Adhikarana 1 (1-2) · Śloka 2
अथातः कुष्ठनिदानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
प्रमेहमनु प्रागुत्पत्तौ कुष्ठोत्पादात् कुष्ठनिदानमुच्यते| वचनं हि- “हविःप्राशान्मेहकुष्ठयोः” (नि.अ.८) इति||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः कुष्ठनिदानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
प्रमेहमनु प्रागुत्पत्तौ कुष्ठोत्पादात् कुष्ठनिदानमुच्यते| वचनं हि- “हविःप्राशान्मेहकुष्ठयोः” (नि.अ.८) इति||१-२||
Adhikarana 2 (3) · Śloka 3
सप्त द्रव्याणि कुष्ठानां प्रकृतिर्विकृतिमापन्नानि भवन्ति| तद्यथा- त्रयो दोषा वातपित्तश्लेष्माणः प्रकोपणविकृताः, दूष्याश्च शरीरधातवस्त्वङ्मांसशोणितलसीकाश्चतुर्धा दोषोपघातविकृता इति| एतत् सप्तानां सप्तधातुकमेवङ्गतमाजननं कुष्ठानाम्, अतःप्रभवाण्यभिनिर्वर्तमानानि केवलं शरीरमुपतपन्ति||३||
🔊 Audio coming soon
सप्त द्रव्याणीति त्रयो दोषाश्चत्वारि दूष्याणि| प्रकृतिरिति कारणमित्यर्थः| सप्तद्रव्याणां विशेषणं- विकृतिमापन्नानीति| किंवा ‘प्रकृतिविकृतिमापन्नानि’ इति पाठः, तदा प्रकृत्या कुष्ठकारणेन विकृतिमापन्नानीत्यर्थः| एतेन च यदा कुष्ठजनकहेतुव्यतिरेकेण वातादीनां विकृतिर्भवति न तदा कुष्ठोत्पादो भवति, किन्तु विसर्पोत्पाद इति दर्शयति; विसर्पे हि “रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः| सर्व एव प्रकुप्यन्ति विसर्पाणां समुद्भवे” (चि. अ.२१) इति वचनादेत एव सप्त विकृताः कारणमित्युक्तम्| यद्यपि कुष्ठविसर्पयोर्दोषदूष्यकृतं साम्यमस्ति, तथाऽपि विसर्पणशीलेन रक्तप्रधानेन च दोषेण विसर्पजन्म, अन्यथा तु कुष्ठजन्मेति व्याधिभेदोत्पत्तिः| अत एव “विविधं सर्पति यतो विसर्पस्तेन सञ्ज्ञितः” (चि. अ.२१) इत्युक्तम्| तथा, विशिष्टशोणितदुष्टिवशादेव विसर्पे प्रबला वेदना भवति, तथा रक्तचिकित्सायाः प्राधान्योपदेशाच्च रक्तप्राधान्यं विसर्पे ज्ञेयम्| वचनं हि- “एकतस्तानि सर्वाणि रक्तमोक्षणमेकतः” (चि. अ.२१) इति| अन्ये तु ब्रुवते- विसर्पे नावश्यं दोषदूष्यसप्तकदुष्टिः, किन्तु सप्तानां तत्र दुष्टिर्योग्यतया दर्श्यते, कुष्ठे तु सर्वत्र प्रतिनियमेन सप्तकदुष्टिरिति| यथा कुष्ठारम्भका दोषाः कुप्यन्ति यथा च दूष्याणि, तदाह- तद्यथेत्यादि| प्रकोपणविकृता इति कुष्ठनिदानप्रकोपणविकृताः; अन्यथा प्रकोपणवचनमनर्थकं स्यात्, विना प्रकोपणं व्याधिजनकविकृत्यभावात्| दोषोपघातविकृता इत्यनेन दोषोपघातादेव धातूनां विकृतिर्भवतीति दर्शयति, न दोषमन्तरा धातवो दूष्यन्तीत्यर्थः| किंवा, कुष्ठकारणानां धातूनां क्षयवृद्धिमात्ररूपविकृतिं निराकृत्य दोषाभिसम्बन्धरूपां दुष्टिं ग्राहयति| सप्तधातुकं सप्तधातुमेलकः| एवङ्गतमिति उक्तक्रमेण विकृतिं गतम्| आजननं कारणम्| अतःप्रभवाणीति एतत्कारणभूतानि| अभिनिर्वर्तमानानीति अभितः प्रसर्पमाणानि| केवलं कृत्स्नं दूष्यचतुष्टयातिरिक्तमपीत्यर्थः| एतेन, प्रथमोत्पत्तौ कुष्ठे चतुर्धातुदुष्टिनियमः , उत्पन्नस्य त्वस्थिसिरादिदूषणमपि भवतीति दर्शयति| तत्र सुश्रुते कुष्ठस्य प्रथमं त्वगाश्रयस्य पश्चादुत्तरोत्तरधातूनामनुगमनमुक्तम्- “एवं कुष्ठं समुत्पन्नं त्वचि कालप्रकर्षतः| क्रमेण धातून् व्याप्नोति” (सु. नि.अ.५) इत्यादिना ग्रन्थेन, तदिहाप्यविरुद्धमेव| येन, सर्वकुष्ठेषु प्रथमं त्वच्येव वैकृतं भवति विशेषेण, पश्चाद्वैशेषिकी दुष्टिः कालप्रकर्षाद्रक्तादिषु भवति| चतुर्धातुदुष्टिश्चेह कुष्ठोत्पादे सामान्यदुष्ट्यभिप्रायेणोक्ता, वैशेषिकी तु दुष्टिस्तेषां क्रमेणैव भवति| वैशेषिकदुष्टिश्चेह ‘केवलं शरीरमुपतपन्ति’ इति वचनाद्व्याख्येया| अत एव सुश्रुते वैशेषिकदुष्ट्यभिप्रायेणैव- “कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रये” (सु. नि.अ.५) इत्यादिना विशिष्टदुष्टिलक्षणमुक्तम्| इह तु या सामान्येन चतुर्धातुदुष्टिरुक्ता न सा तल्लक्षणयुक्ता, किन्तु कुष्ठोत्पादमात्रज्ञेया; तेन न विरोधः||३||
Adhikarana 3 (4) · Śloka 4
न च किञ्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम्, अस्ति तु खलु समानप्रकृतीनामपि कुष्ठानां दोषांशांशविकल्पानुबन्धस्थानविभागेन वेदनावर्णसंस्थानप्रभावनामचिकित्सितविशेषः| स सप्तविधोऽष्टादशविधोऽपरिसङ्ख्येयविधो वा भवति| दोषा हि विकल्पनैर्विकल्प्यमाना विकल्पयन्ति विकारान्, अन्यत्रासाध्यभावात्| तेषां विकल्पविकारसङ्ख्यानेऽतिप्रसङ्गमभिसमीक्ष्य सप्तविधमेव कुष्ठविशेषमुपदेक्ष्यामः||४||
🔊 Audio coming soon
सम्प्रति त्रिदोषजन्यत्वेऽपि सर्वकुष्ठानां यथा वातिकादिव्यपदेशो भवति तदाह- न च किञ्चिदित्यादि| समानप्रकृतीनामिति अवान्तरविकल्परहिततुल्यवातादिसप्तकारणानाम्, अवान्तरभेदाभावे हि कारणानां कार्यस्याप्येकरूपत्वमेव स्यात्| दोषांशांशविकल्पस्य तथा स्थानस्य च विभागेन वेदनाविशेषः कुष्ठे भवतीति वाक्यार्थः| दोषाणामंशमंशं प्रति विकल्पोंऽशांशविकल्पः; क्वचिद्वायुः स्वस्य रूक्षांशेन प्रकुपितो भवति, क्वचिच्छैत्यांशेनेत्यादि| तथा दोषदूष्यरूपस्थानविभागेन च वेदनाविशेषो भवति; वचनं हि- “तत्र रसादिस्थानेषु प्रकुपितानां दोषाणां यस्मिन् यस्मिन् स्थाने ये ये व्याधयो भवन्ति” (सू.अ.२८) इत्यादि| स्थानं च यद्यपि चतुर्विधदूष्यरूपमिह नियतं, तथाऽप्येष दोषस्यैव दूष्ये व्याप्त्यादिकृतः स्थानविभागो ज्ञेयः| तत्र वेदनाविशेषः- “कापालं तोदबहुलं” (चि.अ.७) इत्यादि, वर्णविशेषः- “यत् काकणन्तिकावर्णं” (चि.अ.७) इत्यादि, संस्थानविशेषः- “यदृष्यजिह्वासंस्थानं” (चि.अ.७) इत्यादि, प्रभावविशेषः- साध्यतासाध्यतादि, नामविशेषः- कापाल इत्यादि| यतश्च समानेऽपि हि कारणे दोषांशांशबलविकल्पस्थानविभागेन वेदनादिविशेषः कुष्ठभेदकोऽस्ति, अतः सप्तविध इत्यादि योजनीयम्| सप्तविध इति अत्रैव वक्ष्यमाणमहाकुष्ठभेदेन, अष्टादशविधस्तु चिकित्सावक्ष्यमाणभेदेन, अपरिसङ्ख्येयस्तु वेदनाद्यवान्तरभेदेन| कुतोऽपरिसङ्ख्याता एव विकल्पा भवन्तीत्याह- दोषा हीत्यादि| विकल्पनैरिति विविधभेदविकल्पनैरंशांशविकल्पादिभिः, विकल्प्यमाना भिद्यमानाः, विकल्पयन्ति भेदयन्ति; व्याधिकारणदोषभेदात् कार्यस्यापि व्याधेर्भेदो बहुविधो भवतीति भावः| सोऽयं दोषभेदकृतो भेदोऽसाध्ये व्याधौ नेह क्रियत इत्याह- अन्यत्रेत्यादि| असाध्यमिह प्रत्याख्येयमभिप्रेतं, याप्यभेदो ह्यसाध्यस्य क्रियत एव यापनार्थम्| एवं मन्यते- प्रत्याख्येये व्याधौ सन्नपि दोषभेदकृतो भेदोऽचिकित्स्यत्वेन चिकित्साविशेषाप्रवर्तकत्वान्नेह क्रियते, साध्ये तु चिकित्साभेदार्थं क्रियत इति युक्तम्| सम्प्रतीतरप्रकारत्यागं सहेतुकं दर्शयन् सप्तविधाभिधानं प्रतिजानीते- तेषामित्यादि| विकल्पैः सर्वैर्विकारकथनं विकल्पविकारसङ्ख्यानम्| अतिप्रसङ्गमिति अत्यभिधानदोषप्रसङ्गम्| ननु, यदि सप्तविधकुष्ठेऽपरैकादशचिकित्सावक्ष्यमाणकुष्ठान्तर्भावो भवति, तदा सप्तविधत्वं तथाऽष्टादशविधत्वं चेति विधाद्वयं भवति; यथा ज्वराणामेकविधत्वद्विविधत्वादि, अत्र हि सर्वास्वेव विधासु सर्वान्तर्भावोऽस्ति; न चेह सप्तमहाकुष्ठे क्षुद्रकुष्ठप्रवेशोऽस्ति, किञ्चैवं क्षुद्रकुष्ठाप्रवेशे कथमिहाचार्यो निदाने सप्तकुष्ठाभिधानेन कृती स्यात्? उच्यते- इह सप्तविधकुष्ठाभिधानेनैकदोषजद्विदोषजत्रिदोषजकुष्ठाभिधानं कृतं- ‘वातेऽधिकतरे कापालकुष्ठं’ इत्यादिना, न चैतत्प्रकारत्रयात् प्रकारान्तरं क्षुद्रकुष्ठानामप्यस्ति; तेन क्षुद्रकुष्ठेषु यत् कुष्ठं यद्दोषजं वक्तव्यं तस्येहोक्ततद्दोषलक्षणयुक्तत्वेनावरोधो व्याख्येयः, परं क्षुद्रकुष्ठे महाकुष्ठोक्तदोषलक्षणानामल्पत्वं भवतीति ज्ञेयम्| अत्र “चर्माख्यमेककुष्ठं तु किटिमं सविपादिकम्| कुष्ठं त्वलसकं ज्ञेयं प्रायो वातकफात्मकम्” (चि.अ.७) इत्यादि चिकित्सिते वक्ष्यमाणग्रन्थानुरोधात् क्षुद्रकुष्ठान्तर्भावो व्याख्येयः||४||
Adhikarana 4 (5) · Śloka 5
इह वातादिषु त्रिषु प्रकुपितेषु त्वगादींश्चतुरः प्रदूषयत्सु वातेऽधिकतरे कपालकुष्ठमभिनिर्वर्तते, पित्ते त्वौदुम्बरं, श्लेष्मणि मण्डलकुष्ठं, वातपित्तयोरृष्यजिह्वं, पित्तश्लेष्मणोः पुण्डरीकं, श्लेष्ममारुतयोः सिध्मकुष्ठं, सर्वदोषाभिवृद्धौ काकणकमभिनिर्वर्तते; एवमेष सप्तविधः कुष्ठविशेषो भवति| स चैष भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसीं विकारविकल्पसङ्ख्यामापद्यते||५||
🔊 Audio coming soon
कुष्ठानां कापालादिसञ्ज्ञाः कपालादिसादृश्यप्रयुक्तास्तथा शास्त्रव्यवहारसिद्धाश्च बोद्धव्याः; नहि सिध्मसञ्ज्ञायामन्वयोऽस्ति, तेन शास्त्रव्यवहारसिद्धैव सिध्मसञ्ज्ञा| प्रकृतौ विकल्प्यमानायामिति कुष्ठजनककारणे भिद्यमाने| विकल्पसङ्ख्या भेदरूपसङ्ख्या| इह च क्षुद्रकुष्ठानभिधानमुक्तन्यायेन महुकुष्ठान्तर्गतत्वादेवेति बोद्धव्यम्||५||
Adhikarana 5 (6) · Śloka 6
तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः- शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासं, मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च समश्नतः, चिलिचिमं च पयसा, हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसन्तापानत्युपसेवमानस्य, भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतः, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः, छर्दिं च प्रतिघ्नतः, स्नेहांश्चातिचरतः, त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते; त्वगादयश्चत्वारः शैथिल्यमापद्यन्ते; तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव त्वगादीन् दूषयन्तः कुष्ठान्यभिनिर्वर्तयन्ति||६||
🔊 Audio coming soon
शीतोष्णव्यत्यासं शीतोष्णपरिवर्तनम्| अनानुपूर्व्येति यथोक्तक्रमत्यागेन; क्रमत्यागश्चोष्णं निषेव्य सहसा शीतसेवा, तद्विपर्ययश्च; तथा अनुचिते काले शीतोष्णसेवा| एवं सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासमपि अनानुपूर्व्योपसेव्यमानस्येति ज्ञेयम्| चिलिचिमस्तन्त्रकृताऽऽत्रेयभद्रकाप्यीये दर्शितो रोहितभेदः| स्थानमधिगम्येति कुष्ठजननानुगुणं शिथिलत्वगादिस्थानं प्राप्य; किंवा स्थानमिति जनयितव्यकुष्ठशरीरदेशं प्राप्येत्यर्थः| सन्तिष्ठमाना इति वचनेन स्थिरा एव दोषाः कुष्ठजनका भवन्ति, न हि सरणशीलास्तु इति दर्शयति||६||
Adhikarana 6 (7) · Śloka 7
तेषामिमानि पूर्वरूपाणि भवन्ति; तद्यथा- अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णता वैवर्ण्यं कण्डूर्निस्तोदः सुप्तता परिदाहः परिहर्षो लोमहर्षः खरत्वमूष्मायणं गौरवं श्वयथुर्वीसर्पागमनमभीक्ष्णं च काये कायच्छिद्रेषूपदेहः पक्वदग्धदष्टभग्नक्षतोपस्खलितेष्वतिमात्रं वेदना स्वल्पानामपि च व्रणानां दुष्टिरसंरोहणं चेति||७||
🔊 Audio coming soon
अस्वेदनादिपूर्वरूपं प्रभावात्| परिहर्षो झिनझिनिका ||७||
Adhikarana 7 (8) · Śloka 8
ततोऽनन्तरं कुष्ठान्यभिनिर्वर्तन्ते, तेषामिदं वेदनावर्णसंस्थानप्रभावनामविशेषविज्ञानं भवति; तद्यथा- रूक्षारुणपरुषाणि विषमविसृतानि खरपर्यन्तानि तनून्युद्वृत्तबहिस्तनूनि सुप्तवत्सुप्तानि हृषितलोमाचितानि निस्तोदबहुलान्यल्पकण्डूदाहपूयलसीकान्याशुगतिसमुत्थानान्याशुभेदीनि जन्तुमन्ति कृष्णारुणकपालवर्णानि च कपालकुष्ठानीति विद्यात्(१); ताम्राणि ताम्रखररोमराजीभिरवनद्धानि बहलानि बहुबहलपूयरक्तलसीकानि कण्डूक्लेदकोथदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि ससन्तापक्रिमीणि पक्वोदुम्बरफलवर्णान्यौदुम्बरकुष्ठानीति विद्यात्(२); स्निग्धानि गुरूण्युत्सेधवन्ति श्लक्ष्णस्थिरपीतपर्यन्तानि शुक्लरक्तावभासानि शुक्लरोमराजीसन्तानानि बहुबहलशुक्लपिच्छिलस्रावीणि बहुक्लेदकण्डूक्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्डलानि मण्डलकुष्ठानि विद्यात्(३); परुषाण्यरुणवर्णानि बहिरन्तःश्यावानि नीलपीतताम्रावभासान्याशुगतिसमुत्थानान्यल्पकण्डूक्लेदक्रिमीणि दाहभेदनिस्तोद(पाक)बहुलानि शूकोपहतोपमवेदनान्युत्सन्नमध्यानि तनुपर्यन्तानि कर्कशपिडकाचितानि दीर्घपरिमण्डलान्यृष्यजिह्वाकृतीनि ऋष्यजिह्वानीति विद्यात् (४); शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तराजीसिरासन्ततान्युत्सेधवन्ति बहुबहलरक्तपूयलसीकानि कण्डूक्रिमिदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि पुण्डरीकपलाशसङ्काशानि पुण्डरीकाणीति विद्यात् (५); परुषारुणानि विशीर्णबहिस्तनून्यन्तःस्निग्धानि शुक्लरक्तावभासानि बहून्यल्पवेदनान्यल्पकण्डूदाहपूयलसीकानि लघुसमुत्थानान्यल्पभेदक्रिमीण्यलाबुपुष्पसङ्काशानि सिध्मकुष्ठानीति विद्यात् (६); काकणन्तिकावर्णान्यादौ पश्चात्तु सर्वकुष्ठलिङ्गसमन्वितानि पापीयसा सर्वकुष्ठलिङ्गसम्भवेनानेकवर्णानि काकणानीति विद्यात्| तान्यसाध्यानि, साध्यानि पुनरितराणि||८||
🔊 Audio coming soon
उद्वृत्तबहिस्तनूनीति उच्छलीकृतबाह्यदेहानि| सुप्तवत् सुप्तानि अत्यर्थास्पर्शज्ञानीत्यर्थः| कपालः स्थाल्यादिखण्डः| सक्तानि चिरभावीनि गत्यादीनि येषां ते तथा| ऋष्यजिह्वलक्षणे बहिरिति कुष्ठपर्यन्ते, अन्तरिति विकृतमध्यमुच्यते | ऋष्यो हरिणविशेषः| पुण्डरीकपलाशशब्देन पद्मपुष्पदलमिह| विशीर्णबहिस्तनूनीत्यत्र तनुशब्दः प्रदेशे वर्तते; तेन विशीर्णपर्यन्तदेशानीत्यर्थः| सिध्मकुष्ठं यथोक्तलक्षणं सिध्मपुष्पिकाव्यतिरिक्तमेव ब्रुवते; सिध्मपुष्पिकाभिप्रायेण च सुश्रुते सिध्मकुष्ठं क्षुद्रकुष्ठेषु पठितम्| दद्रु तु सुश्रुते महाकुष्ठे पठितमपीह क्षुद्रकुष्ठे पठितमुत्तरोत्तरधात्वनुप्रवेशाभावात् तथाऽत्यर्थपीडारहितत्वाच्च, सुश्रुते तु तदनुबन्धित्वप्रकर्षान्महाकुष्ठे पठितम्| सर्वकुष्ठलिङ्गसमन्वितानीत्येतेतावतैवार्थे लब्धे पुनः पापीयसा सर्वकुष्ठलिङ्गसम्भवेनेतिवचनाद्यदेव पापीयः कुष्ठलिङ्गं, तदेव काकणके भवति नान्यदिति दर्शयति| पापीयसेति अत्यर्थपीडाकृता| किंवा पापीयसेत्यादिपुनर्वचनेन सर्वकुष्ठलिङ्गानां काकणके पापारब्धत्वेनासाध्यतामत्यर्थपीडाकर्तृतां च दर्शयति||८||
Adhikarana 8 (9) · Śloka 9
तत्र यदसाध्यं तदसाध्यतां नातिवर्तते, साध्यं पुनः किञ्चित् साध्यतामतिवर्तते कदाचिदपचारात्| साध्यानि हि षट् काकणकवर्ज्यान्यचिकित्स्यमानान्यपचारतो वा दोषैरभिष्यन्दमानान्यसाध्यतामुपयान्ति||९||
🔊 Audio coming soon
कदाचिदित्यनेनाग्रे वक्ष्यमाणसचिकित्स्यमानतापक्षान्तरं दर्शयति| अपचारतो वेति उत्पन्नेऽपि कुष्ठे निदानसेवनात्| अभिष्यन्दमानानीति आपूर्यमाणानि||९||
Adhikarana 9 (10-11) · Śloka 11
साध्यानामपि ह्युपेक्ष्यमाणानां त्वङ्मांसशोणितलसीकाकोथक्लेदसंस्वेदजाः क्रिमयोऽभिमूर्च्छन्ति; ते भक्षयन्तस्त्वगादीन् दोषाः पुनर्दूषयन्त इमानुपद्रवान् पृथक् पृथगुत्पादयन्ति- तत्र वातः श्यावारुणवर्णं परुषतामपि च रौक्ष्यशूलशोषतोदवेपथुहर्षसङ्कोचायासस्तम्भसुप्तिभेदभङ्गान्, पित्तं दाहस्वेदक्लेदकोथस्रावपाकरागान्, श्लेष्मा त्वस्य श्वैत्यशैत्यकण्डूस्थैर्यगौरवोत्सेधोपस्नेहोपलेपान्, क्रिमयस्तु त्वगादींश्चतुरः सिराः स्नायूश्चास्थीन्यपि च तरुणान्याददते ||१०|| अस्यां चैवावस्थायामुपद्रवाः कुष्ठिनं स्पृशन्ति; तद्यथा- प्रस्रवणमङ्गभेदः पतनान्यङ्गावयवानां तृष्णाज्वरातीसारदाहदौर्बल्यारोचकाविपाकाश्च, तथाविधमसाध्यं विद्यादिति||११||
🔊 Audio coming soon
दोषाः पुनर्दूषयन्त इति त्वगादीनेव| तरुणानीति कोमलानि नासास्थ्यादीनि| आददते भक्षयन्ति||१०-११||
Adhikarana 10 (12-16) · Śloka 16
भवन्ति चात्र- साध्योऽयमिति यः पूर्वं नरो रोगमुपेक्षते| स किञ्चित्कालमासाद्य मृत एवावबुध्यते||१२|| यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा| भेषजं कुरुते सम्यक् स चिरं सुखमश्नुते||१३|| यथा ह्यल्पेन यत्नेन छिद्यते तरुणस्तरुः| स एवातिप्रवृद्धस्तु छिद्यतेऽतिप्रयत्नतः||१४|| एवमेव विकारोऽपि तरुणः साध्यते सुखम्| विवृद्धः साध्यते कृच्छ्रादसाध्यो वाऽपि जायते||१५|| तत्र श्लोकः- सङ्ख्या द्रव्याणि दोषाश्च हेतवः पूर्वलक्षणम्| रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक्||१६||
🔊 Audio coming soon
किञ्चित्कालमिति असाध्यव्याधिकालम्| मृत एवेति मरणोपकण्ठगतः| अवबुध्यत इत्यत्र ‘साध्यव्याध्युपेक्षाफलं मृत्युम्’ इति शेषः||१२-१६||
Adhikarana puShpikA · Śloka 5
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां निदानस्थाने कुष्ठनिदानं नाम पञ्चमोऽध्यायः||५||