकः- समुत्थानं च लिङ्गं च यः शोषस्यावबुध्यते| पूर्वरूपं च तत्त्वेन स राज्ञः कर्तुमर्हति||१७||

🔊 Audio coming soon

बहुलिङ्गं जातारिष्टं च विद्यादिति बहुलिङ्गमिवासाध्यं तथा जातारिष्टमिव मारकं विद्यादित्यर्थः| ननु, रिष्टं विना मरणं नास्ति, वचनं हि- “मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्” (इं.अ.२) इति, तत् कथमजातारिष्टो जातारिष्ट इवादूरमरणत्वेनेह ज्ञातव्य इत्याह- क्षणेन हीत्यादि| असाध्ये हि रिष्टं भवति, असाध्यता च बलमांसक्षयकृताऽस्त्येव; तेन, अवश्यं रिष्टेन भवितव्यमित्यर्थः| अथाजातारिष्टे कारणासेवयाऽरिष्टं न भविष्यत्येवेत्याह- अनिमित्ततश्चारिष्टप्रादुर्भाव इति| न हि रिष्टं दृष्टं किञ्चित्कारणान्तरमपेक्षते , किन्त्वनिमित्तत एव भवति| तेन हेत्वसेवयाऽप्यरिष्टोत्पादो भविष्यतीति कृत्वा आश्वासः कर्तव्यः; किञ्चनिमित्तमेवारिष्टं भवति तेन रिष्टानुत्पादे सति नाश्वासः कर्तव्य इत्यर्थः||१६-१७||

Adhikarana puShpikA · Śloka 6

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने शोषनिदानं नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थाने शोषनिदानं नाम षष्ठोऽध्यायः||६||