Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. katidhāpuruṣīyaśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

निदानस्थाने ज्ञातहेत्वादिना तथा विमाने प्रतीतरसदोषादिमानेन कर्तव्यचिकित्साया अधिकरणं शरीरं ज्ञातव्यं भवति; यतोऽप्रतिपन्नेऽशेषविशेषतः शरीरे न शरीरविज्ञानाधीना चिकित्सा साध्वी भवति; अतः शरीरं कारणोत्पत्तिस्थितिवृद्ध्यादिविशेषैः प्रतिपादयितुं शारीरं स्थानमुच्यते| अत्रापि चात्यन्तदुःखोपरममोक्षकारणचिकित्सोपयुक्तपुरुषभेदादिप्रतिपादकतया प्रधानत्वेन कतिधापुरुषीयोऽध्यायोऽभिधीयते||१-२||

Adhikarana 2 (3-15) · Śloka 15

कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते| पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः||३|| किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः| प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च||४|| निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्| वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा||५|| निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्| स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते||६|| वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात्| सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः||७|| न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्| क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः||८|| ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते| क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः||९|| साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते| स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः||१०|| अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति| अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्||११|| भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः| साम्प्रतिक्या अपि स्थानं नास्त्यर्तेः संशयो ह्यतः||१२|| कारणं वेदनानां किं, किमधिष्ठानमुच्यते| क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः||१३|| सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः| एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते||१४|| इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः| सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः||१५||

🔊 Audio coming soon

कतिधेति कतिप्रकारः| पुरुष इत्यनेन चाविशेषेण पुरुषशब्दाभिधेयोऽर्थोभिधीयते; यतः ‘खादयश्चेतनाषष्ठा’ इत्यादिना, तथा चतुर्विंशतिकभेदभिन्नश्च कर्मपुरुष एव शरीरी वाच्यः, तथा ‘चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः’ इत्यनेनात्मैव शरीररहितः पुरुषशब्दार्थत्वेन वाच्यः| पुरुषधारणाद्धातुः; तेन धातुभेदेनेति पुरुषधारणार्थभेदेन| धीमन्निति विशेषणेन य एव धीमान् स एव पुरुषभेदादिकमिमं वक्ष्यमाणं सुसूक्ष्मं वक्तुं समर्थ इति दर्शयति| पुरुषः कारणं कस्मादिति कस्माद्धेतोः पुरुषः संसारे प्रधानं स्थायिकारणमित्यर्थः| प्रभवत्यस्मादिति प्रभवः कारणम्| योनिष्विति जातिषु| सर्वा इति परपुरुषगता अपि| क्षेत्रज्ञः आत्मा| क्षेत्रम् अव्यक्तवर्जितं सर्वं वक्ष्यमाणम्| ज्ञेयमित्यादि| असति क्षेत्रे क्षेत्रज्ञानाभावान्न क्षेत्रज्ञत्वमुपपद्यते इति भावः| साक्षिभूत इति साक्षिसदृशः| विशेषो वेदनाकृत इति पुत्रादिज्ञानरूपवेदनाजनितो हर्षादिविशेष इत्यर्थः| तिसृणामिति अतीतानागतवर्तमानानां दुःखरूपाणां मध्ये कां चिकित्सति| अतीतामित्यादौ किंशब्दोऽध्याहार्यः, तेन किमतीतां चिकित्सति, किं वर्तमानां, किंवा भविष्यतीमिति योज्यम्| स्थानं नास्तीति क्षणिकत्वेन चिकित्सायाः प्रवृत्तियोग्यकालावस्थानं नास्ति| वेदनानां कारणमधिष्ठानं च यद्यपि दीर्घञ्जीवितीयेऽप्युक्तं, तथाऽपीह प्रकरणवशाद्विशेषप्रतीत्याकाङ्क्षया च विशिष्टाः पुनः प्रश्नाः| प्रश्नार्थाश्चामी उत्तरग्रन्थे आचार्येण प्रपञ्चनीया इति नेह व्याकरणीयाः||३-१५||

Adhikarana 3 (16) · Śloka 16

खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः| चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः||१६||

🔊 Audio coming soon

खादय इत्यादि| खादयः “खं वायुरग्निरापः क्षितिस्तथा” इति वक्ष्यमाणाः; चेतनाषष्ठा इत्यत्र चेतनाशब्देन चेतनाधारः समनस्क आत्मा गृह्यते; खादिग्रहणेन चेन्द्रियाणि खादिमयान्यवरुद्धानि| अयं च वैशेषिकदर्शनपरिगृहीतश्चिकित्साशास्त्रविषयः पुरुषः; अयमेव “पञ्चमहाभूतशरीरिसमवायः पुरुषः” (सु. सू. १) इत्यनेन सुश्रुतेनाप्युक्तः| स्मृत इति भाषया पूर्वाचार्याणामप्ययं पुरुषशब्दवाच्योऽभिप्रेतो नास्मत्कल्पित इति दर्शयति| पुरि शरीरे शेते इति व्युत्पत्त्या य आत्मा पुरुषशब्देनोच्यते तमाह- चेतनेत्यादि| अत्र पुरुष इति कर्तव्ये यत् ‘पुरुषसञ्ज्ञक’ इति करोति तेन न चेतनाधातुरूपः पुरुषश्चिकित्सायमभिप्रेतः, किन्तु शास्त्रान्तरव्यवहारानुरोधादिहाप्ययं पुरुषशब्देन सञ्ज्ञित इति दर्शयति; चिकित्साविषयस्तु षड्धातुक एव पुरुषः, अत एव तत्र सञ्ज्ञितग्रहणं न कृतम्| अयं च पुरुषशब्दो गवादावपि षड्धातुसमुदाये यद्यपि वर्तते, तथाऽपि सर्वप्रधाने नर एव विशेषेण वर्तते; तेन नातिप्रसिद्धो गवादौ पुरुषशब्दः||१६||

Adhikarana 4 (17) · Śloka 17

पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः| मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी||१७||

🔊 Audio coming soon

षड्धातुरूपमेव पुरुषं पुनः साङ्ख्यदर्शनभेदाच्चतुर्विंशतिकभेदेनाह- पुनश्चेत्यादि| चतुर्विंशतिकमेव विभजते- मन इत्यादि| यद्यपि पञ्चविंशतितत्त्वमयोऽयं पुरुषः साङ्ख्यैरुच्यते, यदाह- “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त| षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” (सां.का.३) इति, तथाऽपीह प्रकृतिव्यतिरिक्तं चोदासीनं पुरुषमव्यक्तत्वसाधर्म्यादव्यक्तायां प्रकृतावेव प्रक्षिप्य अव्यक्तशब्देनैव गृह्णाति; तेन ‘चतुर्विंशतिकः पुरुषः’ इत्यविरुद्धम्| उदासीनस्य हि सूक्ष्मस्य भेदप्रतिपादनमिहानतिप्रयोजनमिति न कृतम्| दशेन्द्रियाणीति पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि च| अष्टधातुकीति खादिपञ्चकबुद्ध्यव्यक्ताहङ्काररूपा; वक्ष्यति हि- “खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः” इति||१७||

Adhikarana 5 (18-19) · Śloka 19

लक्षणं मनसो ज्ञानस्याभावो भाव एव च| सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते||१८|| वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते| अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ||१९||

🔊 Audio coming soon

अत्र चतुर्विंशतिके प्रथमोद्दिष्टं मनो लक्षयितुमाह- लक्षणमित्यादि| यथा ज्ञानस्याभावो ज्ञानस्य भावश्च मनोगमको भवति तदाह- सतीत्यादि| वैवृत्त्यान्मनस इति इन्द्रियेणासंयोगात्, सान्निध्यादिति इन्द्रियेण मनसः सम्बन्धात्| एवं मन्यते- यदा युगपदिन्द्रियार्था इन्द्रियैः संयुज्यन्ते तदा क्वचिदिन्द्रियार्थे ज्ञानं भवति क्वचिन्न भवतीति दृष्टं, तेनेमौ ज्ञानभावाभावौ ज्ञानकारणान्तरं दर्शयतः; यच्च तत् कारणान्तरं तन्मनः| तच्च कारणं मनोरूपं यद्यात्मवद्युगपत् सर्वेन्द्रियव्यापकं स्वीक्रियते किंवा अनेकसङ्ख्यमिन्द्रियवत् स्वीक्रियते, तदा पुनरपि युगपदिन्द्रियार्थसम्बन्धे पञ्चभिर्ज्ञानैर्भवितव्यं विभुना वा मनसा, अनेकैर्वा मनोभिर्युगपदधिष्ठितत्वादिन्द्रियाणां; न च भवन्ति युगपज्ज्ञानानि, तस्माद्युगपज्ज्ञानानुदयाल्लिङ्गान्मनोऽणुरूपमेकं च सिध्यतीत्याह- अणुत्वमित्यादि||१८-१९||

Adhikarana 6 (20-21) · Śloka 21

चिन्त्यं विचार्यमूह्यं च ध्येयं सङ्कल्प्यमेव च| यत्किञ्चिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसञ्ज्ञकम्||२०|| इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः| ऊहो विचारश्च, ततः परं बुद्धिः प्रवर्तते||२१||

🔊 Audio coming soon

मनोगुणमभिधाय मनोविषयमाह- चिन्त्यमित्यादि| चिन्त्यं कर्तव्यतया अकर्तव्यतया वा यन्मनसा चिन्त्यते| विचार्यम् उपपत्त्यनुपपत्तिभ्यां यद्विमृश्यते| ऊह्यं च यत् सम्भावनया ऊह्यते ‘एवमेतद्भविष्यति ’ इति| ध्येयं भावनाज्ञानविषयम्| सङ्कल्प्यं गुणवत्तया दोषवत्तया वाऽवधारणाविषयम्| यत् किञ्चिदित्यनेन सुखाद्यनुक्तविषयावरोधः| मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम्| एते च मनोऽर्थाः शब्दादिरूपा एव; तेन षष्ठार्थकल्पनया न चतुर्विंशतिसङ्ख्यातिरेकः| सुखादयस्तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः| मनोविषयमभिधाय मनः कर्माह- इन्द्रियेत्यादि| इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म, तथा स्वस्य निग्रहो मनसः कर्म; मनो ह्यनिष्टविषयप्रसृतं मनसैव नियम्यते, “मनश्च गुणान्तरयुक्तं सद्विषयान्तरान्नियमयति” इत्याहुरेके| यदुक्तम्- “विषयप्रवणं चित्तं धृतिभ्रंशान्न शक्यते| नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका” इति| तेन, धृत्या कारणभूतया (मन ) आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः| मनः कर्मान्तरमाह- ऊहो विचारश्चेति|- अत्रोह आलोचन(ना)ज्ञानं निर्विकल्प(क)म्, विचारो हेयोपादेयतया विकल्पनम्| चतुर्विधं हि विकल्पकारणं साङ्ख्या मन्यन्ते; तत्र बाह्यमिन्द्रियरूपम्, आभ्यन्तरं तु मनोऽहङ्कारो बुद्धिश्चेति त्रितयम्| तत्रेन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः, मनस्तु सङ्कल्पयति हेयोपादेयतया कल्पयतीत्यर्थः, अहङ्कारोऽभिमन्यते ‘ममेदमहमत्राधिकृतः’ इति मन्यत इत्यर्थः, बुद्धिरध्यवस्यति ‘त्यजाम्येनं दोषवन्तमुपाददाम्येनं गुणवन्तम्’ इत्यध्यवसायं करोतीत्यर्थः| ऊहस्तु यद्यपि बाह्यचक्षुरादिकर्म, तथाऽपि तत्रापि मनोऽधिष्ठानमस्तीति मनः- कर्मतयोक्तः| वचनं हि “सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्| तस्मात्त्रिविधं करणं द्वारि, द्वाराणि शेषाणि” (सां. का. ३५) इति | ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिरध्यवसायं करोतीत्यर्थः| अहङ्कारव्यापारश्चाभिमननमिहानुक्तोऽपि बुद्धिव्यापारेणैव सूचितो ज्ञेयः| बुद्धिर्हित्यजाम्येनमुपाददामीति वाऽध्यवसायं कुर्वती अहङ्काराभिमत एव विषये भवति; तेन बुद्धिव्यापारेणैवाहङ्कारव्यापारोऽपि गृह्यते| बुद्धौ हि सर्वकरणव्यापारार्पणं भवति| यदुक्तम्- “एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः| कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ” (सां.का.३६)||२०-२१||

Adhikarana 7 (22-23) · Śloka 23

इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते| कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा||२२|| जायते विषये तत्र या बुद्धिर्निश्चयात्मिका| व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्||२३||

🔊 Audio coming soon

एतदेवोहविचारपूर्वकत्वं बुद्धेर्विवृणोति- इन्द्रियेणेत्यादि| गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते| गुणत इति उपादेयतया| दोषत इति हेयतया| बुद्ध्यध्यवसायं विवृणोति- जायत इत्यादि| विषये तत्रेति मनसा कल्पिते विषये| निश्चयात्मिकेति स्थिरस्वरूपा अध्यवसायरूपेत्यर्थः| व्यवस्यतीति अनुष्ठानं करोति, उद्युक्तो भवतीत्यर्थः; बुद्ध्यध्यवसितमर्थं वक्तुं कर्तुं वाऽनुतिष्ठतीति यावत्| बुद्धिपूर्वकमित्यनेन यदेव बुद्धिपूर्वकमनुष्ठानं तदेवैवंविधं भवति नोन्मत्ताद्यनुष्ठानमिति दर्शयति||२२-२३||

Adhikarana 8 (24) · Śloka 24

एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु| पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते||२४||

🔊 Audio coming soon

मनोऽभिधायेन्द्रियाण्यभिधत्ते, तत्रापि ज्यायस्त्वाद् बुद्धीन्द्रियाणि, प्रागाह- एकैकेत्यादि| खादीनां मध्ये एकैकेनाधिकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि; एकैकाधिकपदेन पञ्चापि पाञ्चभौतिकानि, परं चक्षुषि तेजोऽधिकमित्याद्युक्तं सूचयति| कर्मानुमेयानीति कार्यानुमेयानि; कार्यं चक्षुर्बुद्ध्यादि| येभ्यो बुद्धिः प्रवर्तत इति यानि बुद्धीन्द्रियाणि, तानीमानि पञ्चेति दर्शयति| यद्यपि च साङ्ख्ये आहङ्कारिकाणीन्द्रियाणि, यदुक्तं- “सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्” (सां.का.२५) इति, तथाऽपि मतभेदाद्भौतिकत्वमिन्द्रियाणां ज्ञेयं; किंवा, औपचारिकमेतद्भौतिकत्वमिन्द्रियाणां ज्ञेयम्; उपचारबीजं च यद्गुणभूयिष्ठं यदिन्द्रियं गृह्णाति, तत्तद्भूयिष्ठमित्युच्यते; चक्षुस्तेजो गृह्णाति, तेन तैजसमुच्यत इत्यादि ज्ञेयम्||२४||

Adhikarana 9 (25-26) · Śloka 26

हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च| कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि||२५|| पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे| जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता||२६||

🔊 Audio coming soon

अथ कर्मेन्द्रियाण्याह- हस्तावित्यादि| हस्तावेकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया| गुदोपस्थं चैकैकम्| वाच उपादानहानार्थं भेदमाह- वाक् चेत्यादि| ज्योतिरिव ज्योतिः, धर्मकर्तृत्वेनोभयलोकप्रकाशकारित्वात् ; एतद्विपर्ययेण तमः अनृता||२५-२६||

Adhikarana 10 (27) · Śloka 27

महाभूतानि खं वायुरग्निरापः क्षितिस्तथा| शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः||२७||

🔊 Audio coming soon

सम्प्रत्युद्देशक्रमानुरोधादर्थेऽभिधातव्येऽर्थानां प्रकृतिग्रहणगृहीतपञ्चभूतगुणतया पराधीनत्वादष्टधातुप्रकृतिगृहीतानि भूतान्येव तावदाह- महाभूतानीत्यादि| शब्दादयो यथासङ्ख्यं खादीनां नैसर्गिका गुणा ज्ञेयाः| यस्तु गुणोत्कर्षोऽभिधातव्यः स हि अनुप्रविष्टभूतसम्बन्धादेव | तेन पृथिव्यां चतुर्भूतप्रवेशात् पञ्चगुणत्वम्, एवं जलादावपि चतुर्गुणत्वादि ज्ञेयम्||२७||

Adhikarana 11 (28) · Śloka 28

तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे| पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः||२८||

🔊 Audio coming soon

नैसर्गिकं गुणमभिधाय भूतान्तरप्रवेशकृतं गुणमाह- तेषामित्यादि| एकगुणः पूर्व इति पूर्वो धातुः खरूपः शब्दैकगुणः| पुंलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वात् ; उक्तं हि- “खादयश्चेतनाषष्ठा धातवः” इति| यथा यथा च परत्वं तथा तथा च गुणवृद्धिर्यथासङ्ख्यम्| ननु, एतावताऽप्येकगुणत्वद्विगुणत्वादि न नियमेन ज्ञायते को गुणः क्व भूते इत्याह- पूर्व इत्यादि|- गुणिषु खादिषु धातुषु पूर्वो गुणः क्रमेण यथासङ्ख्यं वर्तते; न केवलं पूर्वः किन्तु पूर्वस्यापि यो गुणः, स च पूर्वगुण उत्तरे भूते वर्तते| तेन खे पूर्वे पूर्वः शब्द(ब्दो)गुणो वर्तते; वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति, पूर्वगुणश्च शब्द इति द्विगुणत्वम्; एवमग्न्यादौ च ज्ञेयम्| गन्धस्तूत्तरगुणान्तराभावान्न पूर्वो भवति, तथाऽपि ‘गन्धश्च तद्गुणाः’ इति ग्रन्थे तद्गुणा इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयं; किंवा, पूर्व इति छत्रिणो गच्छन्तीतिन्यायेनोक्तं, तेनापूर्वोऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः||२८||

Adhikarana 12 (29-30) · Śloka 30

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्| आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्||२९|| लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम्| स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः||३०||

🔊 Audio coming soon

भूतानामसाधारणं लक्षणमाह- खरेत्यादि| अप्रतीघातः अप्रतिहननमस्पर्शत्वमिति यावत्; स्पर्शवद्धि गतिविघातकं भवति नाकाशः, अस्पर्शवत्त्वात्| सर्वमेवैतदिति खरत्वादि| स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम्| कथमेतत् सर्वं स्पर्शनेन्द्रियज्ञेयमित्याह- स्पर्शनेत्यादि| सविपर्यय इति स्पर्शाभाव इत्यर्थः| यदिन्द्रियं यद्गृह्णाति, तत्तस्याभावमपि गृह्णाति; तेन, आकाशस्यास्पर्शत्वमपि स्पर्शनेन्द्रियग्राह्यमिति युक्तम्| द्रवत्वं चलत्वं च साङ्ख्यमते स्पर्शनग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्श एव; यद्धि स्पर्शनेन गृह्यते, तत् सर्वं महाभूतवातपरिणाम एव| एतानि च खादीनि सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि, स्थूलभूतानि तु खादीनि विकारतया तत्रोक्तानि| प्रकृतिवर्गे सूक्ष्मरूपास्तन्मात्रा उक्ताः| वचनं हि- “तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः| एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च” (सां.का.३८) इति; तेनेहापि खादीनि तन्मात्रशब्दोक्तानि सूक्ष्माणि बोद्धव्यानि||२९-३०||

Adhikarana 13 (31) · Śloka 31

गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च|३१|

🔊 Audio coming soon

भूतानां सूक्ष्माणां शरीरस्थानां लिङ्गान्तराण्याह- गुणा इत्यादि| गुणाः शब्दादयः| गुणिनामिति सूक्ष्मरूपभूतानाम्| एवचग्रहणात् शब्दादयश्च व्यक्ताः सूक्ष्माणां शरीरस्थानां भूतानां लक्षणं भवन्तीति वाक्यार्थः|३१|

Adhikarana 14 (31) · Śloka 31

अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः||३१||

🔊 Audio coming soon

अर्थानाह- अर्था इत्यादि| अर्थशब्देन तु ये शब्दादयोऽभिधीयन्ते ते स्थूलखादिरूपा एव ज्ञेयाः; येनाकाशपरिणाम एव शब्दः, वातपरिणामः स्पर्श इत्यादि दर्शनम्| शब्दादिग्रहणेनात्राकाशादिग्रहणं यत्, तदाकाशादिपरिणामा एव शब्दादय इति युक्तमेव| एतेन यच्छ्रोत्रग्राह्यं तत् सर्वमाकाशं शब्दश्च, यत् स्पर्शेन गृह्यते तत् सर्वं वायुः स्पर्शश्चेत्यादि ज्ञेयम्||३१||

Adhikarana 15 (32-34) · Śloka 34

या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते| याति सा तेन निर्देशं मनसा च मनोभवा||३२|| भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः| आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा||३३|| अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः| दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा||३४||

🔊 Audio coming soon

सम्प्रति प्रकृतिगणप्रविष्टाया बुद्धेरुपदर्शनार्थं तस्या बुद्धेर्वृत्तिभेदात् ज्ञानविशेषरूपाण्याह- येत्यादि| यदिन्द्रियमाश्रित्येति यदिन्द्रियप्रणालिकामाश्रित्य महच्छब्दाख्यस्य बुद्धितत्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानीन्द्रियप्रणालिकया भवन्ति, तदिन्द्रियजन्यत्वेनैव तानि व्यपदिश्यन्ते- चक्षुर्बुद्धिः, श्रोत्रबुद्धिरित्यादिव्यपदेशेन | मनोभवा च बुद्धिश्चिन्त्यादिविषया मनसा निर्दिश्यते; मनोबुद्धिरिति व्यपदिश्यत इत्यर्थः| इन्द्रियमनोभेदेन षट्त्वं बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्राह- भेदादित्यादि| कार्यस्य इन्द्रियार्थस्य च भेदात् तत्सम्बन्धेन भिद्यमाना बह्व्यो बुद्धयो भवन्ति; कार्यं सुखदुःखभेदाः; सुखदुःखप्रपञ्चेन हि तक्तार्येण कारणं ज्ञानमपि बहु भवति| इदानीं सर्वबाह्यज्ञानसाधनमाह- आत्मेत्यादि| आत्मा अव्यक्तम्| एकैकेति प्रत्येकम्| बुद्धेरनेकात्मादिमेलकजन्यत्वे दृष्टान्तमाह - अङ्गुलीत्यादि| अनेन दृष्टान्तेन शब्दद्वयमाह; अङ्गुल्यङ्गुष्ठतलजशब्द एकः, अयं चाङ्गुष्ठयन्त्रितमध्यमाङ्गुल्याः करतलसंयोगाज्जायमानतलशब्द उच्यते; तन्त्रीवीणानखोद्भवश्च वीणाशब्द एकः; अन्ये त्वेकमेवाङ्गुल्यादिजं वीणाशब्दं वर्णयन्ति| एतेन, यथा शब्दोऽङ्गुलाद्यन्यतमवैकल्येऽपि न भवति, तथा बुद्धिरप्यात्मादीनामन्यतमवैकल्येऽपि न भवतीति दर्शयति||३२-३४||

Adhikarana 16 (35) · Śloka 35

बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम्| चतुर्विंशतिको ह्येष राशिः पुरुषसञ्ज्ञकः||३५||

🔊 Audio coming soon

अत्र च बुद्धिवृत्तीनां ज्ञानानां कथनेनैवाहङ्कारोऽपि सूचित एव; यतोऽहङ्कारोपजीवितैवात्मादिसंवलितेयं बुद्धिः ‘अहं पश्यामि’ इत्यादिरूपा भवति; तेन बुद्धेरहङ्कारस्य चोक्तत्वादवशिष्टमव्यकं कार्यद्वारा ब्रूते- बुद्धीत्यादि| परमिति अव्यक्तम्| बुद्ध्यादीनां योगं मेलकं धरतीति योगधरम्; अव्यक्तं हि प्रकृतिरूपं पुरुषार्थप्रवृत्तं बुद्ध्यादिमेलकं भोगसम्पादकं सृजति| एवं व्युत्पादितं चतुर्विंशतिकमुपसंहरति- चतुर्विंशतिक इत्यादि| यदि वा कर्मेन्द्रियाण्यभिधाय महाभूतानीत्यादिना अर्था एवाश्रयभूतखादिकथनेनोच्यन्ते, या यदिन्द्रियमाश्रित्येत्यादिना तु स्फुटोपलभ्यमाना बुद्धिवृत्तिभेदा उच्यन्ते, बुद्ध्यहङ्कारतन्मात्राण्यव्यक्तानि तु सूक्ष्माणि नोक्तानि, तानि सर्वाण्येव बुद्धीन्द्रियमनोर्थानामित्यादिग्रन्थे परशब्देनोच्यन्ते, तेन योगधरं परमित्यनेन मूलप्रकृतिस्तथा प्रकृतिविकृतयश्च महदादयः सप्तोच्यन्ते; एवं चतुर्विंशतिको राशिर्भवति| परत्वं च विकारापेक्षया प्रकृतीनामुपपन्नमेव||३५||

Adhikarana 17 (36) · Śloka 36

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्| ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते||३६||

🔊 Audio coming soon

सम्प्रत्येवंरूपपुरुषस्य सकारणं संसरणं मोक्षहेतुं चाह- रज इत्यादि| संयोगोऽयमिति चतुर्विंशतिराशिरूपो मेलकः| ताभ्यामिति रजस्तमोभ्याम्| सत्त्ववृद्ध्या कारणभूतया रजस्तमोनिवृत्त्या पुरुषरूपः संयोगो निवर्तते मोक्षो भवतीत्यर्थः| सत्त्वं वृद्धं विशुद्धज्ञानजननाद् रजस्तमसी संसारकारणे विजित्य प्रकृतिपुरुषविवेकज्ञानान्मोक्षमावहति||३६||

Adhikarana 18 (37-38) · Śloka 38

अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्| अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता||३७|| एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ| पारम्पर्यं चिकित्सां च ज्ञातव्यं यच्च किञ्चन||३८||

🔊 Audio coming soon

पुनश्चतुर्विंशतिके पुरुषे कर्मफलादि दर्शयन् दोषहीने पुरुषे कर्मफलाद्यभावमर्थोद्दर्शयति- अत्रेत्यादि| फलमत्रेति यथोक्तसमुदायपुरुषे| कर्मेति अदृष्टम्| फलमिति अदृष्टफलम्| स्वता ममता| ज्ञानं च यद्यपि चतुर्विंशतितत्त्वातिरिक्तस्योदासीनस्यैव, तथाऽपि तच्चेतनया प्रकृतिरपि चेतनामापद्य चेतनैव भवतीति युक्तम् ‘अत्र ज्ञानम्’ इति| वचनं हि- “तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ” (सां. का. २०) इति| प्रलयोदयाविति जीवितमरणे| पारम्पर्यमिति शरीरपरम्पराम्| चिकित्सां चेति नैष्ठिकी आत्यन्तिकदुःखचिकित्सा मोक्षसाधना ज्ञातव्या| यच्च किञ्चनेत्यनेनानुक्तमपि कृत्स्नं ज्ञेयमवरुणद्धि||३७-३८||

Adhikarana 19 (39-42) · Śloka 42

भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्| न स्युः कर्ता च बोद्धा च पुरुषो न भवेद्यदि||३९|| नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्| न विज्ञानं न शास्त्राणि न जन्म मरणं न च||४०|| न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि| कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः||४१|| न चेत् कारणमात्मा स्याद्भादयः स्युरहेतुकाः| न चैषु सम्भवेज् ज्ञानं न च तैः स्यात् प्रयोजनम्||४२||

🔊 Audio coming soon

पुरुषः कारणं कस्मादिति प्रश्नस्योत्तरं- भास्तम इत्यादि| भाः प्रतिभा| तमः मोहः| पुरुष इह प्रकरणे आत्माऽभिप्रेतः| आश्रयः शरीरम्| गतिश्च प्रयोजनानुसन्धानाद्भवति , एवमागतिरपि| कारणं पुरुषस्तस्मादिति भास्तमःसत्यादौ कारणं पुरुष इत्यर्थः| एतदेव भाआदिकारणत्वमात्मन आह- न चेदित्यादि| एवं मन्यते- भास्तमसी धर्माधर्मजन्ये, धर्माधर्मौ चासत्यात्मनि निराश्रयौ न भवितुमर्हतः; तथा सत्यं धर्मजनकतया उपादेयम्, अनृतं चाधर्मजनकतयाऽनुपादेयम्, एतच्चात्मनि स्थिरेऽसति धर्माधर्मजनकत्वं नास्ति, ततश्च सत्यासत्यभेदोऽप्यकिञ्चित्करत्वान्नास्ति; एवं शुभाशुभकर्मण्यपि वाच्यं; तथा कर्ता च कारणप्रतिसन्धाता न भवति, प्रतिसन्धातुरात्मनोऽभावादित्यर्थः; तथा बोद्धा च पूर्वापरावस्थाप्रतिसन्धातैव भवति; शरीरं चात्मनो भोगायतनं नात्मानं विना भवति; एवं सुखादावप्यात्मनः कारणत्वमुन्नेयम्; विज्ञानं शास्त्रार्थज्ञानं, शास्त्राणि प्रतिसन्धात्राऽऽत्मनैव कृतानि| न चैषु सम्भवेज्ज्ञानमिति आत्मानं ज्ञातारं विना न भादिषु ज्ञानं सम्भवेत्, ज्ञातुरात्मनोऽभावादित्यर्थः| न च तैः स्यात् प्रयोजनमिति भादीनामात्मार्थत्वेनासत्यात्मनि भाद्युत्पत्तेः प्रयोजनं न स्यात्, प्रयोजनाभावाच्चोत्पादो न स्यात्; सर्वेषामेव हि भावानामात्मस्थौ धर्माधर्मौ पुरुषभोगार्थमुत्पादकौ, असति भोक्तरि भोज्येनापि न भवितव्यं कारणाभावात्||३९-४२||

Adhikarana 20 (43-44) · Śloka 44

कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्| कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्||४३|| यो वदेत् स वदेद्देहं सम्भूय करणैः कृतम्| विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः||४४||

🔊 Audio coming soon

आत्मानं विना शरीरानुत्पादे दृष्टान्तद्वयं प्रमेयगौरवादाह- कृतं मृद्दण्डेत्यादि| सम्भूय करणैः कृतमित्यात्मनिरपेक्षैर्भूतैः कृतमित्यर्थः| युक्त्या अनुमानरूपया आगमेन च रहितो युक्त्यागमबहिष्कृतः; प्रत्यक्षं चात्र नोक्तं, तस्यात्मानं प्रति प्रायोऽयोग्यत्वात्||४३-४४||

Adhikarana 21 (45) · Śloka 45

कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते| येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते||४५||

🔊 Audio coming soon

सर्वैः प्रमाणैरिति प्रत्यक्षादिभिः| येभ्य इति करण एवापादानविवक्षया पञ्चमी| आगमयन्ति बोधयन्तीति आगमाः प्रमाणान्येव; अन्ये त्वागमप्रमाणाभ्यां शास्त्राण्येव ब्रुवते||४५||

Adhikarana 22 (46-47) · Śloka 47

न ते तत्सदृशास्त्वन्ये पारम्पर्यसमुत्थिताः| सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः||४६|| भावास्तेषां समुदयो निरीशः सत्त्वसञ्ज्ञकः| कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः||४७||

🔊 Audio coming soon

निरात्मवादिमतमुत्थापयति- न ते इत्यादि| अस्मिञ् शरीरे ते क एव पृथिवीजलादयो भावाः, ये त एवेति व्यपदिश्यन्ते; ते न भवन्ति पूर्वानुभूता नानुभवन्तीत्यर्थः| यदि ते न भवन्ति, कथं तर्हि ‘ते’ इत्यभिज्ञानमित्याह- तत्सदृशास्त्वन्ये पूर्वसदृशा इत्यर्थः| पारम्पर्यसमुत्थिता इति सदृशसन्तानव्यवस्थिताः| सारूप्यादिति सदृशरूपत्वात्| तेषां समुदय इति क्षणभङ्गिनां मेलक इत्यर्थः| निरीश इति स्थाय्यात्मरहितः| सत्त्वसञ्ज्ञक इति प्राणिसञ्ज्ञकः| केचिदिति बौद्धाः| बौद्धा हि निरात्मकं क्षणिकज्ञानादिसमुदायमात्रं शरीरमिच्छन्ति; प्रतिसन्धानं च क्षणिकानामपि ज्ञानादीनां कार्यकारणभावादेकफलसन्तताविच्छन्ति||४६-४७||

Adhikarana 23 (48) · Śloka 48

तेषामन्यैः कृतस्यान्ये भावा भावैर्नवाः फलम्| भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते||४८||

🔊 Audio coming soon

एतद्दूषयति- तेषामित्यादि| तेषां ज्ञानसन्तानवादिनाम्, अन्येन कृतस्यौदनपाकादेः फलमन्नादि अन्ये भुञ्जत इति प्राप्नोति| एतच्चासङ्गतं, यतः फलं भोक्ष्यामीति कृत्वा भाविफलप्रत्याशया प्रवृत्तिर्युक्ता, न त्वन्यस्य भोग्यतां फलस्य पश्यन् कश्चित् प्रवर्तते; योऽपि सूपकारादिः परार्थं प्रवर्तते, सोऽपि परार्थेन स्वार्थं साधयितुकाम एवेति भावः||४८||

Adhikarana 24 (49) · Śloka 49

करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु| कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम्||४९||

🔊 Audio coming soon

परमतं दूषयित्वा स्वमतमाह- करणेत्यादि| करणस्य शरीरस्य परिणामिनोऽन्यान्यता दृष्टा| कर्ता चात्मा, स एव न विनाशीत्यर्थः| अत्रैव दृष्टान्तमाह- कर्ता हीत्यादि| यथाऽनेकशिल्पवित् कर्ता करणैर्वांशीसन्दंशयन्त्रादिभिः काष्ठपाटनलौहघटनादि करोति, तथाऽऽत्माऽपीत्यर्थः||४९||

Adhikarana 25 (50-51) · Śloka 51

निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये| भग्नानां न पुनर्भावः कृतं नान्यमुपैति च||५०|| मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम्| क्रियोपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः||५१||

🔊 Audio coming soon

अथायमात्मसद्भावः स्थिरोऽस्तु, शरीरारम्भकाणां भूतानां का वा गतिरित्याह- निमेषेत्यादि| भावानामिति शरीरादिभावानाम्| अत्यय इति विनाशे; शरीरस्य स्वाग्निपच्यमानस्य निमेषकालादपि शीघ्रं विनाशो भवतीत्यर्थः| अमीषां च भावानां भग्नानां न पुनर्भावः पुनरागमनं नास्तीत्यर्थः| तेन, येन शरीरेण यत् कृतं तच्छरीरं तत्फलं न प्राप्नोतीत्युक्तं भवति| अथ मा भवत्वेवं ततः किमित्याह- कृतमित्यादि|- कृतं कर्म यागादि न फलरूपतयाऽन्यमुपैति, एवं सति देवदत्तकृतेन शुभकर्मणा यज्ञदत्तादयोऽपि सुखभाजः स्युः; तस्मात् क्षणभङ्गिशरीरादतिरिक्तः कर्मकर्ता तत्फलभोक्ता चास्तीति भावः| क्रियोपभोग इति क्रियायां तत्फलभोगे च| भूतानामिति प्राणिनाम्||५०-५१||

Adhikarana 26 (52) · Śloka 52

अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः| विद्यते सति भूतानां कारणे देहमन्तरा||५२||

🔊 Audio coming soon

आत्मसद्भावे हेत्वन्तरमाह- अहङ्कार इत्यादि| एतेऽहङ्कारदयः स्थिर एव परमात्मनि भवन्ति, पूर्वापरकालावस्थायिवस्तुधर्मत्वादिति भावः| देहमन्तरेति देहं विना; देहातिरिक्ते कारणे सत्यहङ्कारो भवतीत्यर्थः||५२||

Adhikarana 27 (53) · Śloka 53

प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः| पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः||५३||

🔊 Audio coming soon

‘प्रभवः पुरुषस्य कः’ इत्यस्योत्तरं- प्रभव इत्यादि| प्रभवः कारणम्| राशिसञ्ज्ञ इति षड्धातुसमुदायरूपश्चतुर्विंशतिराशिरूपो वा| मोहेच्छाद्वेषजनितकर्मजो मोहेच्छाद्वेषकर्मजः| मोहाद्धि भावेषु इच्छा द्वेषश्च भवति, ततः प्रवृत्तिः, प्रवृत्तेर्धर्माधर्मौ, तौ च शरीरं जनयतो भोगार्थम्||५३||

Adhikarana 28 (54-55) · Śloka 55

आत्मा ज्ञः करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते| करणानामवैमल्यादयोगाद्वा न वर्तते||५४|| पश्यतोऽपि यथाऽऽदर्शे सङ्क्लिष्टे नास्ति दर्शनम्| तत्त्वं जले वा कलुषे चेतस्युपहते तथा||५५||

🔊 Audio coming soon

‘किमज्ञो ज्ञः’ इत्यस्योत्तरम्- आत्मेत्यादि| करणानीह मनोबुद्धीन्द्रियाणि| न वर्तते ज्ञानमिति योजना| ननु यद्ययमात्मा ज्ञः , तत् किमित्यस्य सर्वदा ज्ञानं न भवतीत्याह- पश्यतोऽपीत्यादि| पश्यतोऽपीति चक्षुष्मतोऽपीत्यर्थः| तत्त्वमिति दर्शनविशेषणम्| तेन, म्लाने दर्पणे जले वा दर्शनं भवदप्ययथार्थग्राहितया न तत्त्वरूपं भवतीत्यर्थः| चेतसीत्युपलक्षणं, तेन चक्षुरादावप्युपहत इति ज्ञेयम्||५४-५५||

Adhikarana 29 (56-57) · Śloka 57

करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च| कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च||५६|| नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्| संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन||५७||

🔊 Audio coming soon

करणप्रस्तावाज् ज्ञाने कर्मणि वेदनायां च यावत् करणमात्मनस्तदाह- करणानीत्यादि| संयोगजमिति कर्मणा वेदनया बुद्ध्या च योज्यम्| नाश्नुते फलमेक इति योज्यम्| एक इति निष्करणः| संयोगाद्वर्तत इति करणसमुदायादुत्पद्यते | तमृत इति संयोगं विना||५६-५७||

Adhikarana 30 (58) · Śloka 58

न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः| शीघ्रगत्वात्स्वभावात्त्वभावो न व्यतिवर्तते||५८||

🔊 Audio coming soon

अत्रैव सामग्रीजन्यत्वे सर्वकार्याणामुपपत्तिमाह- न ह्येक इत्यादि| एको भावः कारणरूपः सहकारिकारणान्तररहितो न कार्यकरणे वर्तत इत्यर्थः; एवं तावदेकं कारणं कार्ये न वर्तते, कार्यं च हेतुं विना न भवतीत्याह- वर्तते नाप्यहेतुक इति; हेतुं विना भाव उत्पत्तिधर्मा न वर्तते न भवतीत्यर्थः| तेन करणयुक्तात्मजन्यं कार्यं न केवलादात्मनो हेतुरूपाद्भवतीत्युक्तं भवति| अथ हेतुं विना चेद्भावो न भवति, तत् किमभावेऽपि शारीराणां भावानां हेत्वपेक्षा न वेत्याह- शीघ्रगत्वादित्यादि| शीघ्रगत्वात् स्वभावाल्लक्षितोऽभावो न स्वभावं व्यतिवर्तते शीघ्रगत्वस्वभावं न त्यजतीत्यर्थः| तेन, अहेतुक एवाभावो भवति, भावस्तु सहेतुकः| उक्तं हि “उत्पत्तिहेतुर्भावनां न निरोधेऽस्ति कारणम्” (सू.अ.१६) इति| किंवा, शीघ्रगत्वादस्थिरत्वादभावो नावस्थान्तरमात्मनाशं प्रति गच्छतीति ग्रन्थार्थः||५८||

Adhikarana 31 (59) · Śloka 59

अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः| सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा||५९||

🔊 Audio coming soon

‘स नित्यः किमनित्यः’ इत्यस्योत्तरम्- अनादिरित्यादि| अनादिश्च पुरुषोऽव्यक्तरूप आत्मशब्दाभिधेयः| विपरीत इति आदिमान् राशिरूपः पुरुष इत्यर्थः| अत्रैवानादेर्नित्यत्वे शास्त्रान्तरसम्मतिमप्याह- सदित्यादि| सदिति त्रिविधसमये प्रमाणगम्यभावरूपम् | एतेन, प्रागभावस्याकारणवतोऽप्यभावरूपतयाऽनित्यत्वं न व्यभिचारकम्| हेतुजमन्यथेति अत्रापि भावरूपमिति योजनीयम्| तेन, हेतुजन्यस्यापि प्रध्वंसस्याविनाशित्वं परिहृतं भवति||५९||

Adhikarana 32 (60-62) · Śloka 62

तदेव भावादग्राह्यं नित्यत्व न कुतश्चन| भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा||६०|| अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः| तस्माद्यदन्यत्तद्व्यक्तं, वक्ष्यते चापरं द्वयम्||६१|| व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः| अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्||६२||

🔊 Audio coming soon

किं तन्नित्यत्वमित्याह- तदेवेत्यादि| भावादुत्पत्तिधर्मकात्| तन्नित्यत्वं न कुतोऽपि भावाद्भवति, नित्यं हि न कुतोऽपि भवति| ततश्चात्मा भावं प्रति निरपेक्षत्वात् सर्वेभ्यो भावेभ्योऽप्यग्रे नित्यं सदेव| तच्चैवम्भूतं नित्यमव्यक्तं ज्ञेयम्| अचिन्त्यमित्यव्यक्तविशेषणम्| अव्यक्तं च मूलप्रकृतिः| व्यक्तमन्यथेति प्रकृतेरन्यतमकार्यं महदादिकमनित्यम्; आकाशमपि विकाररूपतयाऽनित्यमेव; उदासीनपुरुषस्तु नित्य एवाव्यक्तशब्देनैव लक्षित इत्युक्तमेव| अव्यक्तधर्मान्तरव्यापकान् पर्यायानाह- अव्यक्तमित्यादि| पुनः प्रकारान्तरेण व्यक्ताव्यक्तार्थमाह - वक्ष्यत इत्यादि| अपरं द्वयमिति प्रकारान्तरकृतं व्यक्ताव्यक्तद्वयम्| लिङ्गग्राह्यमिति अनुमानग्रह्यम्| अतीन्द्रियमित्यनेन चेन्द्रियग्रहणायोग्यं यत् केनापि शब्दादिलिङ्गेन गृह्यते न तदव्यक्तं, किन्तु यन्नित्यानुमेयं मनोऽहङ्कारादि तदेवाव्यक्तम्||६०-६२||

Adhikarana 33 (63-64) · Śloka 64

खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः| भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश||६३|| बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च| समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः||६४||

🔊 Audio coming soon

‘प्रकृतिः का विकाराः के’ इत्यस्योत्तरं- खादीनीत्यादि| खादीनि सूक्ष्मभूतखादीनि तन्मात्रशब्दाभिधेयानि| बुद्धिः महच्छब्दाभिधेया| अव्यक्तं मूलप्रकृतिः| अहङ्कारः बुद्धिविकारः; स च त्रिविधः- भूतादिः, तैजसः, वैकारिकश्च| भूतानां स्थावरजङ्गमानां प्रकृतिर्भूतप्रकृतिः| अत्र चाव्यक्तं प्रकृतिरेव परं, बुद्ध्यादयस्तु स्वकारणविकृतिरूपा अपि स्वकार्यापेक्षया प्रकृतिरूपा इह प्रकृतित्वेनोक्ताः| यदुक्तं- “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त” (सां.का.३) इति| विकारा नाह- विकारा इत्यादि| एवशब्दो भिन्नक्रमेऽवधारणे, तेन विकारा एव षोडश परं न प्रकृतयः| बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि| पञ्चार्था इति स्थूला आकाशादयः शब्दादिरूपाः; गुणगुणिनोर्हि परमार्थतो भेदो नास्त्येवास्मिन् दर्शने||६३-६४||

Adhikarana 34 (65) · Śloka 65

इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्| अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः||६५||

🔊 Audio coming soon

एनमेव प्रकृतिविकारसमूहं क्षेत्रक्षेत्रज्ञभेदेन विभजते- इतीत्यादि| अव्यक्तवर्जितमिति प्रकृत्युदासीनवर्जितं, प्रकृतेश्चोदासीनपुरुषचैतन्येन चैतन्यमस्त्येव||६५||

Adhikarana 35 (66) · Śloka 67

जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते| परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्||६६|| ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते|६७|

🔊 Audio coming soon

सम्प्रति महाप्रलयान्तरं यथाऽऽदिसर्गे बुद्ध्याद्युत्पादो भवति तदाह- जायत इत्यादि| बुद्ध्याऽहमिति मन्यत इति बुद्धेर्जातेनाहङ्कारेणाहमिति मन्यत इत्यर्थः| खादीनीति खादीनि सूक्ष्माणि तन्मात्ररूपाणि, तथैकादशेन्द्रियाणि| वचनं हि “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः” (सां.का.२२) इति| यथाक्रममिति यस्मादहङ्कारादुत्पद्यते तेन क्रमेण; तत्र वैकृतात् सात्त्विकादहङ्कारात्तैजससहायादेकादशेन्द्रियाणि भवन्ति, भूतादेस्त्वहङ्कारात्तामसात्तैजससहायात् पञ्चतन्मात्राणि| यदुक्तं- “सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्| भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्” (सां.का.२५) इति| तत इति आहङ्कारिककार्यानन्तरं तन्मात्रेभ्य उत्पन्नस्थूलभूतसम्बन्धात्| सम्पूर्णसर्वाङ्गो जात इति आदिसर्गो(र्गे) जातः||६६||

Adhikarana 36 (67-69) · Śloka 69

पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते||६७|| अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः| रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते||६८|| येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये| उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा||६९||

🔊 Audio coming soon

एवमादिसर्गे प्रकृतेर्महदादिसर्गं दर्शयित्वा महाप्रलये प्रकृतावव्यक्तरूपायां बुद्ध्यादीनां लयमाह- पुरुष इत्यादि| इष्टैर्भावैरिति पुरुषोपभोगार्थमिष्टैर्बुद्ध्यादिभिः| अन्ये तु एवम्भूतसङ्गं जन्मनि , बुद्ध्यादिवियोगं च मरणे ब्रुवते| तन्न, जन्ममरणयोर्बुद्ध्यादीनां विद्यमानत्वात्| उक्तं हि- “अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न विमुक्तपूर्वः| नैवेन्द्रियैर्नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः” (शा. अ. २) इति| तथाऽन्यत्राप्युक्तं- “पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्| संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” (सां. का. ४०) इति| तस्मान्महाप्रलय एव प्रकृतौ लयः, तथाऽऽदिसर्ग एव प्रकृतेर्महदादिसृष्टिरिति| एतदेव प्रपञ्चं लयं च प्रकृतेराह- अव्यक्तादित्यादि| अव्यक्तादिति प्रकृतेः, व्यक्ततामिति महदादिमहाभूतपर्यन्तप्रपञ्चरूपतां याति| व्यक्तादिति महाभूतप्रपञ्चाद्यवस्थातः पुनरव्यक्तरूपतां याति गच्छति; महाप्रलये हि महाभूतानि तन्मात्रेषु लयं यान्ति, तन्मात्राणि तथेन्द्रियाणि चाहङ्कारे लयं यान्ति, अहङ्कारो बुद्धौ, बुद्धिश्च प्रकृताविति लयक्रमः| अयं च लयक्रमो मोक्षेऽपि भवति| परं तु तत्र तं पुरुषं प्रति पुनः सर्गं नारभते प्रकृतिः| अयं संसारः कुतो भवतीत्याह- रज इत्यादि| आविष्टो युक्तः| चक्रवत् परिवर्तत इति पुनः पुनर्लयसर्गाभ्यां युज्यते| द्वन्द्व इति रजस्तमोरूपे मिथुने| अहङ्कारपरा इति अहङ्कारान्ममेदमित्यादिमिथ्याज्ञानपराः| उदयप्रलयौ जन्ममरणे, किंवा लयसर्गौ| अतोऽन्यथेति ये रागद्वेषविमुक्ता निरहङ्काराश्च तेषां नोदयप्रलयौ भवतः||६७-६९||

Adhikarana 37 (70-74) · Śloka 74

प्राणापानौ निमेषाद्या जीवनं मनसो गतिः| इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत्||७०|| देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा| दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा||७१|| इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः| बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः||७२|| यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः| न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः||७३|| शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्| पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते||७४||

🔊 Audio coming soon

‘किं लिङ्गं पुरुषस्य च’ इत्यस्योत्तरं- प्राणापानावित्यादि| प्राणापानौ उच्छ्वासनिःश्वासौ| निमेषाद्या इति आद्यशब्दग्रहणेन उन्मेषाद्याः प्रेक्षणविशेषा गृह्यन्ते| मनसो गतिरिति मनसा पाटलिपुत्रगमनादिरूपा| इन्द्रियान्तरसञ्चारोऽपि मनस एव, यथा चक्षुः परित्यज्य मनः स्पर्शनमधितिष्ठतीत्यादि| प्रेरणं च तथा धारणं च मनस एवेति ज्ञेयम्| देशान्तरगतिः स्वप्ने इति छेदः| पञ्चत्वग्रहणं मरणज्ञानम्| सव्येनावगम इति सव्येनाक्ष्णा स एवायं दक्षिणाक्षिदृष्टो घट इत्यवगम इत्यर्थः| चेतना ज्ञानमात्रम्| बुद्धिस्तु ऊहापोहज्ञानम्| अथ कथमेतान्यात्मानं गमयन्तीत्याह- यस्मादित्यादि| जीवत इति पञ्चभूतातिरिक्तात्मसंयुक्तस्य | पञ्चत्वं तु यद्यपि जीवतो न भवति किन्तु मृतस्यैव, तथाऽपि पञ्चत्वं मृतशरीरे दृश्यमानं विपर्ययात् पञ्चत्वाभावाज्जीवच्छरीरलिङ्गं भवतीति ज्ञेयम्| अत्रैवोदाहृताश्च प्राणापानादयो न भूतमात्रे भवन्ति, निरात्मकेष्विष्टकामृतशरीरादिष्वदर्शनात्| न च मन एव भूतातिरिक्तमात्मा भवितुमर्हति, यतस्तस्यापि करणरूपस्य प्रेरणाद्यात्मना कर्त्रा कर्तव्यम्| नापीन्द्रियाण्यात्मत्वेन स्वीकर्तुं पार्यन्ते, यतस्तथा सति इन्द्रियान्तरोपलब्धमर्थं नेन्द्रियाणि यज्ञदत्तोपलब्धमर्थं देवदत्त इव प्रतिसन्धातुं समर्थानि भवेयुः; अस्ति चेन्द्रियान्तरोपलब्धार्थप्रतिसन्धानं, यथा- सुरभिचन्दनं स्पृशामीत्यत्र| तस्मान्मन-इन्द्रिय-भूतातिरिक्त आत्मा तिष्ठतीति ज्ञेयम्| अत्र यद्यपि बुद्धिशब्देन चेतनाधृतिस्मृत्यहङ्काराः प्राप्यन्त एव बुद्धिप्रकारत्वेन, तथाऽपि पृथक्पृथगर्थगमकत्वेन पुनः पृथगुपात्ताः| तथाहि- चेतना गुणत्वेन अचेतनखादिभूतातिरिक्तधर्मेणात्मानं गमयति, धृतिस्तु नियमात्मिका नियन्तारमात्मानं गमयति, बुद्धिस्तु ऊहापोहयोरेकं कारणं गमयत्यात्मानं, स्मृतिस्तु पूर्वानुभूतार्थस्मर्तारं स्थायिनमात्मानं गमयतीत्याद्यनुसरणीयम्| आत्माधिष्ठानाभावे शरीरे प्राणाद्यभावमाह- शरीरमित्यादि| शून्यागारमिव शून्यागारं यथा अधिष्ठातृशून्यम्, एवं मृतशरीरमपि| षड्धातुकं शरीरं, तत्र षष्ठे आत्मनि गते पञ्चभूतात्मकं शरीरं भवति, तेन पञ्चत्वं गतमुच्यते|||७०-७४||

Adhikarana 38 (75-76) · Śloka 76

अचेतनं क्रियावच्च मनश्चेतयिता परः| युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः||७५|| चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते| अचेतनत्वाच्च मनः क्रियावदपि नोच्यते||७६||

🔊 Audio coming soon

‘निष्क्रियस्य क्रिया तस्य कथम्’ इत्यस्योत्तरम्- अचेतनमित्यादि| चेतयिता पर इति पर आत्मा चेतयिता परं न तु साक्षात् क्रियावान्| ननु, यद्येवं कथं तस्य क्रियेत्याह- युक्तस्येत्यादि| आत्माधिष्ठितस्यैव मनसः क्रिया उपचारादात्मनः क्रियेत्युच्यत इत्यर्थः| एतदेवोपपादयति- चेतनावानित्यादि| चेतनेन ह्यात्मनाऽधिष्ठितं मनः क्रियासु प्रवर्तते, चेतनानधिष्ठितं तु मनः क्रियासु न प्रवर्तते; तेन यत्कृता सा क्रिया स एव क्रियावानिति व्यपदेष्टुं युज्यते, नत्वचेतनं मनः; तत् पराधीनक्रियत्वेन परमार्थतः क्रियावदपि कर्तृत्वेन नोच्यत इति वाक्यार्थः; नोच्यते इति ‘कर्तृ’ इति शेषः||७५-७६||

Adhikarana 39 (77) · Śloka 77

यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु| प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रकः||७७||

🔊 Audio coming soon

सम्प्रति स्वतन्त्रत्वेऽप्यनिष्टयोनिगमनमाक्षिप्तं समादधाति- यथास्वेनेत्यादि| सर्वासु नरगोहस्तिकीटादियोनिषु| प्राणैस्तन्त्रयते प्राणैर्योजयति, आत्मनैवायं धर्माधर्मसहायेनात्मानं सर्वयोनिषु नयति, न परप्रेरितो याति; यतो नान्यः पुरुषोऽस्य प्रेरकोऽस्ति ईश्वराभावात्; किंवा सत्यपि ईश्वरे तस्यापि कर्मपराधीनत्वात्| इदमेव चास्यानिष्टयोनिगमने स्वातन्त्र्यं यद् अनिष्टयोनिगमनहेत्वधर्मकरणे स्वातन्त्र्यम्, अधर्मकरणारब्धस्वकर्मणैवायमनिच्छन्नपि नीयत इत्यनिष्टयोनिगमनं भवति; स्वातन्त्र्यं च यथोक्तं भवति||७७||

Adhikarana 40 (78) · Śloka 78

वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते| वशी चेतः समाधत्ते वशी सर्वं निरस्यति||७८||

🔊 Audio coming soon

‘वशी यद्यसुखैः कस्माद्भावैराक्रम्यते’ इत्यस्योत्तरं- वशीत्यादि| वशी स्वेच्छाधीनप्रवृत्तिः (इष्टेऽनिष्टे वाऽऽत्मा ,); तेन, वशी सन्नयं तानि कर्माणि करोति शुभान्यशुभानि वा आपातफलरागात्, यानि कृत्वा तत्कर्मप्रभावाच्छुभेनाशुभेन वा फलेन योगमाप्नोति| एतेन कर्तव्ये कर्मण्यस्य वशित्वं, कृतकर्मफलं त्वस्यानिच्छतोऽपि भवति; तेन तत्प्रति नास्य वशित्वम्| अन्यदपि वशित्वफलमाह- वशी चेतः समाधत्त इति| अनिष्टेऽर्थे वशी सन्नयं मनो निवर्तयति; यदि ह्ययं वशी न स्यात्, न मनो निवर्तयितुं शक्नुयात्| अपरमपि वशित्वगमकं कर्माह- वशी सर्वं निरस्यतीति| वशी सन्नयं मोक्षार्थं प्रवृत्तः सर्वारम्भं शुभाशुभफलं त्यजतीत्यर्थः| इह स्वतन्त्रः परात्मना ईश्वरादिना प्रेरितप्रवृत्तिरुच्यते; वशी तु स्वयमपि प्रवर्तमान इच्छावशात् प्रवर्तते, न प्रेरितप्रवृत्तिरूपत्वेनेप्सितेऽनीप्सिते च वर्तते इति स्वातन्त्र्यवशित्वयोर्भेदः||७८||

Adhikarana 41 (79) · Śloka 79

देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये| सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः||७९||

🔊 Audio coming soon

‘सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः’ इत्यस्योत्तरमाह- देहीत्यादि| सर्वगत इति सर्वगतोऽपि सन्, संस्पर्शनेन्द्रिय इति संस्पर्शनयुक्ते शरीरे, वेदनाः सुखदुःखरूपा वेत्ति, सर्वाश्रयस्थास्तु न वेत्तीति योजना| यस्मात् सर्वगतोऽप्यात्मा स्वकीय एव स्पर्शनवति शरीरे परं वेदना वेत्ति, तेन सर्वाश्रयस्थाः सर्ववेदना न वेत्तीति वाक्यार्थः| सर्वाश्रयस्था इति सर्वपरशरीरगताः | परशरीरे चात्मा खकर्मोपार्जितेन्द्रियाभावाद्विद्यमानोऽपि नोपलभते सुखदुःखे| स्वे स्वे शरीर इति वक्तव्ये यत् ‘संस्पर्शनेन्द्रिये’ इति करोति, तेन स्वशरीरेऽपि यत्र केशनखादौ स्पर्शनेन्द्रियं नास्ति तत्र नात्मा किञ्चिदुपलभत इति दर्शयति||७९||

Adhikarana 42 (80-81) · Śloka 81

विभुत्वमत एवास्य यस्मात् सर्वगतो महान्| मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम्||८०|| नित्यानुबन्धं मनसा देहकर्मानुपातिना| सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्||८१||

🔊 Audio coming soon

‘न पश्यति विभुः कस्मात्’ इत्यादिप्रश्नस्योत्तरं वक्तुं प्रवृत्तो विभुत्वसाधकार्थगुणहेतुप्राप्त्या विभुत्वमेव तावदात्मनः साधयति- विभुत्वमित्यादि| विभुत्वं सर्वगतपरिमाणयोगित्वम्| अत एवेति उक्तसर्वगतत्वात्| एतदेव स्पष्टार्थं साक्षाद्ब्रूते- यस्मादित्यादि| सर्वगतत्वं सर्वतोऽप्युपलभ्यमानत्वेन सर्वगताकाशादिपरिमाणस्यप्यस्ति, तेन तद्व्यवच्छेदार्थं ‘महान्’ इति पदं; तेन सर्वत्रोपलभ्यमानं महापरिमाणयोगिद्रव्यं विभुरुच्यत इति फलति| विभुत्वं व्युत्पाद्य कुड्यादितिरोहितज्ञानं नैकान्तेन भवतीति दर्शयन्नाह- मनस इत्यादि| समाधानं समाधिः| अनेन, योगिनः समाधिबलात्तिरोहितमपि पश्यन्तीति दर्शयति| ये तु तिरोहितं न पश्यन्ति तत्राप्युपपत्तिमाह- नित्येत्यादि| सर्वयोनिगतमप्यात्मानं मनसाऽनुबन्धगतमेकयोनाववस्थितं विद्यादिति योज्यम्| देहनिर्वर्तकेन कर्मणा अनुपात आत्मनि सम्बन्धो यस्य, तेन मनसा देहकर्मानुपातिना| एतेन, यद्यप्यात्मा कुड्यादिभिरतिरोहितस्तथाऽपि यदस्योपलब्धिसाधनं मनस्तस्यैकस्मिन्नेव शरीरे व्यवस्थितस्य व्यवधानान्न पश्यत्ययं तिरस्कृतमित्युक्तं भवति||८०-८१||

Adhikarana 43 (82) · Śloka 82

आदिर्नास्त्यात्मनः क्षेत्रपारम्पर्यमनादिकम्| अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते||८२||

🔊 Audio coming soon

‘क्षेत्रज्ञः क्षेत्रमथवा’ इत्यादिप्रश्नस्योत्तरम्- आदिरित्यादि| क्षेत्रपारम्पर्यमिति क्षेत्रस्याव्यक्तवर्जितस्य महदादित्रयोविंशतिकस्य परम्परासन्ततेरनादित्वेनैव क्षेत्रक्षेत्रज्ञयोरिदं प्रथममिति व्यपदेशो नैव भवतीत्यर्थः| ननु यदि क्षेत्रपरम्पराऽप्यनादिस्तदा तस्यात्मवदुच्छेदो न प्राप्नोति, यदनादि तन्नित्यं भवति, यथा- आत्मेति दृष्टं? ब्रूमः- अनादित्वेऽपि यत् स्वरूपेनैवानादि तन्नोच्छिद्यते, यथा- आत्मा; यत्तु उच्छित्तिधर्मकं बुद्ध्यादि, तदुच्छिद्यत एव; सन्तानस्तु परमार्थतः सन्तानिभ्योऽतिरिक्तो नास्त्येव, यदनादिः स्यात्; तेन, सन्तानस्यानादित्वं भाक्तमेव| किञ्चैवम्भूतस्य बुद्ध्यादिसन्तानस्योच्छेदे मोक्षप्रतिपादक आगम एव प्रमाणत्वेन ज्ञेयः||८२||

Adhikarana 44 (83) · Śloka 83

ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः| सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः||८३||

🔊 Audio coming soon

‘साक्षिभूतश्च कस्यायम्’ इत्यस्योत्तरं- ज्ञ इत्यादि| ज्ञो ज्ञानवान् साक्षीति लोके कथ्यते, नत्वज्ञः पाषाणादिः| तेन, ज्ञत्वेनासत्यप्यन्यस्मिन् कर्तरि साक्षीत्युच्यते इति वाक्यार्थः| सर्वेषामिति खादिभूतानाम्| सर्वे भावा इति सर्वे भूतधर्मा दर्शनयोग्याः| आत्मसाक्षिका इति आत्मोपलभ्यमानाः||८३||

Adhikarana 45 (84-85) · Śloka 85

नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते| विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते||८४|| संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः| वेदना यत्र नियता विशेषस्तत्र तत्कृतः||८५||

🔊 Audio coming soon

‘स्यात् कथं चाविकारस्य’ इत्यादिप्रश्नस्योत्तरं- नैक इत्यादि| अविकारस्य परमात्मनो वेदनाकृतो विशेषो नास्त्येव , यत्र तु वेदनाकृतो विशेषः स राशिरूपः परमात्मव्यतिरिक्त एवेति वाक्यार्थः| भूतानामधिष्ठाता आत्मा भूतात्मा, अयं भूतात्मा एको भूतव्यतिरिक्तो न लक्षणैः प्राणापानादिभिरुक्तैरुपलभ्यते| कुतो नोपलभ्यत इत्याह- विशेष इत्यादि| एकस्य भूतरहितस्य; यदात्मनो विशेषो वेदनादिर्नोपलभ्यत एव, तेनानुपलब्धिरेवात्र प्रमाणमित्यर्थः| संयोगपुरुषः चतुर्विंशतिकः| नन्वेवमपि चतुर्विंशत्यन्तर्निविष्टस्य भूतात्मनोऽपि वेदनाकृतविशेषेण भवितव्यं, यतः समुदायधर्मः समुदायिनामेव भवति, यथा- माषराशेर्गुरुत्वं प्रत्येकं माषाणामेव गौरवेण भवतीत्याह- वेदनेत्यादि| वेदना सुखदुःखरूपा| यत्र बुद्ध्यादिसमूहे नियता व्यवस्थिता वेदना, तत्रैव तत्कृतो दैन्यहर्षादिविशेषोऽपि नियतः; तत्रैव बुद्ध्यादिराशौ वर्तते नात्मनीति भावः| बुद्ध्यादिगतेन गुणत्रयपरिणामरूपेण सुखदुःखादिना असुखदुःख एवात्मा तत्सम्बन्धात् सुखदुःखादिमान् भवति||८४-८५||

Adhikarana 46 (86-94) · Śloka 94

चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति| यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्||८६|| पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः| पुनः स कासो बलवांश्छर्दिः सा पुनरागता||८७|| एभिः प्रसिद्धवचनैरतीतागमनं मतम्| कालश्चायमतीतानामर्तीनां पुनरागतः||८८|| तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते| अतीतानां प्रशमनं वेदनानां तदुच्यते||८९|| आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम्| यथा प्रक्रियते सेतुः प्रतिकर्म तथाऽऽश्रये||९०|| पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्| या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्||९१|| पारम्पर्यानबन्धस्तु दुःखानां विनिवर्तते| सुखहेतूपचारेण सुखं चापि प्रवर्तते||९२|| न समा यान्ति वैषम्यं विषमाः समतां न च| हेतुभिः सदृशा नित्यं जायन्ते देहधातवः||९३|| युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्| हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्||९४||

🔊 Audio coming soon

‘अथवाऽऽर्तस्य’ इत्यादिप्रश्नस्योत्तरमाह- चिकित्सतीत्यादि| अतीतवेदनाचिकित्सा न मुख्या, किन्तु लोकप्रसिद्धोपचारेणोच्यत इति वाक्यार्थः| प्रसिद्धवचनैरिति लोकप्रसिद्धवचनैः| प्रतिकर्म चिकित्सा| आश्रय इति शरीरे| पूर्वरूपमित्यादिना अनागतवेदनाचिकित्सां समर्थयति| पूर्वरूपं यद्यपि भविष्यतामेव भवति रोगाणां, तथाऽपि भविष्यतामिति पदेन भूतेऽपि व्याधौ यानि रूपाणि भवन्ति तानि निराकरोति| उक्तं हि- “प्राक्सन्तापात्, अपि चैनं सन्तापार्तमनुबध्नन्ति” (नि. अ. १) इत्यनेन रोगावस्थायामपि पूर्वरूपसद्भावः| एवमतीतानागतवेदनाचिकित्सा व्युत्पादिता| वर्तमानचिकित्सामपि दर्शयन् पारमार्थिकं मतमाह- पारम्पर्येत्यादि| पारम्पर्यानुबन्धः सन्तानन्यायेनानुबन्धः| दुःखानामिति रोगाणाम्| सुखहेतूपचारेणेति आरोग्यहेतुचिकित्सासेवया| सुखमिति आरोग्यम्| एवं मन्यते- यदा चिकित्सा सुखहेतुः सेव्यते तदा दुःखहेतुसेवाभावाद्दुःखं नोत्पद्यते, उत्पन्नं च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयमेव नश्यति, सुखहेतुसान्निध्यात् सुखमारोग्यमुत्पद्यते; तेन चिकित्सया अनागतं दुःखं हेतुप्रतिबन्धान्निरुध्यते, सुखं च जन्यते इति सिद्धान्तः | एतदेवाह- न समा इत्यादि| समाश्च विषमाश्च क्षणभङ्गित्वस्वभावान्न वैषम्यावस्थां साम्यावस्थां वा यान्तीत्यर्थः| हेतुभिः सदृशा इति समहेतोः समाः, तथा विषमहेतोश्च विषमाः| एतच्चिकित्साप्राभृतीयेऽध्याये प्रपञ्चितमेव| चिकित्साप्रस्तावेन सकलदुःखहारिणीं चिकित्सां मोक्षफलामाह- चिकित्सा त्वित्यादि| निष्ठा अत्यन्तदुःखमोक्षो मोक्षरूपः, तदर्थं भूता नैष्ठिकी| विनोपधामिति तृष्णां विना, तृष्णाशून्या प्रवृत्तिर्मोक्षफला भवतीत्यर्थः||८६-९४||

Adhikarana 47 (95-97) · Śloka 97

उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः| त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः||९५|| कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् | उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञः सदाऽऽतुरः||९६|| यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते| अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते||९७||

🔊 Audio coming soon

परो हेतुरिति मूलकारणम्| दुःखरूपेणैव दुःखाश्रयः शरीरम्| भोगतृष्णया हि प्रवर्तमानो धर्माधर्मान् दुःखशरीरोत्पादकानुपादत्ते, सर्वोपधात्यागात्तु न रागद्वेषाभ्यां क्वचित् प्रवर्तते, अप्रवर्तमानश्च न धर्माधर्मानुपादत्ते, एवमनागतधर्माधर्मोपरमः, उपात्तधर्माधर्मयोस्तु रागद्वेषशून्यस्योपभोगादेव क्षयः ; तेन सर्वथा कर्मक्षयाद्दुःखशरीराभाव इति भावः| अत्रैव तृष्णाया दुःखकारणत्वे दृष्टान्तमाह- कोषकार इत्यादि| कोषकारः स्वनामप्रसिद्धः कीटः| सदाऽऽतुर इति सदा संसारदुःखगृहीतः| अनारम्भादिति रागद्वेषपूर्वकारम्भविरहात्| असंयोगादिति आरम्भशून्यत्वेन धर्माधर्मोच्छेदकृताच्छरीरासंयोगात्; शरीराभावे च निराश्रयमकारणकं दुःखं न भवतीति भावः||९५-९७||

Adhikarana 48 (98) · Śloka 98

धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्| असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः||९८||

🔊 Audio coming soon

‘कारणं वेदनानां किम्’ इत्यस्योत्तरमाह- धीधृतीत्यादि| अयं चार्थः प्रकरणागतत्वादुच्यमानो न पुनरुक्ततामावहति| धीधृतिस्मृतयः प्रज्ञाभेदाः| एते च शिष्यव्युत्पत्त्यर्थं प्रज्ञाभेदत्वेनान्यथा व्युत्पाद्य इहोच्यन्ते| सम्प्राप्तिः कालकर्मणामिति कालस्य सम्प्राप्तिस्तथा कर्मणश्च सम्प्राप्तिः| कर्मसम्प्राप्तिः पच्यमानकर्मयोगः| कालसम्प्राप्तिग्रहणेन चेह ये कालव्यक्तास्ते गृह्यन्ते, नावश्यं कालजन्याः; यतः स्वाभाविकानपि कालजन्यान् तथा तृतीयकादीनप्यासात्म्येन्द्रियार्थादिजन्यान् कालजत्वेनैवेहाभिधास्यति| कर्मजास्तु प्रज्ञापराधजन्या एवेह कर्मजन्यत्वेन विशेषेण शिष्यव्युत्पत्त्यर्थं पृथगुच्यन्ते, कालव्यञ्च्यत्वेन च कर्मजा इह कालसम्प्राप्तिजन्येष्ववरोद्धव्याः| प्रज्ञापराधावरोधश्च यथा कर्मजानां, तथा प्रथमाध्याय एवोक्तम्| किञ्चाचार्येणोन्मादनिदाने स्वयमेवोक्तं यत्- “प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः” (नि. ७) इत्यादि, तथा जनपदोद्ध्वंसनीये च विमाने पुनरुक्तं- “वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वाऽसत्कर्म पूर्वकृतं, तयोर्योनिः प्रज्ञापराध एव” (वि. ३) इति| तस्मादिह सम्प्राप्तिः कालकर्मणामित्यनेन न कालजन्या गदा उच्यन्ते, किं तु कालव्यञ्ज्याः||९८||

Adhikarana 49 (99) · Śloka 99

विषमाभिनिवेशो यो नित्यानित्ये हिताहिते| ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति||९९||

🔊 Audio coming soon

धीविभ्रंशं विवृणोति- विषमेत्यादि| विषमाभिनिवेशः अयथाभूतत्वेनाध्यवसानं नित्येऽनित्यमिति, एवं हितेऽहितमहिते वा हितमिति या बुद्धिः स बुद्धिभ्रंशः| अथ कथमयं बुद्धिविभ्रंशशब्देनोच्यत इत्याह- समं बुद्धिर्हि पश्यति; उचिता बुद्धिः समं यथाभूतं यस्मात् पश्यति, तस्मादसमदर्शनं बुद्धिविभ्रंश उचित एवेत्यर्थः||९९||

Adhikarana 50 (100) · Śloka 100

विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते| नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका||१००||

🔊 Audio coming soon

धृतिभ्रंशमाह- विषयेत्यादि| विषयप्रवणं विषयेषु प्रसज्जत्| नियन्तुमिति व्यावर्तयितुम्| धृतिर्हि नियमात्मिकेति यस्माद् धृतिरकार्यप्रसक्तं मनो निवर्तयति स्वरूपेण, तस्मान्मनोनियमं कर्तुमशक्ता धृतिः स्वकर्मभ्रष्टा भवतीत्यर्थः||१००||

Adhikarana 51 (101) · Śloka 101

तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः| भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्||१०१||

🔊 Audio coming soon

स्मृतिभ्रंशं विवेचयति- तत्त्वेत्यादि| तत्त्वज्ञाने स्मृतिर्यस्य भ्रश्यत इति योजना| स्मर्तव्यं हि स्मृतौ स्थितमिति स्मर्तव्यत्वेन सम्मतस्यार्थस्य स्मरणं प्रशस्तस्मृतिधर्मः| तत्र च तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन सम्मतस्य यदस्मरणं, तत् स्मृत्यपराधाद्भवतीत्यर्थः||१०१||

Adhikarana 52 (102-108) · Śloka 108

धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्| प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्||१०२|| उदीरणं गतिमतामुदीर्णानां च निग्रहः| सेवनं साहसानां च नारीणां चातिसेवनम्||१०३|| कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्| विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्||१०४|| ज्ञातानां स्वयमर्थानामहितानां निषेवणम्| परमौन्मादिकानां च प्रत्ययानां निषेवणम्||१०५|| अकालादेशसञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः| इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्||१०६|| ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः| तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च||१०७|| यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्| प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् ||१०८||

🔊 Audio coming soon

एवं बुद्ध्यादिभ्रंशत्रयरूपप्रज्ञापराधजन्यं कर्म प्रज्ञापराधत्वेन दर्शयन्नाह- धीत्यादि| सर्वदोषशब्देन वातादयो रजस्तमसी च गृह्यन्ते| कर्मकालातिपातः चिकित्साकालातिवर्तनम्| मिथ्यारम्भ इति अयोगातियोगमिथ्यायोगरूपः| विनयाचारलोपेनैव प्राप्तमपि यत् पुनः पूज्यानामभिधर्षणाद्यभिधीयते, तद्विशेषेण प्रकोपकत्वख्यापनार्थमुदाहरणार्थं च| सङ्क्लिष्टकर्मभिरिति पतितैः| क्लिष्टमिति निन्दितम्||१०२-१०८||

Adhikarana 53 (109) · Śloka 109

बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्| प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत्||१०९||

🔊 Audio coming soon

सङ्क्षेपेण प्रज्ञापराधलक्षणमाह- बुद्ध्येत्यादि| विषममिति अनुचितं, विषमविज्ञानं स्वरूपत एव प्रज्ञापराधः| विषमप्रवर्तनं च प्रज्ञापराधकार्यत्वेन प्रज्ञापराधशब्देनोच्यते| मनसो गोचरं हि तदिति तद्विषमप्रवर्तनं विषमज्ञानं च मनःकार्यप्रज्ञाविषयत्वेन मनसो गोचरमित्यर्थः| विषमप्रवर्तनं च मनोगोचरजन्यत्वेनोपचारादुक्तं, विसदृशमनोविषयज्ञानाद्विषमवाग्देहप्रवृत्तिरपि भवति||१०९||

Adhikarana 54 (110-112) · Śloka 112

निर्दिष्टा कालसम्प्राप्तिर्व्याधीनां व्याधिसङ्ग्रहे| चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा||११०|| मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः| जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च या||१११|| पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये| एषु कालेषु नियता ये रोगास्ते च कालजाः||११२||

🔊 Audio coming soon

व्याधीनां कालसम्प्राप्तिमाह- निर्दिष्टेत्यादि| व्याधिसङ्ग्रह इति कियन्तःशिरसीये “चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्| भवन्त्येकैकशः षट्सु कालेष्वभ्रगमादिषु” (सू. १७) इत्यनेन तथा ह्युदाहरणेन च| तेन, कालसम्प्राप्तिर्व्याधीनां यथा- चयप्रकोपप्रशमाः पित्तादीनां पुरा निर्दिष्टा इति योज्यम्| उदाहरणान्तरमाह- मिथ्येत्यादि| जीर्णेत्यादौ जीर्णाद्यवस्थात्रयविशिष्टस्यान्नस्य कालः, तथाऽन्नस्याकालोऽजीर्णाद्यवस्थालक्षितः| प्रजीर्णं विदग्धम्| रात्रेर्यामास्त्रयश्च य इति त्रयो भागाः पूर्वरात्रमध्यरात्रापररात्ररूपाः, न तु यामः प्रहर इति ज्ञेयम्| अन्यत्रापि च भागत्रये यामविभागं कृत्वा अभिधानशास्त्रे त्रियामा निशाऽभिधीयते| तेषु कालेष्विति जीर्णान्नकालादिषु; जीर्णे अपराह्णे रात्रिशेषे च वातिका गदाः, भुक्तमात्रे पूर्वाह्णे पूर्वरात्रे च कफजा गदाः, प्रजीर्णे मध्याह्ने मध्यरात्रे च पित्तजा नियता रोगाः| अन्नाकाले चाजीर्णलक्षणे भोजनात् त्रयोऽपि दोषा भवन्तीति ज्ञेयम्| किंवा, ‘जीर्णभुक्तप्रजीर्णान्नकाला’ इति च्छेदः, तेन जीर्णाद्यवस्थायुक्तान्नकालाः पूर्ववदेव ज्ञेयाः; तथा ‘कालस्थितिश्च या’ इति योजना; कालस्थितिशब्देन बाल्यादिवयस्त्रैविध्यमुच्यते| तत्र बाल्ये श्लैष्मिकाः, यौवने पैत्तिकाः, वार्धक्ये वातिका गदा वर्धन्त इति ज्ञेयम्||११०-११२||

Adhikarana 55 (113) · Śloka 113

अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ| स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः||११३||

🔊 Audio coming soon

विषमज्वरानपि कालविशेषप्रवर्तमानमात्रत्वेन कालजे दर्शयन्नाह- अन्येद्युष्क इत्यादि| द्व्यहग्राही चतुर्थकविपर्ययः| वक्ष्यति हि- “विषमज्वर एवान्यश्चतुर्थकविपर्ययः| मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति” (चि. ३) इति| कथं स्वकीय एव काले प्रवर्ततन्त इत्याह- काले ह्येषां बलागम इति| उक्त एव काले यस्माद् बलवन्तो भवन्ति, तस्मात्तत्रैव सञ्जातबलाः सन्तो व्यज्यन्त इत्यर्थः||११३||

Adhikarana 56 (114) · Śloka 114

एते चान्ये च ये केचित् कालजा विविधा गदाः| अनागते चिकित्स्यास्ते बलकालौ विजानता||११४||

🔊 Audio coming soon

एतेषां चिकित्साक्रममाह- एते चेत्यादि| अन्ये चेत्यनेनान्यानपि कालविशेषप्राप्तिप्रादुर्भाविनः| शोथकुष्ठादीन् सूचयति||११४||

Adhikarana 57 (115) · Śloka 115

कालस्य परिणामेन जरामृत्युनिमित्तजाः| रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः||११५||

🔊 Audio coming soon

स्वाभाविकानपि कालपरिणामव्यज्यमानतया इह कालजेऽवरोधयितुमाह- कालस्येत्यादि| जरामृत्युरूपान्निमित्ताज्जाता जरामृत्युनिमित्तजाः, मृत्युशब्देनेह युगानुरूपायुःपर्यवसानभवकालमृत्युर्ग्राह्यः ; किंवा जरामृत्य्वोर्यन्निमित्तं तस्माज्जाता जरामृत्युनिमित्तजाः, जरामृत्युनिमित्तं च प्राणिनां साधारणदेहनिवर्तकभूतस्वभावोऽदृष्टं च| अथ स्वाभाविकानां का चिकित्सेत्याह- स्वभाव इत्यादि| निष्प्रतिक्रिय इति साधारणचिकित्सया रसायनवर्ज्यया न प्रतिक्रियते, रसायनेन तु प्रतिक्रियत एव; तेन, “अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा” (चि. १ पा. १) इत्यादिरसायनप्रयोगेण समं न विरोधः; किंवा, स्वाभाविका जरादयो रसायनजनितप्रकर्षादुत्तरकालं पुनरवश्यं भवन्तीति निष्प्रतिक्रियत्वेनोक्ताः||११५||

Adhikarana 58 (116) · Śloka 116

निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्| हेतुस्तदपि कालेन रोगाणामुपलभ्यते||११६||

🔊 Audio coming soon

सम्प्रति कर्मसम्प्राप्तिकृतमपि गदं कालविशेषव्यज्यमानतया दर्शयन्नाह- निर्दिष्टमित्यादि| कालेनेति पच्यमानतालक्षितेन कालेन (युक्तं सत्) कर्म कारणं भवतीत्यर्थः||११६||

Adhikarana 59 (117) · Śloka 117

न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते| क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्||११७||

🔊 Audio coming soon

कर्मणः फलसम्बन्धिनियममाह- न हीत्यादि| महदिति विशेषणेन किञ्चिदमहत् कर्म प्रायश्चित्तबाधनीयफलं न ददात्यपि फलमिति दर्शयति| कर्मजानामचिकित्स्यत्वमाह- क्रियाघ्ना इत्यादि| तत्क्षयादिति कर्मक्षयात्; कर्मक्षयश्च कर्मफलोपभोगादेव परं भवति||११७||

Adhikarana 60 (118-126) · Śloka 127

अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च| शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः||११८|| परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः| शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते||११९|| असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च| स्पृश्यानां सङ्ग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः||१२०|| यो भूतविषवातानामकालेनागतश्च यः| स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग स उच्यते||१२१|| रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्| दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्||१२२|| द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात् | तामसानां च रूपाणां मिथ्यासंयोग उच्यते||१२३|| अत्यादानमनादानमोकसात्म्यादिभिश्च यत्| रसानां विषमादानमल्पादानं च दूषणम्||१२४|| अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्| असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्||१२५|| पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः| तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोगः स उच्यते||१२६|| इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः|१२७|

🔊 Audio coming soon

क्रमागतमसात्म्येन्द्रियार्थसंयोगं विवृणोति- अत्युग्रेत्यादि| सर्वशो न चेति सर्वथोग्रशब्दाश्रवणात् | स्पृश्यानामिति स्पृश्यत्वेनोक्तानां शास्त्रेऽभ्यङ्गोत्सादनादीनाम्| भूताः सविषिक्रिमिपि शाचादयः| यो भूतविषवातादीनां संस्पर्शः, तथाऽकालेनागतः स्नेहशीतोष्णसंस्पर्शश्चेति योजना| तत्राकाले स्नेहसंस्पर्शो यथा- अजीर्णे कफवृद्धिकाले अभ्यङ्गस्पर्शः, एवं शीते शीतस्पर्शः, उष्णे चोष्णस्पर्शोऽकालेनागतो ज्ञेयः| सर्वशश्चाप्यदर्शनादिति भास्वतां सूक्ष्माणां च सर्वथाऽदर्शनात्| अतिश्लिष्टमिति नेत्रप्रत्यासन्नम्| तामसानां च रूपाणां दर्शनाद्विनश्यति दृष्टिरिति सम्बन्धः| मिथ्यायोगः स इति द्विष्टभैरवादिदर्शनरूपः| अतिसूक्ष्मदर्शनं च मिथ्यायोग एव ज्ञेयः| ओकसात्म्यादिभिरिति विषमादानमिति सम्बन्धः| ओकसात्म्यादिवैषम्येण च राशिदोषवर्जं प्रकृत्यादिसप्तदोषा ग्रहीतव्याः| त्रिविध इति अयोगातियोगमिथ्यायोगरूपः||११८-१२६||

Adhikarana 61 (127) · Śloka 127

असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्||१२७||

🔊 Audio coming soon

असात्म्यार्थं दर्शयति- असात्म्यमित्यादि| सहेति मिलितं शरीरेण| आत्मताम् अविकृतरूपतां न याति; एतेन, यदुपयुक्तं प्राकृतरूपोपधातकं भवति, तदसात्म्यमिति||१२७||

Adhikarana 62 (128) · Śloka 128

मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते| शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः||१२८||

🔊 Audio coming soon

इत्थमसात्म्यार्थजस्य व्याधेरिन्द्रियद्वारभूतत्वेनैन्द्रियकत्वं दर्शयन्नाह- मिथ्येत्यादि| हीनयोगेनेहायोगो ग्राह्यः| ऐन्द्रियक इति इन्द्रियद्वारभूतः||१२८||

Adhikarana 63 (129) · Śloka 129

वेदनानामशान्तानामित्येते हेतवः स्मृताः| सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः||१२९||

🔊 Audio coming soon

दुःखरूपवेदनाहेतुं प्रपञ्चोक्तमुपसंहरति- वेदनानामित्यादि| अशान्तानामिति दुःखानाम्| अथ सुखरूपवेदनाहेतुः क इत्याह- सुखेत्यादि| समयोग इति कालबुद्धीन्द्रियार्थानां सम्यग्योगः| सुदुर्लभ इति कालादिसम्यग्योगस्य अयोगादिविरहत्वेन सुदुर्लभत्वात्| प्रायो हि कालादीनां मध्ये अन्यतरेणाप्ययोगादिना पुरुषः सम्बध्यते; तेन च नित्यातुरा एव पुरुषा भवन्ति, अल्पं च रोगमनादृत्य स्वस्थव्यपदेशः पुरुषाणां क्रियत इति भावः||१२९||

Adhikarana 64 (130-131) · Śloka 131

नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः| हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः||१३०|| सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक्| न सुखं, कारणं तस्माद्योग एव चतुर्वधः||१३१||

🔊 Audio coming soon

सम्प्रति सम्यग्योगस्योपादेयतामयोगादीनां च हेयतां दर्शयितुं योगमेव चतुर्विधं कारणत्वेन दर्शयन्नाह- नेन्द्रियाणीत्यादि| ननु कथमिन्द्रियार्थयोः सुखदुःखकारणत्वेनोपलभ्यमानयोरप्यकारणत्वमित्याह- सन्तीत्यादि| योगो न चेति इन्द्रियार्थयोः सम्बन्धो न च| न सुखमिति च्छेदः| इन्द्रियार्थयोर्योगाभावे अकारणत्वेन, सति तु योगे कारणत्वेन, योग एवान्वयव्यतिरेकाभ्यां कारणमवधार्यत इति भावः| अयं च योग इन्द्रियार्थावधिकृत्य स्पष्टत्वेनोक्तः; तेन, प्रज्ञाकालयोरपि बोद्धव्यः| एतच्छेन्द्रियमर्थं चानुपादेयं कृत्वा चतुर्विधयोगस्य कारणत्वं योगानामेव हेयोपादेयत्वोपदर्शनार्थं कृतम्||१३०-१३१||

Adhikarana 65 (132) · Śloka 132

नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना| सुखदुःखं, यथा यच्च बोद्धव्यं तत्तथोच्यते||१३२||

🔊 Audio coming soon

परमार्थतस्त्वात्मेन्द्रियमनोबुद्ध्यर्थादृष्टान्येव तथायुक्तानि सुखदुःखकारणानीति दर्शयन्नाह- नात्मेत्यादि| गोचर इन्द्रियार्थः| कर्म अदृष्टम्| तत्र आत्मानं विना न लोष्टादौ सुखदुःखे भवतः| इन्द्रियार्थादीनां च सुखदुःखकारणत्वं स्पष्टमेव| कर्मापि च शुभं सुखकारणम्, अशुभं च दुःखकारणम्| यद्यात्मादय एव कारणं, तर्हि किमर्थं कालाद्ययोगातियोगादय इहोच्यन्त इत्याह- यथेत्यादि| यद् बोद्धव्यं सुखदुःखं यथा बोद्धव्यं कार्यवशाद्भवति, तत्तथैवोच्यते नान्यथा| तेन सात्म्यासात्म्येन्द्रियार्थजन्यत्वेन सुखदुःखे इह प्रतीयमाने चिकित्सायामुपयुक्ते भवतः, नात्मादिजन्यत्वेनेह सुखदुःखे अभिधीयेते; न ह्यात्मादयो दुःखहेतुतया प्रतिपन्ना अपीह हेयतया प्रतिपाद्यन्ते; किन्त्वसात्म्येन्द्रियार्थयोगादय एव दुःखहेतवस्त्यज्यन्ते, सुखहेतवः सात्म्येन्दियार्थयोगादयस्तूपादीयन्त इति भावः||१३२||

Adhikarana 66 (133) · Śloka 133

स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः||१३३||

🔊 Audio coming soon

इदानीं सकलकारणव्यापकं योगं व्युत्पादयितुमैन्द्रियकं मानसं च स्पर्शं दर्शयितुमाह- स्पर्शनेत्यादि| स्पर्शनेन्द्रियसंस्पर्श इत्यनेनेन्द्रियाणामर्थेन सम्बन्धं स्पर्शनेन्द्रियकृतं दर्शयति; चक्षुरादीन्यपि स्पृष्टमेवार्थं जानन्ति; यदि ह्यस्पृष्टमेव चक्षुः श्रोत्रं घ्राणं वा गृह्णाति, तदा विदूरमपि गृह्णीयात्, न च गृह्णाति, तस्मात् स्पृष्ट्वैवेन्द्रियाण्यर्थं प्रतिपद्यते; मानसस्तु स्पर्शश्चिन्त्यादिनाऽर्थेन समं सूक्ष्मोऽस्त्येव, येन मनः किश्चिदेव चिन्तयति, न सर्वं; तेन यन्मनसा स्पृश्यते तदेव मनो गृह्णातीति स्थितिः||१३३||

Adhikarana 67 (134-135) · Śloka 135

इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते| तृष्णा च सुखदुःखानां कारणं पुनरुच्यते||१३४|| उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्| स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः||१३५||

🔊 Audio coming soon

सुखदुःखोत्पत्तिक्रममाह- इच्छेत्यादि| सुखादिच्छारूपा तृष्णा, दुःखाच्च द्वेषरूपा तृष्णा प्रवर्तते| इयं चोत्पन्ना तृष्णा ईप्सितेऽर्थे प्रवर्तयन्ती द्विष्टे च निवर्तयन्ती प्रवृत्तिनिवृत्तिविषयस्य सुखदुःखहेतुतामपेक्ष्य सुखदुःखे जनयतीति वाक्यार्थः| यथोक्तं तृष्णायाः सुखदुःखहेतुत्वं दर्शयन्नाह- उपादत्ते हीत्यादि| वेदनाश्रयसञ्ज्ञकानिति वेदनाकारणत्वेनोक्तान् कालाद्ययोगादिरूपान्| अथ तृष्णा चेत् सुखदुःखकारणं, तत् किमिन्द्रियार्थेनापरेण कारणेनेत्याह- स्पृश्यत इत्यादि| अनुपादान इति अविद्यमानार्थरूपे स्पर्शकारणे अर्थं विना नार्थस्य स्पर्शो भवति| अथ न भवत्वर्थस्पर्शः, ततः किमित्याह- नास्पृष्टो वेत्ति वेदना इति; अर्थस्पर्शशून्यः सन् न सुखदुःखे अनुत्पन्नत्वादेव वेत्तीत्यर्थः||१३४-१३५||

Adhikarana 68 (136) · Śloka 136

वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः| केशलोमनखाग्रान्नमलद्रवगुणैर्विना||१३६||

🔊 Audio coming soon

‘वेदनानां किमधिष्ठानम्’ इत्यस्योत्तरमाह- वेदनानामित्यादि| देहः सेन्द्रिय इति अनेन निरिन्द्रियो देहो केशलेमादिको निरस्तः| तदेव स्पष्टार्थं विवृणोति- केशेत्यादि| किंवा, इन्द्रियाण्यपि प्राधान्यख्यापनार्थं प्रथग् वेदनाश्रयत्वेनेन्द्रियग्रहणेनोच्यन्ते| वेदनाया देहेन्द्रियगतत्वं तदाधारत्वेन प्रतीयमानत्वाज्ज्ञेयम्| द्रवं मूत्रम्| गुणाः शब्दादयः| शरीरगता एते हि केशादयो न वेदनाधारा इत्यनुभव एव प्रमाणम्| या तु मूत्रपुरीषगता वेदना ग्रहणीमूत्रकृच्छ्रादौ वक्तव्या, सा मूत्रपुरीषाधारशरीरप्रदेशस्यैव बोध्या||१३६||

Adhikarana 69 (137) · Śloka 137

योगे मोक्षे च सर्वासां वेदनानामवर्तनम्| मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः||१३७||

🔊 Audio coming soon

‘क्व चैता वेदनाः सर्वा’ इत्यादिप्रश्नस्योत्तरं- योग इत्यादि| योगः ‘अनारम्भात्’ इत्यादिग्रन्थवक्ष्यमाणः| मोक्ष आत्यन्तिकशरीराद्युच्छेदः| निःशेषेति न पुनर्भवति| एतेन, योगे निवृत्ता वेदना पुनर्भवतीति सूचयति| मोक्षप्रवर्तक इति मोक्षकारणम्| किंवा, ‘योगमोक्षौ निवर्तकौ’ इति पाठः; तदा अस्मिन् पक्षे यद्यपि योगमोक्षयोर्वेदनानिवर्तकत्वं ‘योगे मोक्षे च’ इत्यादिना श्लोकार्धेनोक्तं, तथाऽपि योगमोक्षयोरिह कर्तृता वेदनानिवृत्तिं प्रति दृश्यत इति न पौनरुक्त्यम्||१३७||

Adhikarana 70 (138-139) · Śloka 139

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते| सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे||१३८|| निवर्तते तदुभयं वशित्वं चोपजायते| सशरीरस्य योगज्ञास्तं योगमृषयो विदुः||१३९||

🔊 Audio coming soon

यथा योगो वेदनानिवर्तको भवति, यश्च योगस्तमाह- आत्मेत्यादि| अनारम्भादिति विषयोपादानार्थं मनसाऽनारम्भात् | आत्मस्थे मनसीति विषये निवृते केवलात्मज्ञानस्थे| स्थिरे इति अचले, आत्मज्ञानप्रसक्त एवेति यावत्| तदुभयमिति सुखदुःखे| योगे योगधर्मान्तरप्राप्तिमाह- वशित्वमित्यादि| वशित्वं वक्ष्यमाणमष्टविधमैश्वर्यबलम्| सशरीरस्येतिपदेन शरीरेण सहैव वशित्वं भवतीति दर्शयति||१३८-१३९||

Adhikarana 71 (140-141) · Śloka 141

आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया| दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्||१४०|| इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्| शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते||१४१||

🔊 Audio coming soon

आवेश इत्यादि| आवेशः परपुरप्रवेशः| चेतसो ज्ञानमिति परचित्तज्ञानम्| अर्थानां छन्दतः क्रियेति अर्थानामिच्छातः करणम्| दृष्टिः अतीन्द्रियदर्शनम्| श्रोत्रम् अतीन्द्रियश्रवणम्| स्मृतिः सर्वभावतत्त्वस्मरणम्| कान्तिः अमानुषी कान्तिः| इष्टतश्चाप्यदर्शनमिति यदेच्छति तदा दर्शनयोग्य एव न दृश्यते, यदा चेच्छति तदा दृश्यते| किंवा, आवेशश्चेतस इति परचेतसः प्रवेशः, ज्ञानमिति सर्वमतीतानागतादिज्ञानं, शेषं पूर्ववत्| ऐश्वरमिति योगप्रभावादुपपन्नैश्वर्यकृतम्| शुद्धसत्त्वसमाधानादिति नीरजस्तमस्कस्य मनस आत्मनि सम्यगाधानात्||१४०-१४१||

Adhikarana 72 (142) · Śloka 142

मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्| वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||

🔊 Audio coming soon

अथ कथं मोक्षो भवति, कश्चेत्याह- मोक्ष इत्यादि| बलवत्कर्मसङ्क्षयादिति अवश्यभोक्तव्यफलस्य कर्मणः क्षयात्| सर्वसंयोगैरिति सर्वैरात्मसम्बन्धिभिः शरीरबुद्ध्यहङ्कारादिभिः| न पुनः शरीरादिसम्बन्धो भवतीत्यपुनर्भवः ||१४२||

Adhikarana 73 (143-146) · Śloka 146

सतामुपासनं सम्यगसतां परिवर्जनम्| व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः||१४३|| धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः| विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः||१४४|| कर्मणामसमारम्भः कृतानां च परिक्षयः| नैष्क्रम्यमनहङ्कारः संयोगे भयदर्शनम्||१४५|| मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्| तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते||१४६||

🔊 Audio coming soon

प्रस्तावान्मोक्षोपायमाह- सतामित्यादि| परा धृतिरिति अतिशयितं मनोनियमनम्| कर्मणामसमारम्भ इति अनागतधर्माधर्मसाधनानामकरणम्| कृतानां च परिक्षय इति जन्मान्तरैः कृतानां कर्मणां फलोपभोगात् परिक्षयः| नैष्कम्यं संसारनिष्क्रमणेच्छा| अनहङ्कार इति ममेदम्, अहं ‘करोमि’ इत्यादिबुद्धिवर्जनम्| संयोग इति आत्मशरीरादिसंयोगे| मनोबुद्धिसमाधानमिति मनोबुद्ध्योरात्मनि समाधानम्| सर्वमेतदिति ‘कर्मणामसमारम्भः’ इत्याद्युक्तम् | तत्त्वस्मृतिः आत्मादीनां यथाभूतानुस्मरणं ; सा च नात्मा शरीराद्युपकार्यः, शरीरादयश्चामी आत्मव्यतिरिक्ताः, इत्यादिस्मरणरूपस्मृतिः||१४३-१४६||

Adhikarana 74 (147) · Śloka 147

स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते| स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते||१४७||

🔊 Audio coming soon

अथ स्मृतिः कथं दुःखप्रमोषे कारणमित्याह- स्मृत्वेत्यादि| स्वभावमिति प्रत्यात्मनियतरूपम्| गुरुवचनाद्धि प्रथमप्रतिपन्नमात्मादीनां रूपं परस्परभिन्नं परस्परानुपकारकत्वेन व्यवस्थितं स्मरन् न क्वचिदपि प्रवर्तते, अप्रवर्तमानश्च न दुःखेन प्रवृत्तिजन्येन युज्यत इत्यर्थः||१४७||

Adhikarana 75 (148-149) · Śloka 149

वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते| निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्||१४८|| सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्| दृष्टश्रुतानुभूतानां स्मारणात् स्मृतिरुच्यते||१४९||

🔊 Audio coming soon

इदानीं स्मृतिप्रस्तावात् स्मृतिकारणान्याह- वक्ष्यन्त इत्यादि| निमित्तग्रहणं कारणज्ञानं, कारणं हि दृष्ट्वा कार्यं स्मरति| रूपग्रहणम् आकारग्रहणम् | यथा- वने गवयं दृष्ट्वा गां स्मरति| सादृश्याद् यथा- पितुः सदृशं पुरुषं दृष्ट्वा पितरं स्मरति| सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति; यथा- अत्यर्थकुरूपं दृष्ट्वा प्रतियोगिनमत्यर्थसुरूपं स्मरति| सत्त्वानुबन्धादिति मनसः प्रणिधानात्, स्मर्तव्यस्मरणाय प्रणिहितमनाः स्मर्तव्यं स्मरति| अभ्यासादिति अभ्यस्तमर्थमभ्यासबलादेव स्मरति| ज्ञानयोगादिति तत्त्वज्ञानयोगात्; उपजाततत्त्वज्ञानो हि तद्बलादेव सर्वं स्मरति| पुनः श्रुतादिति श्रुतोऽप्यर्थो विस्मृतः पुनरेकदेशं श्रुत्वा स्मर्यते| स्मृतिकारणमभिधाय स्मृतिरूपमाह- दृष्टेत्यादि|- दृष्टं प्रत्यक्षोपलक्षणं, श्रुतं त्वागमप्रतीतं , तेन सर्वपूर्वानुभूतावरोधः| क्वचित्, ‘स्मरणं स्मृतिरुच्यते’ इति पाठः, तत्रापि नार्थभेदः||१४८-१४९||

Adhikarana 76 (150-151) · Śloka 151

एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्| तत्त्वस्मृतिबलं, येन गता न पुनरागताः||१५०|| अयनं पुनराख्यातमेतद्योगस्य योगिभिः| सङ्ख्यातधर्मैः साङ्ख्यैश्च मुक्तैर्मोक्षस्य चायनम्||१५१||

🔊 Audio coming soon

एवं स्मृतिं सामान्येन प्रतिपाद्य तत्त्वस्मृतेर्मोक्षसाधकत्वं दर्शयन्नाह- एतदित्यादि| एकमयनमिति श्रेष्ठः पन्थाः| मुक्तैरिति जीवन्मुक्तैरिति ज्ञेयं, सर्वथामुक्तानां शरीराभावेनोपदर्शकत्वाभावात्| तत्त्वस्मृतिबलमिति तत्त्वस्मृतिरूपं बलं; किंवा, तत्त्वस्मृतिर्बलं यत्र मोक्षसाधनमार्गे तत्तत्त्वस्मृतिबलम्| येनेति येन यथा| गता इति मोक्षं गताः न पुनरागता इति मुक्तिं याता न पुनरागच्छन्ति||१५०-१५१||

Adhikarana 77 (152-153) · Śloka 153

सर्वं कारणवद्दुःखमस्वं चानित्यमेव च| न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता||१५२|| यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया| नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते||१५३||

🔊 Audio coming soon

इदानीं सङ्क्षेपेण संसारहेतुमज्ञानं, तथा मोक्षहेतुं च सम्यगज्ञानं दर्शयन्नाह - सर्वमित्यादि| सर्वं कारणवदिति सर्वमुत्पद्यमानं बुद्ध्यहङ्कारशरीरादि| दुःखमिति दुःखहेतुरेव| अस्वमिति सर्वं कारणवदेवात्मव्यतिरिक्तं परमार्थतः| न चात्मकृतकमिति न चात्मनोदासीनेन कृतम्| तत्रेति कारणवति बुद्धिशरीरादौ| स्वतेति ममता ‘ममेयं बुद्धिः’ इत्यादिरूपा| अथ कियन्तं कालमियं भ्रान्त्या युतोत्पद्यते इत्याह- यावदित्यादि| सत्या बुद्धिः सम्यगज्ञानम्| यया सत्यया बुद्ध्या| नैतद् बुद्ध्याद्यहं, किन्तु भिन्न एवाहं; तथा नैतद् बुद्ध्यादि मम, किन्तु प्रकृतेः प्रपञ्च इति विज्ञाय| ज्ञः तत्त्वसाक्षात्कारवान्| सर्वमतिवर्तत इति सर्वं बुद्ध्यादि त्यजति||१५२-१५३||

Adhikarana 78 (154) · Śloka 154

तस्मिंश्चरमसन्न्यासे समूलाः सर्ववेदनाः| ससञ्ज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः||१५४||

🔊 Audio coming soon

चरमसन्न्यास इति पश्चाद्भाविसकलकर्मसन्न्यासे| प्रथमं हि मोक्षोपयोगित्वेन गुरुवचनात् क्रियासन्न्यासः कृत एव, परं खानुभवविरक्तेन न कृतः; अभ्यासादुद्भूतेन ज्ञानेन साक्षाद्दृष्टभावस्वभावेन यः सर्वसन्न्यासः क्रियते, तत्र समूलाः सर्ववेदना ज्ञानादयश्च शरीरोपरमादेवोपरमन्ते| समूला इति सकारणाः, कारणं च बुद्ध्यादयः| सञ्ज्ञा आलोचनं निर्विकल्पकं, ज्ञानं सविकल्पकं, विज्ञानं बुद्ध्यवसायः; किंवा, सञ्ज्ञा नामोल्लेखेन ज्ञानं, विज्ञानं शास्त्रज्ञानम्| तत्त्वज्ञानमपि हि मोक्षं जनयित्वा निवर्तत एव, कारणाभावात्||१५४||

Adhikarana 79 (155) · Śloka 155

अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते| निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते| ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति||१५५||

🔊 Audio coming soon

‘सर्वविद्’ इत्यादिप्रश्नस्योत्तरम्- अतः परमित्यादि| ब्रह्मभूत इति प्रकृत्यादिरहितः| चिह्नं यस्य न विद्यते इत्यनेन मुक्तात्मनः प्राणापानाद्यात्मलिङ्गाभावाद्गमकं चिह्नं नास्त्येवेति दर्शद्यति| न क्षरति अन्यथात्वं न गच्छतीत्यक्षरम्| अविद्यमानं लक्षणं यस्येति अलक्षणम्| एतस्यैव मोक्षस्येतरपुरुषाज्ञेयतां दर्शयति- ज्ञानमित्यादि| ब्रह्मविदामेवात्र मनः प्रत्येति, नाज्ञानामहङ्कारादिवासनागृहीतानामित्यर्थः||१५५||

Adhikarana 80 (156) · Śloka 156

तत्र श्लोकः- प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः| कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना||१५६||

🔊 Audio coming soon

सङ्ग्रहो व्यक्तः||१५६||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||