Adhikarana 1 (1-2) · Śloka 2
अथातोऽतुल्यगोत्रीयं शारीरं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्याये शरीरस्यादिसर्ग आध्यात्मिको नैष्ठिकमोक्षरूपचिकित्सोपयुक्त उक्तः, सम्प्रति गर्भादिरूपं सर्गमभिधातुमतुल्यगोत्रीयोऽभिधीयते ||१-२||
Adhikarana 2 (3) · Śloka 3
अतुल्यगोत्रस्य रजःक्षयान्ते रहोविसृष्टं मिथुनीकृतस्य|
किं स्याच्चतुष्पात्प्रभवं च षड्भ्यो यत् स्त्रीषु गर्भत्वमुपैति पुंसः||३||
अतुल्यगोत्रस्येति अतुल्यगोत्रस्य पुंसः| तुल्यगोत्राणां हि मैथुनेऽधर्मो भवति, धर्मशास्त्रेषु निषिद्धत्वात्| रजःक्षयान्ते इति रजःप्रवृत्त्यन्ते; ‘अन्ते’ इतिपदेन रजःप्रवृत्तित्र्यहं निषेधयति| रहोविसृष्टमिति विजने विसृष्टम्| शुक्रविसर्गश्च विजन एव प्रतिबन्धकलज्जाभावात् सम्यग्भवतीति रह इत्यनेन दर्शयति| मिथुनीकृतस्येत्यनेन सम्यङ्मैथुनप्रयोगं दर्शयति, विपरीतसुरतादींश्च निषेधति| चतुष्पादत्वषट्प्रभवत्वे उत्तरग्रन्थे एव व्यक्ते| अयं च शिष्यप्रश्नतया निवेशितो ग्रन्थः अ(प्रा)ज्ञाशिष्यस्य आचार्यसन्मतिमात्रार्थो ज्ञेयः; तेन यः शिष्यश्चतुष्पदादिविशेषं सूक्ष्मं बीजस्य जानाति, स कथं शुक्रशब्दाभिधेयं न वेत्तीति न वाच्यम्||३||
Adhikarana 3 (4) · Śloka 4
शुक्रं तदस्य प्रवदन्ति धीरा यद्धीयते गर्भसमुद्भवाय|
वाय्वग्निभूम्यब्गुणपादवत्तत् षड्भ्यो रसेभ्यः प्रभवश्च तस्य||४||
पश्नस्योत्तरं- शुक्रमित्यादि| धीयत आरोप्यत इत्यर्थः| वाय्वादिपादवदिति वक्तव्ये यद् गुणपदमधिकं करोति, तेन प्रशस्तगुणवतामेव वाय्वादीनां विशुद्धशुक्रारम्भकत्वमिति दर्शयति| वाय्वादिषु शुक्रारम्भकेषु पादव्यपदेशेन सर्वेषां तुल्यशुक्रारम्भकत्वं दर्शयति| आकाशं तु यद्यपि शुक्रे पाञ्चभौतिकेऽस्ति, तथाऽपि न पुरुषशरीरान्निर्गत्य गर्भाशयं गच्छति, किन्तु भूतचतुष्टयमेव क्रियावद् याति, आकाशं तु व्यापकमेव तत्रगतेन शुक्रेण सम्बद्धं भवति, तेनाकाशस्य गमनाभावादिह गर्भाशयगमनाभिधानप्रस्तावे शुक्रगतत्वेनानभिधानम्| अन्यत्रापि च भूतानां गमनप्रस्तावे आकाशं परित्यक्तमेव| यथा- “भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्” इति| शुक्रं च षड्रसाहारोत्पन्नमेव विशुद्धं भवतीति कृत्वोक्तं- षड्भ्यो रसेभ्य इत्यादि| यत्तु मधुरस्य शुक्रजनकत्वमम्लादीनां च शुक्रविघातकत्वमुच्यते, तदत्यर्थोपयोगादिति ज्ञेयम्||४||
Adhikarana 4 (5) · Śloka 5
सम्पूर्णदेहः समये सुखं च गर्भः कथं केन च जायते स्त्री|
गर्भं चिराद्विन्दति सप्रजाऽपि भूत्वाऽथवा नश्यति केन गर्भः||५||
‘सम्पूर्णदेहः कथं जायते’ इत्येकः प्रश्नः, ‘समये कथं जायते’ इति द्वितीयः, ‘सुखं कथं जायते’ इति तृतीयः| सप्रजाऽपीति अवन्ध्याऽपि सती कथं चिरेण गर्भं विन्दति||५||
Adhikarana 5 (6-10) · Śloka 10
शुक्रासृगात्माशयकालसम्पद् यस्योपचारश्च हितैस्तथाऽन्नैः |
गर्भश्च काले च सुखी सुखं च सञ्जायते सम्परिपूर्णदेहः||६||
योनिप्रदोषान्मनसोऽभितापाच्छुक्रासृगाहारविहारदोषात्|
अकालयोगाद्बलसङ्क्षयाच्च गर्भं चिराद्विन्दति सप्रजाऽपि||७||
असृङ्गिरुद्धं पवनेन नार्या गर्भं व्यवस्यन्त्यबुधाः कदाचित्|
गर्भस्य रूपं हि करोति तस्यास्तदसृगस्रवि विवर्धमानम्||८||
तदग्निसूर्यश्रमशोकरोगैरूष्णान्नपानैरथवा प्रवृत्तम्|
दृष्ट्वाऽसृगेकं न च गर्भसञ्ज्ञं केचिन्नरा भूतहृतं वदन्ति||९||
ओजोशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम्|
गर्भं हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोजः||१०||
पञ्चानां प्रश्नानामुत्तरं- शुक्रेत्यादि| सम्पच्छब्दः शुक्रादिभिः प्रत्येकमभिसम्बध्यते| शुक्रासृगाशयानामदुष्टत्वं सम्पद्, आत्मनस्तु शुक्रशोणितसंयोगाधिष्टातुः शुभजीवकर्मयुक्तत्वं सम्पत्, कालस्य त्वनतितीक्ष्णत्वादि सम्पत्| उपचारो गर्भिण्युपचारः| काल इति नवमे दशमे वा मासे| यदुक्तं- “कालः पुनर्नवमं मासमुपादायादशमात्” (शा. अ. ४) इति| सुखीति व्याधिना केनचिन्न ग्रस्तः| सुखमिति अक्लेशेन| अकालयोगादिति ऋतुकालातिक्रमेण पुरुषेण संयोगात्, ऋतुकालश्च षोडशरात्रं यावत्| यदुक्तं हारीते- “षोडश दिवसा ऋतुकालः” इति| सुश्रुते तु द्वादशरात्रमृतुकाल उक्तः| ‘भूत्वाऽथवा नश्यति केन गर्भः’ इत्यस्योत्तरम्- असृगित्यादि| पवनेनेति दुष्टवातेन| कृते असृङ्निरोधे गर्भभ्रमो भवतीत्याह- गर्भस्य रूपमित्यादि| गर्भाशये हि विवर्धमानं रुधिरं प्रभावाद्गर्भलिङ्गानि कानिचिद्दर्शयतीत्यर्थः| असृगेकमिति असृगेव परम्| न च गर्भसञ्ज्ञमिति न गर्भं ग्रन्थाद्याकारकम्| भूतैर्गर्भानाहरणे हेतुमाह- ओजोशनानामित्यादि| ओजः अष्टबिन्दुकमश्नन्तीति ओजोशनाः| यदि त्वनाहारभूतमपि गर्भं हरेयुस्तदा मातुर्नितरामाहारभूतमोजो लब्धावकाशत्वेन हरेयुः| लब्धावकाशा इति प्राप्तगर्भिण्यभिगमनकारणाः||६-१०||
Adhikarana 6 (11) · Śloka 11
कन्यां सुतं वा सहितौ पृथग्वा सुतौ सुते वा तनयान् बहून् वा|
कस्मात् प्रसूते सुचिरेण गर्भमेकोऽभिवृद्धिं च यमेऽभ्युपैति||११||
कन्यामित्यादि प्रश्नाष्टकम्| कन्यां कस्मात् पृथक् प्रसूत इति प्रथमः, सुतं पृथग् वेति द्वितीयः, सहितौ कन्यासुतौ वेति तृतीयः, सुतौ सहिताविति चतुर्थः, सुते सहिते इति पञ्चमः, तनयान् बहून् वेति षष्टः, सुचिरात् कथं स्त्री प्रसूत इति सप्तमः, यमे युग्मे कथमेकोऽभिवृद्धिमभ्युपैतीत्यष्टमः||११||
Adhikarana 7 (12-16) · Śloka 16
रक्तेन कन्यामधिकेन पुत्रं शुक्रेण तेन द्विविधीकृतेन|
बीजेन कन्यां च सुतं च सूते यथास्वबीजान्यतराधिकेन||१२||
शुक्राधिकं द्वैधमुपैति बीजं यस्याः सुतौ सा सहितौ प्रसूते|
रक्ताधिकं वा यदि भेदमेति द्विधा सुते सा सहिते प्रसूते||१३||
भिनत्ति यावद्बहुधा प्रपन्नः शुक्रार्तवं वायुरतिप्रवृद्धः|
तावन्त्यपत्यानि यथाविभागं कर्मात्मकान्यस्ववशात् प्रसूते||१४||
आहारमाप्नोति यदा न गर्भः शोषं समाप्नोति परिस्रुतिं वा|
तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्||१५||
कर्मात्मकत्वाद्विषमांशभेदाच्छुक्रासृजोर्वृद्धिमुपैति कुक्षौ|
एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः||१६||
रक्तेनेत्याद्युत्तरम्| अधिकेनेति पदं रक्तेन शुक्रेण च योजनीयम्| द्विविधीकृतेन द्विखण्डीकृतेन| यथास्वं बीजेऽन्यतरो भागोऽधिको यत्र तेन बीजेन; एतेन यदि द्विविधे भागे एकत्र रक्तमधिकम्, अपरत्र शुक्रम्, एष विभागो भवति, तदा कन्यासुतौ भवत इत्युक्तं भवति| यावद्बहुधा भिनत्तीति यावतीं बहुसङ्ख्यां करोति चतुःपञ्चादिरूपाम्| प्रपन्न आगतः शुक्रार्तवं वायुरिति सम्बन्धः| यथाविभागमिति यथा शुक्ररक्तविभागो भवति तथा कन्याः सुताश्च स्वबीजाधिक्यापेक्षया भवन्तीति| कर्मात्मकानि कर्मकारणकानि| अस्ववशात् कर्मपराधीनत्वेन| आहारमित्यादौ गर्भिण्या आहारप्राप्त्या गर्भस्याहारप्राप्तिः| शुक्रासृजोर्यः स्थूलसूक्ष्मरूपो विषमांशभेदो भवति, स जायमानगर्भकर्मवशादेव भवतीत्याह- कर्मात्मकत्वादिति||१२-१६||
Adhikarana 8 (17) · Śloka 17
कस्माद्द्विरेताः पवनेन्द्रियो वा संस्कारवाही नरनारिषण्डौ|
वक्री तथेर्ष्याभिरतिः कथं वा सञ्जायते वातिकषण्डको वा||१७||
कस्मादित्यादि प्रश्नाष्टकम्| नरषण्डो नारिषण्डश्चेति नरनारिषण्डौ||१७||
Adhikarana 9 (18-21) · Śloka 21
बीजात् समांशादुपतप्तबीजात् स्त्रीपुंसलिङ्गी भवति द्विरेताः|
शुक्राशयं गर्भगतस्य हत्वा करोति वायुः पवनेन्द्रियत्वम्||१८||
शुक्राशयद्वारविघट्टनेन संस्कारवाहं कुरुतेऽनिलश्च|
मन्दाल्पबीजावबलावहर्षौ क्लीबौ च हेतुर्विकृतिद्वयस्य||१९||
मातुर्व्यवायप्रतिघेन वक्री स्याद्बीजदौर्बल्यतया पितुश्च|
ईर्ष्याभिभूतावपि मन्दहर्षावीर्ष्यारतेरेव वदन्ति हेतुम्||२०||
वाय्वग्निदोषाद्वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः|
इत्येवमष्टौ विकृतिप्रकाराः कर्मात्मकानामुपलक्षणीयाः||२१||
बीजादिति शुक्रशोणितात्| उपतप्तबीजादिति उपतप्तबीजजनकबीजभागात्| स्त्रीपुंसलिङ्गीति स्त्रीपुरुषसाधारणनासिकाचक्षुरादिलिङ्गयुक्तः, यानि तु स्त्रीपुंसयोरसाधारणान्युपस्थध्वजस्तनश्मश्रुप्रभृतीनि तानि चास्य न सम्भवन्तीति| असाधारणानि लिङ्गानि वृद्धेन शुक्रेण रक्तेन वा जन्यानि, इह समरक्तशुक्रारब्धेन नास्त्यन्यतरवृद्धिरिति नोपस्थध्वजादिविशेषलिङ्गभवनम्| द्विधा स्त्रीत्वपुरुषत्वोपजनकत्वेन स्थितं रेतो बीजं यस्य स द्विरेताः| किंवा, स्त्रीपुंसलिङ्गीति स्त्रीपुंसयोर्यल्लिङ्गमुपस्थध्वजरूपं, तद्युक्त एव स्त्रीपुरुषलिङ्गी; उत्तरकालभावीनि त्वस्य स्तनश्मश्रुप्रभृतीनि न भवन्ति| अस्मिन् पक्षे बीजोपतापेनोत्तरकालभाविस्तनादिप्रतिबन्धः क्रियते, नोपस्थध्वजोत्पादप्रतिबन्धः कर्मवशादेवेति ब्रुवते| किंवा उपस्थध्वजौ बलवन्तौ, येन तौ गर्भकाल एव भवतः; स्तनादि तूत्तरकालभावितया दुर्बलं, दुर्बलेन बीजोपतापेन न बलवतोरुपस्थध्वजयोर्बाधः, किन्तु दुर्बलानामेव स्तनादीनामिति| यत्र समांशे शुक्रशोणिते भवतः, तत्र संयोगमहिम्नैव बीजांशतापो भवतीति ज्ञेयम्| पवनेन्द्रियं विवृणोति- शुक्राशयमित्यादि| शुक्राशयं शुक्रस्थानम्| पवनेन्द्रियत्वमिति पवनशुक्रत्वम्| शुक्रं हीन्द्रियमुच्यते, पवनस्य चेदमेवेह शुक्रत्वं- यद् व्यवायकाले शुक्रसदृशरूपतया प्रवर्तनं; अस्य हि वायुरेव परं व्यवायकाले याति| शुक्राशयद्वारेत्यादि संस्कारवाहविवरणम्| द्वारविघट्टनेनेति द्वारदूषणेन| संस्कारेण बस्तिवाजीकरणादिना परं यस्य शुक्रमदुष्टद्वारं सत् प्रवर्तते स संस्कारवाहः| अत्र च संस्कारवाहेन सुश्रुतोक्ता आसेक्यसौगन्धिककुम्भीका अन्तर्भावनीयाः, यत एतेऽपि संस्कारविशेषेणैव शुक्रं त्यजन्ति; यदुक्तं तत्र- “पित्रोरत्यल्पवीर्यत्वादासेक्यः पुरुषो भवत्| स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम्|| यः पूतियोन्यां जायेत स सौगन्धिकसञ्ज्ञकः| स योनिशेफसोर्गन्धमाघ्नाय लभते बलम्|| स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते| कुम्भीकः स तु विज्ञेयः” (सु. शा. २) इति| नरनारीषण्डावाह- मन्देत्यादि| मन्दवेगमल्पं च बीजं ययोस्तौ तथा| अबलाविति निसर्गबलरहितौ| अहर्षाविति अनुत्साहौ| क्लीबाविति दुष्टबीजौ| अत्र यथोक्तगुणा स्त्री स्त्रीषण्डस्य, यथोक्तगुणः पुरुषस्तु पुरुष षण्डस्य हेतुरिति विज्ञेयम्| एतौ त्वबीजावेव ज्ञेयौ; यदुक्तं सुश्रुते- “अशुक्रस्त्वेव षण्डकः” (सु. शा. २) इति| मातुर्व्यवायप्रतिघेनेति व्यवायकाले मातुर्व्यवायानिच्छा विषमाङ्गन्यासो वा व्यवायप्रतिघः, तेन यस्य शुक्रं गर्भाशयं नियमान्नोपैति स वक्रीत्युच्यते | बीजदौर्बल्यतया च पितुर्वक्रीस्यादिति योजना| अत्र दुर्बलस्य कर्म दौर्बल्यं तस्य भावो दौर्बल्यता, तेन पितुर्बीजस्य दुर्बलक्रियतयेत्यर्थः| परव्यवायं दृष्ट्वा प्राप्तध्वजोच्छ्रायो व्यवायशक्तो भवति, स ईर्ष्यारतिः| यदुक्तं सुश्रुते- “दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते| ईर्ष्यकः स तु विज्ञेयः” (सु. शा. २) इति| कर्मात्मकानामितिपदेन एते क्लैब्यभेदाः प्राक्तनकर्मबलादेव प्रायो भवन्तीति दर्शयति||१८-२१||
Adhikarana 10 (22) · Śloka 22
गर्भस्य सद्योऽनुगतस्य कुक्षौ स्त्रीपुन्नपुंसामुदरस्थितानाम्|
किं लक्षणं? कारणमिष्यते किं सरूपतां येन च यात्यपत्यम्||२२||
गर्भस्येत्यादिपञ्च प्रश्नाः| सद्योऽनुगतस्येति सद्योगृहीतस्य| कारणमित्यादि| कारणं किं तत्, येन कारणेन सरूपतां सादृश्यमपत्यं गर्भो यातीत्यर्थः| अयं च पञ्चमः प्रश्नः||२२||
Adhikarana 11 (23-27) · Śloka 27
निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहर्षौ हृदये व्यथा च|
तृप्तिश्च बीजग्रहणं च योन्यां गर्भस्य सद्योऽनुगतस्य लिङ्गम्||२३||
सव्याङ्गचेष्टा पुरुषार्थिनी स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा|
सव्यात्तगर्भा न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते||२४||
पुत्रं त्वतो लिङ्गविपर्ययेण व्यामिश्रलिङ्गा प्रकृतिं तृतीयाम्|
गर्भोपपत्तौ तु मनः स्त्रिया यं जन्तुं व्रजेत्तत्सदृशं प्रसूते||२५||
गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसम्भवानि|
आहारजान्यात्मकृतानि चैव सर्वस्य सर्वाणि भवन्ति देहे||२६||
तेषां विशेषाद्बलवन्ति यानि भवन्ति मातापितृकर्मजानि|
तानि व्यवस्येत् सदृशत्वहेतुं सत्त्वं यथानूकमपि व्यवस्येत्||२७||
बीजग्रहणं शुक्रस्य योनौ निषिक्तस्यानिःसरणम्| सव्याङ्ग्प्रधानतया चेष्टते या सा सव्याङ्गचेष्टा| स्त्रिया इव स्वप्नादयो यस्याः सा स्त्रीस्वप्नपानाशनशीलचेष्टा| सव्येन पार्श्वेन आत्तो गृहीतो गर्भो यया सा सव्यात्तगर्भ; किंवा ‘सव्याङ्गगर्भा’ इति पाठः| न च वृत्तगर्भेति दीर्घगर्भेत्यर्थः| सव्ये स्तने प्रकृष्टं दुग्धं यस्याः सा सव्यप्रदुग्धा| व्यामिश्रलिङ्गा तु सव्यदक्षिणाङ्गचेष्टादिना ज्ञेया| प्रकृतिं तृतीयामिति नपुंसकम्| गर्भोपपत्तावित्यादिनासारूप्यकारणमाह| गर्भोपपत्तौ बीजग्रहणकाले मनो यं जन्तुं व्रजेद् यं प्राणिनं मनसा ध्यायति| एतच्च बीजग्रहणकालीनं मनसाऽनुध्यानं प्रभावादेव चिन्त्यमानसदृशमपत्यं करोतीति ज्ञेयं; किंवा तत्कालीनचिन्तयैव बीजं चिन्त्यमानजन्तुसदृशारम्भशक्तिकं क्रियते, दृष्टश्च मानसानामपि भावानां भूतविशेषकरणे शक्तिविशेषः; यथा- सङ्कल्पः शुक्रोदीरणं करोति, तथा दोहदाप्राप्तौ तच्चिन्तया गर्भविकृतिः, ईर्ष्याभयादीनां चौजःशुक्रक्षयकर्तृत्वमित्यादि| एतदेव च सादृश्यकारणं पश्यता पुनर्वक्तव्यं यथा- “या या यथाविधं पुत्रमाशासीत” इत्युपादाय “सा सा तांस्ताञ्जनपदान् मनसाऽनुक्रमेत्” (शा. अ. ८) इति| जन्त्वनुध्यानं सादृश्यकारणमभिधाय सादृश्यकारणान्तरमाह- गर्भस्येत्यादि| चत्वारीति निर्विशेषमाकाशं वर्जयित्वा| भूतानि चतुर्विधानीति विवृणोति- मातेत्यादि| मातृसम्भवानि रक्तगतानि, पितृसम्भवानि शुक्रगतानि, आहारजानि तु शुक्रशोणितसंयोगोत्तरकालं मातुराहासम्भूतरसजानि, आत्मजानि त्वात्मप्रतिबद्धकर्मवशभूतानि ज्ञेयानि| तत्र शुभकर्मणा सदृशरूपजनकानि, अशुभकर्मणा तु विसदृशरूपजनकानीति ज्ञेयम्| यानि त्वात्मनि सूक्ष्माणि भूतानि आतिवाहिकशरीररूपाणि, तानि सर्वसाधारण्त्वेनाविशेषसादृश्यकारणानीति नेह बोद्धव्यानि| तत्रैवं चतुर्विधानां सादृश्ये किं भवति कारणं, किम्भूतं चेत्याह- तेषामित्यादि| विशेषादितिपदेन सर्वाण्येव सादृश्यकारणानि भवन्ति, किन्तु यानि बलवन्ति तानि विशेषाद्भूयिष्टं सादृश्यं जनयन्तीति दर्शयति| अत्र चाहारजभूतानां प्राक्तनकर्मापेक्षयैव सादृश्यकारणत्वं भवतीति कृत्वा नाहारजानां ग्रहणं कृतं, तेन कर्मजेष्वेवाहारजानामवरोधो ज्ञेयः; पूर्वं तु ‘आहारजानि’ इति पदेन तेषां विद्यमानतामात्रमुक्तं ज्ञेयम्| किंवा, मातृजादीनि हि मात्रादिभिः सदृशं कुर्वन्ति, नत्वाहारजातान्याहारसदृशं कुर्वन्ति, तेन तेषामिहानुपादानम्| तथा ह्युत्तराध्याये “यानि खल्वस्य रसजानि” (शा.अ.३) इत्यादिना प्राणानुबन्धादीनि वक्तव्यानि, न च तानि सादृश्यरूपतयेह भवितुमर्हन्ति| देहसादृश्यहेतुमभिधाय मनःसादृश्यहेतुमाह- सत्त्वमित्यादि| अनूकं प्राक्तनाऽव्यवहिता देहजातिः; तेन यथानूकमिति यो देवशरीरादव्यवधानेनागत्य भवति स देवसत्त्वो भवति, यः पशुशरीरादेति स पशुसत्त्वो भवतीत्यादि| अपिशब्दात् कर्मसम्बन्धं जातिसम्बन्धं च दर्शयति; तेन कर्मवशादपि सत्त्वं राजसं, तामसं, सात्त्विकं वा भवति; तथा मानुषादिजात्यनुरूपं च भवति||२३-२७||
Adhikarana 12 (28) · Śloka 28
कस्मात् प्रजां स्त्री विकृतां प्रसूते हीनाधिकाङ्गीं विकलेन्द्रियां वा|
देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च||२८||
कस्मादित्यादिना विकलेन्द्रियां वेत्यन्तेनैकः प्रश्नः; तत्र विकृतामित्यस्य विवरणं- हीनेत्यादि| देहादित्यादिर्द्वितीयः| सदा कैरनुबध्यते इति तृतीयः| ये तु विकृतामितिपदेन कुरूपां, हीनाधिकाङ्गीमितिपदेन च हीनाङ्गादिरूपामेव कुरूपातिरिक्तां वदन्ति, तेषां मते प्रश्नभेदः स्यात्, तथाऽध्यायान्ते च वक्ष्यमाणा प्रश्नसङ्ख्याऽतिरिक्ता भवति||२८||
Adhikarana 13 (29-30) · Śloka 30
बीजात्मकर्माशयकालदोषैर्मातुस्तथाऽऽहारविहारदोषैः|
कुर्वन्ति दोषा विविधानि दुष्टाः संस्थानवर्णेन्द्रियवैकृतानि||२९||
वर्षासु काष्टाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य|
यथैव कुर्युर्विकृतिं तथैव गर्भस्य कुक्षौ नियतस्य दोषाः||३०||
आत्मीयं कर्म आत्मकर्म, आशयो गर्भाशयः, दोषो वैगुण्यम्| अश्मघनानि पाषाणखण्डाः; वेगाः काष्ठादीनां त्रयाणाम्||२९-३०||
Adhikarana 14 (31-36) · Śloka 36
भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्|
कर्मात्मकत्वान्न तु तस्य दृश्यं दिव्यं विना दर्शनमस्ति रूपम्||३१||
स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः|
स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स एव ||३२||
रसात्ममातापितृसम्भवानि भूतानि विद्याद्दश षट् च देहे|
चत्वारि तत्रात्मनि संश्रितानि स्थितस्तथाऽऽत्मा च चतुर्षु तेषु||३३||
भूतानि मातापितृसम्भवानि रजश्च शुक्रं च वदन्ति गर्भे|
आप्याय्यते शुक्रमसृक् च भूतैर्यैस्तानि भूतानि रसोद्भवानि||३४||
भूतानि चत्वारि तु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम्|
स बीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति||३५||
रूपाद्धि रूपप्रभवः प्रसिद्धः कर्मात्मकानां मनसो मनस्तः|
भवन्ति ये त्वाकृतिबुद्धिभेदारजस्तमस्तत्र च कर्म हेतुः||३६||
द्वितीयप्रश्नस्योत्तरं- भूतैरित्यादि| सुसूक्ष्मैरित्यनेन चातीन्द्रियत्वं दर्शयति| आकाशमिहाक्रियत्वेन देहान्तरगमनकर्मणि नोक्तम्| मनसा जवते गच्छतीति मनोजवः| एतेन चात्मनो व्यापकस्य यद्यपि देहान्तरगतिर्नास्ति, तथाऽप्यस्य मनोगतिरेव भूतसहिता गतिशब्देनोच्यत इति दर्शितं भवति| देहादिति म्रियमाणदेहात्| देहमिति उत्पद्यमानदेहम्| कर्मात्मकत्वादिति कर्माधीनत्वात्| तेन, कर्म धर्माधर्मरूपं यत्रैनं भोगार्थं नयति, तदेव देहमयं यातीत्युक्तं भवति| अथ गच्छन् किमित्ययं नोपलभ्यते म्रियमाणपुरुषादित्याह- न त्वित्यादि| तस्यात्मन आतिवाहिकशरीरयुक्तस्य दृश्यं रूपं नास्ति, अतिसूक्ष्मरूपत्वादिति भावः| अथ किं सर्व एवैनं गच्छन्तं न पश्यन्तीत्याह- दिव्यं विना दर्शनमिति|- दिव्यं दर्शनं योगिचक्षुः , तेन योगिन एव पश्यन्त्येनमिति दर्शयति| अस्यैवातिवाहिकशरीरयुक्तस्यात्मनो धर्मान्तराण्याह- स सर्वग इत्यादि| सर्वशरीरभृदिति सर्वशरीराणि भर्तुं योग्यः| विश्वकर्मकरणक्षमो विश्वकर्मा| विश्वरूपतां च नरपश्वादिशरीररूपतया कर्मवशाद्भजत इति विश्वरूपः| नित्यं बुद्ध्यादिभिर्युज्यत इति नित्ययुक्| सहानुशयेन रागादिना वर्तत इति सानुशयः| आतिवाहिकशरीररूपभूतचतुष्टयव्याकरणार्थं शरीरे यानि सम्भवन्ति भूतानि तान्येवाह- रसेत्यादि| एतानि भूतानि सारूप्यहेतुप्रस्तावोक्तान्यपि प्रकरणवशात्तथा वक्तव्यरजःशुक्राद्यनुक्तरूपप्रतिपादनार्थं च पुनरुच्यन्ते| आत्मनि संश्रितानीति आत्मकर्मणाऽऽत्मन्यातिवाहिकदेहरूपतया निबद्धानि| स्थितस्तथाऽऽत्मेति आत्मा तेषु भूतेषु देहान्तरादिक्रियार्थं स्थितः| या च गतिर्देहान्तरादिनाऽऽत्मनः, सा तद्भूतव्यवस्थितस्यैवोच्यते न व्यापकस्य, तस्य (सर्वत्र ) सर्वगतत्वादित्यर्थः| मातापितृसम्भवानि रजश्च शुक्रमिति यथासङ्ख्यं मातापितृसम्भवानि| आत्मलीनानीति नित्यमात्मसम्बद्धानि| आत्मलीनभूतानां धर्मान्तरमाह- स बीजधर्मेत्यादि| स आत्मलीनभूतसन्तानो बीजधर्मा बीजस्वरूपः, बीजं हि स्वसदृशमङ्कुरं करोति; तेन, अयमप्यात्मलीनो भूतसन्तानः सदृशं देहरूपं भूतान्तरसङ्गं कुर्वन् बीजधर्मा भवति| ‘सा बीजधर्मिणि’ इति वा पाठः, तदा सा ‘भूतसन्ततिः’ इत्यध्याहार्यम्| आत्मनीति मनोयुक्तात्मनि| याति गच्छति सति देहान्तराणि यातीति योजना| आत्मनश्च गमनं मनोगमनमेव| ‘परापराणि’ इति वा पाठः; तदा पराणि श्रेष्ठानि देवादिशरीराणि, अपराणि अश्रेष्ठानि क्रिम्यादिशरीराणीति योजनीयम्| नन्वपरिदृश्यमाना भूतचतुष्टयी मनःप्रवृत्तियुक्ता बीजधर्मिणी किमर्थं स्वीकर्तव्या, यतः परिदृश्यमानमेवेदं षाड्भौतिकं शरीरं शुक्रशोणितकारणकमस्त्वित्याह- रूपाद्धीत्यादि| रूप्यत इति रूपं भौतिकं शरीरम्| तेन, अभौतिकाच्छरीराद्भौतिकं शरीरं भवतीत्यागमप्रसिद्धम्| तेनागमादेव साङ्ख्यदर्शनरूपादातिवाहिकशरीराद् व्यक्तं शरीरमुत्पद्यत इति वाक्यार्थः| यद्यपि शुक्ररजसी कारणे, तथाऽपि यदैवातिवाहिकं सूक्ष्मभूतरूपशरीरं प्राप्नुतः, तदैव ते शरीरं जनयतः, नान्यदा, यदि शुक्रशोणितमातिवाहिकशरीरनिरपेक्षं गर्भं जनयेत्, तदा असत्यपि जीवाधिष्ठाने जनयेत्, न तु जनयति, तस्मादात्मस्थसूक्ष्मभूतादेव बीजरूपाच्छुक्रशोणितयुक्ताद्गर्भजन्मेति| एतच्चात्मस्थभूतं मातापितृजभूतेन समं शरीरकारणं कर्मवशादेव भवतीत्याह- कर्मेत्यादि| कर्मात्मकानामिति कर्मकारणकानां; किंवा यस्माद् रूपवत्तन्तुभ्यो रूपवान् पट उत्पद्यत इति प्रसिद्धं, तेनातिवाहिकशरीरेण कर्तव्यशरीरसदृशेन भवितव्यं, कारणसदृशं हि कार्यं भवति; ततश्चात्मधर्मित्वं सूक्ष्माणामात्मस्थितभूतानां सिद्धमिति भावः| अथ मनः सात्त्विकराजसतामसभेदाद्भिन्नं कुतस्तत्र तत्र पुरुषे भवतीत्याह- मनसो मनस्त इति| पूर्वजन्मन्यव्यवहिते यादृङ्मनः, इह जन्मन्यपि तादृगेव मनो भवति| उक्तं चान्यत्र “जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः| तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः” इति| अत्रापि च मन-उत्पत्तौ कर्मात्मकानामिति योज्यम् | तेन कर्मवशादेव मनोभेदो भवति| नन्वेवं सति आत्मस्थसूक्ष्मभूतानामेकरूपत्वेनैकरूपेणैव शरीरेण सर्वप्राणिनां भवितव्यमित्याह- भवन्तीत्यादि| आकृतिः संस्थानम्| रजस्तमसी अनेकतरतमादिभेदभिन्ने तथा कर्म चानेकधा भिन्नं सत्यप्यभिन्ने सूक्ष्मभूतरूपे कारणे भेदकारणं भवतीत्यर्थः||३१-३६||
Adhikarana 15 (37-38) · Śloka 38
अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तरूपः|
न कर्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः||३७||
रजस्तमोभ्यां हि मनोऽनुबद्धं ज्ञानं विना तत्र हि सर्वदोषाः|
गतिप्रवृत्त्योस्तु निमित्तमुक्तं मनः सदोषं बलवच्च कर्म||३८||
‘आत्मा सदा कैरनुबध्यते’ इत्यस्योत्तरम्- अतीन्द्रियैरित्यादि| तैरिति बीजधर्मित्वेनोक्तैः| अहङ्कारविकारा एव दोषाः, किंवा रजस्तमसी दोषौ| अयं च सूक्ष्मभूताद्यनुबन्धो मनस एवेत्याह- रज इत्यादि| रजस्तमोभ्यां हेतुभूताभ्यां मनः सर्वैर्भूतादिभिरनुबद्धं भवति| अत्रैव हेतुमाह- ज्ञानादित्यादि| ज्ञानादिति तत्त्वज्ञानात्; तत्त्वज्ञानं विना मनः सर्वैर्दोषैर्युक्तं भवति, तत्त्वज्ञानात्तु निर्दोषं भवतीत्यर्थः| सदोषत्वे मनसः किं भवतीत्याह- गतीत्यादि| गतिः देहान्तरगमनं, प्रवृत्तिः धर्माधर्मक्रियासु प्रवृत्तिः; सदोषत्वेन मनः संसारहेतुर्भवतीति वाक्यार्थः| गतिप्रवृत्त्योर्हेत्वन्तरमाह- बलवच्च कर्मेत्यादि| बलवदिति नियतविपाकं; ‘फलवत्’ इति वा पाठः, तथाऽपि स एवार्थः| नियतं कर्मफलं कर्मबलादेव भवति| अत्र च प्रश्नोत्तरेषु यदधिकमुच्यते ‘गतिप्रवृत्त्योः’ इत्यादिना, तत् प्रकरणवशादेव ज्ञेयम्||३७-३८||
Adhikarana 16 (39) · Śloka 39
रोगाः कुतः संशमनं किमेषां हर्षस्य शोकस्य च किं निमित्तम्|
शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः||३९||
‘रोगाः कुतः’ इत्येकः प्रश्नः| ‘संशमनं किम्’ इति द्वितीयः| ‘हर्षस्य किं निमित्तम्’ इति तृतीयः| ‘शोकस्य किं निमित्तम्’ इति चतुर्थः| ‘शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः’ इति पञ्चमः| एवं सङ्ग्रहवक्ष्यमाणं षट्त्रिंशकं प्रश्नानां पूर्यते||३९||
Adhikarana 17 (40) · Śloka 40
प्रज्ञापराधो विषमास्तथाऽर्था हेतुस्तृतीयः परिणामकालः|
सर्वामयानां त्रिविधा च शान्तिर्ज्ञानार्थकालाः समयोगयुक्ताः||४०||
प्रज्ञापराधादयः प्रकरणवशात् पुनरुच्यन्ते| परिणामकाल इति कालपरिणाम इत्यर्थं||४०||
Adhikarana 18 (41) · Śloka 41
धर्म्याः क्रिया हर्षनिमित्तमुक्तास्ततोऽन्यथा शोकवशं नयन्ति|
शरीरसत्त्वप्रभवास्तु रोगास्तयोरवृत्त्या न भवन्ति भूयः||४१||
धर्म्या धर्मसाधनाः, ताश्च हर्षकारणधर्मकर्तृत्वेन हर्षकारणं भवन्ति| ततोऽन्यथेति अधर्म्याः क्रियाः| तयोरवृत्त्येति शरीरमनसोः सन्तानोच्छेदात्| मोक्षे हि शरीरमनसी निवर्तेते, ततः सर्वथा रोगसन्ताननिवृत्तिर्भवति||४१||
Adhikarana 19 (42) · Śloka 42
रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सोऽस्ति कश्चित्|
तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च||४२||
ननु यस्य निवृत्तिर्भवति तदादिमद्भवति, तत् किं शरीरमनःसन्ततिरादिमती, येन तस्या निवृत्तिर्वास्तविकरोगनिवृत्तिकारणमुच्यत इत्याह- रूपस्येत्यादि| रूपस्य शरीरस्य, रूपं हि शरीरं रूप्यमाणत्वेन रूपशब्देनोच्यते, यथा- “रूपाद्धि रूपप्रभवः” इत्यत्रोक्तम्| नोक्त इत्यागमेषु| कुतो नोक्त इत्याह- न हि सोऽस्तीति; अभावादेव नोक्त इत्यर्थः| अथ यद्यनादिमती शरीरमनःसन्ततिः, तत् कथं तस्या निवृत्तिरित्याह- तयोरित्यादि| तयोरिति शरीरसत्त्वयोः सन्तन्यमानयोः| पराभ्यामिति श्रेष्ठाभ्याम्| धृत्यादयस्तु यथा मोक्षकारणं तथोक्तं कतिधापुरुषीये| अनादिरपि च शरीरसन्ततिर्यथा विनश्यति, तथा च तत्रैवोक्तम्||४२||
Adhikarana 20 (43) · Śloka 43
सत्याश्रये वा द्विविधे यथोक्ते पूर्वं गदेभ्यः प्रतिकर्म नित्यम्|
जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम्||४३||
प्रकारान्तरेण शारीरमानसरोगाणां चिकित्सां शास्त्रे व्यवह्रियमाणामाह- सतीत्यादि| आश्रयशब्देन शरीरमनसी गृह्येते| पूर्वं गदेभ्य इति अनुत्पन्नेष्वेव रूपेषु | प्रतिकर्म नित्यमिति अनागतचिकित्सा नित्यम्| जितेन्द्रियमित्यनेन च रोगहेतुप्रज्ञापराधासात्म्येन्द्रियार्थवर्जनं दर्शयति, प्रतिकर्मनित्यतया चाशक्यपरिहारकालकृतदोषचिकित्सां दर्शयति| तत्कालयुक्तमिति तत्कालेऽवश्यं रोगकर्तृतया पच्यमानम्; एतेन, बलवद्दैवमवश्यं रोगं ददातीति दर्शयति||४३||
Adhikarana 21 (44) · Śloka 44
दैवं पुरा यत् कृतमुच्यते तत् तत् पौरुषं यत्त्विह कर्म दृष्टम्|
प्रवृत्तिहेतुर्विषमः स दृष्टो निवृत्तिहेतुर्हि समः स एव||४४||
प्रकरणाद्दैवाख्यं कर्म तदनुषङ्गत् पुरुषकारमप्याह- दैवमित्यादि| तेन, प्रकरणादुच्यमानतया जनपदोद्ध्वंसनीयोक्तकर्मलक्षणेन समं न पौनरुक्त्यम्| पुरेति जन्मान्तरे| इहेति इह जन्मनि| प्रवृत्तिहेतुरिति रोगप्रवृत्तिहेतुः| विषम इति अधर्मरूपं दैवं, रोगजनकश्च पुरुषकारः| समस्तु दैवं धर्मरूपं, रोगपरिपन्थी च पुरुषकारः| स इति पुंलिङ्गनिर्देशस्तु कर्मणि (पुल्लिङ्ग )धर्माधर्मरूपतया तथा पुरुषकारस्य प्रत्यवमर्शाज्ज्ञेयः| अन्ये तु प्रवृत्तिहेतुरित्यनेन संसारप्रवृत्तिहेतुरिति, तथा निवृत्तिहेतुरित्यनेन मोक्षहेतुरिति च वर्णयन्ति||४४||
Adhikarana 22 (45) · Śloka 45
हैमन्तिकं दोषचयं वसन्ते प्रवाहयन् ग्रैष्मिकमभ्रकाले|
घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु ||४५||
अथ कथं कालवृत्तदोषनिमित्तरोगपरिहारः प्रतिकर्मणा कर्तव्य इत्याह- हैमन्तिकमित्यादि| वसन्त इति चैत्रे| अभ्रकाल इति श्रावणे| घनात्यय इति मार्गशीर्षे| यदुक्तं- “माधवप्रथमे मासि” (सू.अ.७) इत्यादि| प्रवाहयन्नित्यनेन यथायोग्यतया वमनादिनेति ज्ञेयम्||४५||
Adhikarana 23 (46-48) · Śloka 48
नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः|
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः||४६||
मतिर्वचः कर्म सुखानुबन्धं सत्त्वं विधेयं विशदा च बुद्धिः|
ज्ञानं तपस्तत्परता च योगे यस्यास्ति तं नानुपतन्ति रोगाः||४७||
तत्र श्लोकः|
इहाग्निवेशस्य महार्थयुक्तं षट्त्रिंशकं प्रश्नगणं महर्षिः|
अतुल्यगोत्रे भगवान् यथावन्निर्णीतवान् ज्ञानविवर्धनार्थम्||४८||
हेत्वन्तरं रोगाभावकारणमाह- नर इत्यादि| सम इति भूतेषु समचित्तः| सुखानुबन्धमिति लिङ्गविपरिणामान्मत्या वचसा च योज्यम्| तेन कायवाङ्मनःकर्माण्युत्तरकालीनसुखफलानि शुभानि गृह्यन्ते| सत्त्वं विधेयं स्वायत्तं मनः| विशदा बुद्धिरिति न कश्मला बुद्धिः| बुद्धिश्चेह ऊहापोहवती विवक्षिता| मतिस्तु स्मृतिचिन्तादि| ज्ञानं तत्त्वज्ञानम्| शेषं सुगमम्||४६-४८||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थानेऽतुल्यगोत्रीयं शारीरं नाम द्वितीयोऽध्यायः||२||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थानेऽतुल्यगोत्रीयं शारीरं नाम द्वितीयोऽध्यायः||२||